विश्वास-प्रस्तुतिः
षट्षष्टितमोऽध्यायः
और्व उवाच
एतत्तन्त्रं समस्तं तु श्रुत्वा वेतालभैरवौ ।
पप्रच्छतुस्त्र्यम्बकं च हर्षोत्फुल्लविलोचनौ ॥ १ ॥
मूलम्

वेतालभैरवावूचतुः
कामाख्यायाः श्रुतं तन्त्रं साङ्गं युष्मत्प्रसादतः ।
नमस्कारं तथा मुद्रां बलिदानं तथैव च ॥ २ ॥

तथैव मातृकान्यासं पूजायां चान्यतः क्रमम् ।
एतत् सर्वं समाचक्ष्व विस्तरेण जगत्प्रभो ।
शृण्वतो नहि नौ तृप्तिर्जायते मोदभूमिषु ॥ ३ ॥

श्रीभगवानुवाच
वक्ष्यामि यदहं पृष्टो भवद्भ्यां पुत्रकोत्तमौ ।
शृणुतं नरशार्दूलावेकाग्रमनसाधुना ॥ ४ ॥

त्रिकोणमथ षट्कोणमर्धचन्द्रं प्रदक्षिणम् ।
दण्डमष्टाङ्गमुग्रं च सप्तधा नतिलक्षणम् ॥ ५ ॥

ऐशानी वाथ कौबेरी दिक् कामाख्याप्रपूजने ।
प्रशस्ता स्थण्डिलादौ च सर्वमूर्तेश्च सर्वतः ॥ ६ ॥

त्रिकोणादिव्यवस्था तु यदि पूर्वमुखो यजेत् ।
पश्चिमाच्छाम्भवीं गत्वा व्यवस्थां निर्दिशेत् तदा ॥ ७ ॥

यदोत्तरामुखः कुर्यात् साधको देवपूजनम् ।
तदा याम्यां तु वायव्यां गत्वा कुर्यात् तु संस्थितिम् ॥ ८ ॥

दक्षिणाद् वायवीं गत्वा दिशं तस्माच्च शाम्भवीम् ।
ततोऽपि दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् ॥ ९ ॥

त्रिकोणाख्यो नमस्कारस्त्रिपुराप्रीतिदायकः ।
दक्षिणाद् वायवीं गत्वा वायव्याच्छाम्भवीं ततः ॥ १० ॥

ततोऽपि दक्षिणां गत्वा तां त्यक्त्वाग्नौ प्रविश्य च ।
अग्नितो राक्षसीं गत्वा तत्पश्चादुत्तरां दिशम् ॥ ११ ॥

उत्तराच्च तथाग्नेयीं भ्रमणं द्वित्रिकोणवत् ।
षठ्कोणोऽयं नमस्कारः प्रीतिदः शिवदुर्गयोः ॥ १२ ॥

दक्षिणाद् वायवीं गत्वा तस्मादावृत्य दक्षिणम् ।
गत्वा योऽसौ नमस्कारः सोऽर्धचन्द्रः प्रकीर्तितः ॥ १३ ॥

सकृत् प्रदक्षिणं कृत्वा वर्तुलाकृति साधकः ।
नमस्कारः कथ्यतेऽसौ प्रदक्षिण इति द्विजैः ॥ १४ ॥

त्यक्त्वा स्वमासनस्थानं पश्चाद् दुर्गानमस्कृतिः ।
प्रदक्षिणं विना यातु निपत्य भुवि दण्डवत् ॥ १५ ॥

दण्ड इत्युच्यते देवैः सर्वदेवौघमोददः ।
पूर्ववद् दण्डवद् भूमौ निपत्य हृदयेन तु ॥ १६ ॥

चिबुकेन मुखेनाथ नासया हनुकेन च ।
रह्मरन्ध्रेण कर्णाभ्यां यद्भूमिस्पर्शनं क्रमात् ॥ १७ ॥

स चाष्टाङ्ग इति प्रोक्तो नमस्कारो मनीषिभिः ।
प्रदक्षिणत्रयं कृत्वा साधको वर्तुलाकृतिः ॥ १८ ॥

