विश्वास-प्रस्तुतिः
श्रीभगवानुवाच ।
कार्पासं कम्बलं बाल्कं कोशजं वस्त्रमिष्यते ।
तत्पूर्वं पूजयित्वैव मन्त्रैर्देवाय चोत्सृजेत् ॥ १ ॥
मूलम्

निर्दशं मलिनं जीर्णं छिन्नं गात्राअलिङ्गितम् ।
परकीयं ह्याखुदष्टं सूचीविद्धं तथोषितम् ॥ २ ॥

प्तलेशं विधौतं च श्लेष्ममूत्रादिदूषितम् ।
प्रदाने देवताभ्यश्च दैवे पित्र्ये च कर्मणि ॥ ३ ॥

वर्जएत् स्वोपयोगेन यज्ञादावुपयोजने ।
उत्तरीयोत्तरासङ्गैर्निचोलो मोदचेलकः ॥ ४ ॥

परिधानं च पञ्चैतान्यस्यूतानि प्रयोजयेत् ।
साण वस्त्रं निशारं च तथैवातपवारणम् ॥ ५ ॥

चण्डातकं तथा दृश्यं पञ्च स्यूतान्यदुष्टये ।
पताकाध्वजदण्डादौ स्यूतं वस्त्रं प्रयोजयेत् ॥ ६ ॥

अन्यत्रावरणादौ च तद्विनाशस्य तेन तत् ।
रक्तं कौशेयवस्त्रं च महादेव्यै प्रशस्यते ॥ ७ ॥

पीतं तथैव कौशेयम् आसुदेवाय चोत्सृजेत् ।
रक्तं तु कम्बलं दद्याच्छिवाय परमात्मने ॥ ८ ॥

विचित्रं सर्वदेवेभ्यो देवीभ्योऽंशु निवेदयेत् ।
कार्पासं सर्वतोभद्रं दद्यात् सर्वेभ्य एव च ॥ ९ ॥

नैकान्तरक्तं दद्यात् तु वासुदेवाय चैलकम् ।
तथा नैकान्तनीलं तु शिवाय विनिवेदयेत् ॥ १० ॥

नीलीरक्तं तु यद्वस्त्रं तत् सर्वत्र विवर्जितम् ।
दैवे पित्र्ये तूपयोगे वर्जयेत् तु विचक्षणः ॥ ११ ॥

नीलीरक्तं प्रमादात्तु यो दद्याद् विष्णवे बुधः ।
निष्फला तस्य तत्पूजा तदा भवति भैरव ॥ १२ ॥

विचित्रे वाससि पुनर्लग्नं नीलीविरञ्जितम् ।
वस्त्रं दद्यान्महादेव्यै नान्यस्मै तु कदाचन ॥ १३ ॥

द्विपदां ब्राह्मणो यद्वद्देवानां वासवो यथा ।
तथा भूषणवर्गेषु वस्त्रमुत्तममुच्यते ॥ १४ ॥

वस्त्रेण जीर्यते लज्जा वस्त्रेण हीयते त्वधम् ।
वस्त्रात् स्यात् सर्वतः सिद्धिश्चतुर्वर्ग प्रदं च तत् ॥ १५ ॥

वस्त्रं ते कथितं पुत्र सर्वप्रीतिप्रदायकम् ।
भोग्यं भूषोत्तमं नित्यं भूषणानि शृणुष्व मे ॥ १६ ॥

किरीटं च शिरोरत्नं कुण्डलं च ललाटिका ।
तालपत्रं च हारश्च ग्रैवेयकमथोर्मिका ॥ १७ ॥

प्रालम्बिकारत्नसूत्रमुत्तङ्गोतर्क्स्ऽमालिका ।
पार्श्वद्योतो नखद्योतो ह्यङ्गुलीच्छादकस्तथा ॥ १८ ॥

जूटालकं मानवको मूर्धतारा खलन्तिका ।
अङ्गदो बाहुवलयः शिखाभूषण इङ्गिका ॥ १९ ॥
मूलम्
जूटालकं मानवको मूर्धतारा खलन्तिका ।
अङ्गदो बाहुवलयः शिखाभूषण इङ्गिका ॥ १९ ॥
विश्वास-प्रस्तुतिः
राग्दण्डबन्धमुद्भासनाभिपूरोऽथ मालिका ।
सप्तकी शृङ्खलं चैव दन्तपत्रं च कर्णकः ॥ २० ॥

