विश्वास-प्रस्तुतिः
षट्सप्ततितमोऽध्यायः
श्रीभगवानुवाच -
मन्त्रशुद्धिमवेक्ष्यैव गृह्णीयान्मन्त्रमुत्तमम् ॥ १ ॥
मूलम्

तत्र सिद्धं सुसिद्धं च साध्यं शात्रवमेव च ।
मन्त्रं चतुर्विधं प्रोक्तं तद्विद्ध्यक्षरभेदतः ॥ २ ॥

वर्णक्रमः शाश्वतस्तु यो मया भाषितः पुरा ।
तत्रादौ भैरव ज्ञात्वा पश्चाच्चक्रं शृणुष्व मे ।
वर्णानां तु मुखादीनां वैष्णवीतन्त्रसञ्ज्ञक ॥ ३ ॥

यः प्रोक्तोऽभून्महामन्त्रस्तस्यासन्नक्षराणि तु ।
मूलभूतानि तान्येव ततोऽन्यानपि वर्धयेत् ॥ ४ ॥

अकारश्च ककारश्च चटकारौ तथैव च ।
तपकारौ यकारश्च वर्गाद्याः परिकीर्तिताः ॥ ५ ॥

आ इ ई उ ऊ ऋ ॠ ऌ ॡ एतेऽदीर्घदीर्घकाः ।
ऐ ओ औ विसर्गश्च बिन्द्वादिर्याज्ञिकस्तथा ॥ ६ ॥

ह्वनेरन्तरजाश्चेति कीर्तितास्तु स्वरा अमी ।
खकराश्च गकाराश्च घ ङो वर्गः प्रकीर्तितः ॥ ७ ॥

यञ्जनकारादिछजौ टकारः परमस्मृतः ।
उकराश्च डकारश्च भैरवशब्दादिरेव च ॥ ८ ॥
मूलम्
यञ्जनकारादिछजौ टकारः परमस्मृतः ।
उकराश्च डकारश्च भैरवशब्दादिरेव च ॥ ८ ॥
विश्वास-प्रस्तुतिः
णकारान्तस्तृतीयोऽयं वर्गोष्ठादिः प्रकीर्तितः ।
थकारश्च दकारश्व धर्मशब्दादिरेव च ॥ ९ ॥

नवशब्दस्य चैवादिश्चतुर्थो वर्ग उच्यते ।
फलशब्दस्य यश्चादिर्बहुशब्दादिरेव च ॥ १० ॥

भकारो मनःशब्दादि पञ्चमो वर्ग उच्यते ।
यकारश्च रकारश्च लकारो वस्तथैव च ॥ ११ ॥
मूलम्
भकारो मनःशब्दादि पञ्चमो वर्ग उच्यते ।
यकारश्च रकारश्च लकारो वस्तथैव च ॥ ११ ॥
विश्वास-प्रस्तुतिः
एभिश्चतुर्भिर्वर्गाऽयं षष्ठो भैरव उच्यते ।
शषसा हः क्षकारश्च संयोगः परिवेदकः ॥ १२ ॥

पञ्चभिः शेषवर्गोऽयं सप्तमः परिकीर्तितः ।
संयोगयोगसंलोमप्रतिलोमैरिमे सुत ॥ १३ ॥

वर्णाः स्युर्मन्त्रनामादौ वाङ्मात्रेऽपि च भैरव ।
चतुर्वर्गप्रदा वर्णाः सुखदुःखकरास्तथा ॥ १४ ॥

रोगं च तेजसम्पूज्यपूजकाः परिकीर्तिताः ।
अहंः विष्णुश्च ब्रह्मा च गायत्री ब्रह्ममातृकाः ॥ १५ ॥

अपरं ब्रह्मवर्णा ये परब्रह्मसुखप्रदम् ।
अपरं ब्रह्मकुशलः परब्रह्माधिगच्छति ॥ १६ ॥

सिसृक्षुरीश्वरो वर्णाज्ज गन्ति स्वेच्छया पुनः ।
ससर्ज मम वक्त्रे तां ब्रह्मवक्त्रे च वै न्यधात् ॥ १७ ॥

अहं तु सकलान् वर्णान् न्यस्य भैरव तन्त्रकम् ।
अकार बहुलं पुत्र ज्ञानमार्गं विवर्धयन् ॥ १८ ॥

य इमे गदिता वर्णा मया वर्णविनिश्चये ।
मन्त्रशुद्धिविवेकार्थं वर्णचक्रं ततः शृणु ॥ १९ ॥

