६५

विश्वास-प्रस्तुतिः

पञ्चषष्टितमोऽध्यायः

श्रीभगवानुवाच

शरत्काले पुरा यस्मान्नवम्यां बोधिता सुरैः ।
शारदा सा समाख्याता पीठे लोके च मानव ॥ १ ॥

मूलम्

तस्यां तु नेत्रबीजाख्यं मन्त्रं प्राक् प्रतिपादितम् ।
दुर्गातन्त्रं च तन्मन्त्रमङ्गमन्त्रं पुरोदितम् ॥ २ ॥

ताभ्यामेव तु मन्त्राभ्यां पूजयेत् तां जगन्मयीम् ।
तृतीयं पीठमन्त्रं तु शारदाया अनुत्तमम् ॥ ३ ॥

शृणुतं चैकमनसा चतुर्वर्गप्रदयाकम् ।
चतुर्थस्वरसंयुक्तमुपान्तो वह्निना युतः ॥ ४ ॥

कामराजं तथा नान्तमुपान्तस्वरसंयुतम् ।
वह्निना चापि सन्दीप्तः सर्वबिन्द्बिन्दुसंयुतः ॥ ५ ॥

हादिः समाप्तिसहित एतद्बीजं चतुर्थकम् ।
चतुर्भिरेभिः कथितो मन्त्रोक्तैश्च षडक्षरैः ॥ ६ ॥

अयं तृतीयो मन्त्रस्तु शारदायाः प्रकीर्तितः ।
अनेन पूजयेत् पीठे सर्वसिद्धिमवाप्नुयात् ॥ ७ ॥

रूपमस्याः पुरा प्रोक्तं सिंहस्थं दशबाहुभिः ।
तत्र पूजाक्रमं सम्यक् शृणुतं पुत्रकौ मम ॥ ८ ॥

चतुर्द्वारमण्डलं तु कुर्यात् तत्र विभूतये ।
महामायामण्डलं तु शारदायस्तु मण्डलम् ॥ ९ ॥

वैष्णवीतन्त्रकल्पोक्तैर्मन्त्रस्थानादिमार्जनम् ।
कृत्वा तु नेत्रबीजेन मण्डलं प्रस्तरे लिखेत् ॥ १० ॥

योनावष्टदलं कृत्वा त्रिकोणं मध्यतो न्यसेत् ।
अयं विशेषः कथितो वैष्णवीमण्डलात् पुनः ॥ ११ ॥

मण्डलोल्लेखनं चैव तथा भूतापसारणम् ।
पात्रस्य प्रतिपत्तिस्तु अमृतीकरणं तथा ॥ १२ ॥

गन्धपुष्पाम्भसां क्षेप आत्मासनप्रपूजनम् ।
प्राणायामश्च त्रिविधो भूतिशुद्धिप्रवेशनम् ॥ १३ ॥

दहनप्लवने चैव पाणिकच्छपिका तथा ।
योगपीठस्य च ध्यानं वैष्णवीतन्त्रभाषितम् ॥ १४ ॥

तथैवोत्तरतन्त्रोक्तं कुर्याद् देव्याः प्रपूजनम् ।
अमृतीकरणं कुर्यात् सलिले धेनुमुद्रया ॥ १५ ॥

रूपं त्वेवं दशभुजं पूर्वोक्तं तु विचिन्तयेत् ।
अङ्गन्यासकरन्यासौ दुर्गातन्त्रेण भैरव ॥ १६ ॥

नवाक्षरेण वै कुर्यादङ्गुष्ठादि क्रमेण तु ।
हृदयादिक्रमात् पश्चाद् वक्त्रादावपि पूर्ववत् ॥ १७ ॥

एतदेवार्धपात्रे चाष्टधा मन्त्रं जपेत् सुधीः ।
तत् तोयैः सेचयेच्छीर्षं पुष्पगन्धादिकं तथा ॥ १८ ॥

एवं पूजाक्रमं तत्र कुर्याद् देव्यास्तु मण्डले ।
आदित्यं चण्डिकारूपं ध्यात्वा पूर्वे शिलातले ॥ १९ ॥

तस्मै निवेदयेदर्घ्यं सिद्धार्थाक्षतपुष्पकैः ।
आधारशक्तिप्रभृतीन् क्लीँ मन्त्रेण च साधकः ॥ २० ॥

पूजयेत् प्रथमं मध्ये धर्मादीनपि पूर्ववत् ।
सत्त्वादीन् गुरुपादान्तान् पूर्वतन्त्रोदितान् बुधः ॥ २१ ॥

