पञ्चसप्ततितमोऽध्यायः
श्रीभगवानुवाच -
विश्वास-प्रस्तुतिः
निष्पल्लवोद्वादशभिर्लक्षैर्मन्त्रजपिस्तथा ।
पुरश्चरेत् साधक्स्तु काममिष्टाप्तिहेतवे ॥ १ ॥
मूलम्

जातीपुष्पं च बकुलं मालतीपुष्पमेव च ।
नन्द्यावर्त पाटलं च सितपद्ममतः परम् ॥ २ ॥

आज्यमन्नं पायसं च दधिक्षीरं तथा मधु ।
लाजाश्चापि सकर्पूरा अमी एव चतुर्दश ॥ ३ ॥

पुरश्चरणसम्भूता त्रिपुरायाः प्रकीर्तिताः ।
द्वादशष्वेव लक्षेषु जप्तेष्वपि च साधकः ॥ ४ ॥

एतानि सर्वद्रव्याणि जुहुयादनलोज्ज्वले ।
लक्षत्रयं तु यो जप्त्वा पुरश्चरणमाचरेत् ॥ ५ ॥

स तु साज्यं सकर्पूरं जुहुयात् तु चतुष्टयम् ।
दशभिर्नवलक्षेषु द्रव्यैर्मन्त्री पुरश्चरेत् ॥ ६ ॥

जप्तेषु चाष्टभिः षट्सु सर्वैः सर्वत्र चाचरेत् ।
हस्तमात्रं तु कुण्डं स्यात् षट्कोणं त्र्यङ्गुलाधिकम् ॥ ७ ॥

त्रिपुरायास्तु मध्याया बालायाश्च सदैव हि ।
तथा त्रिपुरभैरव्याः कुण्डमानं प्रकीर्तितम् ॥ ८ ॥

चतुष्कोणं भवेत् कुण्डं हस्तमात्रद्वयेषु च ।
अष्टाङ्गुलाधिकं प्रोक्तं वैष्णव्यास्तु पुरश्चरे ॥ ९ ॥

त्रिकोणं हस्तमात्रं तु कामाख्यायास्तु कुण्डकम् ।
एवं सर्वप्रपञ्चानामासामपि तथा तथा ॥ १० ॥

संस्कुर्यादनलं वृद्धं विधिवद् वैष्णवीकृतौ ।
कामाख्यायास्तथा कुर्याज्ज्योतिष्टोमादि मत्सुत ॥ ११ ॥

आदौ त्रिपुरभैरव्याश्चतुर्भिर्दशभिस्तथा ।
जुहुयादनले वृद्धे आहुतीश्च चतुर्दश ॥ १२ ॥

पश्चात् तु मूलमन्त्रेण अष्टोत्तरशतत्रयम् ।
होमं यन्पन् वा तेन शतानि नव वाऽथवा ॥ १३ ॥

जपान्ते तु बलिं दद्याद् वैष्णव्या बलिदानतः ।
रत्नकर्पूरकनकान् यत्रैव गुरुदक्षिणाः ॥ १४ ॥

अलाभे दधिपुष्पाज्यलाजैर्देव्याः पुरश्चरेत् ।
लाभे चतुर्दशद्रव्यैर्जुहुयाद् विधिपूर्वकम् ॥ १५ ॥

अस्या यन्त्रं रहस्येन शृणु वेतालभैरव ।
यत्कृत्वैवाखिलान् कामाल्ँलभते नरसत्तमः ॥ १६ ॥

षट्कोणं मण्डलं कृत्वा तत् तु कोणत्रये लिखेत् ।
मन्त्रं त्रिपुरभैरव्यास्त्रिवर्णं तु ततस्त्वधः ॥ १७ ॥

आद्यायास्त्रिपुरायास्तु त्रिबीजानि लिखेदनु ।
मध्यबीजत्रयं मध्ये लिखित्वा पीठयन्त्रके ॥ १८ ॥

सर्वैस्तु आतृकावर्णैस्त्रिधा संवेष्टयेदनु ।
लाक्स्।आरसैर्लिखित्वा तु त्रिलोहैर्वेष्टयेत् ततः ॥ १९ ॥

तद् धार्यं मूर्ध्नि सततं तेन सर्वजयी भवेत् ।
रूपवान् बलवान् वाग्मो धनरत्नयुतः सदा ॥ २० ॥

दीर्घायुः कामभोगी च सुप्रजः स च जायते ।
मध्ये बीजं लिखित्वैकं मूर्ध्नि चाधस्तथापरम् ॥ २१ ॥