शक्तिशम्भुस्वरूपिण्यो रेखे द्वे प्रथमं न्यसेत् ।
तन्मध्यतः उनारेखे विष्णुलक्ष्मीतले तथा ॥ २० ॥

तयोस्तु रेखयोर्मध्ये द्वे रेखे समतो न्यसेत् ।
तस्य चक्रस्य चारेषु रेखास्तु परिसङ्ख्यया ॥ २१ ॥

चतस्रस्तु प्रदातव्याः स्वरमध्ये तु भैरव ।
भिन्नानां च तथा वर्णाः सन्धयोऽष्टौ प्रकीर्तिताः ॥ २२ ॥

नेमयस्तु चतस्रोऽस्य सन्धिमध्येषु कीर्तिताः ।
अष्टारसंयुतं चक्रं चतुर्नेमिसमन्वितम् ॥ २३ ॥

बहिर्वेष्टनसंयुक्तं वर्णचक्रं प्रकीर्तितम् ।
मेषादीनां च राशीनामुदयास्तप्रतिज्ञया ॥ २४ ॥

इदमेव भवेच्चक्रं ज्ञानश्रीवृद्धि-कारकम् ।
इदं चक्रं लिखित्वा तु समभूमावुदङ्मुखः ॥ २५ ॥

प्राङ्मुखो वा लिखेद् वर्णाञ्च्छुचिरिष्टं नमन् गुरुम् ।
प्रदक्षिणं लिखेत् तस्मिन् वर्णास्तेष्वेव तु क्रमात् ॥ २६ ॥

उरो नेमेवकारं तु रकारं चापि वै लिखेत् ।
अकारं वर्जयेद् दीर्घमीकारं च स्वरेषु वै ॥ २७ ॥

अकरादिक्षकारान्त झ ट ञ ण वर्जितम् ।
प्रदक्षिणक्रमादेव लिखित्वा वर्णसञ्चयम् ॥ २८ ॥

स्बनामाद्यक्षरं गृह्य कुर्यात् तु गणनक्रमम् ।
मन्त्रस्याद्यक्षरं यावत् सिद्धाद्यं तत्र योजयेत् ॥ २९ ॥

नवैकपञ्चके सिद्धः साध्यः षड्युग्मपङ्किषु ।
त्रिसप्तैकादशेष्वेव सुसिद्धः परिकीर्तितः ॥ ३० ॥

द्वादशाष्टचतुर्थेषु हात्रवः परिकीर्तितः ।
सिद्धेनैवाचिरात् सिद्धिः साध्यः कालेन सिध्यति ॥ ३१ ॥

क्रामान्नाशयते शत्रुः सुसिद्धः सिद्धिदोऽचिरात् ।
यो यो वर्णक्रमः प्रोक्तो मन्त्रे दक्षिणगोचरे ॥ ३२ ॥

वाम्याराधनमन्त्रेषु क्रमं शृण्विह भैरव ।
ऋऌ द्वयं ङ ञ ण ना वर्ज्याश्च वर्णगोचरे ॥ ३३ ॥

लिखेद् वामक्रमेणैव तत्र वर्णास्तु मन्त्रवित् ।
नृसिंहार्कवराहाणां प्रसादप्रणवस्य च ॥ ३४ ॥

एकाक्षरद्व्यक्षराणां न सिद्धादिविचिन्तनम् ।
बीजेषु चापि सर्वेषु दीक्षार्थेषु च भैरव ॥ ३५ ॥

सिद्धादिचिन्ता नो कार्या ग्राह्यास्तु दश वश्यकम् ।
सुसिद्धं कामदं ग्राह्यं साध्यसिद्धविचारणात् ॥ ३६ ॥

न ग्राह्यः शात्रवो धीरैर्गृहीत्वाप्नोति चापदम् ।
यो यस्यैकाक्षरो मन्त्रस्तन्नाम्ना स निगद्यते ॥ ३७ ॥

सहितश्चन्द्रबिन्दुभ्यां तद्बीजमिति गद्यते ।
तथा शक्रो सकारः स्यात् सार्धचन्द्रः सबिन्दुकः ॥ ३८ ॥

स एव शक्रबीजं स्यात् तथान्यत्रापि योजयेत् ।
मन्त्रोद्धारेषु सर्वत्र परतः परतः पुरः ॥ ३९ ॥

पूर्वतोऽपि परे कार्यमनुक्तः पूर्वपक्षकः ।
यदा षोडशसाहस्रं वैष्णव्या मन्त्रसञ्चयम् ॥ ४० ॥

चक्रे निरीक्ष्यते तत्र षोडशारं तु चक्रकम् ।
विंशतिस्तु सहस्राणि त्रिपुराया यदीक्षते ॥ ४१ ॥

