७०

विश्वास-प्रस्तुतिः

सप्ततितमोऽध्यायः

श्रीभगवानुवाच

निवेदनीयं यद् द्रव्यं प्रशस्तं प्रयतं तथा ।
तद्भक्ष्याद्यं पञ्चविधं नैवेद्यमिति गद्यते ॥ १ ॥

मूलम्

भक्ष्यं भोज्यं च लेह्यं च पेयं चोष्यं च पञ्चमम् ।
सर्वत्र चैतन्नैवेद्यमाराध्येष्टे निवेदयेत् ॥ २ ॥

तेषु प्रियतरं देव्याः कथये शृणुतं तु वाम् ।
भक्ष्यादिपञ्चकैर्देवी दत्तैरेवाभितुष्यति ॥ ३ ॥

नादत्ते विधिवत् किञ्चिद् दत्तं चैतन्न विद्यते ।
नागरं च कपित्थं च द्राक्स्।आं क्रमुकमेव च ॥ ४ ॥

करकं वरदं कोलं कुष्माण्डं पनसं तथा ।
बकुलं च मधूकं च रसालाम्रातकेशरम् ॥ ५ ॥

मूलम्

करकं वरदं कोलं कुष्माण्डं पनसं तथा ।
बकुलं च मधूकं च रसालाम्रातकेशरम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

आक्षोडं पिण्डखर्जूरं करुणं श्रीफलं तथा ।
औदुम्बरं च पुन्नागं माधवं कर्कटीफलम् ॥ ६ ॥

जाम्बवं पिण्डखर्जूरं बीजपूरं च जाम्बवम् ।
हरीतकीमामलक षड्विधं नागरङ्गकम् ॥ ७ ॥

देवकं मधुकं शीतं पटोलं क्षीरवृक्षजम् ।
पाटलं शालजं वृन्तमग्निजं कदलीफलम् ॥ ८ ॥

मूलम्

देवकं मधुकं शीतं पटोलं क्षीरवृक्षजम् ।
पाटलं शालजं वृन्तमग्निजं कदलीफलम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

तिन्दुकं कुसुमं पीतं कारविन्दं करूषकम् ।
गर्भावर्तं च तत्पुष्पं क्षीरस्राव्यमनङ्गजम् ॥ ९ ॥

कुमुदानां पङ्कजानां फलानि विविधानि च ।
वन्यानां सकलैर्देवीं फलैः पुष्पैः प्रपूजयेत् ॥ १० ॥

ऋते श्लेष्मातकं बिम्बशैलकं वैष्णवीं तथा ।
सर्वेषां फलजातीनां मध्ये देवीप्रियं फलम् ॥ ११ ॥

लाङ्गलं मातुलुङ्गं च करमर्दं रसालकम् ।
एवं फलानि देयानि कामाख्यायै च भैरव ॥ १२ ॥

त्रिपुरायै तथा सम्यक् पीठदेवीभ्य एव च ।
शृङ्गाटकं कशेरुं च शालूकं च मृणालकम् ॥ १३ ॥

शृङ्गवेरं काञ्चनं च स्थूलं कन्दं बकुलकम् ।
एवमादीनि कनानि देव्यै सर्वाणि चोत्सृजेत् ॥ १४ ॥

परमान्नं पिष्टकं च यावकं कृशरं तथा ।
मोदकं पृथुकादीनि कन्दुपक्वानि चोत्सृजेत् ॥ १५ ॥

हविःशाल्योदनं दिव्य माज्ययुक्तं सशर्करम् ।
निवेदयेन्महादेव्यै सर्वाणि व्यञ्जनानि च ॥ १६ ॥

क्षीरादीन्यथ गव्यानि माहिष्याणि च सर्वशः ।
अजाविकमृगाणां च क्षीरादीनि निवेदयेत् ॥ १७ ॥

मध्वादीनि च सर्वाणि गुडधानाः सितां तथा ।
अन्नानि चैव पानानि मांसानि विनिवेदयेत् ॥ १८ ॥

