चतुःसप्ततितमोऽध्यायः
श्रीभगवानुवाच -
विश्वास-प्रस्तुतिः
या योनिमुद्रा कथिता मुद्राविभजने पुरा ।
अष्टधा योनिमुद्रा स्यात् प्रथमा सा तु कीर्तिता ॥ १ ॥
मूलम्

द्वितीया खेचरी मुद्रा कामाख्यायास्तु भैरव ।
तां विद्धि चाद्भुतं गुह्यं येन तुष्यति चण्डिका ॥ २ ॥

अनामिकां दक्षिणस्य तर्जन्यां वामतो न्यसेत् ।
वामानामां दक्षिणस्य तर्जन्यां विनिवेशयेत् ॥ ३ ॥

ते द्वे तथा तर्जनीभ्यां वेष्टयेदग्रतोऽग्रतः ।
मध्ये द्वयं तु विन्यस्य चोर्ध्वभागे त्वनामयोः ॥ ४ ॥

तदग्राग्रेण संयोगात् तथैव च कनिष्ठिके ।
अग्रेणैव च संयुक्ते तन्मूलेऽङ्गुष्ठके न्यसेत् ॥ ५ ॥

इयं ते खेचरी योनिर्योनिमुद्रा तु कामदा ।
एषैवाधः कनिष्ठे द्वे नियोज्य यदि युज्यते ॥ ६ ॥

उह्ययोनिस्तु सा ख्याता कामेश्वर्यास्तु तुष्टिदा ।
संवेष्ट्य पूर्ववत् पाण्योर्द्वे कनिष्ठे त्वनामिके ॥ ७ ॥

अधोभागे नियोज्याथ मध्यमे चोर्ध्वतस्तथा ।
तासां परस्परश्चाग्रैरन्योऽन्यं योजयेद् यदि ॥ ८ ॥

मध्यां मध्ये तथाङ्गुष्ठे निःक्षिप्याग्रे नियोजयेत् ।
ओनिस्त्रिशाङ्करी प्रोक्ता त्रिपुरा तुष्टिदा सदा ॥ ९ ॥

मध्ये द्वे च तथा वेष्ट्या पूर्ववच्चाप्यनामिका ।
कनिष्ठाभ्यां पुरो न्यस्य अङ्गुष्ठौ मूलयोस्तयोः ॥ १० ॥

मुद्रेयं शारदी प्रोक्ता शारदायास्तु तुष्टिदा ।
मूलयोनिस्तु कथिता वैष्णवीतन्त्रगोचरे ॥ ११ ॥

तर्जन्यनामिकं मध्ये कनिष्ठेऽपि क्रमादपि ।
करयोर्योजयित्वैव कनिष्ठामूलदेशतः ॥ १२ ॥

अङ्गुष्ठाग्रं तु निःक्षिप्य महायोनिः प्रकीर्तिता ।
अङ्गुष्ठौ चाथ संवेष्ठ्य संयुज्याथ कराङ्गुलीः ॥ १३ ॥

अग्रभागैर्मध्यशून्यं तत्र कुर्यात् करद्वयम् ।
इयं तु योगिनीयोनिर्योगिनीनां प्रियङ्करी ॥ १४ ॥

एता अष्टौ समाख्याता योन्यः कामेश्वरीप्रियाः ।
मूर्तिभेदेन चान्येषां देवानामपि तुष्टिदाः ॥ १५ ॥

यात्रायां युद्धविषये वाग्वादे कलहे तथा ।
अष्टौ योन्यः स्मरेद् यस्तु जयस्तस्य सनातनः ॥ १६ ॥

विसर्जने पूजने च स्मरणे कर्मभेदतः ।
एता योन्यः समाख्याताश्चण्डिकापूजनेषु च ॥ १७ ॥

एतास्तु कथिता योन्यः क्रमात् क्रमविसर्जने ।
रहस्य वामदाक्षिण्यं मन्त्रशुद्धिं शृणुष्व मे ॥ १८ ॥

मन्त्रेण क्रियते यत् तु शारीरं मन्त्रमुत्तमम् ।
तद्रहस्यमिति प्राहुर्मन्त्रेषु मन्त्रकोविदाः ॥ १९ ॥

कामाख्यायास्तु षट्कोणं मण्डलस्य दलान्तरे ।
त्रिधा लिखेन्मूलमन्त्रमूर्ध्वं त्रिष्वपि सन्धिषु ॥ २० ॥

अधस्त्रिसन्धिषु पुनर्विधिं शक्रं हरं तथा ।
सहितं मदनेनैव लिखेद् भूर्जत्वचि त्रिधा ॥ २१ ॥

अन्तुमादाय साहस्रं दक्षिणेन करेण वै ।
मालामपि समादाय सञ्जपेदुत्तरामुखः ॥ २२ ॥
मूलम्
अन्तुमादाय साहस्रं दक्षिणेन करेण वै ।
मालामपि समादाय सञ्जपेदुत्तरामुखः ॥ २२ ॥
विश्वास-प्रस्तुतिः
अद्भुजे दक्षिणे धार्यं बाहौ वा साधकोत्तमैः ।
जपान्ते लिखितं यन्त्रं तेन सर्वजयी भवेत् ॥ २३ ॥

दीर्घायुः सर्ववशकृद्घनधान्यसमृद्धिमान् ।
मृतो देवीगृहे याति यन्त्रयन्त्रितबुद्धिमान् ॥ २४ ॥

षट्कोणानन्तरकृतं वेष्टिताष्टकलेष्वथ ।
लिखित्वा भूर्जपत्रेषु विलीनैर्यावकोदकैः ॥ २५ ॥

उत्तरादिक्रमेणैव वैष्णवीतन्त्रसङ्गतान् ।
अष्टौ वर्णान्मध्यभागे पूर्ववत् कामराजकम् ॥ २६ ॥

त्रीन् वर्णान् नेत्रबीजस्य त्रिकोणस्याग्रतो लिखेत् ।
एवं त्रिधाकृतं यन्त्रं कृत्वा वामकरे स्थितः ॥ २७ ॥

जपेत् त्रीणि सहस्राणि मालामादाय दक्षिणे ।
जपान्ते वैष्णवीरूपध्यानं कुर्यादतन्द्रितः ॥ २८ ॥

प्राणायामसहस्रं तु ततस्तं लिखितोत्तमम् ।
ग्रीवायां धारयेद् यन्त्रं तेन सर्वजयी भवेत् ॥ २९ ॥

