६७

विश्वास-प्रस्तुतिः

सप्तषष्टितमोऽध्यायः

श्रीभगवानुवाच

क्रमस्तु बलिदानस्य स्वरूपं रुधिरादितः ।
यथा स्यात् प्रीतये सम्यक् तद् वां वक्ष्यामि पुत्रको ॥ १ ॥

मूलम्

वैष्णवीतन्त्रकल्पोक्तः क्रमः सर्वत्रः सर्वदा ।
साधकैर्बलिदानस्य ग्राह्यः सर्वसुरस्य च ॥ २ ॥

पक्षिणः कच्छपा ग्राहा मत्स्या नवविधा मृगाः ।
महिषो गोधिका गावश्छागो रुरुश्च शूकरः ॥ ३ ॥

खड्गश्च कृष्णसारश्च गोधिका शरभो हरिः ।
शार्दूलश्च नरश्चैव स्वगात्ररुधिरं तथा ॥ ४ ॥

चण्डिकाभैरवादीनां बलयः परिकीर्तिताः ।
बलिभिः साध्यते मुक्तिर्बलिभिः साध्यते दिवम् ॥ ५ ॥

बलिदानेन सततं जयेच्छत्रून्नृपान् नृपः ।
मत्स्यानां कच्छपानां तु रुधिरैः सततं शिवा ॥ ६ ॥

मासैकं तृप्तिमाप्नोति ग्राहैर्मासांस्तु त्रीनथ ।
मृगाणां शोणितैर्देवी नराणामपि शोणितैः ॥ ७ ॥

अष्टौ मासानवाप्नोति तृप्तिं कल्याणदा च सा ।
गोधिकानाम् ओरुधिरैर्वाषिकीं तृप्तिमाप्नुयात् ॥ ८ ॥

कृष्णसारस्य रुधिरैः शूकरस्य च शोणितैः ।
प्राप्नोति सततं देवी तृप्तिं द्वादशवार्षिकीम् ॥ ९ ॥

अजाविकानां रुधिरैः पञ्चविंशतिवार्षिकीम् ।
महिषाणां च खड्गानां रुधिरैः शतवार्षिकीम् ॥ १० ॥

तृप्तिमाप्नोति परमां शार्दूलरुधिरैस्तथा ।
सिंहस्य शरभस्याथ स्वगात्रस्य च शोणितैः ॥ ११ ॥

देवी तृप्तिमवाप्नोति सहस्रं परिवत्सरान् ।
मांसैरपि तथा प्रीति रुधिरैर्यस्य यावती ॥ १२ ॥

कृष्णसारं मृगं खड्गं तथा मत्स्यं च रोहितम् ।
वार्धीणसयुगं चापि फलं तेषां पृथक् पृथक् ॥ १३ ॥

कृष्णसारस्य मांसेन तथा खड्गेन चण्डिका ।
वर्षाणां च शतान्येव तृप्तिमाप्नोति केवलम् ॥ १४ ॥

रोहितस्य तु मत्स्यस्य मांसैर्वार्ध्रीणसस्य च ।
तृप्तिं प्राप्नोति वर्षाणां शतानि त्रीणि मत्प्रिया ॥ १५ ॥

ऋप्नुवन्त्विन्द्रियक्षीणं स्वेतं वृद्धमजापतिम् ।
वार्ध्रीणसः प्रोच्यतेऽसौ हव्ये कव्ये च सत्कृतः ॥ १६ ॥

नीलग्रीवो रक्तशीर्षः कृष्णपादः सितच्छदः ।
वार्ध्रीणसः स्यात्पक्षी च मम विष्णोरपि प्रियः ॥ १७ ॥

नरेण बलिना देवी सहस्रं परिवत्सरान् ।
विधिदत्तेन चाप्नोति तृप्तिं लक्षं त्रिभिर्नरैः ॥ १८ ॥

नरेणेवाथ मांसेन त्रिसहस्रं च वत्सरान् ।
तृप्तिमाप्नोति कामाख्या भैरवी मम रूपधृक् ॥ १९ ॥

मन्त्रपूतं शोणितं तु पीयूषं जायते सदा ।
मस्तकं चापि तस्यात्ति मांसं चापि तथा शिवा ॥ २० ॥

तस्मात् तु पूजने दद्याद् बलेः शीर्षं च लोहितम् ।
भोज्ये होमे च मांसानि नियुञ्जीयाद् विचक्षणः ॥ २१ ॥

पूजासु नाममांसानि दद्याद् वै साधकः क्वचित् ।
ऋते तु लोहितं शीर्षममृतं तत्तु जायते ॥ २२ ॥

कूष्माण्डभिक्षुदण्डं च मद्यमासवमेव च ।
एते बलिसमाः प्रोक्तास्तृप्तौ छागसमाः सदा ॥ २३ ॥

चन्द्रहासेन कर्त्र्या वा छेदनं मुख्यमिष्यते ।
दात्रासिधेनुक्रकचशङ्कुलाभिस्तु मध्यमम् ॥ २४ ॥

क्षुरक्षुरप्रभल्लैश्च वाधम परिकीर्तितम् ।
एभ्योऽन्यः शक्तिबाणाद्यैर्बलिश्छेद्यः कदापि न ॥ २५ ॥

नात्ति देवी बलि तत्तु दाता मृत्युमवाप्नुयात् ।
हस्तेन छेदयेद् यस्तु प्रोक्षित साधकः पशुम् ॥ २६ ॥

अक्षिणं वा ब्रह्मवध्यामवाप्नोति सुदुःसहाम् ।
नामन्त्र्य खण्डं तु बलिं नियुञ्जीत विचक्षणः ॥ २७ ॥

खड्गस्यामन्त्रणे मन्त्रा यावन्तः कथिताः पुरा ।
महामायाबलौ ते वै योज्यास्तत्रोदिता बुधैः ॥ २८ ॥