द्वात्रिंशारं तत्र चक्रं लेखनीयं सदा बुधैः ।
इदमेव महाचक्रं षोडशारादिकं कृती ॥ ४२ ॥

कुर्यादधिकरेखाभिर्मन्त्रशुद्ध्यन्तरे सुत ।
इयं ते कथिता पुत्र मन्त्रसिद्धिरभीष्टदा ॥ ४३ ॥

जानाति सम्यक् य इमां स जयी काममाप्नुयात् ।
रहस्यं परमं पुत्र प्रयोगादिप्रकारतः ॥ ४४ ॥

वक्ष्यामि तत् समासेन शृणु वेताल भैरव ।
दन्तः पक्षबिडालस्य तत्त्वचा परिवेष्टितः ॥ ४५ ॥

निर्माल्येन तु वैष्णव्या तत् संवेष्ट्य गुणत्रयम् ।
तत् तद् वा वामसूत्रस्य तत्तन्मन्त्रेण मन्त्रितम् ॥ ४६ ॥

गृहीत्वा दक्षिणे पाणौ मन्त्राणां शतमादितः ।
सञ्चयेदथ वैष्णव्या अष्टम्यां नियतेन्द्रियः ॥ ४७ ॥

ततस्तु दक्षिणे बाहौ धार्यं यन्त्रोत्तमं बुधैः ।
ततो द्वादशसिद्धिः स्याद्धर्ताचेन्नात्रितित्तिलीम् ॥ ४८ ॥

जयः सङ्ग्रामवादेषु शरीरस्याप्यरोगिता ।
वशकृद्राजपुत्राणां राज्ञामपि च सन्ततम् ॥ ४९ ॥

भूतप्रेतपिशाचाश्च नो यान्ति नेत्रगोचरम् ।
योषितां समदानां तु वशकृच्चिन्तनात् सकृत् ॥ ५० ॥

रुधिराणां श्लेष्मणा च धातूनां स्तम्भनं तथा ।
तेजसां स्तम्भकं चैव चक्षुस्तेजःप्रदं तथा ॥ ५१ ॥

मूर्ध्नि पक्ष-बिडालस्य
हस्तं दत्त्वा शत-त्रयम् ।
वैष्णवी-तन्त्र-मन्त्रं तु
जप्त्वा तं स्थापयेद् गृहे ॥ ५२ ॥
मूलम्
मूर्ध्नि पक्षबिडालस्य हस्तं दत्त्वा शतत्रयम् ।
वैष्णवीतन्त्रमन्त्रं तु जप्त्वा तं स्थापयेद् गृहे ॥ ५२ ॥
मानसतरङ्गिणीकृत्
The ritualist having placed his hand on the head of a domestic cat and having performed japa of the mantra from the vaiShNavI tantra for a count of 300 stations the cat in his house.
मानसतरङ्गिणीकृत् - टिप्पनी
The vaiShNavI-tantra incorporated into the kAlikA purANa gives some peculiar rites using both a dead and live animal called a pakSha-biDAla. I believe this is simply a domestic cat (as in pakSha= house and biDAla= cat).
विश्वास-प्रस्तुतिः
तं बिडालं तु या पश्येन्
मलिनी वनिता सुत ।
नापुत्रा सा भवित्री तु
कदाचिद् अपि भैरव ॥ ५३ ॥
मूलम्
तं बिडालं तु या पश्येन्मलिनी वनिता सुत ।
नापुत्रा सा भवित्री तु कदाचिदपि भैरव ॥ ५३ ॥
मानसतरङ्गिणीकृत्
My son, if a menstruating woman sees that cat, she will certainly never be issueless, o bhairava.
विश्वास-प्रस्तुतिः
तादृक् पक्षबिडालस् तु
यस्य तिष्ठति मन्दिरे ।
मृतापत्यापि तद्गेहे
जीवत्पुत्रा प्रजायते ॥ ५४ ॥
मूलम्
तादृक् पक्षबिडालस्तु यस्य तिष्ठति मन्दिरे ।
मृतापत्यापि तद्गेहे जीवत्पुत्रा प्रजायते ॥ ५४ ॥
मानसतरङ्गिणीकृत्
If such a cat is stationed in a house, even if children have died in that house, a [woman] will birth living sons.
मानसतरङ्गिणीकृत् - टिप्पनी
This ritual brings to mind the role ShaShThI,
who has a cat vehicle, in protecting the lives of young children.
This cat motif is celebrated in the folk ShaShThI-maNgala-kAvya-s of the vaNga-s.
Hence, it is possible that this ritual was adopted from a kaumAra background.+++(5)+++
Similarly, another vaiShNavI-tantra ritual is given with the fang of a cat wrapped in a cat pelt along with the vaiShNavI nirmAlya for multiple viniyoga-s.
विश्वास-प्रस्तुतिः
कोकिलो भृङ्गराजो वा चकोरो वा शुकोऽथवा ।
वैष्णवीतन्त्रमन्त्रेण मन्त्रितो यत्र तिष्ठति ॥ ५५ ॥