राजपुत्रो भवेद्राजा तदन्यः सचिवो भवेत् ।
द्विजराजो भवेद् विद्वान् कविर्वाग्मी च वा भवेत् ॥ ३० ॥

राक्षसेभ्यः पिशाचेभ्यो भूतेभ्यश्चापि चान्यतः ।
साधु संविद्यते तस्य न कदाचित् पराजयः ॥ ३१ ॥

दीर्घायुर्बलवान् प्राज्ञो मृते मोक्षमवाप्नुयात् ।
सम्पूर्णं मण्डलं कृत्वा अष्टपत्रसमन्वितम् ॥ ३२ ॥

भूर्जत्वचि श्रीफलस्य निर्यासैस्तस्य मध्यतः ।
षट्कोणं विलिखेत् तस्य प्रागग्रेष्वथ त्रिष्वपि ॥ ३३ ॥

विलिखेत् त्रिपुरावर्णानधो बीजं तु नेत्रकम् ।
दलेष्वष्टासु तु पुनर्वैष्णवीतन्त्रसङ्गतान् ॥ ३४ ॥

अष्टौ वर्णास्तु विलिखेत् तथा द्वार्षु चतुर्ष्वपि ।
षट्कोणेषूत्तराकोणक्रमेणैकाग्रमानसः ॥ ३५ ॥

तद्धृत्वा दक्षिणकरे वैष्णवीतन्त्रमन्त्रकम् ।
जपेत् त्रिर्भिर्दिनैरेवायुतं संयतमानसः ॥ ३६ ॥

प्राणायामसहस्राणि त्रीणि कृत्वा तु हर्षितः ।
सन्ध्याकाले नवम्यां तु शीर्षेण धारयेद् बुधः ॥ ३७ ॥

शतायुः सर्वदमनो मतिमान् पण्डितोत्तमः ।
बलवीर्यधनैश्वर्ययुक्तः पार्थिव एव वा ॥ ३८ ॥

प्रत्यक्षतो महामायां कामाख्यां त्रिपुरामपि ।
नित्यं पश्यति मेधावी महोच्छवासां च शारदाम् ॥ ३९ ॥

सिंहव्याघ्रौ भुजङ्गो वा येऽन्ये वा तस्य हिंसकाः ।
सर्वे तस्य तनुं प्राप्य विषीदन्ति न संशयः ॥ ४० ॥

जयहेतुरतोऽन्यस्मात् सङ्ग्रामे शास्त्रवादतः ।
न विद्यते त्रिभुवने तस्मात् कुर्यात् तु यन्त्रकम् ॥ ४१ ॥

अन्ते देवीगृहं प्राप्य ततो मोक्षमवाप्नुयात् ।
महामाया शारदाख्या कामाख्या त्रिपुरा तथा ॥ ४२ ॥

महोत्साहा तथैतेषां मन्त्राणां यो गणो भवेत् ।
मण्डलं चाष्टदलकं तन्मध्ये विलिखेत् पुनः ॥ ४३ ॥

लिखित्वा पूर्ववत् पूर्वं प्रोक्तं मन्त्रगणं समम् ।
अन्यद्वयं द्वारदेशे ओष्ठेष्वक्षरतो लिखेत् ॥ ४४ ॥

शुक्लकौशैयवस्त्रेषु रसैर्वह्निशिखस्य तु ।
उत्तरीयं तु तद्वस्त्रं कृत्वा जप्यं समाचरेत् ॥ ४५ ॥

कृतोपवासः शुद्धश्च मातृकान्यासपूर्वकम् ।
पञ्चानामपि वर्गाणां सहस्राणि तु पञ्च वै ॥ ४६ ॥

दिवसैः पञ्चभिर्जप्त्वा तदन्ते च समाचरेत् ।
प्राणायामसहस्राणि पञ्च वै पञ्चभिर्दिनैः ॥ ४७ ॥

अन्ते तु कवचन्यासं कात्यायन्याः समाचरेत् ।
ततस्तु मातृकामन्त्रैः श्वासरोधनपूर्वकम् ॥ ४८ ॥

त्रिः पिबेत् कपिलाक्षीरं जागृवांश्च तदा निशि ।
एवं यः कुरुते यन्त्रं शरीरे शुक्लवाससा ॥ ४९ ॥

सोऽत्र सिद्धिमवाप्नोति देवीलोकं च गच्छति ।
य उत्तरीयं बिभृयाद् वस्त्रं मन्त्रेण मन्त्रितम् ॥ ५० ॥

नित्यमेव महाभाग प्रभावं तस्य वै शृणु ।
न तस्य देहे शस्त्राणि प्रवेक्ष्यन्ति कदाचन ॥ ५१ ॥

नाग्निर्दहति तत्कायं नापः सङ्क्लेदयन्ति च ।
राक्षसाश्च पिशाचाश्च भूताद्या ये तु हिंसकाः ॥ ५२ ॥

ते तं दृष्ट्वा महाभागं भुवं गच्छन्ति वै भिया ।
गच्छेदवारितः सोऽपि सर्वत्र साधकोत्तमः ॥ ५३ ॥

वशीकरोति देवांश्च नृपानन्यांश्च योषितः ।
उत्सहेद् यदि मेधावी वाग्मी राजा च वै भवेत् ॥ ५४ ॥

चिरजीवी महाभागो धनधान्यसमृद्धिमान् ।
कविः प्रज्ञासमायुक्तः सोऽभेद्यो जायतेऽरिभिः ॥ ५५ ॥

यस्मिन् पुरे स निवसेद् वज्रपातो न तत्र वै ।
रसः शरीरं शस्त्राणि दृढहस्तोज्झितान्यपि ॥ ५६ ॥

एतं न घ्नन्ति सततं जयः सर्वत्र भैरव ।
अपराध्यन्ति सततं तस्य सर्वत्र भैरव ॥ ५७ ॥

नाधयो व्याधयस्तस्य जायन्ते तु कदाचन ।
देवीपुत्रः स मतिमान् मृतो मोक्षमवाप्नुयात् ॥ ५८ ॥

यन्त्रता स्वामिना यन्त्रं या दधाति पतिव्रता ।
पुत्रैश्वर्यमवाप्नोति दीर्घायुः सा वधुर्भवेत् ॥ ५९ ॥

प्रत्येकमेकं संहत्यावर्धनासहितेन च ।
क्रमाद् विंशतियन्त्राणि कथितानि मयेह वै ॥ ६० ॥

तानि प्रत्येकतो बुद्ध्वा यो न्यसेत् सर्वदा हृदि ।
लिखित्वा सर्वयन्त्राणि बिभृयाद्योऽथ वा गले ॥ ६१ ॥

