७८

विश्वास-प्रस्तुतिः

अष्टसप्ततितमोऽध्यायः

मार्कण्डेय उवाच -

एतच्छ्रुत्वा तु संवादमुत्तमं शङ्करस्य च ।
भैरवस्य तु वेतालसहितस्य महात्मनः ॥ १ ॥

मूलम्

भूयश्च सगरो राजा मुनिमौर्वं महामतिम् ।
पप्रच्छ मोदसंहृष्टः सूनृतं चेदमुत्तमम् ॥ २ ॥

सगर उवाच -

विचित्रमिदमाख्यातं भगवन्मुनिसत्तम ।
कामरूपस्य पीठस्य संस्थानं निर्णयं तथा ॥ ३ ॥

भूयश्च श्रोतुमिच्छामि विस्तरेण महामते ।
वायव्यस्याथ मध्यस्य पूर्वभागस्य निर्णयम् ॥ ४ ॥

यथा यस्मिन् निष्ठितोऽस्ति महादेवोऽम्बिका तथा ।
तत्सर्वं मुनिशार्दूल कथय श्रोतुमुत्सहे ॥ ५ ॥

और्व उवाच -

उक्तो वायव्यभागस्य निर्णयो नृपसत्तम ।
नैर्-ऋत्योत्तरमध्याद्रेः शृण्विदानीं विनिर्णयम् ॥ ६ ॥

बहुरोक्ता नाम ननी करतोया प्रदक्षिणे ।
उत्तरश्रावणी चास्ते तत् पूर्वं कामरूपकम् ॥ ७ ॥

सुरसो नाम जीमूतः कामरूपं ततः स्थितः ।
निःसृता बहुरोकेति नदी तस्माद् वृषप्रदा ॥ ८ ॥

आसन्ने सुरसाख्यस्य शिवलिङ्गो महावृषः ।
माहेश्वरी तत्र देवी योनिमण्डलरूपिणी ॥ ९ ॥

स्नात्वा तु बहुरोकायामारुह्य सुरसाचलम् ।
महावृषं पूजयित्वा महादेवीं महेश्वरीम् ॥ १० ॥

धूतपापो जितद्वन्द्वः पुनर्योनौ न जायते ।
चतुर्भूजो वृषारूढो वरदाभयशूलधृक् ॥ ११ ॥

शुद्धस्फटिकसङ्काशो जटावान् स महावृषः ।
अघोरस्य तु मन्त्रेण पूजाऽस्य परिकीर्तिता ॥ १२ ॥

कामेश्वर्याः स्वरूपं तु माहेश्वर्याः प्रकीर्तितम् ।
पूजापि यद्वदेवास्यास्तद्वत्फलप्रदायिका ॥ १३ ॥

तत्र वसिष्ठकुण्डं तु वसिष्ठमुनिसेवितम् ।
यत्र स्थितो वसिष्ठस्तु नरकेण निवारितः ॥ १४ ॥

अप्राप्य गन्तुं जीमुतं नीलाख्यं वाशपत्तुतम् ।
स्वस्नानार्थं कृतं तत्र कुण्डं देवगणार्चितम् ॥ १५ ॥

तत्र स्नात्वा नरो याति नाकपृष्ठं यथेच्छया ।
सुरसस्य च पूर्वस्यां कृत्तिवासाह्वयो गिरिः ॥ १६ ॥

कृत्तिवासाः स्वयं तत्र सत्या सहावसत् पुरा ।
चन्द्रिकाख्या नदी यत्र तस्यां स्नात्वा दिवं व्रजेत् ॥ १७ ॥

चन्द्रिकायां नरः स्नात्वा सम्पूज्य कृत्तिवाससम् ।
भाद्रशुक्लचतुर्थ्यां तु निष्कलङ्को भवेन्नरः ॥ १८ ॥

