७२

द्विसप्तितमोऽध्यायः

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

कामाख्यायाश्च माहात्म्यं शृणुतं च वदामि वाम् ।
साङ्ग तद् सरहस्यं च शृणु वेताल भैरव ॥ १ ॥

मूलम्

एकदा गरुडेनाशु विष्णुर्विष्णुपरायणौ ।
गच्छन् देवीं तु कामाख्यां नीलस्थामाससाद ह ॥ २ ॥

आसाद्य तं गिरिश्रेष्ठमवज्ञाय स केशवः ।
गच्छ गच्छेति गरुडं चोदयामास तं गतौ ॥ ३ ॥

तं च देवी महामाया कामाख्या जगतां प्रसूः ।
गरुडेन समं कृष्णं स्तम्भयामास रोदसी ॥ ४ ॥

स तु गन्तुं महामाया-मायया परिमोहितः ।
न गन्तुमथ वागन्तुमशकद् बद्धवत् स्थितः ॥ ५ ॥

अशक्तं गरुडं दृष्ट्वा गमने गरुडध्वजः ।
क्रुद्धस्तं पर्वतश्रेष्ठमुत्सारयितुमुद्यतः ॥ ६ ॥

ततः कराभ्यां तं शैलं क्रोडीकृत्य जगत्पतिः ।
अभूत् क्षमश्चालयितुं मनागपि न केशवः ॥ ७ ॥

तं चिचालयिषुं शैलं कामाख्या क्रोधतत्परा ।
सिद्धसूत्रेण वैकुण्ठं बबन्ध गरुडेन हि ॥ ८ ॥

तं बद्द्वा सिद्धसूत्रेण ग्राहाग्रे लवणार्णवे ।
चिक्षेप हेलया देवी सङ्क्षेपात् प्रापतत् तलम् ॥ ९ ॥

तं सागरतलं प्राप्तं पुनरेव स्वमायया ।
यन्त्रयित्वा समाक्रम्य जग्राहाब्धितल स्थितम् ॥ १० ॥

स प्रयत्नेन महता नोत्प्लुतिं कर्तुम्मिष्टवान् ।
महायत्नं प्रकुर्वाणः पुनरुन्मज्जने हरिः ॥ ११ ॥

तस्यासारं प्रसारं च कामाख्या प्रतिषेधयेत् ।
ज्ञानोद्गमनमप्यस्य सा देवी प्रतिषेधयेत् ॥ १२ ॥

ततः प्रज्ञानरहितः प्रसारासारवर्जितः ।
गरुडेन समं तोयतले शीर्णमभूच्चिरम् ॥ १३ ॥

मार्गमाणस्तु तं स्रष्टा सागरान्तरसंस्थितम् ।
हरिमासादयामास विशीर्णं प्राकृतं यथा ॥ १४ ॥

तमासाद्य सतार्क्ष्यं तु स्रष्टा लोकपितामहः ।
हस्ताभ्यां त समादाय वोत्प्लावयितुमिष्टवान् ॥ १५ ॥

तमुत्प्लावयितुं शक्तो नाभूल्लोकपितामहः ।
स्वयं च देवीमावाभिर्बद्धः सन् विम्सयन् स्थितः ॥ १६ ॥

मार्गमाणास्तु ते सर्वे देवाः शक्रपुरोगमाः ।
चिरेण चाथ कालेन समासे दुर्जलान्तरे ॥ १७ ॥

तावासाद्य ततः सर्वे सुराः शक्रपुरोगमाः ।
समुत्प्लावयितुं यत्नं चक्रुर्नाशक्नुवंश्च ते ॥ १८ ॥

ततः सर्वेऽपि ते देवा मोहिता मायया भृशम् ।
विधिंविष्ण स्थितौ यद्वत् तद्वत् ते तत्र संस्थिताः ॥ १९ ॥

मार्गमाणोऽथ तान् सर्वान् देवान् देवगुरुस्तदा ।
बृहस्पतिंर्महादेवं हिमवत् सानुसंस्थितम् ॥ २० ॥

समासाद्य स देवानां वृत्तान्तं देवपूजितः ।
पृष्टवान् सादरं सम्मक् स्तुत्वा नत्वा यथाविधि ॥ २१ ॥

गुरुरुवाच -

विश्वास-प्रस्तुतिः

महादेव जगद्धाम जगत्प्रशमकारण ।
शक्रादीन्मार्गमाणोऽहं देवांस्त्वां समुपस्थितः ॥ २२ ॥