आद्यायास्त्रिपुरायास्तु भैरव्यास्तद्वदेव हि ।
इमानि षट्कमन्त्राणि क्रमाद् वेतालभैरव ॥ २२ ॥

पूर्ववत् सल्ँलिखित्वैकं संवेष्ट्याथ त्रिलोहकैः ।
वामे बाहौ दक्षिणे च हृदि कण्ठे करे तथा ॥ २३ ॥

मूर्ध्नि धार्याणि क्रमतः फलमेतच्च तद्भवम् ।
सम्पत्सौभाग्यसंस्तम्भ-वशीकरणमोहनम् ॥ २४ ॥

कवित्वमथ सर्वत्र भवेदेतन्न संशयः ।
यन्त्रमन्त्राणि तन्त्राणि त्रैपुराणि तु भैरव ॥ २५ ॥

स पञ्च षट् सहस्राणि मन्त्रौघैस्त्रिगुणीकृतैः ।
तज्ज्ञात्वा पूजको धीमान् परत्रेह न सीदति ॥ २६ ॥

मन्त्रौघैस्तन्त्रमन्त्रैरविचलितपदं त्रैपुरं यत् प्रधानं
यद्विप्राद्यैरदेयं विगतभयपदं यत्कवित्वप्रदातृ ।
त्रैवर्गीयं त्रिरूपं त्रिदिवमथ सुरा यत्र सन्ति त्रयोऽपि
तज्ज्ञानौघैः सुभूतं सकलशुभफलं यन्महस्त्रैपुराख्यम् ॥ २७ ॥

कवचं त्रिपुरायास्तु शृणु वेताल भैरव ।
यज्ज्ञात्वा मन्त्रवित् सम्यक् फलमाप्नोति पूजने ॥ २८ ॥

उपचाराः पुरा प्रोक्ता येन एवात्र पूजने ।
प्रतिपत्तिस्तु सैवात्र कीर्तिता नित्यपूजने ॥ २९ ॥

कवचस्य च माहात्म्यमहं ब्रह्मा न केशवः ।
वक्तुं क्षमस्त्वनन्तोऽपि बहुजिह्वः कदाचन ॥ ३० ॥

क्रव्याद् भयं न लभते तथा तोयपरिप्लवे ।
कवचस्मरणादेव सर्वं कल्याणमाप्नुयात् ॥ ३१ ॥

ॐ त्रिपुराकवचस्यास्य ऋषिर्दक्षिण उच्यते ।
छन्दश्चित्राह्वयं प्रोक्तं देवी त्रिपुर भैरवी ॥ ३२ ॥

धर्मार्थकाममोक्षाणां विनियोगस्तु साधने ।
यथाद्यात्रिपुराख्याया बीजानि क्रमतः सुत ॥ ३३ ॥

नामतो वाग्भवादीनि कीर्तितानि मया पुरा ।
तथा त्रिपुरभैरव्या बीजानामपि नामतः ॥ ३४ ॥

वाग्भवः कामराजश्च तथा त्रैलोक्यमोहनः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
अवतु सकलशीर्षं वाग्भवे वाचमुग्रां
निखिलरचितकामान् कामराजोऽवतान्मे ।
सकलकरणवर्गमीश्वरः पातु नित्यं
तनुगतबहुतेजो वर्धयन् बुद्धिहेतुः ॥ ३६ ॥
मूलम्
अवतु सकलशीर्षं वाग्भवे वाचमुग्रां
निखिलरचितकामान् कामराजोऽवतान्मे ।
सकलकरणवर्गमीश्वरः पातु नित्यं
तनुगतबहुतेजो वर्धयन् बुद्धिहेतुः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
कुटैस्तु पञ्चभिरिदं गदितं हि यन्त्रम्
मन्त्रं ततोऽनु सततं मम तेज उग्रम् ।
तेजोमयं महति नित्यपरायणस्थं तन्त्रो हृदि प्रविततां तनुतां सुबुद्धिम्
॥ ३७ ॥