ब्रह्मरन्ध्रेण संस्पर्शः क्षितेर्यस्मान्नमस्कृतौ ।
स् उग्र इति देवौघैरुच्यते विष्णुतुष्टिदः ॥ १९ ॥

नदानां सागरो यद्वद् द्विपदां ब्राह्मणो यथा ।
नदीनां जाह्नवी यादृग् देवानामपि चक्रधृक् ॥ २० ॥

नमस्कारेषु सर्वेषु तथैवोग्रः प्रशस्यते ।
त्रिकोणाद्यैर्नमस्कारैः कृतैरेव तु भक्तितः ॥ २१ ॥

चतुर्वर्गं लभेद् भक्तो नचिरादेव साधकः ।
नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा ॥ २२ ॥

सर्वेषामेव देवानामन्येषामपि भैरव ।
योऽसावुग्रो नमस्कारः प्रीतिदः सतत हरेः ॥ २३ ॥

महामायाप्रीतिकरः स नमस्करणोत्तमः ।
उक्तास्तत्र नमस्काराः शृणुतं परतो युवाम् ॥ २४ ॥

मुद्राणां परिसङ्ख्यानं स्वरूपं च यथाक्रमम् ।
धेनुश्च सम्पुटश्चैव प्राञ्जलिबिल्वपद्मकौ ॥ २५ ॥

नाराचो मुण्डदण्डौ च योनिरर्धं तथैव च ।
अन्दनी च महामुद्रा महायोनिस्तथैव च ॥ २६ ॥

भगश्च पुटकश्चैव निषङ्गोवाऽर्धचन्द्रकः ।
अङ्गश्च द्विमुखं चैव शङ्खमुद्रा च मुष्टिकः ॥ २७ ॥

वज्रं चैव तथा रन्ध्रं षड्योनिर्विमल तथा ।
घटः शिखरिणीतुङ्गः पुण्ड्रोऽथ ह्यर्धपुण्ड्रकः ॥ २८ ॥

सम्मिलनी च कुण्डश्च चक्रं शूलं तथैव च ।
सिंहवक्त्रं गोमुखं च प्रोन्नामोन्नमनं तथा ॥ २९ ॥

इम्बं पाशुपतं शुद्धं त्यागोऽथोत्सारिणी तथा ।
प्रसारिणी चोग्रमुद्रा कुण्डलीव्यूह एव च ॥ ३० ॥

त्रिमुखा चासिवल्ली च योगो भेदोऽथ मोहनम् ।
बाणो धनुश्च तूणीरं मुद्रा एताश्च सत्तमाः ॥ ३१ ॥

अष्टोत्तरशतं मुद्रा ब्रह्मणा याः प्रकीर्तिताः ।
तासां तु पञ्चपञ्चाशदेता ग्राह्यास्तु पूजने ॥ ३२ ॥

शेषास्तु यास्त्रिपञ्चाशन्मुद्रास्ताः समयेषु च ।
द्रव्यानयनसङ्केत नटनादिषु ताः स्मृताः ॥ ३३ ॥

देवानां चिन्तने योगे ध्याने जप्ये विसर्जने ।
आद्यास्तु पञ्चपञ्चाशन्मुद्रा भैरव कीर्तिता ॥ ३४ ॥

मुद्रां बिना तु यज्जप्यं प्राणायामः सुरार्चनम् ।
योगो ध्यानासने चापि निष्फलानि च भैरव ॥ ३५ ॥

प्रत्येकं लक्षणं तेषां शृणुतं तनयौ युवाम् ।
दक्षिणामध्यमाग्रेण सव्यहस्तस्य तर्जनीम् ॥ ३६ ॥

योजयेत् सव्यन्ध्यां तु तर्जन्या दक्षिणेन वै ।
तथा दक्षिणानामिकया वामहस्तकनिष्ठिकाम् ॥ ३७ ॥

अनामिकां तु वामस्य दक्षिणस्य कनिष्ठया ।
योजयेद् भक्तिमान् सम्यग् दक्षिणावर्तनेन तु ॥ ३८ ॥