पूजयेन्मध्यपद्मे तु सुमेरुमपि मध्यतः ।
पूर्वभागे मण्डलस्य देव्याः शक्तीः प्रपूजयेत् ॥ २२ ॥

नाथकामेश्वरादींस्तु लौहित्यान्तान् विशेषतः ।
सर्वान् वै पीठदेवांस्तु मण्डलस्योत्तरे यजेत् ॥ २३ ॥

मणिकर्णं चित्ररथं भस्मकूटं तथैव च ।
श्वेतं नीलं च चित्रं च वाराहं गन्धमादनम् ॥ २४ ॥

मणिकूटं नन्दनं च पश्चिमे पूजयेदिमान् ।
जल्पीशमथ केदारं देवीं दिक्करवासिनीम् ॥ २५ ॥

धात्रीं स्वधां तथा स्वाहां मानस्तोकापराजिते ।
दक्षिणे पूजयेदेताश्चतुःषष्टिं च योगिनीः ॥ २६ ॥

ग्रहांश्च दशदिक्पालान् पूर्वाद्युक्तक्रमेण तु ।
पूर्ववत् पूजयेद् धीमान् भैरव भैरवीमपि ॥ २७ ॥

ततः कच्छपिकां बद्ध्वा पुनरेव तु पूजकः ।
ध्यायेच्च पूर्ववद् देवीं हृदिस्थां मनसापि च ॥ २८ ॥

मानसैर्गन्धपुष्पाद्यैः पूजयित्वा हृदि स्थिताम् ।
नासापुटेन निःसार्य दक्षिणेनाथ मण्डले ॥ २९ ॥

पुष्पमारोप्य कामाख्यां शारदामाह्वयेन्मुहुः ।
एह्येहि परमेशानि सान्निध्यमिह कल्पय ॥ ३० ॥

पूजाभागं गृहाणेमं मखं रक्ष नमोऽतु ते ।
दुर्गे दुर्गे इहागच्छ सर्वैः परिकरैः सह ॥ ३१ ॥

पूजाभागं गृहाणेम मखं रक्ष नमोऽस्तु ते ।
नारायण्यै विद्महे त्वां चण्डिकायै तु धीमहि ॥ ३२ ॥

शेषभागे तु गायत्र्यास्तन्नश्चण्डि प्रचोदयात् ।
दत्त्वा स्नानमनेनैव दुर्गा तन्त्रण वै पुनः ॥ ३३ ॥

नेत्रबीजेन च तथा पीठमन्त्रेण चान्तरम् ।
चतुरक्षरेण शेषेण त्रिभिर्मन्त्रैः प्रपूजयेत् ॥ ३४ ॥

चतुरक्षरमन्त्रेण पाद्यादीनथ षोडश ।
वितरेदुपचारांस्तु पूर्वोक्तांस्तांस्तु भैरव ॥ ३५ ॥

दुर्गातन्त्रेण मन्त्रेण देव्यङ्गानि प्रपूजयेत् ।
दुर्गेत्यनेन हृदयं पुनर्दुर्गेत्यनेन कम् ॥ ३६ ॥

शिखाकवचनेत्रञ्च पादपादांश्च पञ्चभिः ।
वादिपञ्चाक्षरैः शेषैः पूजयेत् क्रमतः सुधीः ॥ ३७ ॥

पूर्वाद्यष्टदलेष्वेताः पूजयेन्नाधिकक्रमात् ।
जयन्तीं पूर्वपत्रे तु आग्नेय्यादौ तु मङ्गलाम् ॥ ३७ ॥

कालीं च भद्रकालीं च तथा चैव कपालिनीम् ।
दुर्गां शिवां क्षमां चैव क्रमादेव तु नामतः ॥ ३८ ॥

केशवस्य तु मध्ये तु अष्टावेतास्तु नायिकाः ।
नेत्रबीजस्य मन्त्रेण बीजेन षट्सु नायिकाः ॥ ४० ॥

अमीषां च तथवासौ षड्भिरेतान्तराहितैः ।
ह्राँ ह्राँ श्रीमित्युपान्तां तु प्रान्तामाद्यस्वरेण वै ॥ ४१ ॥

उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डनायिकाम् ।
चण्डां चण्डवतीं चैव चण्डरूपां च चण्डिकाम् ॥ ४२ ॥

त्रिकोणकेशरान्तं च कामं प्रीतिं रतिं तथा ।
पञ्चबाणान् पुष्पधनुः पूजयेत् काममन्त्रकैः ॥ ४३ ॥

अष्टपुष्पिकया पश्चात् सम्पूज्य परमेश्वरीम् ।
देव्यास्तु करगृह्याणि शस्त्राण्यस्त्राणि वाहनम् ॥ ४४ ॥