तैः सार्धमेते मन्त्रास्तु योज्याः खड्गादिमन्त्रणे ।
पूजने शारदादीनां कामाख्याया विशेषतः ॥ २९ ॥

द्विः कालीति ततो देव्या वज्रेश्वरिपदं ततः ।
ततोऽनु लौहदण्डायै नमः शेषे तु योजयेत् ॥ ३० ॥

सम्पूज्यानेन मन्त्रेण खड्गमादाय पाणिना ।
कालरात्र्यास्तु मन्त्रेण तं खड्गमभिमन्त्रयेत् ॥ ३१ ॥

नेत्रबीजस्य मध्यं तु द्विरावर्त्य प्रयोजयेत् ।
ततोऽनु कालिकालीति करालोष्ठी ततः परम ॥ ३२ ॥

हान्तादींश्च तृतीयेन स्वरेणैकादशेन वै ।
योजिता नादबिन्दुभ्यां द्वौ तत् पश्चान्नियोजयेत् ॥ ३३ ॥

फेत्कारिणिपदं तस्मात् खादयच्छेदयेत्यतः ।
सर्वान् दुष्टानिति ततो द्विर्मारय लुलायकम् ॥ ३४ ॥

खड्गेन छिन्धि छिन्धीति ततः किलकिलेति वै ।
ततः चिकिचिकीत्येवं ततः पिबपिबेति च ॥ ३५ ॥

ततोऽनु रुधिरं चेति स्फैं स्फैङ्किरि किरीति च ।
कालिकायै नम इति काल रात्र्यास्तु मन्त्रकम् ॥ ३६ ॥

इत्यनेन तु मन्त्रेण करवालेऽभिमन्त्रिते ।
कालरात्री स्वयं तत्र प्रसीदत्यरिहानये ॥ ३७ ॥

बलेः पूर्वोदिता मन्त्रा नित्यं गुह्यास्तु साधकैः ।
अयं मन्त्रस्तु वक्तव्यस्तस्य हत्याविहानये ॥ ३८ ॥

यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा ।
अतस्त्वां धातयिष्यामि तस्माद् यज्ञे वधोऽवधः ॥ ३९ ॥

ततो दैवतमुद्दिश्य काममुद्दिश्य चात्मनः ।
छेदयेत् तेन खड्गेन बलिं पूर्वाननं तु तम् ॥ ४० ॥

अथवोत्तरवक्त्रं तं स्वयं पूर्वमुखस्तथा ।
पूर्वोक्तान् सैन्धवादींस्तु वक्त्त्रेऽवश्यं नियोजयेत् ॥ ४१ ॥

सौवर्णं राजत ताम्रं रैत्यं पत्रपुट च वा ।
माहेयं कांस्यमथवा यज्ञकाष्ठमयं च वा ॥ ४२ ॥

पात्रं रुधिरदानाय कर्तव्यं विभवावधि ।
न लौहे वल्कले वापि वैत्रे राङ्गेऽथ सैसके ॥ ४३ ॥

दद्याद्रक्तं बलीनां तु भूमौ स्रुचि स्रुवे तथा ।
न घटे भूतले वापि देयं क्षुद्रे न भाजने ॥ ४४ ॥

रुधिराणि प्रदद्यात्तु भूतिकामो नरोत्तमः ।
नरस्य तु सदा रक्तं माहैये तैजसेऽथ वा ॥ ४५ ॥

दद्यान्नरपतिस्तत्तु न पत्रादौ कदाचन ।
हयमेधमृते दद्यान्न कदाचिद्धयं बलिम् ॥ ४६ ॥

तथा दिक्पालमेधे तु गजं दद्यान्नराधिपः ।
न कदाचित् तदा देव्यै प्रदद्याद्धयहस्तिनौ ॥ ४७ ॥

हयाकर्षे चामरं तु बलिं दद्यान्नराधिपः ।
सिंहं व्याघ्रं नरं चापि स्वगात्ररुधिरं तथा ॥ ४८ ॥

न दद्यात् ब्राह्मणो मद्यं महादेव्यै कदाचन ।
सिंहं व्याघ्रन्नरं दत्वा ब्राह्मणो नरकं व्रजेत् ॥ ४९ ॥

इहापि स्यात् स हीनायुः सुखसौभाग्यवर्जितः ।
स्वगात्ररुधिरं दद्याच्चात्मवध्यामवाप्नुयात् ॥ ५० ॥

मद्यं दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते ।
न कृष्णासारं वितरेद् बलिं तु क्षत्रियादिकः ॥ ५१ ॥

ददतः कृष्णसारं तु ब्रह्महत्या भवेद् यतः ।
यत्र सिंहस्य व्याघ्रस्य नरस्य विहितो वधः ॥ ५२ ॥

ब्रह्मणोक्ता तु बल्यादौ तत्रायं विहितः क्रमः ।
कृत्वा घृतमयं व्याघ्रं नरं सिंहं च भैरव ॥ ५३ ॥

अथवा पूपविकृतं यवक्षोदमयं च वा ।
घातयेच्चन्दहासेन तेन मन्त्रेण संस्कृतम् ॥ ५४ ॥

प्रभूतबलिदाने तु द्वौ वा त्रीन् वाग्रतः कृतान् ।
पूजयेत् प्रमुखान् कृत्वा सर्वान् मन्त्रेण साधकः ॥ ५५ ॥

सामान्यपूजा कथिता बलीनां पूर्वतो मया ।
विशेषो यत्रः यत्रास्ति तन्मत्तः शृणु भैरव ॥ ५६ ॥

महिषं प्रददेद् देव्यै भैरव्यै भैरवाय वा ।
अनेनैव तु मन्त्रेण तदा तं पूजयेद् बलिम् ॥ ५७ ॥

यथा वाहं भवान् द्वेष्टि यथा वहसि चण्डिकाम् ।
तथा मम रिपून् हिंस शुभं वह लुलायक ॥ ५८ ॥