धेनुमुद्रा समाख्याता सर्वदेवस्य तुष्टिदा ।
संयोज्य द्वौ तलौ सर्वाण्यङ्गुल्यग्राणि हस्तयोः ॥ ३९ ॥

संयोज्य पाश्वतोऽङ्गुष्ठौ सम्पुटः प्रोच्यते सुरैः ।
सर्वेषामथ देवानां सम्पुटः प्रीतिदायकः ॥ ४० ॥

ध्यानचिन्तनयोगादौ सम्पुटः शस्यते सदा ।
निकुब्जयुगलं पाण्योस्तं संयोज्यार्ध एव च ॥ ४१ ॥

मध्यशून्यः पुटाकारः प्राञ्जलिः परिकीर्तितः ।
अङ्गुष्ठमन्तरं कृत्वा पाण्योमुष्टिं विधाय च ॥ ४२ ॥

संयोज्य बिल्ववत्ते तु बिल्वमुद्रा प्रकीर्तिता ।
मणिबन्धादाकरभं संयोज्य करयोर्दयोः ॥ ४३ ॥

अङ्गुष्ठे चापि संयोज्य तथैव च कनिष्ठिके ।
तिस्रस्तिस्रस्तयोः पाण्योरङ्गुलोर्विरलास्तथा ॥ ४४ ॥

पद्ममुद्रा समाख्याता चतुर्वर्गफला नृणाम् ।
अङ्गुष्ठाग्रेण तर्जन्या संयोज्याथोर्ध्वरेखया ॥ ४५ ॥

अन्याङ्गुलीस्तथानम्य नाराचः स्यात् प्रसार्य ते ।
मम चैव शिवायाश्च प्रीतिदेयं प्रियङ्करी ॥ ४६ ॥

नाराचमुद्रा सततं प्रीत्यै वेतालभैरव ।
अन्तराङ्गुष्ठमुष्टिं च कृत्वा वामकरस्य तु ॥ ४७ ॥

मध्यमाया दक्षिणस्य तथानम्य प्रयत्नतः ।
मध्यमेनाथ तर्जन्या अङ्गुष्ठाग्रं नियोज्य च ॥ ४८ ॥

दक्षिणं योजयेत् पाणिं वाममुष्टौ च साधकः ।
दर्शयेद् दक्षिणे भागे मुण्डमुद्रेयमिष्यते ॥ ४९ ॥

इयं तु गणनाथस्य प्रीतिदा मुद्रिकोत्तमा ।
सर्वेषामपि देवानां तुष्टिदा सर्वकर्मसु ॥ ५० ॥

अङ्गुष्टमध्यमादींश्च सम्यगानम्य तर्जनीम् ।
प्रसार्य दण्डमुद्रेति दक्षिणस्य करस्य च ॥ ५१ ॥

सर्वाङ्गुलीस्तु संयोज्य करयोरुभयोरपि ।
संवेष्ट्य रज्जुवद् वेति पाण्योरपि कनिष्ठिके ॥ ५२ ॥

वामस्यानाममूले वै उदग्रं विनियोजयेत् ।
दक्षस्य मध्यमामूले तथाग्रं वाममेव च ॥ ५३ ॥

योजयेद् योजनात् पश्चादावर्त्य करशाखिकाः ।
योन्याकारं तु तन्मध्यं योनिमुद्रा प्रकीर्तिता ॥ ५४ ॥

कामाख्यायाः पञ्चमूर्तेर्दुगाया अपि भैरव ।
प्रीतिदा योनिमुद्रेयं मम कामस्य च प्रिया ॥ ५५ ॥

संसक्ता अङ्गुलीः सर्वाः प्रसार्याङ्गुष्ठपर्वणा ।
अग्रेण च कनिष्ठाया अग्रेणापि च योजयेत् ॥ ५६ ॥

करस्य दक्षिणस्यैवमर्धयोनिः प्रकीर्तिता ।
महायोनिस्तु कथिता वैष्णवीतन्त्रणे वरे ॥ ५७ ॥

सम्पुटं प्राञ्जलिं वापि यदि शीर्षे प्रदर्शयेत् ।
वन्दनीया समख्याता मुद्रा विष्णुप्रमोदिनी ॥ ५८ ॥