विघ्नं न मन्दिरे तस्य भवितृ सुप्रजा भवेत् ।
न सर्पास्तत्र गच्छन्ति गताः खादन्ति नो नरान् ।
नारी न बन्धकी तस्य मन्दिरेऽपि प्रजायते ॥ ५६ ॥

पञ्चमूर्तेश्चण्डिकाया निर्माल्यानि च पञ्चमः ॥ ५७ ॥

तेषां वलीनां मांसेन स्थाल्यां पक्त्वा दिनत्रयम् ।
अष्टम्यां तत्पुनर्देव्यै दत्त्वा तन्मन्त्रमन्त्रितैः ॥ ५८ ॥

तोयैरभ्युक्ष्य भुञ्जीयान्मनसा चिन्तयेच्छिवाम् ।
तस्मिन् भुक्ते तु दीर्घायुर्जरा शोकविवर्जितः ॥ ५९ ॥

तेजस्वी शत्रुदमनः कविर्वाग्मी च जायते ।
ललाटे मूर्ध्नि कण्ठे च बाह्वोः पाण्योस्तथा हृदि ॥ ६० ॥

वैष्णवीतन्त्रमन्त्रस्य यानि चाष्टाक्षराणि च ।
लिखित्वा तानि चैतेषु स्थानेषु मन्त्रविद् बुधः ॥ ६१ ॥

कुङ्कुमं क्षीरमलयजातपङ्कः सुयावकैः ।
अष्टम्यां संयतो भूत्वा नवम्यां प्रथमं नरः ॥ ६२ ॥

प्रतिष्ठाने न्यस्य करमष्टावष्टौ जपेद् बुधः ।
आवर्तनेन मन्त्राणां ततोऽनु पूजयेच्छिवाम् ॥ ६३ ॥

ततस्तस्मिन् दिने देव्यै विजातीयं वलित्रयम् ।
दत्त्वा सहस्रं मन्त्रस्य सङ्ख्यया जपमारभेत् ॥ ६४ ॥

जपान्ते तु हविर्भुक्त्वा संयतो रजनीं नयेत् ।
एवं सकृत्कृते पुत्र रणे तस्य पराजयः ॥ ६५ ॥

कदाचिदपि नो भूयान्न च वादेषु शास्त्रतः ।
इधिमेवं सकृत्कृत्वा रणकाले यथा तथा ॥ ६६ ॥

सदा लिखेत् क्षत्रियस्तु विजयाय रणेषु च ।
अपरं तु रणाष्टाङ्गं गुह्यमेतत् प्रकीर्तितम् ॥ ६७ ॥

अनेनैव तु गुह्येन विजयी त्वं भविष्यसि ।
इति नौ कथितं सर्वं गुह्याद् गुह्यतरं शुभम् ॥ ६८ ॥

सुखसम्पत्करं मन्त्रं यन्त्रतन्त्रसमन्वितम् ।
यच्छ्रोतुं त्रिदशाः सर्वे नित्यं वाञ्छन्ति चामृतम् ॥ ६९ ॥

तदिदन्ते समाख्यातं पुत्र वेताल भैरव ।
एतत् सर्वं नदो ज्ञात्वा तत्त्वतः पुत्र भैरव ॥ ७० ॥

स कामानखिलान् प्राप्य नित्यं कैवल्यमाप्नुयात् ।
शृणोति यःसकृदिदं कथ्यमानो दिव्जोत्तमैः ॥ ७१ ॥

न तस्य विघ्ना जायन्ते नापुत्रः स च जायते ।
दीर्घायुर्बलयुक्तश्च नित्यं प्रमुदितः कृती ।
वाञ्छितार्थमवाप्नोति देवीगृहमवाप्नुयात् ॥ ७२ ॥

गच्छतं कामरूपान्तःपीठं नीलाचलाह्वयम् ॥ ७३ ॥

कामाख्यानिलयं गुह्यं कुब्जिकापीठसञ्ज्ञकम् ।
आकाशगङ्गा यत्रास्ति तज्जलैरभिषिच्य च ॥ ७४ ॥