सर्वं सुरभिगन्धाढ्यं व्यञ्जनं सुमनोहरम् ।
शाकमांसादिसम्भूतं माहादेव्यै निवेदयेत् ॥ १९ ॥

आमिषं परमान्नं च दधिसर्पिः सशर्करम् ।
महादेव्यै निवेद्याथ वाजिमेधफलं लभेत् ॥ २० ॥

सितासम्मिश्रितां दत्त्वा सुरां मधुसमन्विताम् ।
देवीलोके चिरं स्थित्वा राजा क्षितितले भवेत् ॥ २१ ॥

लाङ्गलं क्रमुकं दत्त्वा रुचकं करमर्दकम् ।
सौभाग्ममतुलं प्राप्य देवीलोके महीयते ॥ २२ ॥

माषान् मुद्गान् मसूरांश्च-तिलान् भङ्गास्तथैव च ।
यवादीन्यथ सर्वाणि यथायोग्यं निवेदयेत् ॥ २३ ॥

यथा यथा भवेद्भक्ष्यं यथा द्रव्यं तथा तथा ।
संस्कृत्य वेशवाराद्यैर्महादेव्यै निवेदयेत् ॥ २४ ॥

महावीरो मुनिर्वापि ब्राह्मणश्चेतरोऽथ वा ।
यद् यद् भक्ष्यं स्वमर्थं तु प्रकल्प्यं स्याद् यथा यथा ॥ २५ ॥

तथा तथा महादेव्यै भक्तियुक्तो निवेदयेत् ।
संस्कार्याण्यथ संस्कृत्य यथा संस्कारकं भवेत् ॥ २६ ॥

संस्कार्यश्च यथा तस्यास्तत्तद् दद्यात्तथा तथा ।
यत्पूतिगन्धसंयुक्तं दग्धं भोज्यंविवर्जितम् ॥ २७ ॥

तदुक्तमपि नो दद्यान्महादेव्यै कदाचन ।
ताम्बूलं गन्धसंयुक्तं कर्पूराद्यधिवासितम् ॥ २८ ॥

सञ्चूर्णेर्जलजानां च संस्कृतं विनिवेदयेत् ।
वलिदानेषु विहिता य एव मृगपक्षिणः ॥ २९ ॥

तेषां मांसानि मत्स्यानां मांसानि निवेदयेत् ।
खड्गवार्ध्रीणसच्छागमांसैर्मिश्रीकृतैः कृतम् ॥ ३० ॥

व्यञ्जनं स्वादुगन्धाढ्यं पासितं सुमनोहरम् ।
सकृद् दत्त्वा महादेव्यै सार्वभौमो नृपो भवेत् ॥ ३१ ॥

मूलकैरेणमांसेन लोहपात्रे सुसंस्कृतम् ।
व्यञ्जनं गन्धिनं दत्त्वा देवीलोकमवाप्नुयात् ॥ ३२ ॥

खर्जूरं पिण्डखर्जूरं यवचूर्णं च साज्यकम् ।
वैष्णव्यै विनिवेद्यैव राजसूयफलं लभेत् ॥ ३३ ॥

कृशरान्नप्रदानेन सौभाग्यमतुलं भवेत् ।
दत्त्वैव नारिकेलाम्बु वह्निष्टोमफलं लभेत् ॥ ३४ ॥

जाम्बवं लवली-धात्री-श्रीफलानि निवेद्य च ।
वह्निष्टोमफलं लब्ध्वा देवीलोकमवाप्नुयात् ॥ ३५ ॥

द्राक्षां सितासमायुक्तां नागरङ्गकसंयुताम् ।
विनिवेद्य महादेव्यै लक्ष्मीवान् रूपवान् भवेत् ॥ ३६ ॥

धान्यं च पृथुकं देव्यै दत्त्वा श्रियमवाप्नुयात् ।
इक्षुदण्डं मुद्गमण्डं नवनीतं निवेद्य च ॥ ३७ ॥