पूर्णभाद्रपदं मासं चन्द्रिकायां नरोत्तमः ।
स्नात्वा गच्छति भूतेशं दृष्ट्वै कृत्तिवाससम् ॥ १९ ॥

उत्तरस्राविणी नित्यं चन्द्रिकाख्या सरिद्वरा ।
नातिदूरे चन्द्रिकायाः पूर्वस्यां दिशि फेनिला ॥ २० ॥

सञ्ज्ञया च सरिच्छ्रेष्ठा शतानन्दावतारिता ।
ब्रह्मणो दुहिता स तु गङ्गा पर्वतसम्भवा ॥ २१ ॥

फेनिलायां नरः स्नात्वा ब्रह्मोत्थानदिने पुनः ।
फाल्गुने मासि नरकं जित्वा स्वर्गमवाप्नुयात् ॥ २२ ॥

ततः सिताह्वया पूर्वं सरिदुत्तरगामिनी ।
तस्यां स्नात्वा महाचैत्र्यां गङ्गास्नानफलं लभेत् ॥ २३ ॥

ततः पूर्वं सुमदना योजनद्वितयान्तरे ।
नदी जनकराजेन समाराध्य वृषध्वजम् ॥ २४ ॥

मूलम्

ततः पूर्वं सुमदना योजनद्वितयान्तरे ।
नदी जनकराजेन समाराध्य वृषध्वजम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

हिताय भैरवाख्यस्य सुतीक्ष्णादवतारिता ।
सुतीक्ष्णं गिरिमारुह्य स्नात्वा सुमदनाजले ॥ २५ ॥

माघशुक्लचतुर्थ्यां तु पूजयित्वा महेश्वरम् ।
सम्प्राप्य सकलान् कामान् शिवलोकाय गच्छति ॥ २६ ॥

एता नद्यः कामरूपे नैरृत्यामुत्तरस्रवाः ।
पीठस्य पूर्वतस्तत्र त्रिपुरा यत्र पूज्यते ॥ २७ ॥

एवं ते कथितं राजन् महापुण्यदमुत्तमम् ।
कामरूपस्य नैर्-ऋत्यां यत्र शम्भुः सदाम्बिका ॥ २८ ॥

उनरेव महाराज या नद्यो दक्षिणस्रवाः ।
हिमवत्प्रभवा याताः क्रमशः शृणु भूपते ॥ २९ ॥

अगदस्य नदस्योर्ध्वं भद्राख्या तु महानदी ।
भाद्रे कृष्णचतुर्दश्यां यस्यां स्नात्वा दिवं व्रजेत् ॥ ३० ॥

ततः पूर्वं सुभद्राख्या नदी पुण्यतमा सदा ।
वैशाख्यस्य तृतीयायां यस्यां स्नात्वा दिवं व्रजेत् ॥ ३१ ॥

ततस्तु मानसा नाम नदी पुण्यतमा मता ।
सरसो मानसाख्यात् तु तणबिन्द्ववतारिता ॥ ३२ ॥

वैशाखं सकलं मासं तस्यां स्नात्वा नरोत्तमः ।
विष्णुलोकमवाप्यैव ततो मोक्षमवाप्नुयात् ॥ ३३ ॥

हिमवन्निकटे शैलो विभ्राटः स महाद्युतिः ।
यस्मिन् वसति भूतेशः सदा भैरवरूपधृक् ॥ ३४ ॥

तस्मात् तु भैरवी नाम नदी पुण्योदका शुभा ।
प्राङ् मानसाद्या स्रवति गङ्गेव फलदायिनी ॥ ३४ ॥

यस्यां वसन्तसमये स्नात्वा गच्छति वे दिवम् ।
यस्यां सम्पूज्य कामाख्यामिष्टं ज्ञानमवाप्नुयात् ॥ ३६ ॥

सम्पूज्याथ महामायां द्विगुणं प्राप्नुयात् फलम् ।
ऊर्ध्वं ततो देवगङ्गा वर्णासाख्या सरिद्वरा ॥ ३७ ॥