आधारे वाग्भवः पातु कामराजस्तथा हृदि ॥ ३८ ॥
भ्रुवोर्मध्ये च शीर्षे च पातु त्रैलोक्यमोहनः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
विततकुलकलाज्ञा कामिनी भैरवी या
त्रिपुरपुरदहाख्या सर्वलोकस्य माता ।
वितरतु मम नित्यं नाभिपद्मे सकुक्षौ
गणपतिवनिता मां रोगहानिं सुखं च ॥ ४० ॥
मूलम्
विततकुलकलाज्ञा कामिनी भैरवी या
त्रिपुरपुरदहाख्या सर्वलोकस्य माता ।
वितरतु मम नित्यं नाभिपद्मे सकुक्षौ
गणपतिवनिता मां रोगहानिं सुखं च ॥ ४० ॥
विश्वास-प्रस्तुतिः
योगैर्जगन्ति परिमोहयतीव नित्यं
जागर्ति या त्रिपुरभैरवभामिनीति ।
सायं च भावकलिता मम पञ्चभागे
नासाक्षिकर्णरसनात्वचि पातु नित्यम् ॥ ४१ ॥

आद्या तु त्रिपुरेयं या मध्या या कामदायिनी ॥ ४२ ॥
त्रिधा तु ह्यवतां नित्यं देवी त्रिपुरभैरवी ॥ ४३ ॥
विश्वास-प्रस्तुतिः
उदयदिशि सदा मां पातु बाला तु माता
यमदिशि मम मध्याभद्रमुग्रं विदध्यात् ।
वरुणपवनकाष्ठामध्यतो भैरवी मा-
मवतु सकलरक्षां कुर्वती सुन्दरी मे ॥ ४४ ॥

अहामाया महायोनिर्विश्वयोनिः सदैव तु ।
सा पातु त्रिपुरा नित्यं सुन्दरी भैरवी च या ॥ ४५ ॥

ललाटे सुभगा देवी पूर्वस्यां दिशि कामदा ।
नित्यं तिष्ठतु रक्षन्ती सदा त्रिपुरसुन्दरी ॥ ४६ ॥

भ्रुवोर्मध्ये तथाग्नेय्यां दिशि मां त्रिपुरा च या ।
वर्धयन्ती भगगणान् पातु त्रिपुरभैरवी ॥ ४७ ॥

वदने दक्षिणस्यां च दिशि मां भगसर्पिणी ।
त्रिपुरा यमदूतादीन् वारयन्ती सदाऽवतु ॥ ४८ ॥

कर्णयोः पश्चिमायां च दिशि मां भगमालिनी ।
अयोनिजा जगद्योनिर्बाला मां त्रिपुराऽवतु ॥ ४९ ॥

अनङ्गकुसुमाकण्ठे प्रतीच्यां दिशि सुन्दरी ।
त्रिपुराभैरवई माता नित्यं पातु महेश्वरी ॥ ५० ॥

हृदि मारुतकाष्ठायां देवी चानङ्गमेखला ।
नाभावुदीच्यां दिशि मां मातङ्गी त्रिपुरापरा ॥ ५१ ॥

अनङ्गमदना देवी पातु त्रिपुरभैरवी ।
ऐशान्यां दिशि लिङ्गे च मदविभ्रममन्थरा ॥ ५२ ॥

वाग्वादिनी रक्षतु मां सदा त्रिपुरभैरवी ।
गुदमेढान्तरे पातु रतिस्त्रिपुरभैरवी ॥ ५३ ॥

हृदयाभ्यन्तरे प्रीतिः पातु त्रिपुरभैरवी ।
भ्रूनासयोर्मध्यदेशे नित्यं पातु मनोभवः ॥ ५४ ॥

रावणी मां ग्रहत् पातु वाणी मां दुर्गमूर्धनि ।
क्षोभणा मां सदा पातु क्रव्याद्भ्योऽनिष्टभीतितः ॥ ५५ ॥

वशीकरणवाणी मामग्नितः पातु राजतः ।
आकर्षणाह्वया वाणी मां पातु सस्त्रघाततः ॥ ५६ ॥

मोहनः सर्वभूतेभ्यः पिशाचेभ्यो जलात्तथा ।
नित्यं पातु महाबाणस्तन्वानः काममुत्तमम् ॥ ५७ ॥

माला मां शास्त्रबोधाय शास्त्रवादे सदाऽवतु ।
पुस्तकं पातु मनसि सङ्कल्पं वर्धयन् मम ॥ ५८ ॥

वरः पातु सदा धाम्नि हामतेजो विवर्धयन् ।
अभयं ह्यभयं धत्तां सर्वेभ्यो भूतिभावनम् ॥ ५९ ॥

