विश्वास-प्रस्तुतिः
चतुःषष्टितमोऽध्यायः
मार्कण्डेय उवाच
देव्याः कामेश्वरीं मूर्तिं शृणु वक्ष्यामि भैरव ।
यस्याश्चिन्तनमात्रेण साधको लभते प्रियान् ॥ १ ॥
मूलम्

तन्त्रं तस्याः प्रथमतस्ततोऽनुध्यानगोचरम् ।
ततः पूजाक्रमं वक्ष्ये क्रमाद् वेताल भैरव ॥ २ ॥

प्रजापतिस्ततो वह्निरिन्द्रबीजं ततः परम् ।
चूडाचन्द्रार्धसहितं चतुर्थस्वरसंयुतम् ॥ ३ ॥

इदं कामेश्वरं बीजमन्त्रं सर्वार्थसाधनम् ।
स्थानाभ्युक्षणयन्त्रादि पात्रन्यासादिकं यथा ॥ ४ ॥

भूतापसारणादींश्च वैष्णवीतन्त्रभाषितान् ।
तथोक्तानुत्तरे यन्त्रे गृह्णीयात् साधकोत्तमः ॥ ५ ॥

प्राणायामत्रयं कुर्याद् दहनं प्लवनं तथा ।
विशेषमण्डलं चास्याः शृणु वेताल भैरव ॥ ६ ॥

षट्कोणं मण्डलं कुर्याद्रक्तवर्ण तु चिन्तयेत् ।
विभेद्य शक्त्या शम्भुं तु त्रिपुरातन्त्रवद् बुधः ॥ ७ ॥

ततः शक्तिं शम्भुनापि भेदयेत् क्रमतः सुधीः ।
ऐशान्यादिनैर्-ऋतान्तां रेखां कृत्वाथ दक्षिणे दक्षिणे तु कामरूपं तु
पूर्वतः ॥ ११ ॥

देव्या द्वादशगुह्यानि यानि द्वादशभिः करैः ।
लिखेन्मण्डलकोणेषु तानि दिक्षु त्रयं त्रयम् ॥ १२ ॥

षड्भिः षड्भिस्तु रेखाभिः कर्तव्यो मण्डलक्रमः ।
अन्यदुत्तरतन्त्रोक्तं वैष्णवीतन्त्रभाषितम् ॥ १३ ॥

मण्डलस्य क्रमं सर्वं विद्धि वेताल भैरव ।
ॐ क्लीं मण्डलतत्त्वाय नम इत्यत्र मण्डलम् ॥ १४ ॥

पूजयेत् प्रथमं ध्यात्वा मण्डलं योगपीठकम् ।
पीठे शिलायां विलिखेन्मण्डलं योनिमण्डलम् ॥ १५ ॥

त्रिकोणं विलिखेत् पश्चाद् वेष्टयेत् कमलेन तु ।
रूपं तु चिन्तयेद् देव्याः कामेश्वर्या मनोहरम् ॥ १६ ॥

प्रभिन्नाञ्जनसङ्काशां नीलस्निग्धशिरोरुहाम् ।
षड्वक्त्रां द्वादशभुजामष्टादशविलोचनाम् ॥ १७ ॥

प्रत्येकं षट्सु शीर्षेषु चन्द्रार्धकृतशेखराम् ।
मणिमाणिक्यमुक्तादिकृतमालामुरःस्थले ॥ १८ ॥

कण्ठे च बिभ्रतीं नित्यं सर्वालङ्कारमण्डिताम् ।
पुस्तकं सिद्धसूत्रं च पञ्चबाणं तु तं तथा ॥ १९ ॥

खड्गं शक्तिं च शूलं च बिभ्रतीं दक्षिणैः करैः ।
अक्षमालां महापद्मं कोदण्डं चाभयं तथा ॥ २० ॥

चर्म पश्चात् पिनाकं च बिभ्रतीं वामपाणिभिः ।
शुक्लं रक्तं च पीतं च हरितं कृष्णमेव च ॥ २१ ॥

विचित्रं क्रमतः शीर्षमैशान्यां पूर्वमेव च ।
दक्षिणं पश्चिमं चैव तथैवोत्तरशीर्षकम् ॥ २२ ॥

मध्यं चेति महाभाग क्रमाच्छीर्षाणि वर्णतः ।
शुक्लं माहेश्वरीवक्त्रं कामाख्यारक्तमुच्यते ॥ २३ ॥