ऊरुसूत्रं च नीवीं च मुष्टिबन्धं प्रकीर्णकम् ।
पादाङ्गदं हंसकश्च नूपुरं क्षुद्रघण्टिका ॥ २१ ॥

सुखपट्टमिति प्रोक्ता अलङ्काराः सुशोभनाः ।
चत्वारिंशदमी प्रोक्ता लोके वेदे तु सौख्यदाः ॥ २२ ॥

अलङ्कारप्रदानेन चतुर्वर्गप्रसाधनम् ।
एतेषां पूजनं कृत्वा प्रदद्यादिष्टसिद्धये ॥ २३ ॥

तेषां दैवतमुच्चार्य पूजयेत् तु विचक्षणः ।
शिरोगतानि वा दद्यात् सौवर्णानि तु सर्वदा ॥ २४ ॥

चूडारत्नादिकानीह भूषणानि तु भैरव ।
ग्रैवेयकादिहंसान्तं सौवर्णं राजतं च वा ॥ २५ ॥

निवेदयेत् तु देवेभ्यो नान्यत् तैजसम्भवम् ।
ईतिरङ्गादि सञ्जातं पात्रोपकरणादिकम् ॥ २६ ॥

दद्यादायसवर्जं तु भूषणं न कदाचन ।
घण्टाचामरौम्भादिपात्रोपकरणादिकम् ॥ २७ ॥
मूलम्
दद्यादायसवर्जं तु भूषणं न कदाचन ।
घण्टाचामरौम्भादिपात्रोपकरणादिकम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
तद्भूषणान्तरे दद्यादयस्त्मात् तदुपभूषणम् ।
सर्वं ताम्रमयं दद्याद् यत् किञ्चिद् भूषणादिकम् ॥ २८ ॥

सर्वत्र स्वर्णवत् ताम्रमर्घ्यपात्रे ततोऽधिकम् ।
पूजार्घ्यपपात्रनैवेद्याधारपात्रं च पानकम् ॥ २९ ॥

औदुम्बरं सदा विष्णोः प्रीतिदं तोषदं तथा ।
ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः स्थिताः सदा ॥ ३० ॥

सर्वप्रीतिकरं ताम्रं तस्मात् ताम्रं प्रयोजयेत् ।
स्वोपयोगे नरः कुर्याद् देवानामपि भैरव ॥ ३१ ॥

ग्रीवोर्ध्वदेशे रौप्यं तु न कदाचिच्च भूषणम् ।
प्रावारः पानपात्रं च गण्डको गृहमेव च ॥ ३२ ॥

पर्यङ्कादि यदन्यच्च सर्वं तदुपभूषणम् ।
योमयमृते कांस्यमृते यद्भूषणं भवेत् ॥ ३३ ॥

स्वर्णरौप्यस्य चाभावे त्वधः काये नियोजयेत् ।
एतेषां भूषणादीनां यद् दातुं शक्यते नरैः ॥ ३४ ॥

तत् तद् दद्यात् सम्भवे तु सर्वमेव प्रदापयेत् ।
चतुर्वर्गप्रदं वित्थं भूषणं सर्वसौख्यदम् ॥ ३५ ॥

तुष्टिपुष्टिप्रीतिकरं यथाशक्तीष्टये सृजेत् ।
इदं वा भूषणं प्रोक्तं सर्वदेवस्य तुष्टिदम् ॥ ३६ ॥

गन्धं च सम्यक् शृणुतं पुत्रौ वेतालभैरवौ ।
चूर्णीकृतो वा घृष्टो वा दाहाकर्षित एव वा ॥ ३७ ॥

रसः सम्मर्दजो वापि प्राण्यङ्गोद्भव एव वा ।
गन्धः पञ्चविधः प्रोक्तो देवानां प्रीतिदायकः ॥ ३८ ॥

गन्धचूर्णं गन्धपत्रं चूर्णं सुमनसस्तथा ।
प्रशस्तगन्धयुक्तानां पत्रचूर्णानि यानि तु ॥ ३९ ॥

तानि गन्धवहानि स्युः सगन्धः प्रथमः स्मृतः ।
घृष्टो मलयजो गन्धः सचूर्णीकृतमेरुणा ॥ ४० ॥