हिमवत्प्रभवा नित्यं फलदा मानसोपमा ।
सुभद्राद्यास्तु याः प्रोक्ता वर्णासान्ताः सरिद्वराः ॥ ३८ ॥

हिमवत्प्रभवास्तास्तु सर्वा एवोत्तरप्लवाः ।
पूर्वे तु मदनायास्तु ब्रह्मक्षेत्रस्य पश्चिमे ॥ ३९ ॥

रविक्षेत्रं यत्र देव आदित्यः सततं स्थितः ।
भैरवस्य हितार्थाय यत्र सर्वेश्वराः स्थिताः ॥ ४० ॥

कामरूपे महापीठे ब्रह्मेन्द्रवरुणादयः ।
तदा अत्त्वाह्वये शैले श्री सूर्योऽपि व्यवस्थितः ॥ ४१ ॥

त्रिस्रोता नाम यस्यास्ति नदी पूर्वदिशि स्थिता ।
कपोतकरणं पश्चादस्य कुण्डद्वयं स्थितम् ॥ ४२ ॥

कपोतकुण्डे विधिवत् स्नात्वा करणकुण्डके ।
तत्त्वाचलं समारुह्य सम्पूज्य च दिवाकरम् ॥ ४३ ॥

सकृदेव नरो याति भास्करस्य गृहं प्रति ।
सूर्यरश्मिसमुद्भूतं कपोतकरणामृतम् ॥ ४४ ॥

पुण्यतोयसमाख्यातं पापं कपोत मे हर ।
इत्यनेन तु मन्त्रेण स्नात्वा कपोतपुष्करे ॥ ४५ ॥

करणं समुपस्पृश्य तत्त्वशैले रविं यजेत् ।
त्रिविधं ब्रह्मबीजं तु सहस्रपदमन्ततः ॥ ४६ ॥

रश्मयेऽपि चतुर्थ्यं तु देवोजाया तु चेष्टतः ।
अङ्गबीजमिदं प्रोक्तमादित्यस्यातिकामदम् ॥ ४७ ॥

पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्वः सप्तरज्जुश्च द्विभुजो भास्करः सदा ॥ ४८ ॥

वर्तुलं मण्डलं चास्य अष्टपत्रसमन्वितम् ।
अङ्गुष्ठाग्राङ्गुलीनां च हृदादीनां तथा च षट् ॥ ४९ ॥

अङ्गमन्त्रेण सहित उपान्ते वह्निसंयुतः ।
सर्वन्यासे समुद्दिष्टो मन्त्रः सर्वफलप्रदः ॥ ५० ॥

हृच्छिरस्तु शिखावर्मनेत्रास्योदरपृष्ठतः ।
बाह्वोः पाण्योर्जङ्घयोस्तु पादयोश्चापि विन्यसेत् ॥ ५१ ॥

जघने च समस्तानि क्रमान्मन्त्राक्षराणि च ।
रमाच्चोत्तरतः प्रोक्तः पूजने परिकीर्तितः ॥ ५२ ॥

विसर्जनं तथैशान्यां विद्याद्या दलशक्तयः ।
निर्माल्यधृक् तत्त्वचण्डो माठराद्यास्तु पार्श्वयोः ॥ ५३ ॥

बीजमुत्तरतन्त्रस्य पूर्वतः प्रतिपादितम् ।
अनेन विधिना तत्त्वे पूजयित्वा नरोत्तमः ॥ ५४ ॥

स कामानखिलान् प्राप्य इहलोके प्रमोदते ।
सुखी शेषे तथा गच्छेद् भास्करस्यालयं प्रति ॥ ५५ ॥

नातिदूरे भास्करस्य दक्षिणस्यां शुभाह्वयः ।
तस्योर्ध्वसानौ वसति लिङ्गं शाङ्करमुत्तमम् ॥ ५६ ॥

