विश्वास-प्रस्तुतिः
सप्तसप्ततितमोऽध्यायः
और्व उवाच -
ततस्तु कामरूपस्य वायव्यां त्रिपुरान्तकः ।
आत्मनो लिङ्गमतुलं जल्पीशाख्यं व्यदर्शयत् ॥ १ ॥
मूलम्

यत्र नन्दी समाराध्य महादेवं जगत्पतिम् ।
अभिन्नेन शरीरेण गाणपत्यमवाप्नुयात् ॥ २ ॥

नन्दिकुण्डं महाकुण्डं यत्र नन्दी पुराऽकरोत् ।
अभिषेकं लब्धवरं पीतं तोयमनुत्तमम् ॥ ३ ॥

तत्र स्नात्वा च पीत्वा च कृतकृत्यो नरोत्तमः ।
हरस्य सदनं याति नन्दिनोऽपि महाश्रियः ॥ ४ ॥

तस्यासन्ने महादेवीं नातिदूरे व्यवस्थिताम् ।
सिद्धेश्वरीं योनिरूपां महामायां जगन्मयीम् ॥ ५ ॥

त्र्यम्बको दर्शयामास भैरवाय महात्मने ।
यत्र नन्दी महामायामाज्ञया शशिधारिणः ॥ ६ ॥

स्तुतिभिर्नतिभिः पूज्य गाणपत्यमवाप्नुयात् ।
सुवर्णमानसस्तत्र नदमुख्यो मनोहरः ॥ ७ ॥

नन्दिनोऽनुग्रहायाशु मानसाख्यम् अरस्तु तत् ।
आगतं चाज्ञया शम्भोः पूर्वमेव तपस्यतः ॥ ८ ॥

जटोद्भवा तत्र नदी हिमवत्प्रभवा शुभा ।
यस्यां स्नात्वा नरःपुण्यमाप्नोति जाह्नवीसमम् ॥ ९ ॥

गौरीविवाहसमये सर्वैर्मातुगणैः कृतः ।
जलाभिषेको भर्गस्य जटाजूटेषु यः पुरा ॥ १० ॥

तैस्तओयैरभवद्यस्माज्जटोदाख्या नदी ततः ।
चैत्रे मासि सिताष्टम्यां स्नात्वा यस्यां नरो व्रजेत् ॥ ११ ॥

पूर्णायुर्वै नरश्रेष्ठ शिवस्य सदनं प्रति ।
द्वापरस्य तु या गङ्गा त्रिःस्रोताख्या सरिद्वरा ॥ १२ ॥

हिमवत्प्रभवा शुद्धचन्द्रविम्बाद् विनिर्गता ।
यस्यां स्नात्वा महामाध्यां मातृयोनौ न जायते ॥ १३ ॥

चन्द्रसूर्यग्रहे स्नात्वा कैवल्यं प्राप्नुयान्नरः ।
सितप्रभा नाम नदी महादेवावतारिता ॥ १४ ॥

हिमवत्प्रभवा सापि सिता दक्ष समुद्रगा ।
तस्यां दशहरायां तु दशम्यां शुक्लपक्षके ॥ १५ ॥

स्नात्वा विष्णुगृहे याति नरो वै मुक्तपातकः ।
नवतोया नाम नदी ततः पूर्वस्थिता पुरा ॥ १६ ॥

नवं नवं नवं नित्यं कुर्वन्ती सा पुनाति हि ।
नवतोया ततः प्रोक्ता हिमवत्प्रभवैव सा ॥ १७ ॥

तस्यां स्नात्वा महामाघ्यां नरो गच्छति देवताम् ।
सम्पूर्णं माघमासं तु स्नात्वा विष्णुगृहं व्रजेत् ॥ १८ ॥

तासां नदीनां तु पतिरगदो नाम वै नदः ।
पीठपूर्वे स्थितः पुण्यो ब्रह्मपादसमुद्भवः ॥ १९ ॥

हिमवत्प्रभवः सोऽपि देवगन्धर्वसेवितः ।
तत्र स्नात्वा च पीत्वा च नरो ब्रह्मगृहं व्रजेत् ॥ २० ॥

कार्तिकं सकलं मासं योऽगदाख्ये महानदे ।
स्नानं करोति मौजस्तस्य पुण्यफलं शृणु ॥ २१ ॥

इह लोके त्वरोगः स प्राप्य चैवोत्तमं सुखम् ।
शेषे ब्रह्मगृहं प्राप्य ततो मोक्षमवाप्नुयात् ॥ २२ ॥

नन्दिकुण्डे नरः स्नात्वा भक्तं कुर्यात् तदा निशि ।
ततः परस्मिन् दिवसे गच्छेज्जल्पीशमन्दिरम् ॥ २३ ॥

तत्र स्नात्वा महानद्यां जल्पीशं प्रतिपूज्य च ।
तस्यां निशि हविष्याशी संयतस्तां निशां नयेत् ॥ २४ ॥

ततोऽनुदिवसे प्राप्ते गच्छेत् सिद्धेश्वरीं शिवाम् ।
तां पूजयेत् तथाष्टम्यामुपवासं तथाचरेत् ॥ २५ ॥

चतुर्भुजा तु सा देवी पीनोन्नतपयोधरा ।
सिन्दूरपुञ्जसङ्काशा धत्ते कर्त्री च खर्परम् ॥ २६ ॥

दक्षिणे वामबाहुभ्यामभीतिवरदायिनी ।
जटामण्डितशीर्षा च अक्तपद्मोपरिस्थिता ॥ २७ ॥

पञ्चाक्षरजपान्तादिर्मन्त्रेऽस्याः परिकीर्तितः ।
कामख्यातन्त्रमेवास्याः पूजने तन्त्रमीरितम् ॥ २८ ॥

एवं कृत्वा नरो धीरः पुनर्योनौ न जायते ।
जामदग्न्यभयाद् भीताः क्षत्रियाः पूर्वमेव ये ॥ २९ ॥

लेच्छच्छद्माण्युपादाय जल्पीशं शरणं गताः ।
ते म्लेच्छवाचः सततमार्यवाचश्च सर्वदा ॥ ३० ॥

जल्पीशं सेवमानास्ते गोपायन्ति च तं हरम् ।
त एव तु गणास्तस्य महाराजमनोहराः ॥ ३१ ॥

तोषयित्वा तथा सर्वान् जल्पीशं पूजयेन्नरः ।
वरदाभयहस्तोऽयं द्विभुजः कुन्दसन्निभः ॥ ३२ ॥

तत्पुरुषस्य तु मन्त्रेण पूजयेद् देवमुत्तमम् ।
एवं पुण्यकरः पीठो जल्पीशस्य महात्मनः ।
एवं ज्ञात्वा नरो याति शङ्करस्य परं प्रति ॥ ३३ ॥

इति श्रीकालिकापुराणे सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