ऊर्ध्वाधोभावभूतस्थितरकरणै रक्तकीर्णा सुचक्रा
कालाग्निप्रख्यरोचिः सकलसुरगणैरर्चिता मुण्डमाला ।
ज्ञानध्यानैकतानप्रबलबलकरं तत्त्वभूतप्रतिष्ठं पातादूर्ध्वं
तथाधः सकलभयभूतो भोगभीरोस्तु विद्या ॥ ६० ॥

अः पातु हृदि मां नित्यं सः शीर्षे पातु नित्यशः ।
रः पातु गुह्यदेशे मां सौः पातु कण्ठपार्श्वयोः ॥ ६१ ॥

रकारो मम नाडीषु शिरः सौः पातु सर्वदा ।
शक्रः पातु सदाकाशे ब्रह्मा रक्षतु सर्वतः ॥ ६२ ॥

विद्या विद्याभाविनी कामरूपा
स्थूला सूक्ष्मा मायया यादिमाया ।
ब्रह्मेन्द्राद्यैरर्चिता भूतिदात्री रक्षां कुर्यात् सर्वतो भैरवी माम् ॥ ६३ ॥

आद्या मध्या भाविनी नीतियुक्ता
सम्यग्ज्ञानज्ञेयरूपापरा या ।
आदावन्ते मध्यभागे च तारा
पायाद् देवी त्रैपुरी भैरवी या ॥ ६४ ॥
मूलम्
आद्या मध्या भाविनी नीतियुक्ता
सम्यग्ज्ञानज्ञेयरूपापरा या ।
आदावन्ते मध्यभागे च तारा
पायाद् देवी त्रैपुरी भैरवी या ॥ ६४ ॥
विश्वास-प्रस्तुतिः
यन्मन्त्रभागतन्त्राणां यन्त्राणामपि केशवः ।
ब्रह्मा रुद्रश्च जानाति तत्वं नान्यो नमोऽस्तु तान् ॥ ६५ ॥

त्वं ब्रह्माणी भवानी विश्वभवितुर्लक्ष्मीरतिर्योगिनी ।
त्वं वाग्मी सुभगा भवायुतयुतं मन्त्राक्षरं निष्कलम् ।
वर्णास्ते निखिला स्तनावचलितस्त्वं कामिनीकामदा
त्वं देवी त्रिपुरे कवित्वममलं सौभाग्यमुच्चैः कुरु ॥ ६६ ॥

इदं तु कवचं देव्या यो जानाति स मन्त्रवित् ।
नाधयो व्याधयस्तस्त न भयं च सदा क्वचित् ॥ ६७ ॥

इति ते परमं गुह्यमाख्यातं कवचं परम् ।
तद्भजस्व महाभाग ततः सिद्धिमवाप्स्यसि ॥ ६८ ॥

इदं पवित्रं परमं पुण्यं कीर्तिविवर्धनम् ।
त्रिपुरायास्त्रिमूर्तेस्तु कवचं मयकोदितम् ॥ ६९ ॥

यः पठेत् प्रातरुत्थाय स प्राप्नोति मनोगतम् ।
लिखितं कवचं यस्तु कण्ठे गह्वाति मन्त्रवित् ॥ ७० ॥

न तस्य गात्रं कृन्तन्ति रणे शस्त्राणि भैरव ।
सङ्ग्रामे शास्त्रवादे च विजयस्तस्य जायते ॥ ७१ ॥

इदं कवचमज्ञात्वा यो जपेत् त्रिपुरां नरः ।
स शस्त्रघातमाप्नोति भैरवीं सुन्दरीमपि ॥ ७२ ॥

बीजमुच्चारयेत् स्वस्थो गतवाग् दोषनिश्चितः ।
संयोगबोधः प्रत्येकभेद-श्रवणगोचरः ॥ ७३ ॥

यथैव जायते अम्यग्यज्ञादिदोषवर्जितः ।
यस्योच्चारणरणकृत्ये तु संयोगो बोधदूषणम् ॥ ७४ ॥

प्रत्येकभिन्नताबोधः स कुष्ठी जायते नरः ।
न्यासानां प्रचुरत्वे तु फलानामपि भूरिता ॥ ७५ ॥

उक्तन्यासो न हि त्याज्यो ह्यधिकं तु समाचरेत् ।
मयोक्तन्यासमज्ञात्वा न कृत्वा वा प्रमादतः ॥ ७६ ॥

यः कुर्यात् पूजनं देव्या आप्नुयात् स महापदम् ।
मन्त्राक्षरस्य विन्यासः सर्वमन्त्रेषु कीर्तितः ॥ ७७ ॥