परिवार्य सदा यान्ति महाकायास्तु वानराः ।
परिवार्यावतिष्ठन्ते सेवमानाश्च शङ्करम् ॥ ५७ ॥

त्रिस्रोतायां नरः स्नात्वा यः पश्येत् तु शुभाचले ।
महात्मानं महादेवं काममिष्टं लभेन्नरः ॥ ५८ ॥

ततः पूर्वं सुरनदी नाम्ना सुकुममालिनी ।
क्षीरोदाख्यापरा तस्मात् ते गते दक्षिणस्रवे ॥ ५९ ॥

एते अपि महाराज पुण्यतोयेऽमृतस्रवे ।
तयोः स्नात्वा नरो याति शङ्करस्यालयं प्रति ॥ ६० ॥

ततोऽपि पूर्वतो देवी लीलाख्या चापरा नदी ।
यस्यां स्नात्वा महानद्यां शिवलोकाय गच्छति ॥ ६१ ॥

ततः पूर्वं शिवा चण्डी चण्डिकाख्या महानदी ।
निर्याति धवलाख्यात् तु पर्वतात् सुमनोहरात् ॥ ६२ ॥

शिवलिङ्गद्वयं तत्र नातिदूरे व्यवस्थितम् ।
गोलोकं चाथ शृङ्गं च क्रोशमात्रान्तरे स्थितम् ॥ ६३ ॥

चण्डिकायां नरः स्नात्वा आरुह्य धवलेश्वरम् ।
दक्षिणं सागरं वीक्ष्य पृष्ट्वा गोलोकसञ्ज्ञकम् ॥ ६४ ॥

ततोऽवतीर्य च पुनः शृङ्गिणं भूमिपीठकम् ।
शिवपूजाविधानेन पूजयित्वा महेश्वरम् ॥ ६५ ॥

अश्वमेधस्य यज्ञस्य फलं सम्प्राप्य मानवः ।
सर्वान् कामानवाप्येह देहान्ते शिवतां व्रजेत् ॥ ६६ ॥

एता याः कथिता नद्यः सर्वा वै दक्षिणस्रवाः ।
तस्मादीशानकाष्ठायां पर्वतो गन्धमादनः ॥ ६७ ॥

यत्र भृङ्गाह्वयं लिङ्गं शिवस्यास्ते महत्तरम् ।
स एव पर्वतश्रेष्ठः प्राप्तः क्षेत्रस्य पश्चिमे ॥ ६८ ॥

धृत्वा ब्रह्मशिलां देवीं सावित्रं प्रतिगामिनी ।
गन्धमादनकस्यान्ते भृङ्गेशस्य पदद्वयम् ॥ ६९ ॥

स्रवद्गङ्गाजलं चास्ते कुण्डं तत्रान्तरालकम् ।
अन्तरालककुण्डे तु स्नात्वा पीत्वा च तज्जलम् ॥ ७० ॥

भृङ्गेशस्य ततो दृष्ट्वा शिलासंस्थं पदद्वयम् ।
पूजयित्वा महाभृङ्गं गाणपत्यमवाप्नुयात् ॥ ७१ ॥

शम्भुपादसमुद्भूतमन्तरालदृशाकरम् ।
वृषध्वजपदानां त्वं संयोजय महावृष ॥ ७२ ॥

मूलम्

शम्भुपादसमुद्भूतमन्तरालदृशाकरम् ।
वृषध्वजपदानां त्वं संयोजय महावृष ॥ ७२ ॥

विश्वास-प्रस्तुतिः

इत्यनेन तु मन्त्रेण स्नानं कृत्वान्तराजले ।
भृङ्गदेवं ततः पश्येत् कुब्जपीठान्तवासिनम् ॥ ७३ ॥