अगुरुप्रभृतिश्चापि यस्य पङ्कः प्रदीयते ।
गन्धो दृष्ट्वामघृष्टोऽयं द्वितीयः परिकीर्तितः ॥ ४१ ॥

देवदार्वगुरुपद्मगन्धसारान्त चन्दनाः ।
प्रियादीनाञ्च् अ यो दग्ध्वा गृह्यते दाहजो रसः ॥ ४२ ॥

सदाहाकर्षितो गन्धस्तृतीयः परिकीर्तितः ।
सुगन्धकरवीबिल्वगन्धीनि तिलकं तथा ॥ ४३ ॥
मूलम्
सदाहाकर्षितो गन्धस्तृतीयः परिकीर्तितः ।
सुगन्धकरवीबिल्वगन्धीनि तिलकं तथा ॥ ४३ ॥
विश्वास-प्रस्तुतिः
प्रभृतीनां रसो योऽसौ निष्पीड्य परिगृह्यते ।
ससम्मर्दोद्भवो गन्धः सम्मर्दज इतीष्यते ॥ ४४ ॥

मृगनाभिसमुद्भूतस्तत्कोषोद्भव एव वा ।
गन्धः प्राण्यङ्गजः प्रोक्तो मोददः स्वर्गवासिनाम् ॥ ४५ ॥

कर्पूरगन्धसाराद्याः क्षोदे घृष्टे च संस्थिताः ।
चन्द्रभागादयश्चापि रसे पङ्के च सङ्गताः ॥ ४६ ॥

गन्धसारम् अर्वरसं गन्धादौ च प्रयुज्यते ।
मृगनाभिर्भवेद् घृष्टश्चूर्णोऽप्यन्यस्य योगतः ॥ ४७ ॥

एवं सर्वं तु सर्वत्र गन्धो भवति पञ्चधा ।
घृष्टादिभावादन्योन्यं गन्धः प्रीतिकरं परः ॥ ४८ ॥

गन्धस्य विस्तरो भेदः प्रोक्तः कालीयकादयः ।
सर्वः पञ्चविधेष्वेव प्रविष्टो भवति क्षणात् ॥ ४९ ॥

गन्धो मलयजो यस्तु दैवे पित्र्ये च सम्मतः ।
तस्य पङ्को रसो वापि चूर्णो वा विष्णुतुष्टिदः ॥ ५० ॥

सर्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः ।
तस्मात् सर्वप्रयत्नेन दद्यान्मलयजं सदा ॥ ५१ ॥

कृष्णागुरुः सकर्पूरः सहितो मलयोद्भवैः ।
वैष्णवीप्रीतिदो गन्धः कामाख्यायाश्च भैरव ॥ ५२ ॥

कुङ्कुमागुरुकस्तूरीचन्द्रभागैः समीकृतैः ।
त्रिपुराप्रीतिदो गन्धस्तथा चण्ड्याश्च शस्यते ॥ ५३ ॥

दैवतोद्देशपूर्वेण गन्धं सम्पूज्य साधकः ।
देवायेष्टाय वितरेत् सर्वसिद्धिप्रदं सदा ॥ ५४ ॥

गन्धेन लभते कामान् गन्धो धर्मप्रदः सदा ।
अर्थानां साधको गन्धो गन्धे मोक्षः प्रतिष्ठितः ॥ ५५ ॥

अयं वां कथितो गन्धः पुत्रौ वेतालभैरवौ ।
पुष्पाणि देव्या वैष्णव्याः प्रियाणि शृणु सम्प्रति ॥ ५६ ॥

बकुलैश्चैव मन्दारैः कुन्दपुष्पैः कुरुण्टकैः ।
करवीरार्कपुष्पैश्च शाल्मलैश्चापराजितैः ॥ ५७ ॥

दमनैः सिन्धुवारैश्च सुरभी कुरुवकैस्तथा ।
लताभिर्ब्रह्मवृक्षस्य दूर्वाङ्कुरैश्च कोमलैः ॥ ५८ ॥

मञ्जरीभिः कुशानां च बिल्वपत्रैः सुशोभनैः ।
पूजयेद् वैष्णवीं देवीं कामाख्यां त्रिपुरां तथा ॥ ५९ ॥