यमस्य वाहनस्त्वं तु वररूपधराव्यय ।
आयुर्वित्तं यशो देहि कासराय नमोऽस्तु ते ॥ ५९ ॥

खड्गस्य तु यदा दानं क्रियते तन्त्रमन्त्रकम् ।
जलेनाभ्युक्ष्य कुर्वीत गुहाजातेति भाषयन् ॥ ६० ॥

दैवे पैत्रे च शुभगः खड्गस्त्वं खड्गसन्निभः ।
छिन्धि विघ्नान् महाभागे गुहाजात नमोऽस्तु ते ॥ ६१ ॥

प्रदाने कृष्णसारस्य मन्त्रोऽयं परिकीर्तितः ।
कृष्णसार ब्रह्ममूर्ते ब्रह्मतेजोविवर्धन ॥ ६२ ॥

चतुर्वेदमयं प्राज्ञ प्रज्ञां देहि यशो महत् ।
तथा शरभपूजायां मन्त्रमेतत् प्रकीर्तितम् ॥ ६३ ॥

त्वमष्टपादो विभ्रष्टचन्द्रभागसमुद्भव ।
अष्टमूर्ते महाबाहो भैरवाख्य नमोऽस्तु ते ॥ ६४ ॥

यथा भैरवरूपेण वराहो निहतस्त्वया ।
तथा शरभरूपेण रिपून् विघ्नान् निषूदय ॥ ६५ ॥

हरिस्त्वं हररूपेण यथा वहसि चण्डिकाम् ।
तथा शुभानि मे नित्यं बहुविघ्नांश्च सूदय ॥ ६६ ॥

त्वं हरिः सिंहरूपेण जगत्प्रत्यूहरूपिणम् ।
जघान येन सत्येन हिरण्यकशिपुं हरन् ॥ ६७ ॥

इत्येवं सिंहपूजायां क्रम उक्तो मयानघ ।
नरे स्वगात्ररुधिरे पर्यायं शृणु भैरव ॥ ६८ ॥

पीठे चेद् दीयते मर्त्यो बलिं दद्यात् श्मशानके ।
श्मशानं हेरुकाख्यं तु तत्पूर्वं प्रतिपादितम् ॥ ६९ ॥

कामाख्यानिलये शैले ओडादौ विद्धि तत् क्रमम् ।
मम रूपं श्मशानं तद् भैरवाख्यं च कथ्यते ॥ ७० ॥

तत्राङ्गत्वं तपःसिद्धौ त्रिभागां तु भविष्यति ।
पूर्वाङ्गे भैरवाख्ये तु समुत्सृष्टिर्नरस्य तु ॥ ७१ ॥

दक्षिणाङ्गे शिरो दद्याद् भैरव्या मुण्डमालया ।
रुधिरं पश्चिमाङ्गे तु हेरुकाख्ये नियोजयेत् ॥ ७२ ॥

दत्त्वा सम्पूज्य तु नरं विसृज्यागमनक्रमे ।
पीठश्मशानेषु बलिं नेक्षेत्तु बलिदीपकम् ॥ ७३ ॥

अन्यत्रापि यतो यत्र दीयते यन्महाबलिः ।
तत्राप्यन्यत्र चोत्सृज्यच्छित्वान्यत्र शिरोऽमृतम् ॥ ७४ ॥

नियोजयेत् साधकस्तु विसृज्य न विलोकयेत् ।
सस्नातं मनुजं दीप्तं पूर्वाह्णनियताशनम् ॥ ७५ ॥

मांसमैथुनभोग्येन हीनं स्रक्चन्दनोक्षितम् ।
कृत्वोत्तरामुखं तं तु तदङ्गेष्वङ्गदेवताः ॥ ७६ ॥

पूजयेत् तं तु नाम्ना तु दैवतेन च मानुषम् ।
तद्ब्रह्मरन्ध्रे ब्रह्माणं तन्नासायां च मेदिनीम् ॥ ७७ ॥

कर्णयोस्तु तथाकाशं जिह्वायां सर्वतोमुखम् ।
ज्योतींषि नेत्रयोर्विष्णुं वदने परिपूजयेत् ॥ ७८ ॥

ललाटे पूजयेच्चन्द्रं शक्रं दक्षिणगण्डतः ।
वामगण्डे तथा वह्निं ग्रीवायां समवर्तिनम् ॥ ७९ ॥

केशाग्रे निर्-ऋतिं मध्ये भ्रूवोश्चापि प्रचेतसम् ।
नासामूले तु श्वसनं स्कन्ध चापि धनेश्वरम् ॥ ८० ॥

हृदये सर्पराजं तु पूजयित्वा पठेदिदम् ।
नरवर्यं महाभाग सर्वदेवमयोत्तम ॥ ८१ ॥

मूलम्

हृदये सर्पराजं तु पूजयित्वा पठेदिदम् ।
नरवर्यं महाभाग सर्वदेवमयोत्तम ॥ ८१ ॥

विश्वास-प्रस्तुतिः

रक्ष मां शरणापन्नं सपुत्रपशुबान्धवम् ।
सराज्यं मां सहामात्यं चतुरङ्ग समन्वितम् ॥ ८२ ॥

रक्ष परित्यज्य प्राणान्मरणे नियते सति ।
महातपोभिर्ज्ञानैश्च यज्ञैर्यत् साध्यतेऽमृतम् ॥ ८३ ॥

तन्मे देहि महाभाग त्वं चापि प्राप्नुहि श्रियम् ।
राक्षसाश्च पिशाचाश्च वेतालाद्याः सरीसृपाः ॥ ८४ ॥

नृपाश्च रिपवश्चान्ये न मां ते ध्नन्तु त्वत्कृते ।
त्वत्कण्ठनालगलितैः शोणितैरङ्गसंयुतैः ॥ ८५ ॥