सैव चेच्छ्रवणासक्ता महामुद्रा प्रकीर्तिता ।
दक्षिणाङ्गे तु सा सक्ता वैष्णवी परिकीर्तिता ॥ ५९ ॥

महायोनिस्तु कथिता वैष्णवी तन्त्रगोचरे ।
द्वयोस्तु मूलेऽङ्गुष्ठाग्रमङ्गुलीं च कनिष्ठयोः ॥ ६० ॥

नियोज्य प्रसृतीकृत्य दौ पाणी योजयेत् पुनः ।
भगमुद्रा समाख्याता लक्ष्मीवाणीशिवप्रिया ॥ ६१ ॥

सर्वाङ्गुलीनामग्रौघं दक्षिणस्य च ।
संयोज्यैकत्र पुरतो निर्देशः पुटकः स्मृतः ॥ ६२ ॥

कनिष्ठानामिकाङ्गुष्ठाङ्गुलीना योजयेद् बुधः ।
अग्राण्येकत्र मध्यां तु तर्जनीं च प्रसार्य वै ॥ ६३ ॥

कुब्जिकृत्य करद्वन्द्वं पृथगग्रे निदर्शयेत् ।
निःसङ्गनाममुद्रेयं नरसिंहवराहयोः ॥ ६४ ॥

कनिष्ठानामिकाध्यमाकुञ्चन् दक्षिणेन तु ।
करस्य तर्जन्यङ्गुष्ठे प्रसार्य क्रियते तु या ॥ ६५ ॥

सा मुद्रा ह्यर्धचन्द्राख्या ग्रहाणां प्रीतिदायिनी ।
ऊर्ध्वीकृत्य तथाङ्गुष्ठं करस्य दक्षिणस्य तु ॥ ६६ ॥

कृत्वा मध्यां तदङ्गुष्ठं वाममुष्टिं तथोर्ध्वतः ।
ऊर्ध्वाङ्गुष्ठां तथा कुर्यादङ्गमुद्रा प्रकीर्तिता ॥ ६७ ॥

एतस्या एव मुद्रायाः कनिष्ठादिवियोगतः ।
अष्टौ मुद्राः समाख्याता नाम तासां पृथक् शृणु ॥ ६८ ॥

द्विमुखं चैव मुष्टिं च वज्रमाबद्धमेव च ।
विमलश्च घटश्चैव तुङ्गः पुण्ड्रस्तथैव च ॥ ६९ ॥

नवानां विष्णुमूर्तिनां सार्धसङ्गेन मुद्रिकाः ।
क्रमान्नव समाख्याता नायिकानां तथैव च ॥ ७० ॥

संयोज्य करयोः पृष्ठे तथावर्त्य तु वै समम् ।
प्रसार्य तर्जनीयुग्मं संयुक्तं सर्वतः पुनः ॥ ७१ ॥

अङ्गुष्ठौ च तथासक्तौ शङ्खमुद्रा प्रकीर्तिता ।
उत्तानमञ्जलिं कृत्वा अङ्गुष्ठे द्वे कनिष्ठयोः ॥ ७२ ॥

मूले निक्षिप्य तु करौ संयोज्याथ प्रदर्शयेत् ।
सा योनिरिति विख्याता मुद्रा देवौघतुष्टिदा ॥ ७३ ॥

मुष्टिर्दक्षिणहस्तस्य यदोर्धाङ्गुष्ठिका भवेत् ।
सा स्याञ्छिखरिणीमुद्रा ब्राह्मीसूर्यप्रिया च सा ॥ ७४ ॥

अनामिके कनिष्ठे च संयोज्य वायुना पुनः ।
मध्यमा तर्जनीनां तु धेनुमुद्रेव बन्धनम् ॥ ७५ ॥

सार्धधेनुरिति ख्याता चन्द्रप्रीति विवर्धिनी ।
करयोरङ्गुलीनां तु सर्वाग्राण्येकतः स्थिता ॥ ७६ ॥