मणिकूटस्याथ गिरेर्गन्धमादनकस्य च ।
मध्ये स्रवति लौहित्यो ब्रह्मणाग्निसमुत्थितः ॥ ७४ ॥

अर्णाशाया दक्षिणस्यां लौहित्यो नाम सागरः ।
मणिकूटः स्थितः पूर्वे हयग्रीवो हरिर्यतः ॥ ७५ ॥

स हयग्रीवरूपेण विष्णुर्हत्वा ज्वरासुरम् ।
निहत्य स हयग्रीवः क्रीडायै यत्र संस्थितः ॥ ७६ ॥

हत्वा ज्वरं तथा विष्णुस्तत्र वासमथाकरोत् ।
नरदेवासुरादीनां यथा भवति वै हितम् ॥ ७७ ॥

ज्वरेणापीडित तनुर्ज्वरं हत्वा महासुरम् ।
सर्वलोकहितार्थाय सोऽगदस्ना नमचरेत् ॥ ७८ ॥

अगदस्नानसम्भूतं सञ्जातं च अहासरः ।
तस्य स्वयं हयग्रीवो नाम चक्रेऽपुनर्भवम् ॥ ७९ ॥

न पुनर्जायते यस्मात् तत्र स्नात्वा नरोत्तमः ।
अपुनर्भवसञ्ज्ञं तत् सरस्तु परिकीर्तितम् ॥ ८० ॥

मणिकटाचले विष्णुर्हयग्रीवस्वरूपधृक् ।
शतव्यामप्रमाणेन विस्तरेणैव शोभितम् ॥ ८१ ॥

तस्मात् पूर्वे भद्रकामः पर्वतस्तु त्रिकोणकः ।
यत्र कालहयो नाम शिवलिङ्गो व्यवस्थितः ॥ ८२ ॥

तस्यासन्ने दक्षिणस्यामपुनर्भवकुण्डकम् ।
अपुनर्भूःसरस्तीरे पर्वते भद्रकामदे ॥ ८३ ॥

हरवीथीति विख्याता शिला ब्रह्मस्वरूपिणी ।
तत्र योगी महादेवो योगज्ञो ध्यानतत्परः ॥ ८४ ॥

यं दृष्ट्वा योगवान् मर्त्यो मृतो मोक्षमवाप्नुयात् ।
तस्यामेव शिलायां तु गोकर्णो नाम शङ्करः ॥ ८५ ॥

गोकर्णो निहतो येन अन्धकस्य सखा पुरा ।
गोकर्णस्य तथैशान्यां केदारः शम्भुरन्ततः ॥ ८६ ॥

ततोऽन्धकसमः प्रोक्तः कमलाकरभोगधृक् ।
यत्रास्ति शम्भुः केदारः स गिरिर्मदनाह्वयः ॥ ८७ ॥

तत्रैव कमलः प्रोक्तः स महात्मालयप्रदः ।
स्नात्वाऽपुनर्भवजले दृष्ट्वा गोकर्णयोगिनौ ॥ ८८ ॥

केदारकमलौ दृष्ट्वा मुक्तिर्माधवदर्शने ।
दृष्ट्वा तु माधवं देवं ततः कामं विलोकयेत् ॥ ८९ ॥

कामं विलोक्य तत्रस्थो निरीक्षेदपुनर्भवम् ।
एवं कृत्वा पीठयात्रामनेन क्रमयोगतः ॥ ९० ॥

सप्त पूर्वान् सप्त परानात्मानं दश पञ्च च ।
पितृनुद्धृत्य त्रिदिवं नयेत् स पुरुषोत्तमः ॥ ९१ ॥

विष्णुस्थानसमुद्भुता पुनर्भवहरीश्वर ।
पापं हर स्वर्गहेतोर्जितसङ्गमहोदधे ॥ ९२ ॥

अनेनैव तु मन्त्रेण स्नायाद् वीरोऽपुनर्भवे ।
हयग्रीवस्य तन्त्रं तु पुरैव प्रतिपादितम् ॥ ९३ ॥