देवेन्द्रो जायते सोऽत्र प्रभावेणेह भूतले ।
पूर्वोक्तानि समस्तानि फलान्याप्नोति तत्क्षणात् ।
पिहितः सर्वलोकांस्त्रीन्नित्यमेव प्रपश्यति ॥ ६२ ॥

एवं सार्धं यन्त्रवर्गैः समस्तै-
रष्टाभिर्यत् पूर्वमुक्तं सहस्रम् ।
शुक्ले वस्त्रे संलिखित्वा स्वदेहे
धृत्वा नित्य प्राप्नुयाद् वै समस्तम् ॥ ६३ ॥

यः क्षत्रजाहिर्हृदये स कुर्यात्
सङ्ग्रामकाले कवचेष्टधाम्नि ।
मन्त्राक्षराण्यादिकृतानि देव्या
अष्टौ बहिर्गात्रविशेषतश्च ॥ ६४ ॥
मूलम्
यः क्षत्रजाहिर्हृदये स कुर्यात्
सङ्ग्रामकाले कवचेष्टधाम्नि ।
मन्त्राक्षराण्यादिकृतानि देव्या
अष्टौ बहिर्गात्रविशेषतश्च ॥ ६४ ॥
विश्वास-प्रस्तुतिः
गले हरि वक्षसि वै लिखेद् विधिं
स्तनद्वये पुत्रयुतं महेश्वरम्
बाह्वङ्गसन्ध्योश्च हरं च वैष्णवीं
बाह्वोस्तु लक्ष्मीं च सरस्वतीं च ॥ ६५ ॥
मूलम्
गले हरि वक्षसि वै लिखेद् विधिं
स्तनद्वये पुत्रयुतं महेश्वरम्
बाह्वङ्गसन्ध्योश्च हरं च वैष्णवीं
बाह्वोस्तु लक्ष्मीं च सरस्वतीं च ॥ ६५ ॥
एवं रणाष्टाङ्गमिदं विधाय
गात्रे सवर्मण्यनुचिन्तयेच्छिवाम् ।
विश्वास-प्रस्तुतिः
लिखेल्ललाटे तिलकान्तरे नरः
समस्तमन्त्रक्षरयन्त्रमुत्तमम् ॥ ६६ ॥
मूलम्
लिखेल्ललाटे तिलकान्तरे नरः
समस्तमन्त्रक्षरयन्त्रमुत्तमम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
ततो जपेदष्टधा तु पाणिं दत्त्वाष्टधामसु च ।
वैष्णवीतन्त्रमन्त्रं तु ततो गच्छेद्रणाजिरम् ॥ ६७ ॥

स तु वीरो मम समः सङ्ग्रामेषु च जायते ।
तृणानीव परास्त्राणि जायन्तेऽग्नौ तथात्मनि ॥ ६८ ॥

विनिःसरन्ति रिपवो याचका धनिनि धनम् ।
सिंहाग्र्यान्नरशार्दूलो वीर्यवान् बलवान् भवेत् ॥ ६९ ॥

इदं रहस्यं कथितं कामाख्यायास्तु भैरव ।
वैष्णवव्यास्तन्त्रमुख्येषु त्रिपुरायास्ततः शृणु ॥ ७० ॥

तस्यास्तु सर्वमन्त्राणि त्रयोदशयुतानि वै ।
विंशतिं तु सहस्राणां तत्राद्यं वाग्भवं स्मृतम् ॥ ७१ ॥

द्वितीयं कामराजाख्यं मोहनं च तृतीयकम् ।
आम्रेडितं वाग्भवं तु चतुर्थं परिकीर्तितम् ॥ ७२ ॥

नेत्रबीजं द्वितीयं तु द्विरुक्तं वाग्भवं तथा ।
आद्यं तत्पञ्चमं प्रोक्तं चतुर्भिरपि चाक्षरैः ॥ ७३ ॥

नेत्रबीजं द्वितीयं तु प्रथमं परिकीर्तितम् ।
द्वितीयं कामबीजं तु तृतीयं वाग्भवं तथा ॥ ७४ ॥

एभिस्त्रिभिस्तु यन्मन्त्रं तत् षष्ठं परिकीर्तितम् ।
नेत्रबीजं द्वितीयं तु वाग्भवं तेन सप्तमम् ॥ ७५ ॥

तदेवं वाग्भवाद्यं तु अष्टमं परिकीर्तितम् ।
वाग्भवं कामबीजं तु नेत्राभ्यां नवमं स्मृतम् ॥ ७६ ॥

कामबीजं तथैवाद्यं दशमं चैव मोहनम् ।
एकादशमिदं प्रोक्तं डामराद्यं तु वाग्भवम् ॥ ७७ ॥

द्वादशं कीर्तितं मन्त्रं शेषतस्त्रैपुरं महः ।
तन्महस्त्रैपुरं मन्त्रं शृणुष्वैकमनास्त्विदम् ॥ ७८ ॥

प्रान्तादिस्तस्य चाप्यादिर्वह्निर्वाग्भवसन्धितः ।
आद्यं त्रिपुरभैरव्या बीजमाद्यं प्रकीर्तितम् ॥ ७९ ॥

उपान्तश्च तदादिश्च वह्निशेषस्वरस्तथा ।
चतुर्थस्वरबिन्द्विन्दुयुताश्चैतत् द्वितीयकम् ॥ ८० ॥

समाप्तिर्बिन्दुसहिता सहितस्तु तृतीयकः ॥ ८१ ॥

एतत् तत्त्वं विजानाति यो नरो भुवि भूमणिः ।
सिद्धविद्याधरेभ्यस्तु सोऽधिकस्तत्समो भवेत् ॥ ८२ ॥

एते त्रयोदश प्रोक्ता मन्त्रा मन्त्रेषु चोज्ज्वलाः ।
विंशतेस्तु सहस्रेभ्यः पराश्चैते प्रकीर्तिताः ॥ ८३ ॥

विंशतेस्तु सहस्राणामाद्यमेतत् प्रकीर्तितम् ।
त्रिपुरायास्तु बालाया मन्त्रं तच्छृणु भैरव ॥ ८४ ॥

वाग्भवं कामराजस्तु उपान्तादिः सबिन्दुकः ।
शेषस्वरसमाप्तिभ्यां मन्त्रमेतत् प्रकीर्तितम् ॥ ८५ ॥