अन्याश्च या शिवाप्रीत्यै जायन्ते पुष्पजातयः ।
ता इमाः शृणु कथ्यन्ते मया वेताल भैरव ॥ ६० ॥

मालती मल्लिका जाती यूथिका माधवी तथा ।
पाटला करवीरश्च जवा तर्कारिका तथा ॥ ६१ ॥
मूलम्
मालती मल्लिका जाती यूथिका माधवी तथा ।
पाटला करवीरश्च जवा तर्कारिका तथा ॥ ६१ ॥
विश्वास-प्रस्तुतिः
कुब्जकस्तगरश्चैव कर्णिकारोऽथ रोचना ।
चम्पकाभ्रातकौ बाणो बर्बरा मल्लिका तथा ॥ ६२ ॥

अशोको लोध्रतिलकौ अटरूषशिरीषकौ ।
शमीपुष्पं च द्रोणश्च पद्मोत्पलबकारुणाः ॥ ६३ ॥

श्वेतारुणस्त्रिसन्ध्ये च पलाशः खदिरस्तथा ।
वनमालाऽथ सेवन्ती कुमुदोऽथ कदम्बकः ॥ ६४ ॥

चक्रं कोकनदं चैव तण्डिलो गिरिकर्णिका ।
नागकेशरपुन्नागौ केतक्यञ्जलिका तथा ॥ ६५ ॥

दोहदा बीजपूरश्च नमेरुः शाल एव च ।
त्रपुषी चण्डबिल्वश्च झिण्टी पञ्चविधास्तथा ॥ ६६ ॥

एवमाद्युक्तकुसुमैः पूजयेद् वरदां शिवाम् ।
अपामार्गस्य पत्रं तु ततो भृङ्गारपत्रकम् ॥ ६७ ॥

ततोऽपि गन्धिनोपत्रं वलाहकमतः परम् ।
तस्मात् खदिरपत्रं तु वञ्जुलस्तवक स्तथा ॥ ६८ ॥

आम्रं तु बकगुच्छं तु जम्बुपत्रं ततः परम् ।
बीजपूरस्य पत्रं तु ततोऽपि कुशपत्रकम् ॥ ६९ ॥

दूर्वाकुरं ततः प्रोक्तं शमीपत्रमतः परम् ।
पत्रमामलकं तस्मादामलं पत्रमन्ततः ॥ ७० ॥

सर्वतो बिल्वपत्रं तु देव्याः प्रीतिकरं मतम् ।
पुष्पं कोकनदं पद्मं जवा बन्धुक एव च ॥ ७१ ॥

पत्रं बिल्वस्य सर्वेभ्यो वैष्णवीतुष्टिदं मतम् ।
सर्वेषां पुष्पजातीनां रक्तपद्ममिहोत्तमम् ॥ ७२ ॥

रक्तपद्मसहस्रेण यो मालां सम्प्रयच्छति ।
भक्तियुक्तो महादेव्यै तस्य पुण्यफलं शृणु ॥ ७३ ॥

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
स्थित्वा मम पुरे स्रीमांस्ततो राजा क्षितौ भवेत् ॥ ७४ ॥

पत्रेषु बिल्वपत्रं तु देवीप्रीतिकरं मतम् ।
तत्सहस्रकृता माला पूर्ववत् फलदा भवेत् ॥ ७५ ॥

किञ्चात्र बहुनोक्तेन समान्येनेदमुच्यते ।
उक्तानुक्तैस्तथापुष्पैर्जलजैः स्थलसम्भवैः ॥ ७६ ॥

पत्रैः सर्वैर्यथालाभं सर्वौषधिगणैरपि ।
वनजैः सर्वपुष्पैश्च पत्रैरपि शिवां यजेत् ॥ ७७ ॥

पूजयेत् परमेशानीं पुष्पाभावेऽपि पत्रकैः ।
पत्राणामप्यभावे तु तृणगुल्मौषधादिभिः ॥ ७८ ॥

औषधीनामभावे तु तत्फलैरपि पूजयेत् ।
अक्षतैर्वा जलैर्वापि तदभावे तु सर्षपैः ॥ ७९ ॥

सितैस्तस्याप्यलाभे तु मानसीं भक्तिमाचरेत् ।
आजिदन्तकपत्रैश्च पुष्पौघैरपि पूजयेत् ॥ ८० ॥