रूपं शृणु महाराज चिन्तयेत् तस्य यादृशम् ।
कर्पूरकुन्दधवलः सितपद्मोपरिस्थितः ॥ ९४ ॥

चतुर्भुजः कुण्डलादिनानालङ्कारभूषितः ।
वरदाभयहस्तस्तु वामहस्तद्वयेन तु ॥ ९५ ॥

मूलम्

चतुर्भुजः कुण्डलादिनानालङ्कारभूषितः ।
वरदाभयहस्तस्तु वामहस्तद्वयेन तु ॥ ९५ ॥

विश्वास-प्रस्तुतिः

पुस्तकं सितपद्मं च धत्ते हस्तद्वयेऽपरे ।
श्रीवत्सकौस्तुभोरस्कः क्वचिच्च गरुदासनः ॥ ९६ ॥

सर्व उत्तरतन्त्रोक्तः क्रमो ग्राह्यः प्रपूजने ।
विष्वक्सेनो हयारेस्तु निर्माल्यधृग्विसर्जने ॥ ९७ ॥

शिलारूपर्पतिच्छन्नः सदास्ते गरुडध्वजः ।
क्रीडमानोऽथ गन्धर्वैः स्थितो लोकहिताय च ॥ ९८ ॥

हयग्रीवस्य मन्त्रस्य सिद्धिर्लक्षद्वयेन तु ।
यावकैः पायसैराज्यैर्होमं कुर्वन् पुरश्चरेत् ॥ ९९ ॥

एकेनैव तु राजेन्द्र पुरश्चरणकर्मणा ।
इष्टसिद्धिमवाप्येह विष्णुलोकमवाप्नुयात् ॥ १०० ॥

मन्त्रैस्तु पञ्चवक्त्राणां पञ्चमूर्तीः सदार्चयेत् ।
पूर्वे तत्पुरुषादीनां कामादीन् पूजको द्विजः ॥ १०१ ॥

कामस्तत्पुरुषो ज्ञेयो योगीशानः प्रकीर्तितः ।
अघोरो ह्यथ गोकर्णः केदारो वामदेवकः ॥ १०२ ॥

सद्योजातस्तु कमलामन्त्रैस्तैस्तैः प्रपूजयेत् ।
पर्वतश्चैव केदारः शिवगङ्गा तु तु कालिका ॥ १०३ ॥

हयग्रीवस्य पूर्वस्यां केदारस्य तु पश्चिमे ।
छायाभोगाह्वयस्थानं पुरी भोगवती तथा ॥ १०४ ॥

यो गच्छेन्मणिकूटाख्यात् कौतुकाच्च पुनर्भवम् ।
स सर्वतीर्थयात्राणां फलमाप्नोति मानवः ॥ १०५ ॥

ज्यैष्ठे मासि सिते पक्षे पञ्चदश्यष्टमीषु च ।
स्नात्वाऽपुनर्भवजले यः पश्येद् विधिवद्धरिम् ।
स सर्वं कुलमुद्धृत्य विष्णुसायुज्यमाप्नुयात् ॥ १०६ ॥

ज्येष्ठं तु सकलं मासं नित्यं पश्येत् तु यो हरिम् ।
हरौ विलीनतां याति स सर्वैः सहितः कुलैः ॥ १०७ ॥

एतत् ते कथितं पुण्यं मणिकूटाह्वयं परम् ।
वाराणसीतो ह्यधिकं सिद्धविद्याधरार्चितम् ॥ १०८ ॥

यः पठेच्छृणुयाद्विप्रो मणिकूटस्य निर्णयम् ।
स सर्ववेदस्य फलं प्राप्नोत्येव न संशयः ॥ १०९ ॥

इति श्रीकालिकापुराणे अष्टसप्ततितमोऽध्यायः ॥ ७८ ॥