तत्राराधयतं पुत्रौ महामायां जगन्मयीम् ।
सा प्रसन्नाचिराद् देवी वरदा नौ भविष्यति ॥ ७५ ॥

और्व्य उवाच -
इत्युक्त्वा वृषभारूढस्तदा वेतालभैरवौ ।
स पुत्रौ तु परित्यज्य तत्रैवान्तरधीयत ॥ ७६ ॥

ततस्तौ नाटकं शैलं परित्यज्य तपस्विनौ ।
आसेदतुर्महात्मानं वसिष्ठं ब्रह्मणः सुतम् ॥ ७७ ॥

स तु सन्ध्याचलगतस्तौ दृष्ट्वा समुपस्थितौ ।
सभाजयामास मुनिः शिष्यवत् तौ हरात्मजौ ॥ ७८ ॥

ततस्तस्योपदेशेन वसिष्ठस्य महात्मनः ।
जग्मतुस्तौ महाशैलं नीलं कामाख्ययागतम् ॥ ७९ ॥

तत्र गत्वा महात्मानौ वैष्णवीतन्त्रगोचरम् ।
आदाय जातां तां देवीं महामायां जगन्मयीम् ॥ ८० ॥

भैरवाख्यस्य लिङ्गस्य निक्ऽतस्थौ शिवात्मनः ।
आकाशगङ्गामाप्लाव्य स्थण्डिले मण्डलोत्तमम् ॥ ८१ ॥

विधाय नरशार्दूलौ जपेतुर्मन्त्रमुत्तमम् ।
तौ जप्त्वा विधिवन्मन्त्रं सिद्धमष्टाक्षरात्मकम् ॥ ८२ ॥

वेतालस्य तथासाध्यमष्टलक्षाणि सङ्ख्यया ।
त्रिभिर्वर्षैस्तु लक्षाणां चतुर्णामन्ततस्ततः ॥ ८३ ॥

त्रिधा पुरश्चरणं च तौ भक्त्या समकुर्वताम् ।
यद्यदुत्तरतन्त्रोक्तं कल्पोक्तं पूजने कृतम् ॥ ८४ ॥

तत्सर्वं चक्रतुस्तौ तु तं त्रिहायणसंवृतौ ।
कामाख्या त्रिपुरादीनामन्यासामपि पूजनम् ॥ ८५ ॥

सकृत्कृत्वा पीठयात्रां चेरतुर्विधिवत् तदा ।
एवं तौ बद्धकवचौ कृतन्यासौ हरात्मजौ ॥ ८६ ॥

सुप्रीता चानुजग्राह महामायाठ तौ तदा ।
ध्यानस्थयोस्तु जपतोर्यजतोश्च जगन्मयो ॥ ८७ ॥

शिवलिङ्गं विनिर्भिद्य तदा प्रत्यक्षतां गता ।
तस्यां विनिर्गतायां तु शिवलिङ्गं त्रिधाऽभवत् ॥ ८८ ॥

भैरवो भैरवी चेति हेरुकश्च तथा त्रयः ।
तां ददर्श तदा देवीं वेतालो भैरवस्तदा ॥ ८९ ॥

यथा ध्यानगता दृष्टा बहिश्चापि तथा तथा ।
तां दृष्ट्वा चारुसर्वाङ्गी पीनोन्नतपयोधराम् ॥ ९० ॥

वरदाभयहस्तां च सिद्धसूत्रासिधारिणीम् ।
रक्तपद्मप्रतीकाशां सितप्रेतासनस्थिताम् ॥ ९१ ॥

निमील्य नयनद्वन्द्वं तदा वेतालभैरवौ ।
त्राहि त्राहि महामाये ऊचतुस्तौ मुहुर्मुहुः ॥ ९२ ॥

ततस्तया महादेव्या तेजसाप्यायितौ तु तौ ।
पस्पर्श वरहस्तस्य चाग्रभागेन वैष्णवी ॥ ९३ ॥

आप्यायितौ ततस्तौ तु स्पृष्टावपि तथा पुनः ।
आसेदतुश्च देवत्वं मनुष्यत्वं विहाय च ॥ ९४ ॥

देवभूतौ तदा तौ तु महामायां जगन्मयीम् ।
स्तुतिभिर्नतिभिश्चेति तदा तुष्टुवतुः शिवाम् ॥ ९५ ॥

वेतालभैरवावूचतुः-
जय जय देवि सुरगणार्चितपङ्कजे विश्वस्य भूतिभाविनी शशिमौलि-
केलिभाविनि गिरिजे ।
नेत्रत्रयनिर्जितविवस्वद्विधुवह्लिकान्तितुलितकमलजे
मध्यनेत्रनतभ्रूभङ्गभक्तरक्तमतिचयज्वायकविमलजे ॥ ९६ ॥

