विश्वास-प्रस्तुतिः
त्रिषष्टितमोऽध्यायः
ईश्वर उवाच
वैष्णवीतन्त्रमन्त्रस्य यथापूर्वं मयोदितम् । मण्डलं प्रतिपत्त्या तु पर्यायो मण्डलस्य यः ॥ १ ॥
मूलम्

स एवं प्रथमं कार्यः शिलायां पुष्पचन्दनैः । पात्रादीनां प्रतिष्थानं तथैवात्रापि योजयेत् ॥ २ ॥

वैष्णवीतन्त्रमन्त्रस्य प्रोक्ता याः प्रतिपत्तयः । अत्र ताः सकला योज्या आसनाद्यैश्च पूजनम् ॥ ३ ॥

तेभ्योऽन्यो यो विशषोऽत्र तद् वक्ष्ये शृणु भैरव । प्रथमं भास्करायार्घ्यं प्रदद्याच्श्वेतसर्षपैः ॥ ४ ॥

पुष्पचन्दनसंवीतैः सगणाय महात्मने । आसनार्चनशेषे तु पठोक्ताः सर्वदेवताः ॥ ५ ॥

पीठनाम्ना तु संयोज्या मण्डलस्य तु मध्यतः ।
ध्यानस्वरूपं भिन्नं तद् वैष्णव्या सह भैरव ॥ ६ ॥

कामायाः सर्वमन्यत् तु महामायास्तवोदितम् । योगिनीस्तु चतुःषष्टिः पूजयेच्च पृथक् पृथक् ॥ ७ ॥

गुहां मनोभवां चापि महोत्साहां तथा सखीम् । अनन्तरं पूजयेत् तु दिक्पालांश्च नवग्रहान् ॥ ८ ॥

रूपतस्तान् समुद्दिश्य पूजयेदिष्टसिद्धये । पूर्वद्वारे गणपतिं प्रथमं तु प्रपूजयेत् ॥ ९ ॥

नन्दिनं च हनूमन्तं पश्चिमद्वारि पूजयेत् । भृङ्गी चोत्तरतः पूज्यो महाकालस्तु दक्षिणे ॥ १० ॥

एते मम द्वारपाला देव्या द्वारे प्रपूजयेत् । पात्रामृतीकृतिविधौ कुर्याद् वै काममुद्रया ॥ ११ ॥

भूतापसारणं कुर्यात् पूर्वं तालत्रयेण तु । वामहस्ते दक्षिणेन पाणिना तालमाहरेत् ॥ १२ ॥

हूँ हूँ फडितिमन्त्रेण वेतालादींश्च सारयेत् । सर्वमुत्तरतन्त्रोक्तं तन्त्रं कुर्यात् तु साधकः ॥ १३ ॥

अत्रोक्तेन स्वरूपेण प्राणायामं तथा चरेत् । स्नापयेत् प्रथमं देवीं मूलमन्त्रेण पूजकः ॥ १४ ॥

मधुक्षीराज्यदधिभिर्गोमूत्रैर्गोमयैस्तथा । रत्नोदकैः शर्कराभिर्गुडरत्नकुशोदकैः ॥ १५ ॥

सितसर्षपमुद्गाभ्यां तिलक्षीरैस्तथा यवैः । रक्तचन्दनपुष्पैश्च दूर्वाभी रोचनायुतैः ॥ १६ ॥

नवभिर्वितरेदर्घ्यं शिलायां योनिसन्निधौ । आसनं पाद्यमर्घ्यं च तत आचमनीयकम् ॥ १७ ॥

मधुपर्कं स्नानजलं वस्त्रं चन्दनभूषणम् । पुष्पं धूपं च दीपं च नेत्राञ्जनमतः परम् ॥ १८ ॥

नैवेद्याचमनीये च प्रदक्षिणनमस्कृती । एते षोडश निर्दिष्टा उपचारास्तु पीठतः ॥ १९ ॥

आवाहयेन्महादेवीं गायत्र्या कामयोगया । तामेव विद्धि वेताल गुह्यं भैरवदैवतम् ॥ २० ॥

कामाख्ये त्वमिहागच्छ यथावन्मम सन्निधौ । पूजाकरणि सान्निध्यमिह कल्पय कामिनि ॥ २१ ॥

कामाख्यायै च विद्महे कामेश्वर्यै तु धीमहि । ततः कुर्यान्महादेवी ततश्चानु प्रचोदयात् ॥ २२ ॥

एषा तु कामगायत्री पूजयेदनया शुभाम् । पूजावसाने च बलीन्देव्याः प्रीत्यै निवेदयेत् ॥ २३ ॥