पञ्चाननं केशरं च देव्यग्रे तु प्रपूजयेत् ।
पीठदेवीं शारदां तु कामाख्यामधिदेवताम् ॥ ४५ ॥

त्रिपुराख्यां महादेवीं पीठमत्यधिदेवताम् ।
कामेश्वरीं महोत्साहां मध्य एव प्रपूजयेत् ॥ ४६ ॥

चतुरक्षरमन्त्रेण दद्यात् पुष्पाञ्जलित्रयम् ।
जप्त्वा स्तुत्वा बलिं दत्त्वा नमस्कृत्यावगुण्ठ्य च ॥ ४७ ॥

योनिमुद्रां प्रदर्श्याथ निर्माल्यं दिशि शूलिनः ।
चण्डेश्वर्यै नमः इति निक्षिप्य च विसर्जयेत् ॥ ४८ ॥

ततस्तु भास्करायार्घ्यं दद्याच्छिद्रावधारणम् ।
देवीं च हृदये स्थाप्य स्थापयेद् योनिमण्डले ॥ ४९ ॥

एवं देवी तु कामाख्यां योनिमुद्रां जगन्मयीम् ।
शारदाख्यां महादेवीं योगेन विधिना यजेत् ॥ ५० ॥

सर्वकामान् सुसम्प्राप्य शिवलोकमवाप्नुयात् ।
यदि पीठं विनान्यत्र पूजयेत् कामरूपिणीम् ॥ ५१ ॥

नीलकूटे तदाप्येतत् सर्वमेव समाचरेत् ।
यदान्यत्र यजेद् देवीं जले वा स्थण्डिलेऽपि वा ॥ ५२ ॥

शिलादिषु च वह्नौ वा देवपीठे यथेच्छया ।
यजेद् वा न यजेद् वापि पीठेऽवश्यं प्रपूजयेत् ॥ ५३ ॥

एवं यः पञ्चभिर्मन्त्रैः पञ्चमूर्तिधरां शिवाम् ।
एकैकेनाथ वा तस्य स्वयं स्याद् वरदायिका ॥ ५४ ॥

विघ्ना न तस्य जायन्ते नाधयो व्याधयस्तथा ।
न तस्य सदृशोऽन्यः स्याद् धनधान्यसमृद्धिभिः ॥ ५५ ॥

गवां कोटिप्रदानात् तु यत्फलं जायते नृणाम् ।
तत्फलं समवाप्नोति कामाख्यां पूजयन्नरः ॥ ५६ ॥

दशपूर्वान् दशपरान् वंशानुद्धृत्य पापतः ।
सकृत् सम्पूजनेनैव मम लोकमवाप्नुयात् ॥ ५७ ॥

द्विः सम्पूज्य महादेवीं कामाख्यां योनिमण्डले ।
शतं वंश्मान् समुद्धृत्य देवीलोकमवाप्नुयात् ॥ ५८ ॥

यस्त्रिवारान् पूजयेत् तु विधिनानेन मानवः ।
नीलपर्वतमारुह्य कामाख्यां योनिमण्डले ॥ ५९ ॥

स सहस्रं तु वंशानामुद्धृत्य पापकोषतः ।
इहलोके सुखैश्वर्यचिरायुष्यमवानुयात् ॥ ६० ॥

देहान्ते मद्गृहं प्राप्य गणानामधिपो भवेत् ।
यस्यां कस्यामथाष्टम्यां नवम्यां वापि साधकः ॥ ६१ ॥

पञ्चरूपां तु कामाख्यां पञ्चमन्त्रैः सतन्त्रकैः ।
पूजयेद् वरदां देवीं मण्डलैश्च पृथक् पृथक् ॥ ६२ ॥

ध्यात्वा तु पञ्चरूपाणि जप्त्वा मन्त्रांश्च पञ्च वै ।
कल्पकोटिसहस्राणि मम लोके च मानवः ॥ ६३ ॥

स्थित्वा देवीप्रसादेन परे निर्वाणमाप्नुयात् ।
इह लोके वाञ्छितार्थं सुखं प्राप्य यशस्तथा ॥ ६४ ॥

रिपूञ्जित्वा स धर्मात्मा मातङ्गानिव केसरी ।
चिरायुः पुत्रपौत्रैश्च विभवैश्च समन्वितः ॥ ६५ ॥

क्रीडयित्वा ह्यमरवद् युवतीभिश्च सादरात् ।
यक्षरक्षःपिशाचानां नेता भवति नित्यशः ।
सर्वान् कामानवाप्यैव द्विजराजसमो भवेत् ॥ ६६ ॥

इति श्रीकालिकापुराणे पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