६८

विश्वास-प्रस्तुतिः

अष्टषष्टितमोऽध्यायः

श्रीभगवानुवाच

उपचारान् प्रवक्ष्यामि शृणु षोडश भैरव ।
यः सम्यक् तुष्यते देवो देवोऽप्यन्यो हि भक्तितः ॥ १ ॥

मूलम्

आसनं प्रथमं दद्यात् पौष्ण्यं दारवमेव वा ।
वास्त्रं वा चार्मणं कौशं मण्डलस्योत्तरे सृजेत् ॥ २ ॥

यदैव दीयते पद्मे मण्डलस्य तदुत्सृजेत् ।
वाक्पुष्पतोयैः कुसुमं विना यच्छादकं भवेत् ॥ ३ ॥

पद्मस्य तद्बहिर्देशे द्वारादौ विनिवेदयेत् ।
अर्घ्यं पाद्यं चाचमनं स्नानीयं नेत्ररञ्जनम् ॥ ४ ॥

मधुपर्कं च गन्धं च पुष्पं पद्मे निवेदयेत् ।
प्रतिमासु च यद्योग्यं गात्रे दातुं च तत् तनौ ॥ ५ ॥

दद्याद् योग्यं तु पुरतो नैवेद्यं भोजनादिकम् ।
पौष्पासनं यद् विहितं यस्य तद् यदि गर्भकम् ॥ ६ ॥

निवेदयेत् तदा पद्मे विपुलं द्वारि चोत्सृजेत् ।
पौष्पं पुष्पौघरचितं कुशसूत्रादिसंयुतम् ॥ ७ ॥

अतिप्रीतिकरं देव्या ममाप्य्न्यस्य भैरव ।
यज्ञकाष्ठसमुद्भुतमासनं मसृणं शुभम् ॥ ८ ॥

नोच्छ्रायं नातिविस्तीर्णमासनं विनियोजयेत् ।
अन्यद् दारुभवं चापि दद्यादासनमुत्तमम् ॥ ९ ॥

सकण्टकं क्षीरयुत दारुसारविवर्जितम् ।
चैत्यश्मशानसम्भूतं वर्जयित्वा विभीतकम् ॥ १० ॥

वल्कलं कोषजं शाणं वस्त्रमेतत् त्रयं मतम् ।
रोमजं कम्बलम् ऐतदनेन तु चतुष्टयम् ॥ ११ ॥

अनेन रचितं दद्यादासनं चेष्टभूतये ।
इंहव्याघ्रतरक्षूणां छागस्य महिषस्य वा ॥ १२ ॥

गजानां तुरगाणां च कृष्णसारस्य चर्मणः ।
सृमरस्याथ रामस्य मृगाणां नवभेदिनाम् ॥ १३ ॥

चर्मभिः सर्वदेवानामासनं प्रीतिदं श्रुतम् ।
वस्त्रेषु कम्बलं शस्तमासनं देवतुष्टये ॥ १४ ॥

राङ्कवं चार्मणं श्रेष्ठं दारवं चन्दनोद्भवम् ।
यच्चासनं कुशमयं तदासनमनुत्तमम् ॥ १५ ॥

सर्वेषामपि देवानामृषीणां च यतात्मनाम् ।
योगपीठस्य सदृशमासनं स्थानमुच्यते ॥ १६ ॥

मूलम्

सर्वेषामपि देवानामृषीणां च यतात्मनाम् ।
योगपीठस्य सदृशमासनं स्थानमुच्यते ॥ १६ ॥

विश्वास-प्रस्तुतिः

आसनस्य प्रदानेन सौभाग्यं मुक्तिमाप्नुयात् ।
शम्बरो रोहितो रामो न्यङ्कुरङ्कुशशा रुरुः ॥ १७ ॥

एणश्च हरिणश्चेति मृगा नवविधा मताः ।
हरिणश्चापि विज्ञेयो अञ्चभेदोऽत्र भैरव ॥ १८ ॥

ऋष्यह् खड्गो रुरुश्चैव पृषतश्च मगस्तथा ।
एते वलिप्रदानेषु चर्मदानेषु कीर्तिताः ॥ १९ ॥

सर्वेषां तैजसनां च आसनं श्रेष्ठमुच्यते ।
आयसं वर्जयित्वा तु कांस्यं सीसकमेव वा ॥ २० ॥

शिलामयं मणिमयं तथा रत्नमयं मतम् ।
आसन देवताभ्यस्तु भुक्त्यै मुक्त्यै समुत्सृजेत् ॥ २१ ॥

अत्रैव साधकानां च आसनं शृणु भैरव ।
यत्रासीनः पूजयंस्तु सर्वसिद्धिमवाप्नुयात् ॥ २२ ॥

ऐन्धनं चार्मणं वास्त्रं तैजसं च चतुष्टयम् ।
आसनं साधकानां च सततं परिकीर्तितम् ॥ २३ ॥

अत् सर्वमासनं शस्तं पूजाकर्मणि साधके ।
न यथेष्टासनो भूयत् पूजाकर्मणि साधकः ॥ २४ ॥