नियोज्य द्वे तले चैव तदधोऽपि नियोज्य च ।
कनिष्ठानामिकाङ्गुष्ठाङ्गुलीना योजयेद् बुधः ।
अग्राण्येकत्र मध्यां तु तर्जनीं च प्रसार्य वै ॥ ६३ ॥
मूलम्
नियोज्य द्वे तले चैव तदधोऽपि नियोज्य च ।
कनिष्ठानामिकाङ्गुष्ठाङ्गुलीना योजयेद् बुधः ।
अग्राण्येकत्र मध्यां तु तर्जनीं च प्रसार्य वै ॥ ६३ ॥
विश्वास-प्रस्तुतिः
कुब्जीकृत्य करद्वन्द्वं पृथगग्रे निदर्शयेत् ।
निःसङ्गनाममुद्रेयं नरसिंहवराहयोः ॥ ६४ ॥
मूलम्
कुब्जीकृत्य करद्वन्द्वं पृथगग्रे निदर्शयेत् ।
निःसङ्गनाममुद्रेयं नरसिंहवराहयोः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
कनिष्ठानामिकाध्यमाकुञ्चन् दक्षिणेन तु ।
करस्य तर्जन्यङ्गुष्ठे प्रसार्य क्रियते तु या ॥ ६५ ॥
मूलम्
कनिष्ठानामिकाध्यमाकुञ्चन् दक्षिणेन तु ।
करस्य तर्जन्यङ्गुष्ठे प्रसार्य क्रियते तु या ॥ ६५ ॥
विश्वास-प्रस्तुतिः
सा मुद्रा ह्यर्धचन्द्राख्या ग्रहाणां प्रीतिदायिनी ।
ऊर्ध्वीकृत्य तथाङ्गुष्ठं करस्य दक्षिणस्य तु ॥ ६६ ॥
मूलम्
सा मुद्रा ह्यर्धचन्द्राख्या ग्रहाणां प्रीतिदायिनी ।
ऊर्ध्वीकृत्य तथाङ्गुष्ठं करस्य दक्षिणस्य तु ॥ ६६ ॥
विश्वास-प्रस्तुतिः
कृत्वा मध्यां तदङ्गुष्ठं वाममुष्टिं तथोर्ध्वतः ।
ऊर्ध्वाङ्गुष्ठां तथा कुर्यादङ्गमुद्रा प्रकीर्तिता ॥ ६७ ॥
मूलम्
कृत्वा मध्यां तदङ्गुष्ठं वाममुष्टिं तथोर्ध्वतः ।
ऊर्ध्वाङ्गुष्ठां तथा कुर्यादङ्गमुद्रा प्रकीर्तिता ॥ ६७ ॥
विश्वास-प्रस्तुतिः
एतस्या एव मुद्रायाः कनिष्ठादिवियोगतः ।
अष्टौ मुद्राः समाख्याता नाम तासां पृथक् शृणु ॥ ६८ ॥
मूलम्
एतस्या एव मुद्रायाः कनिष्ठादिवियोगतः ।
अष्टौ मुद्राः समाख्याता नाम तासां पृथक् शृणु ॥ ६८ ॥
विश्वास-प्रस्तुतिः
द्विमुखं चैव मुष्टिं च वज्रमाबद्धमेव च ।
विमलश्च घटश्चैव तुङ्गः पुण्ड्रस्तथैव च ॥ ६९ ॥
मूलम्
द्विमुखं चैव मुष्टिं च वज्रमाबद्धमेव च ।
विमलश्च घटश्चैव तुङ्गः पुण्ड्रस्तथैव च ॥ ६९ ॥
विश्वास-प्रस्तुतिः
नवानां विष्णुमूर्तिनां सार्धसङ्गेन मुद्रिकाः ।