तुलसीकुसुमैः पत्रैरर्चयेच्छ्रीविवृद्धये ।
पुरश्चरणकार्येषु बिल्वपत्रयुतैस्तिलैः ॥ ८१ ॥

साक्षतैः सघृतैर्वापि शिवामुद्दिश्य यत्नतः ।
जुहुयादनलं वृद्धं संस्कृतं कामवृद्धये ॥ ८२ ॥

सङ्कल्पितः कामसिद्ध्यै सङ्ख्यया यः कृतो जपः ।
तदन्ते पूजनं यत्तु विहितं क्रियते द्विजैः ॥ ८३ ॥

पुरश्चरणसञ्ज्ञं तु कीर्तितं द्विजसत्तमैः ।
तस्मिन् पुराणके पूर्वं पूर्वोक्तैर्विस्तरोदितैः ॥ ८४ ॥

विधानैः पूजयेद् देवीं कामाख्यां वैष्णवीमपि ।
यथासम्भवमेवात्र दद्यात् षोडश साधकः ॥ ८५ ॥

उपचारांस्तथैवोक्तान् विधिकृत्यान्न लङ्घयेत् ।
सम्पूर्णं पूजनं कृत्वा कल्पोक्तं शतधा जपेत् ॥ ८६ ॥

जपान्ते जुहुयादग्निं होमान्ते तु बलित्रयम् ।
त्रिजातीयं तु वितरेत्तौर्यत्रिकमतः परम् ॥ ८७ ॥

पत्नी स्वयं वा भ्राता वा गुरुर्वा विनियोजयेत् ।
नैवेद्यादीनि सर्वाणि स्वपुत्रः शिष्य एव वा ॥ ८८ ॥

यज्ञावसाने दद्यात् तु गुरवे दक्षिणां शुभाम् ।
चामीकरं तिलान् गाञ्च तदशक्तौ तु चेलकम् ॥ ८९ ॥

अष्टम्यां शुक्लपक्षस्य ब्रह्मचारी जितेन्द्रियः ।
नवम्यां वा चतुर्दश्यां महादेव्याः पुरश्चरेत् ॥ ९० ॥

आदद्याद् गुरुवक्त्रात् तु विधिना विस्तरेण तु ।
कल्पोदितेन सम्पूज्य तिथिष्वेतासु भैरव ॥ ९१ ॥

सम्पूर्णपूजां नो कृत्वा नादद्यान्मन्त्रमीप्सितम् ।
न पुरश्चरणं वापि कुर्यात् कृत्वाऽवसीदति ॥ ९२ ॥

नित्यपूजा सा तु पुनः सम्पूर्णा यदि शक्यते ।
कल्पोदितं पूजयितुं तदा कुर्यादतन्द्रितः ॥ ९३ ॥

न चेद् विस्तरशः कर्तुं देव्याः पूजां तु भैरव ।
कल्पोक्तां वाऽन्यदेवस्य तत्रायं विधिरुच्यते ॥ ९४ ॥

मार्जनाद्यैस्तु संस्कृत्य स्थण्डिले मण्डलं लिखेत् ।
पात्रस्य प्रतिपत्तिं तु कृत्वा दाह प्लवं तथा ॥ ९५ ॥

ध्यायेदात्मानमथ च संस्कृत्याङ्गस्वरूपतः ।
अङ्गुष्ठाद्यस्त्रपर्यन्तं द्वादशाङ्गस्य शुद्धये ॥ ९६ ॥

अर्घ्यपात्रेऽष्टधा जप्त्वा उपचारान् प्रसेचयेत् ।
आधारशक्तिप्रमुखं मूलवर्णान् प्रयुज्य च ॥ ९७ ॥

हृदिस्थां देवतां ध्यात्वा बहिःकृत्यं च वायुना ।
आरोप्य मण्डले दद्यादुपचारान् यथाविधि ॥ ९८ ॥

पूजयित्वा षडङ्गानि तथाष्टौ दलदेवताः ।
पुष्पाञ्जलित्रयं दत्त्वा जप्त्वा स्तुत्वा प्रणम्य च ॥ ९९ ॥

मुद्रामग्ने प्रदर्श्याथ ततः पश्चाद् विसर्जयेत् ।
सर्वेषामेव देवानामेष एव विधिः स्मृतः ॥ १०० ॥