एषा तु त्रिपुरा बाला मध्या प्रोक्ता पुरैव हि ।
शेषा तेजस्विनी प्रोक्ता येयं त्रिपुरभैरवी ॥ ८६ ॥

मध्यायाः पूजनं प्रोक्तं बालायाः शृणु साम्प्रतम् ।
तथा त्रिपुरभैरव्याः सर्वसिद्धिप्रदायकम् ॥ ८७ ॥

विभिद्य शक्त्या शम्भुं तु शक्तिं चापि विभेदयेत् ।
शम्भवे वर्णषट्कोणं केशरं तत्र संलिखेत् ॥ ८८ ॥

मध्यायास्त्रिपुरायास्तु यादृशे द्वारमण्डले ।
तादृशेऽत्रापि कर्तव्यं कोणेषु लिखितं तथा ॥ ८९ ॥

पापोत्सारणकर्माणि भूम्यादीनां विशोधनम् ।
पूर्वमुत्तरतन्त्रोक्तं त्रिपुरापीठभाषितम् ॥ ९० ॥

कामाख्यापूजने प्रोक्तं सर्वं कुर्यात् तु साधकः ।
दहनप्लवनादीनि प्रतिपत्तिं च पात्रके ॥ ९१ ॥

सर्वं तु पूर्ववत् कार्यं कामाखयापूजने यथा ।
कृत्वाऽत्र देहन्यासं तु मन्त्रवर्णैस्तथाक्षरैः ॥ ९२ ॥

सर्वैः स्वरैस्तथा काद्यैस्ततो रूपं विचिन्तयेत् ।
चतुर्भुजां रक्तवर्णां रक्तवस्त्रविभूषिताम् ॥ ९३ ॥

दक्षिणोर्ध्वे स्रजं चाधो बिभ्रतीं पुस्तकोत्तमम् ।
अभयं वामहस्ताभ्यां वरं च दधतीं तथा ॥ ९४ ॥

सहस्रसूर्यसङ्काशां त्रिनेत्रां जगगामिनीम् ।
पीनतुङ्गस्तनयुगां सितप्रेतासनस्थिताम् ॥ ९५ ॥

स्मितप्रसन्नवदनां सर्वालङ्कारसंयुताम् ।
तिसृभिर्मुण्डमालाभिः शिरोवक्षःकटीषु च ॥ ९६ ॥

त्रिगुणां त्रिगुणीभूतैः प्रत्येकं परिभूषिताम् ।
मदिराघूर्णनयनां रक्तदन्तच्छदद्वयाम् ॥ ९७ ॥

चिन्तयेद् वरदां देवीमेवं त्रिपुरभैरवीम् ।
बालायास्त्रिपुरायस्तु रूपं पूर्वं प्रपूजने ॥ ९८ ॥

उक्तः क्रमः पीठयोगे तन्त्रादि शृणु भैरव ।
पुष्पबाणांस्तु पाशं च धत्ते पौष्पं शरासनम् ॥ ९९ ॥

पाशं च कुणपारूढा सा बाला त्रिपुरा स्मृता ।
मन्मथे त्रिपुरे देवीं विद्महे पदमादितः ॥ १०० ॥

कामेश्वरीं धीमहि त्वां तन्नः क्लिन्ने प्रचोदयात् ।
एषा त्रिपुरगायत्रीत्यावाहनविशेषतः ॥ १०१ ॥

स्नानाद्यैः पूजयेत् सम्यग् बालामन्यां च भैरवीम् ।
अस्याः क्रमे विशेषो यो न्यासे चोत्तरकर्मणि ॥ १०२ ॥

तत्सर्वं सह मन्त्रौघैः शृणु वेताल भैरव ।
ब्राह्मे मुहूर्ते उत्थाय चिन्तयेत् परमं गुरुम् ॥ १०३ ॥

ततोऽनु स्वगुरुं शुद्धं ततस्त्रिपुरभैरवीम् ।
चतुर्भुजां शुक्लवर्णां वरदाभयपुस्तकाम् ॥ १०४ ॥

अक्षमालां च क्रमतो धत्ते वामे च दक्षिणे ।
सुवर्णरत्नखचिते संस्थितां प्रवरासने ॥ १०५ ॥

सौवर्णमुत्तरीयं तु धत्ते सौवर्णकुण्डले ।
स्वगुरुं वर्णतो ध्यानात् तथैव परिचिन्तयेत् ॥ १०६ ॥

भैरवीं चिन्तयित्वा तु तत उत्थाय चाचरेत् ।
मैत्रमाचमनं चैव दन्तानां शोधनं तथा ॥ १०७ ॥

प्रातःस्नानं ततः कुर्यात् त्रैपुरं योजयन् क्रमम् ।
सर्वत्र देवीमन्त्रेषु वैदिकेष्वपि भैरवीम् ॥ १०८ ॥

त्रिपुरां चिन्तयेन्नित्यं देवमन्त्रेषु च क्रमात् ।
त्रिभिस्तु त्रिपुराबीजैस्त्रिधा मज्जनमाचरेत् ॥ १०९ ॥

देवानामपि सर्वेषु भैरवेषु अदं सदा ।
कुर्याद् विशेषणं नित्यं नोच्चार्यं निर्विशेषणम् ॥ ११० ॥

अपः पुनन्तु पृथिवीमुक्त्वा त्रिपुरभैरवीम् ।
कुर्यादाचमनं विप्रो द्रुपदायां तथाचरेत् ॥ १११ ॥

इदं विष्णुर्भैरवस्तु विचक्रम इतीरितम् ।
मृदालम्भनकृत्येषु नित्यमेवाप्युदीरयेत् ॥ ११२ ॥

गायत्रीं त्रिपुराद्यां तु भैरवीमाह्वयेच्छिवाम् ।
मार्तण्डभैरवायेति सूर्यायार्घ्यं निवेदयेत् ॥ ११३ ॥

उदुत्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यं शेषे भैरवमीरयेत् ॥ ११४ ॥

तर्पणादौ प्रयुञ्जीत तृप्यतां ब्रह्मभैरवः ।
आवाहने स्वयं पितृन् भैरवानिति कीर्तयेत् ॥ ११५ ॥

तृप्यतां भैरवीमातः पितर्भैरव तृप्यताम् ।
आदौ च त्रिपुरापूर्वं तर्पणेऽपि प्रयोजयेत् ॥ ११६ ॥

ज्योतिष्टोमाश्वमेधादौ यत्र यं यं प्रपूजयेत् ।
तत्र भैरवरूपेण देवीमपि च भैरवीम् ॥ ११७ ॥