त्रिपुरा पीतसङ्काशा शारदा हरिता तथा ।
कृष्णं कामेश्वरीवक्त्रं चण्डायाश्चित्रमिष्यते ॥ २४ ॥

धम्मिल्लसंयतकचं प्रतिशीर्षं प्रकीर्तितम् ।
सिंहोपरिसितप्रेतं तस्मिंल्लोहितपङ्कजम् ॥ २५ ॥

कामेश्वरी स्थिता तत्र ईषत्प्रहसितानना ।
विचित्रांशुकसंवीतां व्याघ्रचर्माम्बरां तथा ॥ २६ ॥

एवं कामेश्वरीं ध्यायेद् धर्मकामार्थसिद्धये ।
पीठेऽन्यत्राथवादेव्याः पूजायां कथ्यते क्रमः ॥ २७ ॥

पीठे विशेषो वक्तव्यः सामान्ये त्वन्यदिष्यते ।
अङ्गुष्ठादिक्रमादेव संयोज्याथ युगं युगम् ॥ २८ ॥

मूलमन्त्रस्याक्षरेण दीर्घस्वरयुतेन च ।
षड्भिराद्यैर्न्यसेत् पूर्वमङ्गुलीयकमेव च ॥ २९ ॥

हृच्छिरस्तु शीर्षवर्मनेत्रास्त्राणि पुनस्तथा ।
न्यसेद् दक्षिणहस्तेन षड्भिर्मन्त्रैस्तथा क्रमात् ॥ ३० ॥

आस्यं बाहुयुगं कुक्षि गुह्यं जानुयुगं तथा ।
पादयुग्मं क्रमात् तेस्तु षड्भिर्मन्त्रैन्यसेत् तथा ॥ ३१ ॥

अष्टधा मूलमन्त्रं तु जप्त्वाथार्घाहिते जले ।
तेनोपकरणं देयं चाभ्युक्ष्य क्रममारभेत् ॥ ३२ ॥

दैशिकः पूजयेद् देवीं पीठेनादैशिकः क्वचित् ।
तस्यैव हि करस्पर्शाद् देवी नोद्विजते शिवा ॥ ३३ ॥

यदि देशान्तराद् यातः पीठं देशान्तरं प्रति ।
तद्दैशिकोपदेशेन तदा पूजां समारभेत् ॥ ३४ ॥

यद्यन्यतः समायाता कामरूपादृते नरः ।
तद्देशजोपदेशेन सम्पूज्यफलमाप्नुयात् ॥ ३५ ॥

यस्मिन् देशे तु यः पीठ ओड्रपाञ्चालकादिषु ।
तद्देशजोपदेशेन पूज्यः पीठे सुरो नरैः ॥ ३६ ॥

इतोऽन्यथा पूजने न सम्यक् फलमवाप्नुयात् ।
महाविभवसम्पूर्णैर्विहितेनैव भैरव ॥ ३७ ॥

अनुक्तो यः क्रमश्चात्र वैष्णवीतन्त्रगोचरे ।
तथैवोत्तरतन्त्रेऽपि प्रोक्तो ग्राह्यस्तु साधुकैः ॥ ३८ ॥

पूर्वद्वारि प्रथमतः कामतत्त्वं प्रपूजयेत् ।
दक्षिणे प्रीतितत्त्वं तु रतितत्त्वं च पश्चिमे ॥ ३९ ॥

उत्तरे मोहनं तत्त्वं क्रमादेतानि पूजयेत् ।
ऐशान्यां पूजयेद् देव गणेशं द्वारपालकम् ॥ ४० ॥

अग्नौ तु चाग्निवेतालं नैर्-ऋत्यां कालमेव च ।
वायव्यां नन्दिनं चापि पूजयेत् क्रमतस्त्विमान् ॥ ४१ ॥

चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं चतुः ।
षट्कारं चैव यो वेद स योग्यः पीठपूजने ॥ ४२ ॥

ओड्राख्यं प्रथमं पीठं द्वितीयं जालशैलकम् ।
तृतीयं पूर्णपीठं तु कामरूपं चतुर्थकम् ॥ ४३ ॥

ओड्रपीठं पश्चिमे तु तथैवोड्रेश्वरी शिवाम् ।
कात्यायनीं जगन्नाथमोड्रेशं च प्रपूजयेत् ॥ ४४ ॥