आप्यायस्वात्मवन्मृत्वा मरणे नियते सति ।
एवं सम्पूज्य विधिवत् पूर्वतन्त्रैश्च पूजयेत् ॥ ८६ ॥

पूजितो मत्स्वरूपोऽयं दिक्पालाधिष्ठितो भवेत् ।
अधिष्ठितस्तथान्यैश्च ब्रह्माद्यैः सकलैः सुरैः ॥ ८७ ॥

कृतपापोऽपि मनुजो निष्पाप्मा स तु जायते ।
तस्य निष्कलुषस्याशु पीयूषं शोणितं भवेत् ॥ ८८ ॥

प्रीणाति च महादेवी जगन्माता जगन्मयी ।
सोऽपि कायं परित्यज्य मानुषं नचिरान्मृतः ॥ ८९ ॥

भवेद् गणानामधिपो मयापि बहुसत्कृतः ।
इतोऽन्यथा पापयुक्तं मलमूत्रवसायुतम् ॥ ९० ॥

तं बलिं न हि गृह्णाति कामाख्यान्यापि नामतः ।
अन्येषां महिषादीनां बलीनामथ पूजनात् ॥ ९१ ॥

कायो मेध्यत्वमायाति रक्तं गृह्णाति वै शिवा ।
अन्येभ्योऽपि च देवेभ्यो यदा यत्तु प्रदीयते ॥ ९२ ॥

तदर्चितं र्पदद्यात् तु पूजिताय सुराय वै ।
काणं पङ्गुं चातिवृद्धं रोगिणं च गलद्व्रणम् ॥ ९३ ॥

क्लीबं हीनाङ्गमथवा वृद्धलिङ्गं कुलक्षणम् ।
श्वित्रिणं चातिह्रस्वं च महापातकिनं तथा ॥ ९४ ॥

अद्वादशकवर्षीयं शिशु सूतकसंयुतम् ।
ऊर्ध्वं संवत्सराच्चापि महागुरुनिपातिनम् ॥ ९५ ॥

बलिकर्मणि चेतांस्तु वर्जयेत् पूजितानपि ।
पशूनां पक्षिणां वापि नराणां च विशेषतः ॥ ९६ ॥

स्त्रियं न दद्यात् तु बलीन् दत्त्वा नरकमाप्नुयात् ।
सङ्घातबलिदानेषु योषितं पशुपक्षिणः ॥ ९७ ॥

बलिं दद्यान्मानुषीं तु त्यक्त्वा सङ्घातपूजितम् ।
न त्रिमासीयकान्यूनं पशुं दद्याच्छिवाबलिम् ॥ ९८ ॥

न च त्रैपक्षिकान् न्यून प्रदद्याद् वै पतत्त्रिणम् ।
काणव्यङ्गादिदुष्टं तु न पशुं पक्षिणं तथा ॥ ९९ ॥

देव्यै दद्यात् तथा मर्त्यं तथैव पशुपक्षिणौ ।
छिन्नलाङ्गूलकर्णादीन् भग्नदन्तांस्तथैव च ॥ १०० ॥

भग्नशृङ्गादिकं वापि न दद्यात् तु कदाचन ।
न ब्राह्मणं बलिं दद्याच्चाण्डालमपि पार्थिव ॥ १०१ ॥

नोत्सृष्टं द्विजदेवेभ्यो भूपतेस्तनयं तथा ।
रणेन विजितं दद्यात्तनयं रिपुभूभृतः ॥ १०२ ॥

स्वपुत्रं भ्रातरं वापि पितरं चाविरोधिनम् ।
विट्पतिं च न दद्यात्तु भागिनेयं च मातुलम् ॥ १०३ ॥

अनुक्तान्नापि दद्यात् तु तथाज्ञातान् मृगद्विजान् ।
उक्तालाभे प्रदद्यात्तु गर्दभं चोष्ट्रमेव च ॥ १०४ ॥

लाभेऽन्येषां न वितरेद् व्याघ्रमुष्ट्रं खरं तथा ।
सम्पूज्य विधिवन्मर्त्यं पशुं पक्षिणमेव वा ॥ १०५ ॥

सञ्छिन्नं चापि मन्त्रेण मन्त्रेणैव निवेदयेत् ।
नारं मर्त्यशिरोरक्तं देव्याः सम्यग् निवेदयेत् ॥ १०६ ॥

छागं तु वामतो दद्यान्माहिषं वितरेत् पुरः ।
पक्षिणं वामतो दद्यादग्रतो देहशोणितम् ॥ १०७ ॥

क्रव्यादानां पशूनां तु पक्षिणां तु शिरोऽसृजम् ।
वामे निवेदयेत् पार्श्वे जलजानां च सर्वशः ॥ १०८ ॥

कृष्णसारस्य कूर्मस्य खड्गस्य शशकस्य च ।
ग्राहाणामथ मत्स्यानामग्र एव निवेदयेत् ॥ १०९ ॥

सिंहस्य दक्षिणे दद्यात् खड्गिनोऽपि च दक्षिणे ।
पृष्ठदेशे न दद्यात् तु शिरो वा रुधिरं वलेः ॥ ११० ॥

नैवेद्यं दक्षिणे वामे पुरतो ने तु पृष्ठतः ।
दीपं दक्षिणतो दद्यात् पुरतो वा न वामतः ॥ १११ ॥

वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे ।
निवेदयेत पुरोभागे गन्धं पुष्पं च भूषणम् ॥ ११२ ॥

मण्डले चेन्मध्यभागे वामदक्षादिपूर्ववत् ।
मदिरां पृष्ठतो दद्यादन्यत् पानं तु वामतः ॥ ११३ ॥

अवश्यं विहित यत्र मद्यं तत्र द्विजः पुनः ।
नारिकेलजलं कांस्ये ताम्रे वा विसृजेन्मधु ॥ ११४ ॥