क्रमान्नव समाख्याता नायिकानां तथैव च ॥ ७० ॥
मूलम्
नवानां विष्णुमूर्तिनां सार्धसङ्गेन मुद्रिकाः ।
क्रमान्नव समाख्याता नायिकानां तथैव च ॥ ७० ॥
विश्वास-प्रस्तुतिः
संयोज्य करयोः पृष्ठे तथावर्त्य तु वै समम् ।
प्रसार्य तर्जनीयुग्मं संयुक्तं सर्वतः पुनः ॥ ७१ ॥
मूलम्
संयोज्य करयोः पृष्ठे तथावर्त्य तु वै समम् ।
प्रसार्य तर्जनीयुग्मं संयुक्तं सर्वतः पुनः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
अङ्गुष्ठौच तथासक्तौ शङ्खमुद्रा प्रकीर्तिता ।
उत्तानमञ्जलिं कृत्वा अङ्गुष्ठे द्वे कनिष्ठयोः ॥ ७२ ॥
मूलम्
अङ्गुष्ठौच तथासक्तौ शङ्खमुद्रा प्रकीर्तिता ।
उत्तानमञ्जलिं कृत्वा अङ्गुष्ठे द्वे कनिष्ठयोः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
मूले निक्षिप्य तु करौ संयोज्याथ प्रदर्शयेत् ।
सा योनिरिति विख्याता मुद्रा देवौघतुष्टिदा ॥ ७३ ॥
मूलम्
मूले निक्षिप्य तु करौ संयोज्याथ प्रदर्शयेत् ।
सा योनिरिति विख्याता मुद्रा देवौघतुष्टिदा ॥ ७३ ॥
विश्वास-प्रस्तुतिः
मुष्टिर्दक्षिणहस्तस्य यदोर्धाङ्गुष्ठिका भवेत् ।
सा स्याञ्छिखरिणीमुद्रा ब्राह्मीसूर्यप्रिया च सा ॥ ७४ ॥
मूलम्
मुष्टिर्दक्षिणहस्तस्य यदोर्धाङ्गुष्ठिका भवेत् ।
सा स्याञ्छिखरिणीमुद्रा ब्राह्मीसूर्यप्रिया च सा ॥ ७४ ॥
विश्वास-प्रस्तुतिः
अनामिके कनिष्ठे च संयोज्य वायुना पुनः ।
मध्यमा तर्जनीनां तु धेनुमुद्रेव बन्धनम् ॥ ७५ ॥
मूलम्
अनामिके कनिष्ठे च संयोज्य वायुना पुनः ।
मध्यमा तर्जनीनां तु धेनुमुद्रेव बन्धनम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
सार्धधेनुरिति ख्याता चन्द्रप्रीति विवर्धिनी ।
करयोरङ्गुलीनां तु सर्वाग्राण्येकतः स्थिता ॥ ७६ ॥
मूलम्
सार्धधेनुरिति ख्याता चन्द्रप्रीति विवर्धिनी ।
करयोरङ्गुलीनां तु सर्वाग्राण्येकतः स्थिता ॥ ७६ ॥
विश्वास-प्रस्तुतिः
नियोज्य द्वे तले चैव तदधोऽपि नियोज्य च ।
अग्रैरग्रैयोजयेत् तु मुद्रा सम्मीलनी तु सा ॥ ७७ ॥