उत्तरे पूजयेत् पीठं प्रशस्तं जालशैलकम् ।
जालेश्वरं महादेवं चण्डीं जालेश्वरीं तथा ॥ ४५ ॥

दीर्घिकां चोग्रचण्डां च तत्रैव परिपूजयेत् ।
दक्षिणे पूर्णशैलं तु तथा पूर्णेश्वरीं शिवाम् ॥ ४६ ॥

पूर्णनाथं महानाथं सरोजामथ चण्डिकाम् ।
पूजयेद् दमनीं देवीं शान्तामपि तथा शिवाम् ॥ ४७ ॥

कामरूपं महापीठं तथा कामेश्वरीं शिवाम् ।
नीलं च पर्वतश्रेष्ठं नाथं कामेश्वरं तथा ॥ ४८ ॥

पूजयेद् द्वारि पूर्वे तु क्रमादेतांस्तु भैरव ।
औड्रादीनां तु पीठानां क्षेत्रपालान् गुरूंस्तथा ॥ ४९ ॥

अन्यांस्तु द्वारपालादीन् स्वे स्वे स्थाने प्रपूजयेत् ।
विशेषात् कामरूपस्य कामेश्वरीं प्रपूजयन् ॥ ५० ॥

आनेव नीलशैलस्थान् शृणु वेताल भैरव ।
नाथः कामेश्वरो देवो देवी कामेश्वरी तथा ॥ ५१ ॥

करालः क्षेत्रपालाश्च चिञ्चावृक्षस्तथैव च ।
त्रिकूटे नीलशैलस्तु गुहा चापि मनोभवा ॥ ५२ ॥

बटुकः कम्बलो नाम वल्ली चैवापराजिता ।
भैरवः पाण्डुनाथश्च श्मशानं हेरुकाह्वयम् ॥ ५३ ॥

योगिनी च महोत्साहा तथा चन्द्रवती पुरी ।
लौहित्यो नदराजश्च प्रान्ता दिक्करवासिनी ॥ ५४ ॥

जल्पीशाख्यस्तु वायव्यां केदाराख्योऽथ राक्षसे ।
एतान् सम्पूजयेद् द्वारि तथा देव्यास्तु मण्डले ॥ ५५ ॥

द्वारपालो योगिनी च बटुकाद्या यथा तथा ।
कामरूपे पीठवरे ओड्रादिष्वथ तत् तथा ॥ ५६ ॥

मध्ये तु मण्डलस्याथ द्रावणं शोषणं तथा ।
बन्धनं मोहनं चैव तथैवाकर्षणाह्वयम् ॥ ५७ ॥

मनोभवस्य बाणांस्तु पश्चैतान् परिपूजयेत् ।
षट्कोणाग्रेषूत्तरादौ भगादिषट्कमेव च ॥ ५८ ॥

त्रिपुरातन्त्रमन्त्रोक्तं पूजयेत् क्रमतः सुधीः ।
गणाक्रीडादिकं तद्वत् तथा विद्याकलादिकान् ॥ ५९ ॥

बटुकान् सिद्धपुत्रादीन सिद्धाद्याश्च कुमारिकाः ।
चतुश्चतुष्कमित्येतच्चतुष्कमिति चोच्यते ॥ ६० ॥

कामं रतिं च प्रीतिं च अनङ्गमेखलादिकम् ।
सप्त वै त्रिपुरघ्नाद्या असिताङ्गादयो नवे ॥ ६१ ॥

माहेश्वर्यादिका देव्यो दशभिः पञ्चभिगणैः ।
द्वितीयं पञ्चकं प्रोक्तं पीठे कामफलप्रदम् ॥ ६२ ॥

आधारशक्तिमुख्या ये नित्यं तत्र प्रतिष्ठिता ।
धर्माद्याश्च तथैवाष्टौ तथा सत्त्वादिका गुणाः ॥ ६३ ॥

एकत्र ग्रहदिक्पालाश्चतुष्कमपरं स्मृतम् ।
देव्यास्तथोग्रचण्डाद्या नायिकाः परिपूजयेत् ॥ ६४ ॥

पूर्वोक्तदेशे मन्त्रेण भक्त्या वेताल भैरव ।
आवाहनं षोडशोपचाराणां प्रतिपादनम् ॥ ६५ ॥