काष्ठादिकासनं कुर्यात् सितमेव सदा बुधः ।
चतुर्विंशत्यङ्गुलेन दीर्घं काष्ठासनं मतम् ॥ २५ ॥

षोडशाङ्गुलविस्तीर्णमुच्छ्रायं चतुरङ्गुलम् ।
षडङ्गुलं वा कुर्यात् नोच्छ्रितञ्चात आचरेत् ॥ २६ ॥

पूर्वोक्तं वर्जयेद् वर्ज्यमासनं पूजनेष्वपि ।
वस्त्रं द्विहस्तान्नो दीर्घं सार्धहस्तान्न विस्तृतम् ॥ २७ ॥

न र्यङ्गुलात् तथोच्छ्रायं पूजाकर्मणि संश्रयेत् ।
यथेष्टं चार्मणं कुर्यात् पूर्वोक्तं सिद्धिदायकम् ॥ २८ ॥

षडङ्गुलाधिकं कुर्यान्नोच्छ्रितं च कदाचन ।
काम्बलं चार्मणं शैलं महामायाप्रपूजने ॥ २९ ॥

प्रशस्तमासनं प्रोक्तं कामाख्यायास्तथैव च ।
त्रिपुरायाश्च सततं विष्णोश्चापि कुशासनम् ॥ ३० ॥

बहुदीर्घं बहुञ्च्छ्रायं तथैव बहुविस्तृतम् ।
दारु भूमिसमं प्रोक्तमश्मापि सर्वकर्मणि ॥ ३१ ॥

पृथक् पृथक् कल्पयेत् तु बहिर्द्वारि तथासनम् ।
न पत्रमासनं कुर्यात् कदाचिदपि पूजने ॥ ३२ ॥

न प्राण्यङ्ग-समुद्भूतमस्थिजं द्विरदादृते ।
मातङ्गदन्तसञ्जातं कामिकेष्वासनं चरेत् ॥ ३३ ॥

चार्मं पूर्वोदितं ग्राह्यं तथा गन्धमृगस्य च ।
सलिले यदि कुर्वीत देवतानां प्रपूजनम् ॥ ३४ ॥

तत्राप्यासन आसीनो नोत्थितस्तु कदाचन ।
तोये शिलामयं कुर्यादासनं कौशमेव वा ॥ ३५ ॥

दारवं तैजसं वापि नान्यदासनमाचरेत् ।
आसनारोपसंस्थानं स्थानाभावे तु पूजकः ॥ ३६ ॥

आसनं कल्पयित्वा तु मनसा पूजयेज्जले ।
यद्यासितुं न संस्थानं विद्यते तोयमध्यतः ॥ ३७ ॥

अन्यत्र वा तदा स्थित्वा देवपूजां समाचरेत् ।
इत्येतत् कथितं पुत्र पूज्यपूजकसङ्गतम् ॥ ३८ ॥

आसनं पाद्यमधुना शृणु वेताल भैरव ।
पादार्थमुदकं पाद्यं केवलं तोयमेव तत् ॥ ३९ ॥

तत् तैजसेन पात्रेण शङ्खेनापि प्रदापयेत् ।
धर्मार्थकाममोक्षाणां सस्थानं पाद्यमिष्यते ॥ ४० ॥

तदासनोत्तरं दद्यान्मूलमन्त्रेण सर्वतः ।
कुशपुष्पाक्षतैश्चैव सिद्धार्थैश्चन्दनैस्तथा ॥ ४१ ॥

तोयैर्गन्धैर्यथालब्धैरर्घ्यं दद्यात् तु सिद्धये ।
अर्घ्येण लभते कामानर्घ्येण लभते धनम् ॥ ४२ ॥

पुत्रायुःसुखमोक्षाणि दानादर्घ्यस्य वै लभेत् ।
न दद्याद् भास्करायार्घ्यं शङ्खतोयैर्विचक्षणः ॥ ४३ ॥

तथा न शुक्तिपात्रेण विष्णवेऽर्घ्यं निवेदयेत् ।
दद्यादाचमनीयं तु सुगन्धिसलिलैः शुभैः ॥ ४४ ॥

कर्पूरवासितैर्वापि कृष्णागुरुविधूपितैः ।
यथा तथा सुगन्धैर्वा प्रसङ्गैः फेनवर्जितैः ॥ ४५ ॥

मूलम्

कर्पूरवासितैर्वापि कृष्णागुरुविधूपितैः ।
यथा तथा सुगन्धैर्वा प्रसङ्गैः फेनवर्जितैः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तत् तैजसेन पात्रेण शङ्खेनापि प्रदापयेत् ।
उदकं दीयते यत् तु प्रसन्नं फेनवर्जितम् ॥ ४६ ॥

आचमनाय देवेभ्यस्तदाचमनमुच्यते ।
केवलं तोयमात्रेण तद् वा दद्यान्न मिश्रितम् ॥ ४७ ॥

वासितं तु सुगन्धाद्यैः कर्तव्यं यदि लभ्यते ।
आयुर्बलं यशोवृद्धिं प्रदायाचमनीयकम् ॥ ४८ ॥