भौमभूमिमुनीशानामियं प्रीतिविवर्धिनी ।
सर्वाङ्गुलीस्तु संयोज्य दक्षिस्य करस्य च ॥ ७८ ॥

कियद्भागं तथानम्य तलं कुर्यात् तु कुण्डवत् ।
समाख्याता कुण्डमुद्रा बुधवाणीशिवप्रिया ॥ ७९ ॥

सर्वाङ्गुलीनां मध्यं तु वामहस्तस्य चाङ्गुलीः ।
प्रसार्याङ्गुष्ठयुगलं संयोज्याग्रेण भैरव ॥ ८० ॥

तदङ्गुष्ठद्वयं कार्य सम्मुखं वितरेम् ततः ।
चक्रमुद्रा समाख्याता गुरुविष्णुशिवप्रिया ॥ ८१ ॥

अङ्गुष्ठं मध्यमां चैव नामयित्वा करस्य तु ।
दक्षिणस्य परास्तिस्रो योजयेदग्रतः पुनः ॥ ८२ ॥

शूलमुद्रा समाख्याता मम शुक्रग्रहप्रिया ।
निकुब्जीकृत्य तु करौ वामङ्गुलिगणस्य तु ॥ ८३ ॥

अग्राणि योजयेन्मध्ये तलस्यासव्यहस्ततः ।
अधःकृत्वा वामहस्तं मुद्रा सिंहमुखी स्मृता ॥ ८४ ॥

इयं प्रीत्यै तु दुर्गायाः सूर्यपुत्रस्य चक्रिणः ।
भगमुद्रा कर्णमूले गोमुखाख्या प्रकीर्तिता ॥ ८५ ॥

मम विष्णोस्तथा राहोः सर्वदा प्रीतिदायिनी ।
मुष्टिद्वयमथोत्तानं कृत्वा संयोज्य पार्श्वतः ॥ ८६ ॥

दक्षिणस्य कनिष्ठादीन प्रसार्य क्रमतः पुनः ।
तथा वामकनिष्ठाभ्यामेकैकेन प्रसारयेत् ॥ ८७ ॥

अष्टौ मुद्राः समाख्याता नामतः क्रमतः शृणु ।
प्रोल्लासोन्नमनं चैव विम्बं पाशुपतं तथा ॥ ८८ ॥

शुद्धं त्यागः सारणी च तथा चैव प्रसारणी ।
आकुञ्चकरशाखास्तु दक्षिणा सा तु मुद्रिका ॥ ८९ ॥

उग्रमुद्रा समाख्याता स्वहस्तस्य विपर्ययात् ।
इन्द्रादिलोकपालानां दशमुद्राः प्रकीर्तिताः ॥ ९० ॥

सर्वेषामेव देवानां परमप्रीतिवर्धनाः ।
अङ्गुष्ठाग्रं तु तर्जन्या अग्रे भागेन योजयेत् ॥ ९१ ॥

आकुञ्चमध्यमाद्यास्तु दक्षहस्तस्य चाङ्गुलीः ।
दशयेत् कुण्डलाकारं कुण्डलीशक्तितुष्टिदम् ॥ ९२ ॥

सर्वेषामपि देवानां यथा तुष्टिकरं महत् ।
अङ्गुष्ठतर्ज्नीमध्या अग्रभागं नियोज्य च ॥ ९३ ॥

मध्यमां च कनिष्ठां च आकुञ्च्य दक्षिणे करे ।
त्रिमुखाख्या समाख्याता विश्वदेवप्रिया सदा ॥ ९४ ॥

केतोः प्रियेयं सतत मातृणामपि तुष्टिदा ।
तर्जन्यङ्गुष्ठयोरग्रभागौ संयोज्य चा"गुलीः ॥ ९५ ॥

अन्या आकुञ्चयेत् तिस्रः साऽसिवल्ली प्रकीर्तिता ।
पितृणामथ साध्यानां रुद्राणां विश्वकर्मणः ॥ ९६ ॥

सर्वदा प्रीतिजननी साऽसिवल्ली प्रकीर्तिता ।
पादौ तलाभ्यां संयोज्य तदङ्गुष्ठद्वयं यतः ॥ ९७ ॥

ऊर्ध्वं संयोजयेन्नाभौ तस्योपरि तथाञ्जलिः ।
योगमुद्रा समाख्याता योगिनां तत्त्वदायिनी ॥ ९८ ॥

सर्वेषामपि देवानां पूजने चिन्तने तथा ।
योगमुद्रा समाख्याता तुष्टप्रीतिकरी सदा ॥ ९९ ॥

प्राञ्जलिर्नाम् मुद्रा तु ऊर्ध्वाधो भावयोजिता ।
विभिद्य दर्शयेद्धस्तौ ऊर्ध्वाधः प्रसृतीकृतौ ॥ १०० ॥

भेदमुद्रा समाख्याता मम विष्णोविधेः प्रिया ।
अङ्गुष्ठे द्वे तु निक्षिप्य करयोरुभयोरपि ॥ १०१ ॥

अग्रेण योजयेत् पश्चात् कनिष्ठायुगलं ततः ।
उभयोर्हस्तयोश्चान्यास्तर्जन्याद्याश्च योजयेत् ॥ १०२ ॥

अग्राग्रैस्तु पृथक्कृत्य दर्शयेत् तु कनिष्ठिकाम् ।
मुद्रा सम्मोहनं नाम कामदुर्गारमाप्रिया ॥ १०३ ॥