मदिरापात्रमालोक्य रक्तवस्त्रां स्त्रियं तथा ।
शिरो नरस्य दृष्ट्वा तु भैरवीं चिन्तयेद् द्विजः ॥ ११८ ॥

स्त्रियो दृष्ट्वा ह्यथैकत्र युवतीः सुमनोहराः ।
ताभ्यस्त्रिपुरभैरव्याः प्रीतये वन्दनादिकम् ॥ ११९ ॥

दद्याद् भक्त्या तु मनसा चिन्तयन्नथ भैरवीम् ।
भैरवीं प्रतिगृह्णामि भैरवोऽहं प्रतिग्रही ॥ १२० ॥

कन्यायां भावयेद् धीमांस्त्रिपुरायाः प्रपूजकः ।
भैरवाय ददाम्यद्य देवीं त्रिपुरभैरवीम् ॥ १२१ ॥

इतीरयेत् प्रदाने तु कन्यायास्त्रिपुरां ततः ।
तस्याः पूजोपकरणपात्रादि नान्यपूजने ॥ १२२ ॥

आसवाद्यं च सततं नोपयोज्यं कदाचन ।
सकृत् तु दापयेदन्यैर्मदिरां साधको द्विजः ॥ १२३ ॥

शूद्रादयस्तु सततं ददयुरासवमुत्तमम् ।
एवं तु वामभावेन यजेत् त्रिपुरभैरवीम् ॥ १२४ ॥

बालां तु वामदाक्षिण्यमार्गाभ्यामपि पूजयेत् ।
श्मशानभैरवीं देवीमुग्रतारां तथैव च ॥ १२५ ॥

उच्छिष्टभैरवीं चण्डीं तथा त्रिपुरभैरवीम् ।
एतास्तु वामभावेन पूज्या दक्षिणतां विना ॥ १२६ ॥

ऋषीन् देवान् पितृश्चैव मनुष्यान् भुतसञ्चयान् ।
यजेत् पञ्चभिर्यज्ञैर्-ऋणानि परिशोधयेत् ॥ १२७ ॥

विधिवत् स्नानदानाभ्यां कुर्वन् यद्विधिपूजनम् ।
क्रियते सरहस्यं तु तद्द्दाक्षिण्यमिहोच्यते ॥ १२८ ॥

सर्वे च पितृदेवादौ यस्माद् भवति दक्षिणः ।
देवी च दक्षिणा यस्मात् तस्माद् दक्षिण उच्यते ॥ १२९ ॥

या पुनः पूज्यमाना तु देवादीनां च पूर्वतः ।
यज्ञभागं स्वयं धत्ते सावामा तु प्रकीर्तिता ॥ १३० ॥

पूजकोऽपि भवेद् वामस्तत्रैव सततं सुत ।
पञ्चयज्ञान् न वा कुर्याद् यद् वा वाम्यप्रपूजने ॥ १३१ ॥

अन्यस्य पूजाभागं हि यतो गृह्णाति वापिका ।
यत्पूजयेद्वामभावैर्न तत् स्यादृणशोधनम् ॥ १३२ ॥

पितृदेवनरादीनां जायते च कदाचन ।
सोऽभ्यस्य त्रिपुरायोगं तेन योगेन संयुतः ॥ १३३ ॥

जायते यदि सुप्राज्ञस्तदा मोक्षमवाप्नुयात् ।
स च मोक्षश्चिरेणैव जायतेऽत्र पुनः पुनः ॥ १३४ ॥

ऋणाशोधनजैः पापैराक्रान्तश्चैव भैरव ।
इह लोके सुखश्वैर्ययुक्तः सर्वत्र वल्लभः ॥ १३५ ॥

मदनोपमकान्तेन शरीरेण विराजता ।
सराष्ट्रकं च राजानं वशीकृत्य समन्ततः ॥ १३६ ॥

मोहयन् वनिताः सर्वाः सर्वाश्च मदविह्वलाः ।
सिंहान् व्याघ्रान् स्तरक्षूंश्च भूतप्रेतपिशाचकान् ॥ १३७ ॥

वशीकुर्वन् विचरति वायुवेगोद्यतस्ततः ।
बालां वा त्रिपुरां देवीं मध्यां वाप्यथ भैरवीम् ॥ १३८ ॥

यो यजेत् परया भक्त्या यश्च बाणोपमाकृतिः ।
कामेश्वरीं तु कामाख्यां पूजयेत् तु यथेच्छया ॥ १३९ ॥

दाक्षिण्याद् वामभावाद् वा सर्वथा सिद्धिमाप्नुयात् ।
महामायां शारदां च शैलपुत्रीं तथैव च ॥ १४० ॥

यथा तथा प्रकारेण दाक्षिण्यादेव पूजयेत् ।
यो दाक्षिण्यं विना भावं महामायां समर्चति ॥ १४१ ॥

स पापः स्वर्गलोकेभ्यश्च्युतो भवति रोगधृक् ।
अन्यास्तु शिवदूत्याद्या देव्यो याः पूर्वमीरिताः ॥ १४२ ॥

तास्तु वां पान्तु दाक्षिण्यात् पूजितव्यास्तु साधकैः ।
किन्तु यः पूजको वामः सोऽन्यासां परिवर्जितः ॥ १४३ ॥

सर्वासां पूजकः स्यात् तु दक्षिणस्तेन उत्तमः ।
अथ त्रिपुरभैरव्या न्यासं च शृणु भैरव ॥ १४४ ॥

येन वै न्यासमात्रेण देववज्जायते नरः ।
भैरवीतन्त्रमन्त्रस्य ऋषिर्दक्षिण उच्यते ॥ १४५ ॥

छन्दः पङ्क्तिः समाख्याता देवी त्रिपुरभैरवी ।
कामार्थयोः साधने च विनियोगः प्रकीर्तितः ॥ १४६ ॥

हकारं विन्यसेन्नाभौ सकारं वस्तितो न्यसेत् ।
वकारं शेफे विन्यस्य एकारं च गुदे तथा ॥ १४७ ॥

पुनरूर्वोस्तथैवाद्यं जानुयुग्मे द्वितीयकम् ।
तृतीयं जङ्घयोर्न्यस्य चतुर्थ पादयोर्न्यसेत् ॥ १४८ ॥

त्रिविधं विन्यसेद् देवं नाभ्यादेः पादसङ्गतम् ।
द्वितीयस्य तु बीजस्य आद्यं ह्यद्येव विन्यसेत् ॥ १४९ ॥