जपं च बलिदानं च अङ्गास्त्राणां प्रपूजनम् ।
मुद्रा पूर्वा विसृष्टिश्च षट्कमेतत् प्रकीर्तितम् ॥ ६६ ॥

एतानि सप्त जानाति प्रकारान् पूजकः सुधीः ।
स एवोड्रादिपीठानि सम्पूजयितुमर्हति ॥ ६७ ॥

योऽज्ञात्वा सम्यगेतानि कुरुते पीठपूजनम् ।
न सम्यक् फलमाप्नोति हीनायुरपि जायते ॥ ६८ ॥

त्रिपुरातन्त्रमन्त्रोक्तस्थानेष्वेतेषु भैरव ।
पूजयित्वा प्रथमतः पूजयेत् परमेश्वरीम् ॥ ६९ ॥

कामेश्वरि इहागच्छ सम्मुखी भव चेश्वरि ।
चिन्तयित्वाथ मनसाऽभ्यर्च्य कामेश्वरीं हृदि ॥ ७० ॥

मानसैर्गन्धपुष्पाद्यैस्ततो दक्षिणनासया ।
निःसार्य वायुं तत् पुष्पमारोप्य मण्डलान्तरे ॥ ७१ ॥

आवाहयेन्महादेवीं सर्वकामेश्वरेश्वरीम् ।
कामेश्वरि इहागच्छ सम्मुखी भव सन्निधौ ॥ ७२ ॥

कामेश्वरि विद्महे त्वां कामाख्ययै च धीमहि ।
तन्नः कुब्जि महामाये ततः पश्चात् प्रचोदयात् ॥ ७३ ॥

एह्येहि भगवत्यम्ब लोकानुग्रहकारिणि ।
कामेशे कामरूपे त्वं कामकान्ते प्रसीद मे ॥ ७४ ॥

ततस्तु प्रथम स्नानं जलं दत्त्वा तु पूजकः ।
मूलमन्त्रेण वितरेदुपचारांस्तु षोडश ॥ ७५ ॥

पूजयेन्मध्यभागे तु षडङ्गानि ततोऽर्चयेत् ।
अङ्गन्यासे तु ये मन्त्राः क्रमे पूर्वं तु भाषिताः ॥ ७६ ॥

तैरेव मन्त्रैरङ्गानि देव्या अपि च पूजयेत् ।
पूर्वाद्यष्टदलेष्वेता योगिनीः परिपूजयेत् ॥ ७७ ॥

यथाक्रमेण कामानां सिद्ध्यर्थं कामदायिकाः ।
गुप्तकामां तु श्रीकामां तथैव विन्ध्यवासिनीम् ॥ ७८ ॥

कोटेश्वरीं वनस्थां तु योगिनीं पादचण्डिकाम् ।
दीर्घेश्वरीं तु प्रकटां भुवनेशीं क्रमाद् यजेत् ॥ ७९ ॥

वैष्णवीतन्त्रमन्त्रस्य यान्यष्टावक्षराणि तु ।
तानि बिन्द्बन्दुयुक्तानि मन्त्रन्यासांश्च च प्रक्षते ॥ ८० ॥

मन्त्रेषु षण्णां कोणानां षडिमाः परिपूजयेत् ।
ऐशान्यादिक्रमेणैव कामाख्यां त्रिपुरां तथा ॥ ८१ ॥

शारदां च महोत्साहां प्रकटां भुवनेश्वरीम् ।
सिद्धकामेश्वरीं चापि देव्या रूपाणि भैरव ॥ ८२ ॥

अष्टपुष्पिकया देवीं पुनः सम्पूज्य चाष्टधा ।
जप्त्वा स्तुत्वा बलिं दत्त्वा नत्वा मुद्रां प्रदर्श्य च ॥ ८३ ॥

देव्यास्तु सिद्धचण्ड्या वै निर्माल्यं प्रतिपाद्य च ।
विसृज्य मण्डलाद् देवीं स्थापयेद् योनिमण्डले ॥ ८४ ॥

एतत् कामेश्वरीतन्त्रं कथितं युवयोः सुतौ ।
शारदाया महातन्त्रं समन्त्रं शृणु भैरव ॥ ८५ ॥

इति श्रीकालिकापुराणे त्रिपुरापूजनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