आज्ञाचक्रान्तशान्तनवकोटि-
करोटितुल्यकान्त शान्तशशधरे ।
बहुमायकायभोगयोगतरङ्ग-
आरस्य पद्मवसुचरे ॥ ९७ ॥
मूलम्
आज्ञाचक्रान्तशान्तनवकोटि-
करोटितुल्यकान्त शान्तशशधरे ।
बहुमायकायभोगयोगतरङ्ग-
आरस्य पद्मवसुचरे ॥ ९७ ॥
विश्वास-प्रस्तुतिः
रिनाडिनीतमध्यबधविष्किर-
वल्लभशुभसुषुम्नसमाधारपरे ।
इबुधरत्नविमोदिविश्वमूर्ति-
महोमयानवसि षट्चक्रधरे ॥ ९८ ॥
मूलम्
रिनाडिनीतमध्यबधविष्किर-
वल्लभशुभसुषुम्नसमाधारपरे ।
इबुधरत्नविमोदिविश्वमूर्ति-
महोमयानवसि षट्चक्रधरे ॥ ९८ ॥
विश्वास-प्रस्तुतिः
आदिषोडशचक्रचुम्बितचारुदेहपीनतुङ्ग-
कुचाचलालिङ्गितभूमिमध्यनागशाकगते ।
सिद्धसूत्रवराभयासिशान्तपातक पङ्कजातकमूलमणिचतुर्बाहुयुते ।
ज्ञानतालकमन्त्रतन्त्रयोगियोग-
निबद्धसारसूतभङ्ग विनोदकृते ।
आत्मतत्त्वपरैकशाररत्नहारक-
मुक्तिसूक्तिविवेकसितप्रेतरते ॥ ९९ ॥

रत्नसारसमस्तसङ्गतरङ्गराग-
वियोगिमन्त्रशान्तपुरविशेषकृते ।
योगिनीगणनृत्यभृत्यभावन-
निबद्धनद्धहारकङ्कणमुख्यभूषणपते ।
साट्टहासविनोदमोदितमुक्त-
केशसुरेशनिबद्धदेहपुटे ।
देहि देवि शोकशोचनबन्ध-
मोचनपापशातनशुद्धमते ॥ १०० ॥
मूलम्
रत्नसारसमस्तसङ्गतरङ्गराग-
वियोगिमन्त्रशान्तपुरविशेषकृते ।
योगिनीगणनृत्यभृत्यभावन-
निबद्धनद्धहारकङ्कणमुख्यभूषणपते ।
साट्टहासविनोदमोदितमुक्त-
केशसुरेशनिबद्धदेहपुटे ।
देहि देवि शोकशोचनबन्ध-
मोचनपापशातनशुद्धमते ॥ १०० ॥
विश्वास-प्रस्तुतिः
सर्वविद्यात्मिकां गुह्यां मन्त्रयन्त्रमयीं शिवाम् ।
प्रणमामि महामायां लोके वेदे च कीर्तिताम् ॥ १०१ ॥

परापरात्मिकां नित्याँ साध्याधारैकसंस्थिताम् ।
कामाह्लादकरीं कान्तां त्वां नमामि जगन्मयीम् ॥ १०२ ॥

प्रपञ्चपरमव्यक्तं जगदेकविवर्धिनि ।
प्रभावेनार्धरक्ताङ्गि देवि तुभ्यं नमोऽस्तु ते ॥ १०३ ॥

कामाख्या नित्यरूपाख्या महामाया सरस्वती ।
या लक्ष्मीर्विष्णुवक्षःस्था नमावो ह्यच्युतां शिवाम् ॥ १०४ ॥

मन्त्राणि यस्यास्तन्त्राणि सहस्राणि च षोडश ।
मन्त्रयन्त्रात्मके तुभ्यं नमोऽस्तु मम पार्वति ॥ १०५ ॥

और्व उवाच -
इति स्तुता ततस्ताभ्यां महामाया जगत्प्रसूः ।
उवाच मुदिता चेति वरं वरयतं युवाम् ॥ १०६ ॥

प्रत्यक्षतो महामायां पूर्ववद् ध्यानगोचराम् ।
तौ दृष्ट्वा भर्गतनयौ प्राहतुश्चेदमुत्तमम् ॥ १०७ ॥

वैतालभैरवावूचतुः ।
देव्यनेन शरीरेण भवत्याः शङ्करस्य च ।
प्रार्थये शाश्वतीं सेवां नित्यं यावद्रविः शशी ॥ १०८ ॥

