विश्वास-प्रस्तुतिः
एकसप्ततितमोऽध्यायः
श्रीभगवानुवाच
प्रसाय दक्षिणं हस्तं स्वयं नम्रशिराः पुनः ।
दक्षिणं दर्शयन् पार्श्वं मनसापि च दक्षिणः ॥ १ ॥
मूलम्

सकृत् त्रिर्वा वेष्टयेयुर्दैव्याः प्रीतिः प्रजायते ।
स च प्रदक्षिणो ज्ञेयः सर्वदेवौघतुष्टिदः ॥ २ ॥

अष्टोत्तरशतं यस्तु देव्याः कुर्यात् प्रदक्षिणम् ।
अ सर्वकाममासाद्य पश्चान्मोक्षमवाप्नुयात् ॥ ३ ॥

मनसापि च यो दद्याद् देव्यै भक्त्या प्रदक्षिणम् ।
प्रदक्षिणाद् यमगृहे नरकाणि न पश्यति ॥ ४ ॥

कायिको वाग्भवश्चैव मानसस्त्रिविधिः स्मृतः ।
नमस्कारः श्रुतस्तज्ज्ञैरुत्तमाधममध्यमः ॥ ५ ॥

प्रसार्य पादौ हस्तौ च पतित्वा दण्डवत् क्षितौ ।
जानुभ्यामवनिं गत्वा शिरसास्पृश्य मेदिनीम् ॥ ६ ॥

क्रियते यो नमस्कार उत्तमः कायिकस्तु सः ।
जानुभ्यां च क्षितिं स्पृष्ट्वा शिरसास्पृश्य मेदिनीम् ॥ ७ ॥

क्रियते यो नमस्कारो मध्यमः कायिकः स्मृतः ।
पुटीकृत्य करौ शीर्षे दीयते यद् यथा तथा ।
अस्पृष्ट्वा जानुशीर्षाभ्यां क्षिति सोऽधम उच्यते ॥ ८ ॥

या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः ।
क्रियते भक्तियुक्तेन वाचिकस्तूत्तमस्तु सः ॥ ९ ॥

पौराणिकैर्वैदिकैर्वा मन्त्रैर्वा क्रियते नतिः ।
स मध्यमो नमस्कारो भवेद् वाचनिकः सदा ॥ १० ॥

यत् तु मानुष्यवाक्येन नमनं क्रियते सदा ।
स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्रकौ ॥ ११ ॥

इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं पुनः ।
नमनं मानसं प्रोक्तमुत्तमाधममध्यमम् ॥ १२ ॥

त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः ।
कायिकैस्तु नमस्कारैर्द्वास्तुष्यन्ति नित्यशः ॥ १३ ॥

यमेव नमस्कारो दण्डादिप्रतिनामभिः ।
प्रणाम इति विज्ञेयः स पूर्वं प्रतिपादितः ॥ १४ ॥

नैवेद्येन भवेत् सर्वं नैवेद्यनामृतं भवेत् ।
धर्मार्थकाममोक्षाश्च नैवेद्येषु प्रतिष्ठिताः ॥ १५ ॥

सर्वयज्ञमयं नित्यं नैवेद्यं सर्वतुष्टिदम् ।
ज्ञानदं कामदं पुण्यं सर्वभोग्यमयं तथा ॥ १६ ॥

मनसापि महादेव्यै नैवेद्यं दातुमिच्छति ।
यो नरो भक्तियुक्तः सन् स दीर्घायुः सुखी भवेत् ॥ १७ ॥

महामायां सदा देवीमर्चयिष्यामि भक्तितः ।
नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः ।
स सर्वकामान् सम्प्राप्य मम लोके महीयते ॥ १८ ॥
मूलम्
महामायां सदा देवीमर्चयिष्यामि भक्तितः ।
नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः ।
स सर्वकामान् सम्प्राप्य मम लोके महीयते ॥ १८ ॥
विश्वास-प्रस्तुतिः
मनसापि च यो दद्याद् देव्यै भक्त्या प्रदक्षिणम् ।
स दक्षिणे यमगृहे नरकाणि न पश्यति ॥ १९ ॥

देवमानुषगन्धर्वा यक्षराक्स्ऽसपन्नगाः ।
नमस्कारेण तुष्यन्ति महात्मानः समन्ततः ॥ २० ॥

नमस्कारेण लभते चतुर्वर्गं महामतिः ।
सर्वत्र सर्वसिद्ध्यर्थं नतिरेव प्रशस्यते ॥ २१ ॥

नत्या विजयते लोकान्नत्यायुरपि वर्धते ।
नमस्कारेण दीर्घायुरच्छिन्ना लभते प्रजाः ॥ २२ ॥

नमस्कुरु महादेव्यै प्रदक्षिणमथो कुरु ।
नैवेद्यं देहि नितरामिति यो भाषते मुहुः ।
सोऽपि कामानवाप्येह मम लोके प्रमोदते ॥ २३ ॥

विदधाति च नैवेद्यं महादेव्यै सुभक्तिमान् ।
दातुं प्रति नरः सोऽपि देवीलोकमवाप्नुयात् ॥ २४ ॥

इति वां कथिताः सम्यगुपचारास्तु षोडश ।
किमन्यद्रुचितं वां तत् कथयिष्यामि पृच्छतोः ॥ २५ ॥

इति श्रीकालिकापुराणे षोडशोपचारनिर्णये एकसप्ततितमोऽध्यायः ॥ ७१ ॥