सर्वेषामिह देवानां मोहनं प्रीतिदं स्मृतम् ।
आनम्यासव्यहस्तस्य मध्यमानामिके तथा ॥ १०४ ॥

तयोः पृष्ठे सुसंयोज्य अङ्गुष्ठाग्रं ततः परम् ।
कनिष्ठां तर्जनीं चैव अग्रेणायोजयेत् ततः ॥ १०५ ॥

बाणमुद्रा समाख्याता सर्वदेवस्य तुष्टिदा ।
सर्वाङ्गुलीस्तु सङ्कोच्य अङ्गुष्ठमथ तर्जनीम् ॥ १०६ ॥

प्रसार्य करयोः पश्चादङ्गुष्ठाग्रं तु योजयेत् ।
अछ्गुष्ठाग्रेण तर्जन्या अग्रेणापि च तर्जनीम् ॥ १०७ ॥

यथाशक्ति प्रसार्यापि धेनुमुद्रा प्रकीर्तिता ।
सर्वाङ्गुलीनामग्राणिब्राह्मे तीर्थे नियोजयेत् ॥ १०८ ॥

अनामिकायाः पृष्ठे तु अङ्गुष्ठाग्रं नियोज्य च ।
शून्यं तूणीरवत् कृत्वा तेषामन्तस्तु भैरव ॥ १०९ ॥

तूणीरमुद्रा चाख्याता सर्वेषां प्रीतिवर्धिनी ।
मुद्रासु संस्थिता पूजा सर्वेषु परिचिन्तनम् ॥ ११० ॥

मुद्रासु संस्थिता योगा मुद्रा मोदकरास्ततः ।
यदा यदा पुजनेषु चिन्तने ध्यानकर्मणि ॥ १११ ॥

यज्ञादौ स्तवने वापि हस्तकृत्यं न विद्यते ।
तदा मुद्रान्वितं कुर्यादिष्टापूर्ते करद्वयम् ॥ ११२ ॥

यज्ञकृत्येषु चेच्छक्तो हस्तो मुद्रासु च क्षमः ।
तदा मुद्रां विधायैव तत्तत् कृत्यं समाचरेत् ॥ ११३ ॥

मुद्राविमुक्तहस्तं तु क्रियते कर्म दैविकम् ।
कृत्वा तन्निष्फलं यस्मात् तन्मान्मुद्रान्वितो भवेत् ॥ ११४ ॥

विसर्जने तु देवानां यस्य या परिकीर्तिता ।
मुद्रां तां पूजनादौ तु तस्य नैव प्रयोजयेत् ॥ ११५ ॥

विसृज्योक्तामृते मुद्रां मुद्रायुक्तः समाचरेत् ।
पूजनादि समस्तं तु कर्मवृद्धौ विचक्षणः ॥ ११६ ॥

अतो मुद्रा परं नाम मुद्रा पुण्यप्रदायिनी ।
देवानां मोददा मुद्रा तस्मात् तां यत्नतश्चरेत् ॥ ११७ ॥

अर्धयोनिर्महायोनिर्योनिर्ब्राह्मी च वैष्णवः ।
मुद्रा विसर्जने प्रोक्ता शिवात्रिपुरयोः सदा ॥ ११८ ॥

दुर्गायाः सर्वरूपेषु मुद्रा एताः प्रकीर्तिताः ।
योनिं च सम्पुटं चैव महायोनिं तथैव च ॥ ११९ ॥

वर्जयित्वा व्यस्तभावादुक्तादन्यत्र योजयेत् ।
भवेद् यास्तु त्रिपञ्चाशदन्या मुद्राः समन्ततः ॥ १२० ॥

ता व्यस्तभावाद् वामाः स्युर्मुद्रा मोदकराः पराः ।
एवं वां कथिता मुद्राः पूजने पूज्यतुष्टिदा ।
क्रमस्तु बलिदानस्य शृणु वेतालभैरव ॥ १२ ॥

इति श्रीकालिकापुराणे मुद्राकथने षट्षष्टितमोऽध्यायाः ॥ ६६ ॥