सम्यक् कल्पोदिता पूजा यदि कर्तुं न शक्यते ।
उपचारांस्तथा दातुं पञ्चैतान् वितरेत् तदा ॥ १०१ ॥

गन्धं पुष्पं च धूपं च दीपं च नैवेद्यमेव च ।
अभावे पुष्पतोयाभ्यां तदभावे तु भक्तितः ॥ १०२ ॥

सङ्क्षेपपूजा कथिता तथा वस्त्रादिकं पुनः ।
पुरश्चरणकृत्ये च प्रदीपं शृणु भैरव ॥ १०३ ॥

दीपेन लोकाञ्जयति दीपस्तेजोमयः स्मृतः ।
चतुर्वर्गप्रदो दीपस्तस्माद् दीपैर्यजेच्छ्रियम् ॥ १०४ ॥

सततं पुष्पदीपाभ्यां पूजयेद् यस्तु देवताम् ।
ताभ्यामेव चतुर्वर्गः कथितो नात्र संशयः ॥ १०५ ॥

पुष्पैर्देवाः प्रसीदन्ति पुष्पे देवाश्च संस्थिताः ।
चराचराश्च सकलाः सदा पुष्परसाः स्मृताः ॥ १०६ ॥

किञ्चाति बहुनोक्तेन पुष्पस्योक्तिर्मतल्लिका ।
परं ज्योतिः पुष्पगतं पुष्पेणैव प्रसीदति ॥ १०७ ॥

त्रिवर्गसाधनं पुष्पं तुष्टिश्रीपुष्टिमोक्षदम् ।
पुष्पमूले वसेद् ब्रह्मा पुष्पमध्ये तु केशवः ॥ १०८ ॥

पुष्पाग्रे तु महादेवः सर्वे देवाः स्थिता दले ।
तस्मात् पुष्पैर्यजेद् देवान्नित्यं भक्तियुतो नरः ॥ १०९ ॥

उच्चारितं नाममात्रं जायते सर्वभूतये ।
घृतप्रदीपः प्रथमस्तिलतैलोद्भवस्ततः ॥ ११० ॥

सार्षपफलनिर्यासजातो वा राजिकोद्भवः ।
दधिजश्चान्नजश्चैव दीपाः सप्त प्रकीर्तिताः ॥ १११ ॥

पद्मसूत्रभवा दर्भगर्भसूत्रभवाऽथवा ।
शणजा बादरी वापि फलकोषोद्भवा तथा ॥ ११२ ॥
मूलम्
पद्मसूत्रभवा दर्भगर्भसूत्रभवाऽथवा ।
शणजा बादरी वापि फलकोषोद्भवा तथा ॥ ११२ ॥
विश्वास-प्रस्तुतिः
वर्तिका दीपकृत्येषु सदा पञ्चविधाः स्मृताः ।
तैजसं दारवं लौहं मार्तिक्यं नारिकेलजम् ॥ ११३ ॥

तृणध्वजोद्भवं वापि दीपपात्रं प्रशस्यते ।
दीपवृक्षाश्च कर्तव्यास्तैजसाद्यैस्तु भैरव ॥ ११४ ॥

वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन ।
सर्वसहा वसुमती सहते न त्विदं द्वयम् ॥ ११५ ॥

अकार्यपादघातं च दीपतापं तथैव च ।
तस्माद् यथा तु पृथ्वी तापं नाप्नोति वै तथा ॥ ११६ ॥

दीपं दद्यान्महादेव्यै अन्येभ्योऽपि च भैरव ।
कुर्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः ॥ ११७ ॥

स ताम्रतापं नरकं प्राप्नोत्येव शतं समाः ।
सुवृत्तवर्तिः सुस्नेहः पात्रमग्नः सुदर्शनः ॥ ११८ ॥

सूच्छ्राये वृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः ।
लभ्यते यस्य तापस्तु दीपस्य चतुरङ्गुलात् ॥ ११९ ॥

न स दीप इति ख्यातो ह्योघवह्निस्तु स श्रुतः ।
नेत्राह्लादकरः स्वर्चिर्दूरतापविवर्जितः ॥ १२० ॥

सुशिखः शब्दरहितो निर्धूमो नातिह्रस्वकः ।
दक्षिणावर्तवर्तिस्तु प्रदीपः श्रीविवृद्धये ॥ १२१ ॥