वैष्णवे चाथवा रौद्रे महाभागेऽथवा पुनः ।
मन्त्रे कलेवरगते महामायाप्रपूजने ॥ ७८ ॥
मूलम्
वैष्णवे चाथवा रौद्रे महाभागेऽथवा पुनः ।
मन्त्रे कलेवरगते महामायाप्रपूजने ॥ ७८ ॥
विश्वास-प्रस्तुतिः
मन्त्रन्यासे न वा कुर्यात् वान्यत्र वाचरेत् ।
अङ्गरागेषु सिन्दूरं पानेषु मदिरा तथा ॥ ७९ ॥

वस्त्रं रक्तं तु कौशेयं त्रिपुराप्रीतिदं मतम् ॥
त्रयो दीपाः प्रदातव्याः पञ्च वा सप्त भैरव ॥ ८० ॥

इतो न्यूनान् न पदद्यात् त्रिपुरायै कदाचन ॥
मल्लिकामालतीकुन्दं वको द्रोणः सिताम्बुजम् ॥ ८१ ॥

शुक्लपुष्पाणि त्रिपुराप्रीतिदानि तु भैरव ।
रक्ताम्बुजं जवा रक्ता करवीरोऽथ कोमलः ॥ ८२ ॥

रक्तं त्रिपुरभैरव्याः प्रीतिदा स्नेहकाञ्चनैः ।
इदं ते कथितं पुत्र सङ्क्षेपादेव भैरव ॥ ८३ ॥

अवाप्य सिद्धिं परमां स्वयं विस्तारयिष्यसि ।
आराध्य त्वं महामायामवाप्य च गणेशताम् ॥ ८४ ॥

कल्पमन्त्रौघमन्त्राणां भविष्यसि वितानक ।
अस्यास्त्रिपुरभैरव्याः शुक्लरूपाणि यानि तु ॥ ८५ ॥

तानि सारस्वताख्यानि मन्त्राः सम्यगुदीरिताः ।
सरस्वती तु या देवी वीणापुस्तकधारिणी ॥ ८६ ॥

स्रक् कमण्डलुहस्ता च दक्षिणे शुक्लपर्णिका ।महाचलस्य पृष्ठस्था
सितपद्मोपरिस्थिता ॥ ८७ ॥

शुक्लवर्णा शुक्लवस्त्रा शुक्लाभरणभूषिता ।
तस्यास्तु वाग्भवाद्याभ्यां नेत्रबीजं द्वितीयकम् ॥ ८८ ॥

कृत्वान्ते विनियोज्यैव मन्त्रं प्राक्प्रतिपादितम् ।
वरदाभयहस्ता च मालापुस्तकधारिणी ॥ ८९ ॥

शुक्लपद्मासनगता सा परा वाग् सरस्वती ।
बालाबीजाद्यक्षरं तु द्विरुक्तं चार्धचन्द्रकम् ॥ ९० ॥

मन्त्रमस्याः पुरा प्रोक्तं तन्त्रं सामान्यमीरितम् ।
एषा तु या रक्तवर्णा मुण्डमालाविभूषिता ॥ ९१ ॥

तस्याः प्रोक्तः पुरा मन्त्रः सा तु वृद्धा सरस्वती ।
षष्ठमन्त्रस्तथैतस्यास्त्रयोदशनिरूपणे ॥ ९२ ॥

एषा कवित्वशास्त्रौघ-तत्त्ववादविनिश्चये ।
सुखसम्प्त्करा प्रोक्ता नित्यमेव तु भैरव ॥ ९३ ॥

अस्या व्यस्तसमस्तैश्च शुक्रक्तादिभेदतः ।
चतुःषष्टिमूर्तयश्च त्रैपुरादुत वाग्भवम् ॥ ९४ ॥

महामाया योगनिद्रा मूलभूता जगत्प्रसूः ।
जगन्माता जगद्धात्री विद्याविद्यापरात्मिका ॥ ९५ ॥

तस्या एव महाभाग त्रिपुराद्या विभूतयः ।
प्रस्तुताः कथिता नित्यं ताः स्वयङ्गत एव हि ॥ ९६ ॥

इति ते कथितं पुत्र महादेव्या मनोहरम् ।
रहस्यं वामदाक्षिण्यं मन्त्रसिद्धिं शृणुष्व मे ॥ ९७ ॥

इति श्रीकालिकापुराणे त्रिपुराकवचं नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