नापद्यपि द्विजो मद्यं कदाचिद् विसृजेदपि ।
ऋते पुष्पासवादुक्ताद गृञ्जनाद् वा विशेषतः ॥ ११५ ॥

राजपुत्रस्तथामात्यः सचिवः सौप्तिकादयः ।
दद्युर्नरबलिं भूप सम्पत्त्यै विभवाय च ॥ ११६ ॥

नृपाननुमते मर्त्यं दत्त्वा पापमवाप्नुयात् ।
उपप्लवे रणे वापि यथेच्छं वितरेन्नरम् ॥ ११७ ॥

यः कश्चिद्राजपुरुषो नान्यस्त्वपि कदाचन ।
बलिदानदिनात् पूर्वं दिवसे तु बलिं नरम् ॥ ११८ ॥

मानस्तोकेति मन्त्रेण देवीसूक्तेन येन च ।
गन्धद्वारेत्यनेनापि खड्गं शीर्षे निधाय च ॥ ११९ ॥

तस्मिन् खड्गे सुगन्धादि दत्त्वा तेनाधिवासयेत् ।
गन्धादिकं तु खड्गस्थं गले तस्य प्रदापयेत् ॥ १२० ॥

अम्बेऽम्बिकेति मन्त्रेण रौद्रेण भैरवस्य च ।
एवं तु संस्कृते मर्त्ये देवी रक्षति तं बलिम् ॥ १२१ ॥

न तस्य व्याधयश्चापि क्षुण्णतारजसी न च ।
न सूतकं दूषयेत्तज्ज्ञात्युत्पत्तिमृतादिकम् ॥ १२२ ॥

छिन्नं नरस्य शीर्षं तु पतितं यत्र यत्र च ।
यच्छुभं चाशुभं वापि पश्वादीनां च तच्छृणु ॥ १२३ ॥

छिन्नं शिरस्तथैशान्यां नारं दिश्यथ राक्षसे ।
पतितं राज्यहानिं च विनाशं च विनिर्दिशेत् ॥ १२४ ॥

पूर्वाग्नियाम्यवारुण्य-वायव्यादिगतं क्रमात् ।
श्रियं पुष्टिं भयं लाभं पुत्रलाभं धनं तथा ॥ १२५ ॥

क्रमाद् विनिर्दिशेन्नारं छिन्नशीर्षं तु भैरव ।
उत्तरादिक्रमादेव महिषस्यापि मस्तकः ॥ १२६ ॥

पतितो वायुकाष्ठान्ते सूचयेद् यच्छृणुष्व तत् ।
भाग्यं हानिन्तथैश्वर्य वित्तं रिपुजयं भयम् ॥ १२७ ॥

राज्यलाभं श्रियं चापि क्रमाद् विद्धि तु भैरव ।
पशूनां चैव सर्वेषां छागादीनामशेषतः ॥ १२८ ॥

एवं फलं क्रमाद् विद्यादृते जलजवाण्डजौ ।
जलजानां पक्षिणां तु याम्यनैर्-ऋत्ययोर्भयम् ॥ १२९ ॥

अन्यत्र तु श्रियं दद्यात् पतितं शातितं शिरः ।
यः स्यात् कटकटाशब्दो दन्तानां छिन्नमस्तके ॥ १३० ॥

नराणां पशुपक्ष्यादिग्राहादीनां च रोगदः ।
लोतकं चक्षुषोर्जातं यदि स्रवति मस्तके ॥ १३१ ॥

छिन्ने नरस्य राज्यस्य ता हानिं विनिर्दिशेत् ।
माहिषे मस्तके नेत्राद् यदि स्रवति लोतकम् ॥ १३२ ॥

छिन्ने निवेदितं वैरिभूपमृत्युं तदादिशेत् ।
अन्येषामथ पश्वादिवलीनां शिरसोऽर्दितात् ॥ १३३ ॥

निर्गतं लोतकं धत्ते परां भीतिं गदं तथा ।
हसति च्छिन्नशीर्षं चेन्नारं स्यात् तु रिपुक्षयः ॥ १३४ ॥

श्रीवृद्धिरायुषो वृद्धिः सदा दातुरसंशयः ।
यद् यद्वाक्यं निगदति तथा भवति चाचिरात् ॥ १३५ ॥

ऊङ्काराद्राज्यहानिः स्याच्छूलेष्मस्रावाच्च पञ्चता ।
देवानां यदि नामानि भाषते छिन्नमस्तकः ॥ १३६ ॥

विभूतिमतुलां विद्यात् षण्मासाभ्यन्तरे तदा ।
रुधिरादानकाले तु शकृन्मूत्रे यदि स्रवेत् ॥ १३७ ॥

कायं तदाधश्चोर्ध्वं वा दातुः स्यान्मरणं तदा ।
आक्षेपाद् वामपादस्य महारोगः प्रजायते ॥ १३८ ॥

अन्यदाक्षेपचलनैः कल्याणमुपजायते ।
माहिषस्य तु रक्तस्य मानुषस्य तु साधकः ॥ १३९ ॥

अङ्गुष्ठानामिकाभ्यां तु किञ्चिदुद्धृत्य भूतले ।
महाकौशिकमन्त्रेण निक्षिपेद् बलिमुत्तमम् ॥ १४० ॥

देवेभ्यः पूतनादिभ्यो नैर्-ऋत्यां दिशी पूर्वतः ।
महिषः पञ्चवर्षीयः पञ्चविंशतिवार्षिकः ॥ १४१ ॥

बलिर्देयो नरो देव्यै तस्य रक्तं तु भूतये ।
नेत्रबीजत्रयं कामबीजं हन्ता प्रजापतिः ॥ १४२ ॥

वह्निबीजं षट्स्वराभ्यां सम्पृक्तश्च तथा परः ।
स एवैतास्तथैतावदादिवर्गान्तसंयुतः ॥ १४३ ॥