वामे स्तने द्वितीयं तु तृतीयं दक्षिण स्तने ।
चतुर्थमुदरे न्यस्य पञ्चमं पार्श्वयोर्न्यसेत् ॥ १५० ॥

षष्ठं नाभौ परिन्यस्य न्यसेचापि त्रिधा त्रिधा ।
तृतीयस्य तु बीजस्य मूर्ध्नि चाद्यं तु विन्यसेत् ॥ १५१ ॥

द्वितीयं न्यस्य केशान्ते तृतीयं वदने न्यसेत् ।
चतुर्थं हृदये न्यस्य यथा स्यात् तु त्रिधा त्रिधा ॥ १५२ ॥

आद्याद्यं दक्षिणाङ्गुष्ठे द्वितीयं तर्जनीं पुनः ।
तृतीयं च मध्यमायामनामायां चतुर्थकम् ॥ १५३ ॥

द्वितीयाद्यं कनिष्ठायां वामाङ्गुष्ठे द्वितीयकम् ।
तृतीयं वामतर्जन्यां चतुर्थं मध्यमातनौ ॥ १५४ ॥

अनामायां पञ्चमं तु षष्ठं शेषे तु विन्यसेत् ।
एवं त्रिधा तु विन्यस्य द्वितीयमथ बीजकम् ॥ १५५ ॥

उभयोर्हस्तयोः कृत्वा अङ्गुष्ठाद्यं युगं युगम् ।
तृतीयं बीजवर्णांस्तु विन्यसेत् क्रमतो बुधः ॥ १५६ ॥

पिण्डितं सर्वबीजं तु विन्यसेत् तु कनिष्ठयोः ।
आद्य तु तलयोर्न्यस्य पृष्ठयोश्च द्वितीयकम् ॥ १५७ ॥

तालत्रयं ततो दत्त्वा तृतीयेन तु वेष्टनम् ।
कर्णयोश्चिबुके गण्डे मुखे दृङासयोस्तथा ॥ १५८ ॥

स्कन्धयोश्च कफोणौ च जठरे शिश्नमूर्धनि ।
पादयोः पार्श्वयोश्चैव हृदये स्तनयुग्मके ॥ १५९ ॥

कण्ठदेशे च न्यस्तव्या मन्त्रवर्णक्रमात् पुनः ।
लिङ्गे रत्यै नम इति वाग्भवाद्येन विन्यसेत् ॥ १६० ॥

ॐ क्लीं प्रीत्यै नम इति हृदये विन्यसेत् ततः ।
मनोभवायेति ततो भ्रुवोर्मध्ये तृतीयकम् ॥ १६१ ॥

विन्यसेत् त्रिपुराबीजं सद्यो देवत्वसिद्धये ।
ॐ ईम् ईशानरूपाय ततो मनोभवाय वै ॥ १६२ ॥
विश्वास-प्रस्तुतिः
नम इत्यन्ततः प्रोक्तो मूर्ध्नीशानं न्यसेत् पुनः ।
वक्त्रे तत्पुरुषं चापि बीजेन मकरध्वजम् ॥ १६३ ॥

हृदये घोरकन्दर्पमाद्यबीजेन वै न्यसेत् ।
शिश्ने वा वामदेवं तु मन्मथं चापि विन्यसेत् ॥ १६४ ॥

सद्योजातं पादद्वये कामदेवं च विन्यसेत् ।
ओकारं च हकारं च रेफमेकत्र सन्धितम् ॥ १६५ ॥

प्रान्तस्वरं वाग्भवाद्यं स्वरैर्ह्रस्वैस्तु पञ्चभिः ।
एभिस्तु पञ्चभिर्मन्त्रैरीशनादीनि विन्यसेत् ॥ १६६ ॥

वक्त्राणि पूर्वमुक्तानि स्वमुखोर्ध्वे तु पूर्वतः ।
दक्षिणोत्तरयोः पश्चात् पश्चिमे चापि विन्यसेत् ॥ १६७ ॥

हृदयादिषडङ्गानि दीर्घैराद्यस्वरैः पुनः ।
न्यसेत् ततः पञ्चबाणान् मूर्धादिष्वथ विन्यसेत् ॥ १६८ ॥

ॐ ह्रीं क्लीं सौं द्रावणाय न्यसेन्मूर्ध्नि ततः पुनः ।
ॐ ह्रीं क्षोभणबाणाय पद्भ्यां नम इतीरयेत् ॥ १६९ ॥

ॐ क्लीं क्लीं ह्रीं समाप्यन्तु षट्कारान्तार्धचन्द्रकैः ।
वक्त्रे वशीकृतं लिङ्गे सम्मोहनमथो न्यसेत् ॥ १७० ॥

आकर्षणं तथा बाणं हृदि मन्त्रैः क्रमान्न्यसेत् ।
वाग्भवाद्यन्तकारान्तो वषट्कारसमन्वितः ॥ १७१ ॥

त्रिःशेषस्वर एवात्र चन्द्रार्धो बिन्दुसंयुतः ।
एभिस्तु पञ्चभिर्मन्त्रैरष्टशक्तीः क्रादिमाः ॥ १७२ ॥

एतेषु चाष्टस्थानेषु विन्यसेन्मन्त्रवित् पुनः ।
सुभगां च भगां देवीं तृतीयां भगरूपिणीम् ॥ १७३ ॥
विश्वास-प्रस्तुतिः
भगमालां चतुर्थीं तु अनङ्गकुसुमां ततः ।
अनङ्गमेखलां पश्चादनङ्गमदनां तथा ॥ १७४ ॥
मूलम्
भगमालां चतुर्थीं तु अनङ्गकुसुमां ततः ।
अनङ्गमेखलां पश्चादनङ्गमदनां तथा ॥ १७४ ॥
विश्वास-प्रस्तुतिः
अष्टमीं च तथा देवीं मदविभ्रममन्थराम् ।
रूपतो ध्यान्तश्चैता यथा त्रिपुरभैरवी ॥ १७५ ॥

ललाटभ्रूमध्यभागमुखकर्णातकण्ठके ।
हृन्नाभिलिङ्गेष्वेवात्र न्यस्तव्या अष्टशक्तयः ॥ १७६ ॥

शिरोललाटभ्रूयुग्मकर्णनेत्रद्वयेषु च ।
गण्डयोरथ नासायां दन्तवीथ्या मुखे तथा ॥ १७७ ॥

चतुर्दशपदेष्वेषु न्यसेच्चतुर्दशस्वरान् ।
चिबुके त्वथ ग्रीवायां कण्ठेदेशे तु पार्श्वयोः ॥ १७८ ॥