दीपवृक्षस्थिते पात्रे शुद्धस्नेहप्रपूरिते ।
दक्षिणावर्तवर्त्या तु चारुदीप्तः प्रदीपकः ॥ १२२ ॥

उत्तमः प्रोच्यते पुत्र सर्वतुष्टिप्रदायकः ।
वृक्षेण वर्जितो दीपो मध्यमः परिकीर्तितः ॥ १२३ ॥

विहीनः पात्रतैलाभ्यामधमः परिकीर्तितः ।
शाणं वा दारवं वस्त्रं जीर्णं मलिनमेव वा ॥ १२४ ॥

उपयुक्तं च नादद्याद् वर्तिकार्थं तु साधकः ।
उपादद्यान्नूत्नमेव सततं श्रीविवृद्धये ॥ १२५ ॥

कोषजं रोमजं वस्त्रं वर्तिकार्थं न चाददेत् ।
न मिश्रीकृत्य दद्यात् तु दीपे स्नेहघृतादिकान् ॥ १२६ ॥

कृत्वा मिश्रीकृतं स्नेहं तामिस्रं नरकं व्रजेत् ।
वसामज्जास्थिनिर्यासैः स्नेहैः प्राण्यङ्गसम्भवैः ॥ १२७ ॥

प्रदीपं नैव कुर्यात् तु कृत्वा पङ्केऽवसीदति ।
अस्थिपात्रेऽथ वा पच्येद् दुर्गन्धास्थिपवासिनि ॥ १२८ ॥

नैवं दीपः प्रदातव्यो विबुधैः श्रीविवृद्धये ।
नैव निर्वापयेद् दीपं कदाचिदपि यत्नतः ॥ १२९ ॥

सततं लक्षणोपेतं देवार्थमुपकल्पितम् ।
न हरेज्ज्ञानतो दीपं तथा लोभादिना नरः ॥ १३० ॥

दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् ।
उद्दीप्तदीपप्रतिमं काष्ठकाण्डसमुद्भवम् ॥ १३१ ॥

बिल्वेघ्मोद्भवमेवाथ दीपालाभे निवेदयेत् ।
उल्मुकं नैव दीपार्थे कदाचिदपि चोत्सृजेत् ॥ १३२ ॥

प्रसन्नार्थं तु तं दद्यादुपचाराद् बहिष्कृतम् ।
एवं वां कथितो दीपो धूपं च शृणुतं सुतौ ॥ १३३ ॥

नासाक्षिरन्ध्रसुखदः सुगन्धोऽतिमनोहरः ।
दह्यमानस्य काष्ठस्य प्रयतस्येतरस्य च ॥ १३४ ॥

परागस्याथवा धूमो निस्तापो यस्य जायते ।
स धूप इति विज्ञेयो देवानां तुष्टिदायकः ॥ १३५ ॥

राशीकृतैर्न चैकत्र तैर्द्रव्यैः परिधूपयेत् ।
तुषाग्निवर्तुलां कृत्वा न तत् फलमवाप्नुयात् ॥ १३६ ॥

श्रीचन्दनं च सरलः शालः कृष्णागुरुस्तथा ।
उदयः सुरथस्कन्दो रक्तविद्रुम एव च ॥ १३७ ॥

पीतशालः परिमलो विर्मदी काशलस्तथा ।
नमेरुर्देवदारुश्च बिल्वसारोऽथ खादिरः ॥ १३८ ॥

सन्तानः पारिजातश्च हरिचन्दनवल्लभौ ।
वृक्षेषु धपाः सर्वेषां प्रीतिदाः परिकीर्तिताः ॥ १३९ ॥

अरालः सह सूत्रेण श्रीवासः पट्टवासकः ।
कर्पूरः श्रीकरश्चैव परागः श्रीहरामलौ ॥ १४० ॥

सर्वौषधीप आतीच वराहश्चूर्णम् उत्कलः ।
जातीकोषस्य चूर्णं च गन्धः कस्तूरिका तथा ॥ १४१ ॥

क्षोदे वृत्ते च गदिता धूपा एते उदाहृताः ।
यक्षधूपो वृक्षधूपः श्रीपिष्टोऽगुरु झर्झरः ॥ १४२ ॥

पत्रिवाहः पिण्डधूपः सुगोलः कण्ठ एव चः ।
अन्योन्ययोगा निर्यासा धूपा एते प्रकीर्तिताः ॥ १४३ ॥