नान्यं वरं सोधयावओ माये त्वत्तो जगन्मयी ।
अन्यथा तव भक्त्यैव स्थास्यावो गिरिकन्दरे ॥ १०९ ॥

एवमुक्ता ततस्ताभ्यां महामाया जगन्मयी ।
एवमस्त्विति चोवाच भवत्येवं मुहुर्मुहुः ॥ ११० ॥

एवम् इद्धिर्जगद्धात्री प्रोक्ता स्वस्याथ चूचुके ।
निष्पीड्य आरयामास क्षीरधाराद्वयं शिवा ॥ १११ ॥

ततस्तु निःसृतं क्षीरं पाययामास भैरवम् ।
वेतालं च महाराज पिबतस्तौ च तत् तदा ॥ ११२ ॥

पीत्वा तौ च तदा क्षीरं देवत्वं प्राप्य शाश्वतम् ।
अजरौ चामरौ भूतौ महातेजस्विनौ शुभौ ॥ ११३ ॥

तस्यास्तु क्षीरममृतं तत् पीत्वा तौ महाबलौ ।
पीयूषपानात् सजातौ ततस्तौ प्राह वैष्णवी ॥ ११४ ॥

गणानां देवदेवस्य भवतस्चाधिपौ युवाम् ।
द्वाःस्थौ च नित्यमासन्नौ नन्दिवद् भवतं सुतौ ॥ ११५ ॥

इत्युक्त्वा हरसम्मत्या महामाया जगन्मयी ।
योगिनीगणसंयुक्ता तत्रैवान्तरधीयत ॥ ११६ ॥

अन्तर्हितायां तस्यां तु तदा वेतालभैरवौ ।
मुदितौ परमप्रीतौ कृतकृत्यौ बभूवतुः ॥ ११७ ॥

अथागच्छद् देवगणैः सार्धं सप्रमथो हरः ।
सभाजयितुमत्यर्थं पुत्रौ वेतालभैरवौ ॥ ११८ ॥