लभते साधको नित्यं कामांश्चैव यथोत्थितान् ।
दधिर्सर्पिर्जल क्षौद्रं सिता ताभिश्च पञ्चभिः ॥ ४९ ॥

प्रोच्यते मधुपर्कस्तु सर्वदेवौघतुष्टये ।
जलं तु सर्वतः स्वल्पं सितादधिघृतं समम् ॥ ५० ॥

सर्वेभ्य श्चाधिकं क्षौद्रं मधुपर्केप्रयोजयेत् ।
तद् दद्यात् कांस्यपात्रेण रौक्मश्वेतमयेन वा ॥ ५१ ॥

ज्योतिष्टोमाश्वमेधादौ पूर्ते चेष्टे च पूजने ।
मधुपर्कः प्रदिष्टोऽयं सर्वदेवौघतुष्टिदः ॥ ५२ ॥

धर्मार्थकाममोक्षाणां साधकः परिकीर्तितः ।
मधुपर्कः सौख्यभोग्य-तुष्टि-पुष्टि-प्रदायकः ॥ ५३ ॥

पिष्टातकोऽथ कस्तूरी रोचनं कुङ्कुमं तथा ।
गुडः क्षौद्रं पञ्चगव्यं सर्वौषधिगणस्तथा ॥ ५४ ॥

सिता निर्णेजनं तैलं स्निग्धस्तेहेन तत्तिलाः ।
प्रान्ते तोयमिति प्रोक्तं स्नानीयं कल्पकोविदैः ॥ ५५ ॥

स्वर्णरत्नोदकं चैव कर्पूराद्यधिवासितम् ।
तैजसैः कांस्यपात्रैर्वा शङ्खैर्वा तन्निवेदयेत् ॥ ५६ ॥

अण्डले केशरे देयमादित्यप्रतिमासु च ।
शिवलिङ्गे तथा भोगे पीठे देवतनौ तथा ॥ ५७ ॥

अद्यःस्निग्धम् ऋन्मयं वा सर्पिःसिन्दुरजे तथा ।
श्रीचन्दनप्रतिष्ठे वा लेपयेत् प्रतिमातनौ ॥ ५८ ॥

वस्तिकस्थापिते खड्गे स्नापयेद् दर्पणेऽथ वा ।
एवं दद्यात् तु स्नानीयं महादेव्यै विशेषतः ॥ ५९ ॥

अवि विष्णुशिवेभ्यो वा यत्र तत्र प्रपूजने ।
पूजकः स्नानदानात् त चिरायुरुपजायते ॥ ६० ॥

सम्यक् स्नानप्रदानात् तु कल्पान्तं स्वर्गभाग्भवेत् ।
यदेव दीयते पाद्यं गन्धपुष्पादिकं तथा ॥ ६१ ॥

उपाचारांस्तथा सर्वानर्घ्यपात्राहितैर्जलैः ।
अमृतीकरणाद्यैस्तु संस्कृतैस्त्वभिषिच्य तैः ॥ ६२ ॥

प्रदद्यादिष्टदेवेभ्यो गृह्णाति च ततः स्वयम् ।
अर्घ्यपात्राणि तैस्तोयैर्विना यद्विनिवेदनम् ॥ ६३ ॥

दीयते चेष्टदेवेभ्यः सर्वं तन्निष्फलं भवेत् ।
रागाल्लोभात् प्रमादाद् वा ह्यर्घ्यं पात्रामृतीकृतम् ॥ ६४ ॥

तोयं स्रुतं स्यात् पात्रात् तु पुनः कुर्यात् तदा मृतम् ।
स्वल्पावशेषतोये तु पात्रस्थे ह्यमृतीकृते ॥ ६५ ॥

तत्रान्यदुदकं दद्यात् तत्तैनैवामृतं भवेत् ।
बहूनि यदि पुष्पाणि माला वा प्रचुरा यदि ॥ ६६ ॥

दीयन्ते चार्घ्यपात्रस्थैर्जलैः संसिच्य चोत्सृजेत् ।
अन्यतोयैर्यदुत्सृष्टमर्घ्यपात्रस्थितेतरैः ॥ ६७ ॥

तन्न गृह्वातीष्टदेवो दत्तं विधिशतैरपि ।
संस्कृते त्वर्घ्यपात्रे तु नवभिः प्रतिपत्तिभिः ॥ ६८ ॥

तिष्ठन्ति सवतीर्थानि पीयूषाणि च सर्वतः ।
तस्मात् तत्र स्थितैस्तोयैरभ्युक्ष्योपचारानुत्सृजेत् ॥ ६९ ॥

न योग्यमर्घ्यपात्रेषु निधाय विनिवेदयेत् ।
इदं ते भैरव प्रोक्तं षट्कं चैवासनादिकम् ।
वस्त्रादि दश वक्ष्यामि शृणु विज्ञानवृद्धये ॥ ७० ॥

इति श्रीकालिकापुराणे अष्टषष्टितमोऽध्यायः ॥ ६८ ॥

एकोनसप्ततितमोऽध्यायः ।