षष्ठस्वरशिखाबिन्दुश्चन्द्रयुक्तस्थापरः ।
विर्मासिकाबीजकान्तः कौशिकीत्यभिमन्त्रणम् ॥ १४४ ॥

एष बलिः स्वाहेति मन्त्रोऽयं कौशिकी स्मृतः ।
नृपो वैरिबलिं दद्यात् खड्गमामन्त्र्य पूर्वतः ॥ १४५ ॥

महिषं चाथ छागं वा वैरिनाम्नाभिमन्त्र्य च ।
सूत्रेण वदने बद्धं त्रिधा तस्य तु मन्त्रकैः ॥ १४६ ॥

छित्त्वा तस्योत्तमाङ्गं तु देव्यै दद्यात् प्रयत्नतः ।
यदा यदा रिपोर्वृद्धिर्बलिदानं तदा परम् ॥ १४७ ॥

दद्यात् तदा शिरश्छित्त्वा रिपोस्तस्य क्षयाय च ।
प्राणप्रतिष्ठां च रिपोः कुर्यात् तस्मिन् पशावय ॥ १४८ ॥

तस्मिन् क्षीणे रिपोः प्राणाः क्षीयन्ते विपदा युताः ।
आदौ विरुद्धरूपिणि चण्डिके च ततः परम् ॥ १४९ ॥

वैरिणन्त्वमुकं चेति याहीत्याम्रेडितं पुनः ।
वह्निभार्या ततः पश्चात् खड्गमन्त्रं प्रकीर्तितम् ॥ १५० ॥

स्वयं स वैरी यो द्वेष्टि तमिमं पशुरूपिणम् ।
विनाशय महामारी स्फें स्फें खादय खादय ॥ १५१ ॥

इत्यनेन तु मन्त्रेण वद्व्यः शिरसि पुष्पकम् ।
दद्यात् ततस्तद्रुधिरं द्व्यक्षराभ्यां निवेदयेत् ॥ १५२ ॥

महानवम्यां शरदि यद्येवं दीयते बलिः ।
तदा तदष्टाङ्गभवैर्मांसैर्होमं समाचरेत् ॥ १५३ ॥

दुर्गातन्त्रेण मन्त्रेण प्रणीते दहने शुचौ ।
एवं दत्त्वा बलिं मर्त्यो रिपुक्षयमवाप्नुयात् ॥ १५४ ॥

नाभेरधस्ताद्रुधिरं पृष्ठभागस्य च श्रिये ।
स्वगात्ररुधिरै दद्यान्न कदाचन साधकः ॥ १५५ ॥

नोष्ठस्य चिबुकस्यापि नेन्द्रियाणां च मानवः ।
कण्ठाधो नाभितश्चोर्ध्वं बाह्वोः पाणिमृते तथा ॥ १५६ ॥

प्रदद्याद्रुधिरं घातं नातिकुर्याच्च साधकः ।
गण्डयोश्च ललाटस्य भ्रुवोर्मध्यस्य शोणितम् ॥ १५७ ॥

कर्णाग्रस्य च बाह्वोश्च गलयो रुदरस्य च ।
कण्ठादो नाभितश्चोर्ध्वं हृद्भागस्य यतस्ततः ॥ १५८ ॥

पार्श्वयोश्चापि रुधिरं दुर्गायै विनिवेदयेत् ।
न गुल्पतोऽसृक्प्रदद्यान्न जत्रोर्नापि वक्त्रतः ॥ १५९ ॥

न च रोगबिलादङ्गान्नान्यघाताच्च भैरव ।
तदर्थे च कृताघातः सश्रद्धोऽक्षुब्धमानसः ॥ १६० ॥

श्रुते रक्तं प्रदद्यात्तु पद्मपुष्पस्य पत्रके ।
सौवर्णे राजते कांस्ये लौहे फाले न वा नरः ॥ १६१ ॥

निधाय देव्यै दद्यात् तु तद्रक्तं मन्त्रपूर्वकम् ।
खननं क्षुरिकाखड्गशङ्कुलादि यदस्त्रकम् ॥ १६२ ॥

घातेन बृहदस्त्रस्य महाफलमवाप्नुयात् ।
पद्मपुष्पस्य पत्रं तु यावद् गृह्णाति शोणितम् ॥ १६३ ॥

तत्प्रमाणे चतुर्भागाधिकं रक्तं तु साधकः ।
न कदाचित् प्रदद्यात्तु नाङ्गच्छेदमथाचरेत् ॥ १६४ ॥

यः स्वहृदयसञ्जातमांसं माषप्रमाणतः ।
तिलमुद्गप्रमाणाद् वा देव्यै दद्यात् तु भक्तितः ॥ १६५ ॥

षण्मासाभ्यन्तरे तस्मात् काममिष्टमवाप्नुयात् ।
बाह्वोस्तु स्कन्धयोर्वापि यो दद्याद् दीपवर्तिकाम् ॥ १६६ ॥

हृदये वा स्नेहपात्रं विना भक्त्या तु साधकः ।
क्षणमात्रेण तद्दीपप्रदानस्य फलं शृणु ॥ १६७ ॥

भुक्त्वा च विपुलान् भोगान् देवीगेहे यदृच्छया ।
कल्पत्रयं तु संस्थाय सार्वभौमो नृपो भवेत् ॥ १६८ ॥

महिषस्य शिरश्छिन्नं सप्रदीपं शिवापुरः ।
हस्ताभ्यां यः समादाय अहोरात्रं तु तिष्ठति ॥ १६९ ॥

स चिरायुः पूतमूर्तिरिह भुक्त्वा मनोरमान् ।
भोगान्ते मद्गृहगो गणानामधिपो भवेत् ॥ १७० ॥