ब्रह्मा विष्णुश्च न ब्रह्मसदने नापि नाकतः ।
संस्थितौ नापि कुत्रापि ज्ञायेने ह्यन्यदा यथा ॥ २३ ॥

तमिमं संशयं देव च्छिन्धि त्वं देवदेवताः ।
कुत्र तिष्ठन्ति कस्माद् वा तथा भूत्वा ह्यवस्थिताः ॥ २४ ॥

अनुयास्यामि तान् सर्वानुपदेशात् तव प्रभो ।
तेषां स्थितिं त्वं कथय यदि ते वर्तते दया ॥ २५ ॥

तस्य तद् वचनं श्रुत्वा तदुद्देशमहं पुनः ।
तत् सर्वमुक्तवान् कर्म यथा बद्धाश्च मायया ॥ २६ ॥

अवज्ञाता महादेवी महामाया जग्गन्मयी ।
तेन तन्मायया बद्धो विष्णुस्तिष्ठति सागरे ॥ २७ ॥

तं मार्गमाणास्त्रिदशा ब्रह्माद्या मायया पुनः ।
निबद्धा निकटे तस्य स्थिताश्चात्यर्थसंयताः ॥ २८ ॥

तांस्तु मार्गयितुं यासि यदिह त्वं मया विना ।
बद्धस्तथैव त्वं चापि नायातुं भविता प्रभुः ॥ २९ ॥

तस्माद् गच्छाम्यहं तत्र यत्रास्ते गरुडध्वजः ।
ब्रह्मेन्द्राद्यास्तथा गुप्तान्मोचयिष्ये च तान् क्रमात् ॥ ३० ॥

इत्युक्त्वा गरुणा सार्धं सम्भूय स वृषध्वजः ।
देवौघा यत्र तिष्ठन्ति गतस्तत्र महेश्वरः ॥ ३१ ॥

तत्र गत्वा महादेवो विष्णुमाभाष्य वेधसम् ।
सर्वांस्तान् परिपप्रच्छ किमर्थं संस्थितास्त्विह ॥ ३२ ॥

गतागतविहीनाश्च जडवज्ज्ञानवर्जिताः ।
किमर्थमभवन् देवास्तन्मे भाषन्तु सम्प्रति ॥ ३३ ॥

तस्य तद्वचनं श्रुत्वा महादेवस्य केशवः ।
शनैर्भर्गमुवाचेदं ब्रह्मादीनां पुरस्तदा ॥ ३४ ॥

श्री भगवाननुवाच

विश्वास-प्रस्तुतिः

नीलकूटस्य शिखरादूर्ध्वभागेन गच्छता ।
वियता गरुडस्थेन मया नीलो महागिरिः ॥ ३५ ॥

धृतः करेण चोद्धर्तुं गरुडागतिवारणे ।
तत्र मां सा महामाया कामाख्या कामरूपिणी ॥ ३६ ॥

योगनिद्रा स्वयं धृत्वा चिक्षेपाम्बुधिपुष्करे ।
ततोऽहं तलमासाद्य तोयराशेः सवाहनः ॥ ३७ ॥

पतितो निवसाम्यत्र चिरमन्धकसूदन ।
निवसामि चिरं चाहमत्र सागरतोयके ॥ ३८ ॥

मूलम्

पतितो निवसाम्यत्र चिरमन्धकसूदन ।
निवसामि चिरं चाहमत्र सागरतोयके ॥ ३८ ॥

विश्वास-प्रस्तुतिः

नाद्यापि सा महामाया नुदते मां महेश्वर ।
मदर्थमागता देवा ब्रह्मेन्द्राद्याः समन्ततः ॥ ३९ ॥

तेऽपि बद्धा महादेव्या मायापाशेन वै हठात् ।
तस्मान्नो ह्यनुगृह्णीष्व नयेदानीं शिवालये ॥ ४० ॥

तां च प्रसादयिष्यामः सम्यग्बन्धविहिंसया ।
हरेस्तद्वचनं श्रुत्वा ह्यहं च करुणायुतः ॥ ४१ ॥

उवाच परमप्रीत्या विधिविष्णू प्रति स्वयम् ।
ईश्वर्याः कामपूर्वायाः कवचं सुमनोहरम् ॥ ४२ ॥

बद्ध्वा शरीरे चाप्लाव्य पश्चाद् गच्छन्तु तां प्रति ।
अहं निबद्धकवचस्तेनाहं मायया त्विह ॥ ४३ ॥

न बद्धो मम संसर्गात् तथा चेह बृहस्पतिः ।
तस्माद् यूयं तु कवचं शृणुध्व अचनान्मम ॥ ४४ ॥