स्तनयोः कक्षयोश्चापि कफोण्योर्हस्तयोस्तथा ।
तत् पृष्ठयोस्तथा नाभौ लिङ्गे चोरुद्वये तथा ॥ १७९ ॥

अष्ठीवतोर्जङ्घयोस्तु स्फिचोस्तु पदमूलयोः ।
चरणाङ्गुष्ठयोः कादिमात्रान् वर्णास्तु विन्यसेत् ॥ १८० ॥

मेखलायां कण्ठदेशे बाहुभूषणभागतः ।
आरे स्रजि कुण्डले च केशबन्धे तथैव च ॥ १८१ ॥

चूडामणौ च न्यस्तव्या यकाराद्याः क्रमात्पुनः ।
मन्त्राक्षराणि त्रीण्येव सन्धितानि पुनस्तथा ॥ १८२ ॥

प्रातिलोम्येन विन्यस्य मत्रैमूर्ध्नि त्रिधा त्रिधा ।
अमृतां योगिनीं विश्वयोगिनीं चाक्षरक्रमात् ॥ १८३ ॥

ततो बीजत्र्यक्षराणि मूर्ध्नि बाहौ तथा हृदि ।
विन्यस्य पूर्ववत् पूजामारभेन्मन्त्रविद् बुधः ॥ १८४ ॥

पूर्ववत् पूजयेद् देवीं पीठदेवविवर्जिताम् ।
विशषतो ह्यष्टशक्तीः क्रान्त् तु सुवभगादिकाः ॥ १८५ ॥

मण्डलस्याष्टदिग्भागे पूर्वादौ परिचिन्तयेत् ।
त्रिकोणाग्रेऽमृताद्यास्तु सम्पूज्यास्तु त्रिनोनयः ॥ १८६ ॥

मध्येऽष्टभूषणान्येव पूजयेत् तु ततः पुनः ।
ईशानादीनि वक्त्राणि मम भैरव मध्यतः ॥ १८७ ॥

पूजयेत् तु तथा तत्र मनोभवमुखानपि ।
अन्यच्च पूजने तत्र क्रमः पूर्वोदितश्च यः ॥ १८८ ॥

स एव सततं ग्राह्यः त्रिपुरापरिपूजने ।
निर्माल्यधारिणी देवी चैतस्याः शृणु भैरवी ॥ १८९ ॥

विसर्जनं चोत्तरस्यां त्यक्त्वा निर्माल्यमाचरेत् ।
त्रिमूर्ति पूजयेत् तां तु देवीं त्रिपुरभैरवीम् ॥ १९० ॥

न जपेत् त्रिंशता न्यूनं साधकस्तु कदाचन ।
अङ्गुष्ठमध्यमानामाङ्गुलीभिस्तिसृभिः पुनः ।
सदा पुष्पादिकं दद्यान्मालां तु त्रिगुणां चरेत् ॥ १९१ ॥

चर्मासनमधिष्ठाय पश्चात् कृत्वा पदद्वयम् ॥ १९२ ॥
विश्वास-प्रस्तुतिः
पुजयेन्निर्जने देशे साधकोऽनन्यमानसः ।
आसादयेत् तु पुष्पादि नैवेद्यादि च यद् भवेत् ।
तद् वामहस्तमुख्येन सततं साधको बुधः ॥ १९३ ॥

त्रिच्छिद्रा त्रिपुरा प्रोक्ता न सम्यक्पूजिता यदि ॥ १९४ ॥
विश्वास-प्रस्तुतिः
शरीरे निन्दितो व्याधिर्जायतेऽवश्यमेव हि ।
अवश्याः पुत्रदाराश्च भृत्याद्याश्च भवन्ति हि ॥ १९५ ॥

अस्त्राघातो भवेत् स्वस्य प्राणत्यागो न संशयः ।
त्रिच्छिद्रदायिनी चैवमन्यथा पूजिता यदि ॥ १९६ ॥

इतः प्रकारां सततं सम्यग् वेताल भैरव ।
एषा च त्रिपुरादेवी याश्चान्याः पूर्वभाषिताः ॥ १९७ ॥

सर्वास्तु माया भैरव्या योगनिद्रा जगत्प्रसूः ।
तस्याः प्रपञ्चरूपैस्तु बहुभिः सैव क्रीडति ॥ १९८ ॥

महामाया मूलभूता ततस्तु शारदा पुरा ।
उमा ततः शैलपुत्री मत्प्रियायास्ततस्त्विमाः ॥ १९९ ॥

उग्रचण्डा प्रचण्डाद्यास्त्रिषुराद्यास्तथैव च ।
तासां चापि सदैवाहं महाभैरवरूपधृक् ॥ २०० ॥

नायकः सुतरां ताभिर्नित्यं नित्यं वसेद् बुधः ।
मम भैरवरूपस्य मन्त्रः पूर्वं मयोदितः ॥ २०१ ॥

रूपं चोक्तं पूजनेषु त्रिपुरायाः क्रमः स्मृतः ।
महाभैरवं विद्महे कालरुद्राय धीमहि ॥ २०२ ॥

तन्नः कामो भैरवस्तु क्लेदिन् नित्यं प्रचोदयात् ।
एषा भैरवरूपस्य गायत्री मे प्रतिष्ठिता ॥ २०३ ॥

यथेष्ठमांसमद्यादि भोजनार्थं मया धृतः ।
महाभैरवकायोऽयं तथा स्त्रीरतिसङ्गमे ॥ २०४ ॥

अयं तु वाम्यभावेन पूज्यो मद्यादिभिः सदा ।
वामः कायो ब्रह्मणोऽपि मांसमद्यादिभुक्तये ॥ २०५ ॥

कृतो महामोहनामा चार्वाकादिप्रवर्तकः ।
विष्णोर्वामात्मिका मूर्तिर्नरसिंहाह्वया भवेत् ॥ २०६ ॥

सा तु दाक्षिण्यवामाभ्यां पूजनीया सदा बुधैः ।
तथैव बालगोपालमूर्तिर्जरायुवेष्टिता ॥ २०७ ॥

मद्यमांसाशनो भोगी लोलुपः स्त्रीषु सर्वदा ।
वह्व्यस्तु चण्डिकादेव्याः वामिका मूर्तयः स्मृताः ॥ २०८ ॥

लक्ष्म्यास्तु वामिकामूर्तिरुक्ता दहनभैरवी ।
याग्निदाहं पुरग्राममन्दिरेष्वकरोदियम् ॥