एतैर्विधूपयेद् देवान् धूमिभिः कृष्णवर्त्मना ।
येषां धूपोद्भवैर्घ्राणैस्तुष्टिं गच्छन्ति जन्तवः ॥ १४४ ॥

निर्यासश्च परागश्च काष्ठं गन्धं तथैव च ।
कृत्रिमश्चेति पञ्चैते धूपाः प्रीतिकराः पराः ॥ १४५ ॥

न यक्षधूपं वितरेन्माधवाय कदाचन ।
न रक्तं विद्रुमं मह्यं सुरथं कद्र्लं तथा ॥ १४६ ॥

यक्षधूपः पुत्रिवाहः पिण्डधूपः सुगोलकः ।
कृष्णागुरुः सकर्पूरो महामायाप्रियः स्मृतः ॥ १४७ ॥

वृक्षधूपेन वा देवीं महामायां प्रपूजयेत् ।
मेदोमज्जासमायुक्तान् न धूपान् विनियोजयेत् ॥ १४८ ॥

परकीयांस्तथाघ्रातांस्तेऽपि कृत्याभिमर्दितान् ।
पुष्पं धूपं च गन्धं च उपचारांस्तथापरान् ॥ १४९ ॥

घ्रात्वा निवेद्य देवेभ्यो नरो नरकमाप्नुयात् ।
न भूमौ वितरेद् धूपं नासने न घटे तथा ॥ १५० ॥

यथातथाधारगतं कृत्वा तद् विनिवेदयेत् ।
रक्तविद्रूमशालौ च सुरथः सुरलस्तथा ॥ १५१ ॥

सन्तानको नमेरुश्च कालागुरुसमन्वितः ।
जातीकोषाक्षसंयुक्तो धूपः कामेश्वरीप्रियः ॥ १५२ ॥

त्रिपुरायास्तथैवायं मातृणामपि नित्यशः ।
सर्वेषां पीठदेवानां रुद्रादीनां च पुत्रकौ ॥ १५३ ॥

एष वां कथितो धूपः शृणु तन्नेत्ररञ्जनम् ।
येन तुष्यति कामाख्या त्रिपुरा वैष्णवी तथा ॥ १५४ ॥

सौवीरं यामुनं तुत्थ्रं मयूरग्रीवकं तथा ।
दर्विका मेघनीलश्च अञ्जनानि भवन्ति षट् ॥ १५५ ॥

स्रवद्द्रुमं च सौवीरं यामुनं प्रस्तरं तथा ।
मयूरग्रीवकं रत्नं मेघनीलस्तु तैजसम् ॥ १५६ ॥

घृष्ठानि ग्राह्य चैतानि शिलायां तैजसेऽथ वा ।
प्रदद्यात् सर्वदेवेभ्यो देवीभ्यश्चापि पुत्रक ॥ १५७ ॥

घृततैलादियोगेन ताम्रादौ दीपवह्निना ।
यदञ्जनं जायते तु दर्विका परिकीर्तिता ॥ १५८ ॥

सर्वाभावे तु तद् दद्याद् देवीभ्यो दाहजाञ्जनम् ।
महामाया जगद्धात्री कामाख्या त्रिपुरा तथा ॥ १५९ ॥

आप्नुवन्ति महातोषं षड्भिरेभिः सदाञ्जनैः ।
विधवा नाञ्जनं कुर्यान्महामायार्थमुत्तमम् ॥ १६० ॥

नादत्ते त्वञ्जनं देवी वैष्णवी विधवाकृतम् ।
त मृत्पात्रे योजयेत् तु साधको नेत्ररञ्जनम् ॥ १६१ ॥

न पूजाफलमाप्नोति मृत्पात्रविहिताञ्जनैः ।
चतुर्वर्गप्रदो धूपः कामदं नेत्ररञ्जनम् ॥ १६२ ॥

तस्माद् द्वयमिदं दद्याद् देवेभ्यो भक्तितो नरः ।
इति वां गदितो धूपस्तथोक्तं नेत्ररञ्जनम् ।
नैवेद्यं तु महादेव्याः शृण्वैकाग्रमनाः पुनः ॥ १६३ ॥

इति श्रीकालिकापुराणे एकोनसप्ततितमोऽध्यायः ॥ ६९ ॥