येन सौख्यात् समुत्प्लुत्य द्रक्ष्यामः परमेश्वरीम् ।
ॐ कामाख्याकवचस्यर्षिर्बृहस्पतिः स्मृतः ॥ ४५ ॥

देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते ।
विनियोगः सर्वसिद्धौ तं च शृण्वन्तु देवताः ॥ ४६ ॥

सिरः कामेश्वरी देवी कामाख्या चक्षुषी मम ।
सारदा कर्णयुगलं त्रिपुरावदनं तथा ॥ ४७ ॥

कण्ठे पातु महामाया हृदि कामेश्वरी पुनः ।
कामाख्या जठरे पातु शारदा मां तु नाभितः ॥ ४८ ॥

त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने ।
गुदे कामेश्वरी पातु कामाख्योरुद्धये तु माम् ॥ ४९ ॥

जानुनोः शारदा पातु त्रिपुरा पातु जङ्घयोः ।
महामाया पादयुगे नित्यं रक्षतु कामदा ॥ ५० ॥

केशे कोटेश्वरी पातु नासायां पातु दीर्घिका ।
भैरवी दन्तसङ्घाते मातङ्ग्यवतु चाङ्गयोः ॥ ५१ ॥

बाह्वोर्मां ललिता पातु पाण्योस्तु वनवासिनी ।
विन्ध्यवासिन्यङ्गुलिषु श्रीकामा नखकोटिषु ॥ ५२ ॥

रोमकूपेषु सर्वेषु गुप्तकमा सदावतु ।
पादाङ्गुलिपार्ष्णिभागे पातु मां भुवनेश्वरी ॥ ५३ ॥

जिह्वायां पातु मां सेतुः कः कण्ठाभ्यन्तरेऽवतु ।
लः पातु चान्तरे वक्ष हः पातु जठरान्तरे ॥ ५४ ॥

सामीन्दुः पातु माम् अस्ताविन्दुबिन्द्वन्तरेऽवतु ।
अकारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा ॥ ५५ ॥

लकारः सर्वनाडीषु ईकारः सर्वसन्धिषु ।
चन्द्रः स्नायुषु मां पातु विन्दुमज्जासु सन्ततम् ॥ ५६ ॥

पूर्वस्यां दिशि चाग्नेय्यां दक्षिणे नैर्-ऋते तथा ।
वारु।एन् चैव वायव्यां कौबेरे हरमन्दिरे ॥ ५७ ॥

अकाराद्यास्तु वैष्णव्या अष्टौ वर्णास्तु मन्त्रगाः ।
पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये ॥ ५८ ॥

ऊर्ध्वाधः पातु सततं मां तु सेतुद्वयं सदा ।
नवाक्षराणि मन्त्रेषु शारदामन्त्रगोचरे ॥ ५९ ॥

नवस्वरं तु मां नित्यं नासादिषु समन्ततः ।
वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् ॥ ६० ॥

नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च ।
तत्सेतू सततम्पातां क्रव्याद्भ्यो मान्निवारकौ ॥ ६१ ॥

नमः कामेश्वरी देवीं महामायां जगन्मयीम् ।
या भूत्वा प्रकृतिर्नित्यं तनोति जगदाद्यताम् ॥ ६२ ॥

कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां-
श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कुमापीतवर्णाम् ।
ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्यामग्नौ
बिन्द्वन्तमन्त्रप्रियतमविषयां नौमि सिद्ध्यै रतिस्थाम् ॥ ६३ ॥

मध्ये मध्यस्य भागे सततविनमिता भावहावावलीया- लीला लोकस्य कोष्ठे
सकलगुणयुता व्यक्तरूपैकनम्रा ।
विद्याविद्यैकशान्ता शमनशमकरी क्षेमकर्त्री वरास्या
नित्यं पातात् पवित्रप्रणववरकरा कामपूर्वैश्वरी नः ॥ ६४ ॥

इति हरकवचं तनुस्थितं शमयति वै शमनं तथा यदि ।
इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः ॥ ६५ ॥

इत्ययं कवचं यस्तु कामाख्यायाः पठेद् बुधः ।
सकृत् तं तु महादेवी त्वनुव्रजति नित्यदा ॥ ६६ ॥

नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा ।
नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः ॥ ६७ ॥

दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः ।
आवर्तयञ्छतं देवी-मन्दिरे मोदते परे ॥ ६८ ॥

यथा तथा भवेद् बद्धः सङ्ग्रामेऽन्यत्र वा बुधः ।
तत् क्षणादेव मुक्तः स्यात् स्मरणात् कवचस्य तु ॥ ६९ ॥