वाग्भैरवी सरस्वत्या वामिकामूर्तिरीरिता ॥ २१० ॥
विश्वास-प्रस्तुतिः
तस्या मन्त्रं पुरा प्रोक्तं शुक्लवर्णा तु सा स्मृता ।
मध्यायास्त्रिपुरायास्तु रूपं ध्यानमिहोच्यते ॥ २११ ॥

पूजाक्रमस्तथैवोक्तः सर्वत्रैव तु भैरव ।
मार्तण्डभैरवो नाम मूर्तिः सूर्यस्य कीर्तिता ॥ २१२ ॥

गणेशस्याग्निवेतालः
कथितो वामनामकः ।
एते वाम्येन भावेन
पूजनीया विशेषतः ॥ २१३ ॥
मूलम्
गणेशस्याग्निवेतालः कथितो वामनामकः ।
एते वाम्येन भावेन पूजनीया विशेषतः ॥ २१३ ॥
मानसतरङ्गिणीकृत् - टिप्पनी
He is seen as left-stream ectype of gaNesha:
विश्वास-प्रस्तुतिः
त्रिधाद्यस्तु यथापूर्वं नमयैर्रलवैस्तथा ।
वान्तैर्द्विरेफैः सर्वत्र यथा कृत्वा तथा तथा ॥ २१४ ॥

अनुस्वारविसर्गाभ्यां प्राक्शेषौ परिकीर्तितौ ।
मध्ये तु केवलाः पूर्वं सानुस्वारविसृष्टिभिः ॥ २१५ ॥

पश्चाद् द्वित्रिक्रमाद् यस्तु वर्णैरेकेन चैव हि ।
व्यस्तैः समस्तैरपि च दकारादिषु संयुतैः ॥ २१६ ॥

आद्यायास्त्रिपुरायास्तु मन्त्रवद् योजितैस्तथा ।
तथा त्रिपुरभैरव्या मन्त्रवच्चाक्षरैरपि ॥ २१७ ॥

त्रिश्चतुर्दशभिः कृत्वा डादींस्त्रींस्तु विशारयेत् ।
द्वितीयं द्विगुणं कृत्वा शेषेऽत्रादौ च योजयेत् ॥ २१८ ॥

विंशतिस्तु सहस्राणि शेषे चापि त्रयोदश ।
आद्यमाद्यं ततः प्रोक्तं वाग्भवाद्यं तृतीयकम् ॥ २१९ ॥

एवं च परमप्येतन्मन्त्राणां च चतुष्टयम् ।
एतज्ज्ञात्वा नरः कामानखिलान् प्राप्य सङ्गतः ॥ २२० ॥

मृते देवीपुरं याति क्रमादेव तु भैरव ।
यः सकृत् तु जपेदेतत् सकलं मन्त्रसञ्चयम् ॥ २२१ ॥

प्रथमं कामतो न्यस्य साधकस्तु त्रिभिर्दिनैः ।
चिन्तयन्मनसा देवीं सम्यक् त्रिपुरभैरवीम् ॥ २२२ ॥

स कामानखिलान् प्राप्य स्वरूपे मदनोपमः ।
धार्मिको नृपतिर्भूयाद् ब्राह्मणो द्विजराड् भवेत् ॥ २२३ ॥

वाधितशरीरस्तु पिशाचाद्यैः सदैव हि ।
नीरोगश्च चिआयुश्च वलवानपि जायते ॥ २२४ ॥
मूलम्
वाधितशरीरस्तु पिशाचाद्यैः सदैव हि ।
नीरोगश्च चिआयुश्च वलवानपि जायते ॥ २२४ ॥
विश्वास-प्रस्तुतिः
एवं त्रिपुरभैरव्या मया प्रोक्तस्त्वयं क्रमः ।
वैष्णव्यास्तु महादेव्याः सहस्राणि तु षोडश ॥ २२५ ॥

शृणु भैरव मन्त्राणि शिवैकाग्रमनाः पुनः ।
अष्टोत्तरसहस्रं तु चतुःषष्टिस्तथा त्रयः ॥ २२६ ॥

मन्त्राः प्रोक्ता महादेव्या मूर्तिभेदेन ताः पुनः ।
अनुस्वारविसर्गाभ्यां द्विगुणास्ते पुनः समाः ॥ २२७ ॥

कादिव्यञ्जनसंयोगादूर्ध्वाधो व्यस्तभावतः ।
द्वाभ्यां त्रिभिश्च सततमुद्धरेन्मन्त्रवित् पुनः ॥ २२८ ॥

अष्टावष्टौ ततः कृत्वा समस्तव्यस्तसंयुतैः ।
विस्वरैः सस्वरैश्चापि सानुस्वारविसर्गकैः ॥ २२९ ॥

केवलैरपि तत्रैव द्विव्यस्तैरन्तरैस्तथा ।
एवमष्टोत्तरं यावत् संयोगयोगभावतः ॥ २३० ॥

देव्यास्तु षट्सहस्राणि सहस्राणि तथा दश ।
मन्त्रास्तु सङ्ख्यया ख्याताः क्रमाद् वेताल भैरव ॥ २३१ ॥

समस्तव्यस्तरूपेण वैष्णव्या ये मयोदिताः ।
आञ् ज्ञात्वा मानवो याति ममैव सदनं प्रति ॥ २३२ ॥

अष्टम्यां च नवम्यां च सहस्राणि तु षोडश ।
यो जपेन्मन्त्रबीजानि सकृदेव तु भैरव ॥ २३३ ॥

ध्यायंस्तु वैष्णवीं मूर्तिं तदेकाग्रमनाः शृणु ।
नरराजो भवेद् भूमौ पण्डितश्चातिहर्षितः ।
चिरायुः सुखभोगी स्यादुद्रिक्तो बलवाहनैः ॥ २३४ ॥

तान्येव चाष्टधा जप्त्वा सार्वभौमो नृपो भवेत् ।
गणाध्यक्षो मृते स स्यात् ततो मुक्तिमवाप्नुयात् ॥ २३५ ॥

इति सकलगुणौघैरस्तदोषस्तु नित्यं
भवति कलुषहन्ता श्रीविवृद्ध्यै सुमन्त्रः ।
सततमखिलवेत्ता यो भवेदेतयोस्तु
स च भवति जितारी रोगशोकप्रमुक्तः ॥ २३६ ॥

इति श्रीकालिकापुराणे त्रिपुरभैरवीबालात्रिधाकल्पे चतुःसप्ततितमोऽध्यायः
॥ ७४ ॥