तावासाद्य महादेवस्तदा नीलाह्वयं गिरिम् ।
सकलं दर्शयामास पीठं तु स्थानभेदतः ॥ ११९ ॥
मूलम्
तावासाद्य महादेवस्तदा नीलाह्वयं गिरिम् ।
सकलं दर्शयामास पीठं तु स्थानभेदतः ॥ ११९ ॥
विश्वास-प्रस्तुतिः
प्रत्यक्षतो महामायां पूर्ववद् ध्यानगोचराम् ।
तौ दृष्ट्वा भर्गतनयौ प्राहतुश्चेदमुत्तमम् ॥ १०७ ॥
मूलम्
प्रत्यक्षतो महामायां पूर्ववद् ध्यानगोचराम् ।
तौ दृष्ट्वा भर्गतनयौ प्राहतुश्चेदमुत्तमम् ॥ १०७ ॥
विश्वास-प्रस्तुतिः
वैतालभैरवावूचतुः ।
देव्यनेन शरीरेण भवत्याः शङ्करस्य च ।
प्रार्थये शाश्वतीं सेवां नित्यं यावद्रविः शशी ॥ १०८ ॥
मूलम्
वैतालभैरवावूचतुः ।
देव्यनेन शरीरेण भवत्याः शङ्करस्य च ।
प्रार्थये शाश्वतीं सेवां नित्यं यावद्रविः शशी ॥ १०८ ॥
विश्वास-प्रस्तुतिः
नान्यं वरं सोधयावो माये त्वत्तो जगन्मयि ।
अन्यथा तव भक्त्यैव स्थास्यावो गिरिकन्दरे ॥ १०९ ॥
मूलम्
नान्यं वरं सोधयावो माये त्वत्तो जगन्मयि ।
अन्यथा तव भक्त्यैव स्थास्यावो गिरिकन्दरे ॥ १०९ ॥
विश्वास-प्रस्तुतिः
और्व उवाच -
एवमुक्ता ततस्ताभ्यां महामाया जगन्मयी ।
एवमस्त्विति चोवाच भवत्येवं मुहुर्मुहुः ॥ ११० ॥
मूलम्
और्व उवाच -
एवमुक्ता ततस्ताभ्यां महामाया जगन्मयी ।
एवमस्त्विति चोवाच भवत्येवं मुहुर्मुहुः ॥ ११० ॥
विश्वास-प्रस्तुतिः
एवं सिद्धिर्जगद्धात्री प्रोक्ता स्वस्याथ चूचुके ।
निष्पीड्य आरयामास क्षीरधाराद्वयं शिवा ॥ १११ ॥
मूलम्
एवं सिद्धिर्जगद्धात्री प्रोक्ता स्वस्याथ चूचुके ।
निष्पीड्य आरयामास क्षीरधाराद्वयं शिवा ॥ १११ ॥
विश्वास-प्रस्तुतिः
ततस्तु निःसृतं क्षीरं पाययामास भैरवम् ।
वेतालं च महाराज पिबतस्तौ च तत् तदा ॥ ११२ ॥
मूलम्
ततस्तु निःसृतं क्षीरं पाययामास भैरवम् ।
वेतालं च महाराज पिबतस्तौ च तत् तदा ॥ ११२ ॥
विश्वास-प्रस्तुतिः
पीत्वा तौ च तदा क्षीरं देवत्वं प्राप्य शाश्वतम् ।
अजरौ चामरौ भूतौ महातेजस्विनौ शुभौ ॥ ११३ ॥
मूलम्
पीत्वा तौ च तदा क्षीरं देवत्वं प्राप्य शाश्वतम् ।
अजरौ चामरौ भूतौ महातेजस्विनौ शुभौ ॥ ११३ ॥
विश्वास-प्रस्तुतिः
तस्यास्तु क्षीरममृतं तत् पीत्वा तौ महाबलौ ।
पीयूषपानात् सजातौ ततस्तौ प्राह वैष्णवी ॥ ११४ ॥
मूलम्
तस्यास्तु क्षीरममृतं तत् पीत्वा तौ महाबलौ ।
पीयूषपानात् सजातौ ततस्तौ प्राह वैष्णवी ॥ ११४ ॥
विश्वास-प्रस्तुतिः
गणानां देवदेवस्य भवतस्चाधिपौ युवाम् ।
द्वाःस्थौ च नित्यमासन्नौ नन्दिवद् भवतं सुतौ ॥ ११५ ॥
मूलम्
गणानां देवदेवस्य भवतस्चाधिपौ युवाम् ।
द्वाःस्थौ च नित्यमासन्नौ नन्दिवद् भवतं सुतौ ॥ ११५ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा हरसम्मत्या महामाया जगन्मयी ।
योगिनीगणसंयुक्ता तत्रैवान्तरधीयत ॥ ११६ ॥
मूलम्
इत्युक्त्वा हरसम्मत्या महामाया जगन्मयी ।
योगिनीगणसंयुक्ता तत्रैवान्तरधीयत ॥ ११६ ॥
विश्वास-प्रस्तुतिः
अन्तर्हितायां तस्यां तु तदा वेतालभैरवौ ।
मुदितौ परमप्रीतौ कृतकृत्यौ बभूवतुः ॥ ११७ ॥
मूलम्
अन्तर्हितायां तस्यां तु तदा वेतालभैरवौ ।
मुदितौ परमप्रीतौ कृतकृत्यौ बभूवतुः ॥ ११७ ॥
विश्वास-प्रस्तुतिः
अथागच्छद् देवगणैः सार्धं सप्रमथो हरः ।
सभाजयितुमत्यर्थं पुत्रौ वेतालभैरवौ ॥ ११८ ॥
मूलम्
अथागच्छद् देवगणैः सार्धं सप्रमथो हरः ।
सभाजयितुमत्यर्थं पुत्रौ वेतालभैरवौ ॥ ११८ ॥
विश्वास-प्रस्तुतिः
तावासाद्य महादेवस्तदा नीलाह्वयं गिरिम् ।
सकलं दर्शयामास पीठं तु स्थानभेदतः ॥ ११९ ॥
मूलम्
तावासाद्य महादेवस्तदा नीलाह्वयं गिरिम् ।
सकलं दर्शयामास पीठं तु स्थानभेदतः ॥ ११९ ॥
विश्वास-प्रस्तुतिः
कामाख्याया गुहां तत्र दर्शयित्वा मनोभवाम् ।
ततः स्वीयां कामगुहां छायाच्छत्रं स्वमालयम् ॥ १२० ॥

स्वकीयं पञ्चमूर्तीनां संस्थानं चाप्यदर्शयत् ।
कामरूपस्य सकलं पीठं देवमयं तथा ॥ १२१ ॥

प्रत्येकं दर्शयामास क्रमतस्त्रिपुरान्तकः ।
प्रथमं करतोयाख्यां सत्यगङ्गा सदाशिवाम् ॥ १२२ ॥

पुण्यतोयमयीं शुद्धां दक्षिणाब्ध्येकगामिनीम् ।
इति श्रीकालिकापुराणे वेतालभैरवयोः सिद्धिलाभो नाम
षट्सप्ततितमोऽध्यायः ॥ ७६ ॥