ईश्वर उवाच

विश्वास-प्रस्तुतिः

इति श्रुत्वा तु कवचं हरिर्ब्रह्मा सुरास्तथा ।
शक्रोऽपि कवच देहे न्यासं चक्रुः पृथक् पृथक् ॥ ७० ॥

ते तु विन्यस्तकवचा महामायाप्रभावतः ।
उत्प्लुप्य सागरस्याम्भ आसेदुः क्षितिमञ्जसा ॥ ७१ ॥

आसाद्य पृथिवीं सर्वे ब्रह्मविष्णवादयः सुराः ।
नीलकूटं समासाद्य कामाख्यां द्रष्टुमागताः ॥ ७२ ॥

दृष्ट्वा कामेश्वरीं देवी केशवस्तां जगन्मयीम् ।
इदमाह स्वयं ज्ञात्वा प्रभावं तत् प्रतिष्ठितम् ॥ ७३ ॥

त्वमेव प्रकृतिर्देवी त्वमेव पृथिवी जलम् ।
त्वमेव जगतां माता त्वमेव च जगन्मयी ॥ ७४ ॥

त्वं कर्त्री सर्वजगतां विद्या त्वं मुक्तिदायिनी ।
परापरात्मिका देवी स्थूलसूक्ष्मात्मिका तथा ॥ ७५ ॥

प्रसीद त्वं महादेवि प्रसन्नायां शुभे त्वयि ।
देवाः सर्वे प्रसीदन्ति चतुर्वर्गप्रदेऽनघे ॥ ७६ ॥

रत्यक्षरूपा कामाख्या केशवस्य महात्मनः ।
प्रत्यक्षरूपा कामाख्या हरिमाभाष्य चाब्रवीत् ॥ ७७ ॥

देव्युवाच -

विश्वास-प्रस्तुतिः

केशव ब्रह्मणा सार्धं सर्वैर्देवैस्तथा गणैः ।
मद्योनिसलिलेष्वद्य स्नानं पानं कुरु द्रुतम् ॥ ७८ ॥

ततस्त्वं निरहङ्कारः परवीर्यसमन्वितः ।
आरुह्य गरुडं याहि त्रिदिवं सह वेधसा ॥ ७९ ॥

एवमुक्तो महादेव्या केशवः सह एधसा ।
योनिमण्डलतोयेषु स्नानं पानं चकार ह ॥ ८० ॥

कृतप्लावास्ततो देवाः कृतस्नानश्च केशवः ।
गता देव्याश्च सम्मत्या त्रिदिवं प्रति हर्षिताः ॥ ८१ ॥

गच्छन्तस्ते देवगणाः सहिताः केशवेन च ।
ब्रह्मणा च तदाद्राक्षुः कामाख्यां तां वियद्गताम् ॥ ८२ ॥

नीलकूटसहस्राणि योनिभिः सह तद्गतै ।
ऊर्ध्वाधोभागयोगेन ददृशुः संस्थितानि च ॥ ८३ ॥

तानि प्रत्येकतो देवा आरुह्यारुह्य तत्क्षणात् ।
अपुः सस्नुः पूर्ववत् ते प्रीतिमापुस्तथातुलाम् ॥ ८४ ॥

निरामयास्तथा जग्मुर्विस्मयाक्लिष्टचेतनाः ।
स्तुवन्तः प्रस्तुवन्तश्च कामाख्यायोनिमण्डलम् ॥ ८५ ॥

ततो देवगुरुं नत्वा मां स्तुत्वा च मया पुनः ।
विसृष्टास्त्रिदिवं याता हर्षोत्फुल्लविलोचनाः ॥ ८६ ॥

माहात्म्यमीदृशं देव्याः कामाख्यास्तु भैरव ।
कवचं चेदृशं प्रोक्तं तत्त्वमासाद्य पुत्रक ॥ ८७ ॥

यथेष्टविनियोगेन तमासाद्य सुखी भव ।
कामाख्यायाश्च माहात्म्यं किमन्यत् कथयामि ते ॥

यस्या योनिशिलायोगाल्लोहाद्या यान्ति स्वर्णताम् ॥ ८८ ॥
विश्वास-प्रस्तुतिः

यद्योनिमण्डले स्नात्वा सकृत् पीत्वा च मानवः ।
नेहोत्पत्तिमवाप्नोति परं निर्वाणमाप्नुयात् ॥ ८९ ॥

इति श्रीकालिकापुराणे कामाख्याकवचमाहात्म्यवर्णनं नाम
विसप्ततितमोऽध्यायः ॥ ७२ ॥