७३

त्रिसप्ततितमोऽध्यायः

श्रीभगवानुवाच -

विश्वास-प्रस्तुतिः

मातृकान्यासमधुना शृणु वेताल भैरव ।
येन देवत्वमायाति नरोऽपि विहितेन वै ॥ १ ॥

मूलम्

वाग् ब्रह्माणीमुखा देव्यो मातृकाः परिकीर्तिताः ।
तासां मन्त्राणि सर्वाणि व्यञ्जनानि स्वरास्तथा ॥ २ ॥

चन्द्रबिन्दुप्रयुक्तानि सर्वकाम प्रदानि च ।
ऋषिस्तु मातृमन्त्राणां ब्रह्मैव परिकीर्तितः ॥ ३ ॥

प्रोक्तश्छन्दश्च गायत्री देवता च सरस्वती ।
शरीरशुद्धिमुख्ये तु सर्वकामार्थसाधने ॥ ४ ॥

विनियोगः समुद्दिष्टो मन्त्राणां न्यूनपूरणे ।
अकारेण समं कादिर्वर्गो यः प्रथमः स्मृतः ॥ ५ ॥

तैश्चन्द्रबिन्दुसंयुक्तैस्तत्रस्थैरक्षरैर्बहिः ।
आकारं च तथोच्चार्य अङ्गुष्ठाभ्यां नमस्तथा ॥

प्रथमं मातृकामन्त्रमङ्गुष्ठद्वयतो न्यसेत् ॥ ६ ॥
विश्वास-प्रस्तुतिः

परे वर्गाः स्वरैः सार्धं ये वान्ये न्यासकर्मणि ।
ते सर्वे चन्द्रबिन्दुभ्यां युक्ताः कार्यास्तु सर्वतः ॥ ७ ॥

ह्रस्वेकारश्चवर्गेण दीर्घेकारान्तकेन तु ॥ ८ ॥

विश्वास-प्रस्तुतिः

तर्जन्योर्विन्यसेत् सम्यक् स्वाहान्तेन तु पूर्ववत् ।
ह्रस्वोकारष्टवर्गेण दीर्गोकारान्तकेन तु ॥ ९ ॥

मध्यमायुगले सम्यग्वषडन्तेन् विन्यसेत् ।
एकारादितवर्गन्तु ऐकारान्तेन चैव हुम् ॥ १० ॥

न्यसेदनामिकायुग्मे नियतं तत्र भैरव ।
कारादिपवर्गं तु औकारान्तमशेषतः ॥ ११ ॥

मूलम्

न्यसेदनामिकायुग्मे नियतं तत्र भैरव ।
कारादिपवर्गं तु औकारान्तमशेषतः ॥ ११ ॥

विश्वास-प्रस्तुतिः

वौषडन्तं कनिष्ठायां विन्यसेत् कार्यसिद्धये ।
अङ्कारादियकारादिवर्गेण क्षान्तकेन तु ॥ १२ ॥

अ इत्यन्तेन वलयोर्विन्यसेत् पाणिपृष्ठयोः ।
वषट्कारं शेषभागे अङ्गत्रन्यासे नियोजयेत् ॥ १३ ॥

हृदयादिषडङ्गेषु पूर्ववत् क्रमतो न्यसेत् ।
अङ्गुष्ठाद्युक्तवर्गैस्तु क्रमात् षड्भिस्तथाविधैः ॥ १४ ॥

पुनस्तथा पादजानुसक्थिगुह्येषु पार्श्वयोः ।
वस्तौ च विन्यसेन्मन्त्रान् क्रमात् पूर्ववदक्षरैः ॥ १५ ॥

बाह्वोः पाण्योस्तथा कट्यां नाभौ च जठरे तथा ।
स्तनयोरपि विन्यासं तथा षड्भिः समाचरेत् ॥ १६ ॥

वक्त्रे च चिवुके गण्डे कर्णयोश्च ललाटके ।
अंसे कक्षे च षड्वर्गैः पूर्ववन्न्यासमाचरेत् ॥ १७ ॥

रोमकूपे ब्रह्मरन्ध्रे गुदे जङ्घायुगे तथा ।
नखेषु पादपार्ष्ण्योश्च तथा पूर्ववदाचरेत् ॥ १८ ॥

एवं तु मातृकान्यासं यः कुर्यान्नरसत्तमः ।
स सर्वयज्ञपूजासु पूतो योग्यस्तु जायते ॥ १९ ॥

नातः परतरं मन्त्रं विद्यते क्वचिदेव हि ।
यत्सर्वकामदं पुण्यं चतुर्वर्गप्रदं परम् ॥ २० ॥

वाग्देवतां हृदि ध्यात्वा मूर्तिसर्वाक्षराणि च ।
त्रिधा च मातृकामन्त्रैः सक्रमैश्च पिबेज्जलम् ॥ २१ ॥

स वाग्मी पण्डितो धीमान् जायते च वरः कविः ।
चन्द्रबिन्दुसमायुक्तान् स्वरान् पूर्वं पठेद् बुधः ॥ २२ ॥

व्यञ्जनानि तु सर्वाणि केवलानि पठेत् ततः ।
अकारादिक्षकारान्तान्येवं श्वासैश्च पूरकैः ॥ २३ ॥

जलं करतले गृह्य पठित्वाक्षरसङ्ख्यकम् ।
अभिमन्त्र्य तु तत् तोयं प्रथमं पूरकैः पिबेत् ॥ २४ ॥

कुम्भकेन द्वितीयं तु तृतीयन्त्वथ रेचकैः ।
एवं सकृत् त्रिवारं तु पीत्वा तोयं विचक्षणः ॥ २५ ॥

दृढाङ्गः पण्डितो भूयात् पुत्रपौत्रसमन्वितः ।
त्रिसन्ध्यमथ पीत्वैव मातृकामन्त्रमन्त्रितम् ॥ २६ ॥

तोयं कवित्वमाप्नोति सर्वान् कामांस्तथैव च ।
सततं कुरुत यस्तु मातृकामन्त्रमन्त्रितम् ॥ २७ ॥

तोयपानं महाभाग पूरकुम्भकरेचकैः ।
स सर्वकामान् सम्प्राप्य पुत्रपौत्रसमृद्धिमान् ॥ २८ ॥

भूत्वा महाकविर्लोके बलवान् सत्यविक्रमः ।
सर्वत्र वल्लभो भूत्वा चान्ते मोक्षमवाप्नुयात् ॥ २९ ॥

राजानमथवा राजपुत्रं भार्यामथापि वा ।
वशीकरोति नचिरान्मातृकामन्त्रपानतः ॥ ३० ॥

न्यासक्रमे क्रमः प्रोक्तो वर्गक्रम इहैव तु ।
अक्षराणां क्रमेणाथ तोयपानं समाचरेत् ॥ ३१ ॥

ये ये मन्त्रा देवतानामृषीणामथ रक्षसाम् ।
ते मन्त्रा मातृकामन्त्रै र्नित्यमेव प्रतिष्ठिताः ॥ ३२ ॥

सर्वमन्त्रमयश्चायं सर्ववेदमयस्तथा ।
चतुर्वर्गप्रदश्चायं मातृकामन्त्र उच्यते ॥ ३३ ॥

इति ते कथितं पुत्र मातृकान्यासमद्भुतम् ।
विभागमथ मुद्राणां शृणु वेताल भैरव ॥ ३४ ॥

इति श्रीकालिकापुराणे मातृकान्यासवर्णने रिसप्ततितमोऽध्यायः ॥ ७३ ॥