सौभाग्यमुत्तमं प्राप्य देवीलोके महीयते ।
नवनीतसमायुक्तं तिलं देव्यै निवेद्य च ॥ ३८ ॥

इह कामानवाप्यैव मृतो मोक्षमवाप्नुयात् ।
अभक्ष्यवर्ज्यं सर्वान्नं व्यञ्जनेन समन्वितम् ॥ ३९ ॥

भोज्यवत् परिकल्प्याथ महादेव्यै निवेदयेत् ।
रत्नतोयसमायुक्तं सलिलं नारिकेलजम् ॥ ४० ॥

क्षीराज्यमधुभिर्मिश्रं सितादधिसमन्वितम् ।
यस्तैजसेन पात्रेण पेयं देव्यै निवेदयेत् ॥ ४१ ॥

भक्तिप्रवणचित्तेन तस्य पुण्यफलं शृणु ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ४२ ॥

मूलम्

भक्तिप्रवणचित्तेन तस्य पुण्यफलं शृणु ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ४२ ॥

विश्वास-प्रस्तुतिः

स्थित्वा देवीपुरे धीरः सार्वभौमो भवेत् क्षितौ ।
ततः परं तु कैवल्यमाप्नोति च यथेच्छया ॥ ४३ ॥

कलायं च सनीवारं क्वथितं दधिसंयुतम् ।
महादेव्यै निवेद्यैव काममिष्टमवप्नुयात् ॥ ४४ ॥

मरिचं पिप्पलीकोलं जीरकं तन्तुभं तथा ।
संस्कारे च समक्षे च महादेव्यै निवेदयेत् ॥ ४५ ॥

तिन्तिडीं खण्डसंयुक्तां भक्तियुक्तो निवेद्य च ।
ज्योतिष्टोमफलं लब्ध्वा देवीलोकमवाप्नुयात् ॥ ४६ ॥

राजमाषं मसूरं च पालङ्कं चाथ पोतिकाम् ।
कालशाकं कलायं च ब्राह्मीमूलकमेव च ॥ ४७ ॥

वास्तूकं च कलम्बीं च कञ्चुकं हिलमोचिकाम् ।
चक्रं विद्रुमपत्रं च तथैव च पुनर्नवाम् ॥ ४८ ॥

शाकानेतान् महादेव्यि योजयेद् भक्तिसंयुतः ।
सोऽतुलां श्रियमाप्नोति मम लोके महीयते ॥ ४९ ॥

श्रद्धापरीष्टिसंस्कारभक्तिद्रव्याभिसम्भ्रमम् ।
रागाधिक्यात् फलाधिक्यं हीनाद् वै हीनतां व्रजेत् ॥ ५० ॥

मन्त्रकालविरुद्धानि नैवेद्यानि कदाचन ।
देवेभ्यो नोपयुञ्जीत गुरुताविहितानि च ॥ ५१ ॥

राजते वाऽथ सौवर्णे ताम्रे वा प्रस्तरेऽपि च ।
पद्मपत्रेऽथवा दद्यान्नैवेद्यं मत्प्रियाप्रियम् ॥ ५२ ॥

तैजसेषु च पात्रेषु सौवर्णं ताम्रमेव वा ।
प्राशनार्थमुपादद्यादर्घ्यपात्रार्थमेव वा ॥ ५३ ॥

यज्ञदारुमयं वापि पात्रः मध्यममिष्यते ।
सर्वालाभे तु माहेयं स्वहस्तघटितं यदि ॥ ५४ ॥

एतद् वां कथितं पुत्रौ नैवेद्यं वैष्णवीप्रियम् ।
कामाख्यायास्तथा देव्यास्त्रिपुराया विशेषतः ।
प्रदक्षिणनमस्कारौ साम्प्रतं शृणुतं युवाम् ॥ ५५ ॥

इति श्रीकालिकापुराणे सप्ततितमोऽध्यायः ॥ ७० ॥