नरस्य शीर्षमादाय साधको दक्षिणे करे ।
वामेन रौधिरं पात्रं गृहीत्वा निशि जाग्रतः ॥ १७१ ॥

यावद्रात्रं स्थितो मर्त्यो राजा भवति चेह वै ।
मृते मम गृहं प्राप्य गणानामधिप् भवेत् ॥ १७२ ॥

क्षणमात्रं वलीनां यः शिरोरक्तं करद्वये ।
गृहीत्वा चिन्तयेद् देवीं पुरस्तिष्ठति मानवः ॥ १७३ ॥

स कामानिह सम्प्राप्य देवीलोके महीयते ।
महामाये जगन्नाथे सर्वकामप्रदायिनि ॥ १७४ ॥

ददामि देहरुधिरं प्रसीद वरदा भव ।
इत्युक्त्वा मूलमन्त्रेण नतिपूर्व विचक्षणः ॥ १७५ ॥

स्वगात्ररुधिरं दद्याद् मानवः सिद्धसन्निभः ।
यनात्ममांसं सत्येन ददामीश्वरि भूतये ॥ १७६ ॥

निर्वाणं तेन सत्येन देहि हं हं नमो नमः ।
इत्यनेन तु मन्त्रेण स्वमांसं वितरेद् बुधः ॥ १७७ ॥

सौभाग्यं सुखसम्पन्नं प्रदीपं परमं रुचिः ।
दीपयेन्मांसमिह तं दीपं ह्नौं ह्नौं नमो नमः ॥ १७८ ॥

इत्यनेन तु मन्त्रेण दीपं दद्याद् विचक्षणः ।
महानवम्यां शरदि रात्रौ स्कन्दविशाखयोः ॥ १७९ ॥

यवचूर्णमयं कृत्वा रिपुं मृन्मयमेव वा ।
शिरश्छित्त्वा बलिं दद्यात् कृत्वा तस्य तु मन्त्रतः ॥ १८० ॥

अनेनैव तु मन्त्रेण खड्गमामन्त्र्य यत्नतः ।
रक्तं किलिकिली घोर घोराधारविहिंसकः ॥ १८१ ॥

ब्रह्मशिष्याम्बिकाशिष्यममुकं चारिसत्तमम् ।
आन्तो विसर्गसहितः स च बिन्दुयुतोऽपरः ॥ १८२ ॥

शिरश्छित्त्वा बलिं दद्यात्
कृत्वा तस्य तु मन्त्रतः ।
अनेनैव तु मन्त्रेण
बिन्दुना च समन्वितः ॥ १८३ ॥

मूलम्

शिरश्छित्त्वा बलिं दद्यात् कृत्वा तस्य तु मन्त्रतः ।
अनेनैव तु मन्त्रेण बिन्दुना च समन्वितः ॥ १८३ ॥

विश्वास-प्रस्तुतिः

ब्रह्माग्निर्योगचन्द्रेण
बिन्दुना च समन्वितः ।
फडन्तो बलिषु प्रोक्तः
खड्गः स्कन्दविशाखयोः ॥ १८४ ॥

मूलम्

ब्रह्माग्निर्योगचन्द्रेण बिन्दुना च समन्वितः ।
फडन्तो बलिषु प्रोक्तः खड्गः स्कन्दविशाखयोः ॥ १८४ ॥

मानसतरङ्गिणीकृत् - टिप्पनी

The kAlikA purANa preserves an archaic abhichAra rite of kaumAra provenance within a shAkta context.
It entails preparing an effigy of one’s enemy
smeared with red substances/blood as a bali.
A tilaka of red chandana is smeared on its forehead
and fitted with red garlands and clothing.
After tying its neck with red threads,
it is pierced in the navel with an arrow.
After turning its head and shoulders north, it is cut up with a sword.
Its severed head is offered with the skanda-mantra,
which is then specified in code.
The cut effigy is then offered as a bali to vishAkha
with the vishAkha-mantra also specified in code.

विश्वास-प्रस्तुतिः

रक्त-द्रव्यैः शोचयित्वा
कृत्रिमं तं बलिं रिपुम् ।
कु+++(ङ्कुम)+++-चन्दनस्य तिलकं
ललाटे विनिवेश्य च ॥ १८५ ॥

मूलम्

रक्तद्रव्यैः शोचयित्वा कृत्रिमं तं बलिं रिपुम् ।
कुचन्दनस्य तिलकं ललाटे विनिवेश्य च ॥ १८५ ॥

विश्वास-प्रस्तुतिः

रक्त-माल्याम्बरं कृत्वा
रक्तवस्त्रधरं तथा ।
कण्ठे बद्ध्वा रक्त-सूत्रैर्
नाभौ शल्यं च कृत्रिमम् ॥ १८६ ॥

मूलम्

रक्तमाल्याम्बरं कृत्वा रक्तवस्त्रधरं तथा ।
कण्ठे बद्ध्वा रक्तसूत्रैर्नाभौ शल्यं च कृत्रिमम् ॥ १८६ ॥

विश्वास-प्रस्तुतिः

दत्त्वोत्तरशिरःस्कन्धं
कृत्वा खड्गेन छेदयेत्
शिरस् तस्य ततो दद्यात्
स्कन्द-मन्त्रेण मन्त्रितम् ॥ १८७ ॥

मूलम्

दत्त्वोत्तरशिरः स्कन्धं कृत्वा खड्गेन छेदयेत् ।
शिरस्तस्य ततो दद्यात् स्कन्दमन्त्रेण मन्त्रितम् ॥ १८७ ॥

विश्वास-प्रस्तुतिः

चतुर्-दश-स्वर+++(=औ)++++अग्निभ्यां+++(=र्)+++
सम्पृक्तः स्तात् पुरः-सकम् ।
परतः परतः पूर्वं+++(→विपरीत-क्रमेण)+++
चन्द्र-बिन्दु-समन्वितम् ॥ १८८ ॥
स्कन्दस्य मूलमन्त्रोऽयं
तेन तस्मै बलिं सृजेत् ।

मूलम्

चतुर्दशस्वराग्निभ्यां सम्पृक्तः स्तात् पुरःसकम् ।
परतः परतः पूर्वं चन्द्रबिन्दुसमन्वितम् ॥ १८८ ॥
स्कन्दस्य मूलमन्त्रोऽयं तेन तस्मै बलिं सृजेत् ।

मानसतरङ्गिणीकृत् - टिप्पनी

the one following the sa, linked with the fourteenth vowel and Agni, in the reversed order, provided with candra and bindu—this is the ‘root’-mantra of Skanda.

The skanda mUlamantra can be easily derived:

rev(au+ra+ front of sa=ha)+ .N = hrau.N

विश्वास-प्रस्तुतिः

चतुर्-दश-स्वर+++(=औ)++++अग्निभ्यां+++(=र्)+++
प-तृतीयं+++(=ब्)+++ तु पूर्ववत् ॥ १८९ ॥
प्रोक्तो विशाख-मन्त्रोऽयं
तेन तस्मै बलिं सृजेत् ।

मूलम्

चतुर्-दश-स्वराग्निभ्यां तृतीयं तु च पूर्ववत् ॥ १८९ ॥
प्रोक्तो विशाखमन्त्रोऽयं तेन तस्मै बलिं सृजेत् ।

मानसतरङ्गिणीकृत् - टिप्पनी

The vishAkha mantra is more tricky.

What is tR^itIya here?
Usually that is used for the 3rd consonantal row starting with Ta.
But here that makes no sense.
It is understood by some as the 3rd in the original row used for skanda, i.e. sa instead of ha, yielding srau.N

However, a manuscript preserved by the vA~Nga-s has a variant:
chaturdasha-svarAgnibhyAM pa-tR^itIyaM tu pUrvavat || That would make it 3rd of the pa series = ba+ra+au+.N= brau.N.
This would be in accordance with the eastern conflation of va and ba,
which would match the first consonant of the deity’s name pronounced in the eastern dialect.

विश्वास-प्रस्तुतिः

कुटिलाक्षौ कृष्ण-पिङ्ग-
वर्णौ रक्ताङ्ग-धारिणौ ॥ १९० ॥

मूलम्

कुटिलाक्षौ कृष्णपिङ्गवर्णौ रक्ताङ्गधारिणौ ॥ १९० ॥

विश्वास-प्रस्तुतिः

त्रि-शूलं कर-वालं च
पाणिभ्यां दक्षिणे तथा ।
बिभ्रतौ नृ-कपालं च
कत्रिकां चाति वामतः ॥ १९१ ॥

मूलम्

त्रिशूलं करवालं च पाणिभ्यां दक्षिणे तथा ।
बिभ्रतौ नृकपालं च कत्रिकां चाति वामतः ॥ १९१ ॥

मानसतरङ्गिणीकृत् - टिप्पनी

Their visualization is given thus:
They are said to have frowning eyes
and are of a black-yellow hue with red limbs.
They hold in their four hands
tridents, sabers, a skull and a cleaver.
They have three eyes,
wear a garland of severed heads on their chests,
and have dreadful fangs.
It is notable their visualization parallels baTuka
in surviving paintings from Nepal.
They guard the door, standing in front of the goddess durgA.

विश्वास-प्रस्तुतिः

त्रिनेत्रौ नरमुण्डानां
मालाम् उरसि बिभ्रतौ ।
विकटौ दशनैर् भीमैर्
गणेशौ द्वार-पालकौ ॥ १९२ ॥

मूलम्

त्रिनेत्रौ नरमुण्डानां मालामुरसि बिभ्रतौ ।
विकटौ दशनैर्भीमैर्गणेशौ द्वारपालकौ ॥ १९२ ॥

विश्वास-प्रस्तुतिः

ध्यानेन चिन्तयेद् देव्याः
पुरतः संस्थितौ सदा ।
चैत्रे मास्य् असिते पक्षे
चतुर्दश्यां विशेषतः ॥ १९३ ॥

मूलम्

ध्यानेन चिन्तयेद् देव्याः पुरतः संस्थितौ सदा ।
चैत्रे मास्यसिते पक्षे चतुर्दश्यां विशेषतः ॥ १९३ ॥

विश्वास-प्रस्तुतिः

बलिभिर्महिषैश्छागैः मां च भैरवरूपिणम् ।
तोषयेन्मधुमिर्मांसैस्तेन तुष्याम्यहं सुतौ ॥ १९४ ॥

चण्डिका बलिदाने तु बलिशीर्षं जलेन च ।
अभिषिच्य तु मन्त्रेण मूलेनैव निवेदयेत् ॥ १९५ ॥

ईषत्प्राणं तु बहुधा चलितं पूर्वमर्चितम् ।
वीक्षेत्कायसमृद्धिं तु सिद्धभावं च साधकः ॥ १९६ ॥

सितप्रेतो रथस्तेषां योगपीठस्य सन्निभः ।
ध्यायाम्यस्मिन् महामाये सिद्धिं बोधयते नमः ॥ १९७ ॥

अनेनामन्त्रितं शीर्षं न चिराद् यदि वेपते ।
तत्कार्यस्य तदा सिद्धिरसिद्धिस्तु विपर्ययात् ॥ १९८ ॥

एवं ददद् वीरो यथोक्त विधिनाऽमुना ।
बलिदानादेव चतुर्वर्गमाप्नोत्यसंशयम् ॥ १९९ ॥

एवं बलिप्रदानस्य क्रमो रूपं तथैव च ।
कथितो रुधिराध्याय उपचाराञ् शृणुष्व मे ॥ २०० ॥

इति श्रीकालिकापुराणे बलिदानविवरणं नाम अप्तषष्टितमोऽध्यायः ॥ ६७ ॥