रुद्राक्षमालया जाप्यमादायैव समाचरेत् । त्रयक्षरैर्मूलमन्त्रस्य त्रिधा वृत्तः प्रपूजयेत् ॥ २४ ॥

कामाख्यायाः षडङ्गानि आह्वानानन्तरे तथा । वैष्णवीतन्त्रमन्त्रस्य कराङ्गन्यासयोश्च ये ॥ २५ ॥

स्वराः प्रोक्तास्तैः स्वरैस्तु सार्धचन्द्रैः सबिन्दुकैः । मूलमन्त्राद्यक्षराभ्यां युगपत्तु नियोजितैः ॥ २६ ॥

कनिष्ठादिक्रमेणैव ह्यङ्गन्यासं समाचरेत् । अङ्गन्यासकरन्यासौ कृत्वा पश्चात्तु साधकः ॥ २७ ॥

हृच्छिरस्तु शिखावर्मनेत्रास्योदरपृष्ठतः । बाह्वोः पाण्योर्जङ्घयोश्च पादयोश्चापि विन्यसेत् ॥ २८ ॥

अभयं वरदं हस्तमक्षमालां च सूत्रकम् । पूजयेच्छशिनं सूर्यं शिरश्चान्द्रकलां तथा ॥ २९ ॥

रक्तपद्मं शवं चैव लौहित्यं ब्रह्मपुत्रकम् । मनोभवां शिलां तत्र शक्तिस्थां शवमध्यतः ॥ ३० ॥

देव्याः प्रपूजयेद्भक्तः कारवालं च पार्श्वतः । पीठादिदेवतास्तत्र यजेत् कामेश्वरीं शुभाम् ॥ ३१ ॥

त्रिपुरां पूजयेन्मध्ये पीठप्रत्यधिदेवताम् । शारदां च महोत्साहां मध्य एव प्रपूजयेत् ॥ ३२ ॥

चण्डेश्वरी महादेवी देव्या निर्माल्यधारिणी । योनिमुद्रा समाख्याता कामाख्या विसर्जने ॥ ३३ ॥

इदं द्रव्यं तु सिन्दूरचन्दनागुरुकुङ्कुमैः । इति यो हि मया प्रोक्तो विशेषः परिपूजने ॥ ३४ ॥

एभिर्विशेषैः सहितं वैष्णवीतन्त्रगोचरम् । सर्वं कल्पं समासाद्य कामाख्यां परिपूजयेत् ॥ ३५ ॥

अनेनैव विधानेन कामाख्यां यस्तु पूजयेत् । मनोभवगुहामध्ये स याति परमां गतिम् ॥ ३६ ॥

ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च । कौमारी वैष्णवी दुर्गा नरसिंही च कालिका ॥ ३७ ॥

चामुण्डा शिवदूती च वाराही कौशिकी तथा । माहेश्वरी शाङ्करी च जयन्ती सर्वमङ्गला ॥ ३८ ॥

काली कपालिनी मेधा शिवा शाकम्भरी तथा । भीमा शान्ता भ्रामरी च रुद्राणी चाम्बिका तथा ॥ ३९ ॥

क्षमा धात्री तथा स्वाहा स्वधापर्णा महोदरी । घोररूपा महाकाली भद्रकाली भयङ्करी ॥ ४० ॥

क्षेमकरी चोग्रचण्डा चण्दोग्रा चण्डनायिका । चण्डा चण्डवती चण्डी महामोहा प्रियङ्करी ॥ ४१ ॥

कलविकरिणी देवी बलप्रमथिनी तथा । मदनोन्मथिनी देवी सर्वभूतस्य दामनी ॥ ४२ ॥

उमा तारा महानिद्रा विजया च जया तथा । पूर्वोक्ताः शैलपुत्र्याद्या योगिन्यष्टौ च याः क्रमात् ॥ ४३ ॥

ताभिरेभिश्च सहिताः चतुःषष्टिं च योगिनीः । पूजयेन्मण्डलस्यान्तः सर्वकामार्थसिद्धये ॥ ४४ ॥

नानाविधं तु नैवेद्यं पानं पायसमेव च । मोदकापूपपिष्टादि देव्यै सम्यक् प्रदापयेत् ॥ ४५ ॥

एवं तु पूजयेद् देवीं कामाख्यां वरदायिनीम् । भक्तियुक्तो नरो यस्तु सर्वान् लभते प्रियान् ॥ ४६ ॥

महोत्साहा तु या देवी महामाया तु सा स्मृता । वैष्णवीतन्त्रमन्त्रेण सा पूज्या योनिमण्डले ॥ ४७ ॥

तदेव मण्डलं चास्य ह्यङ्गन्यासं तथैव च । सा एव पूजापर्याये तद्ध्यानं सैव दैवता ॥ ४८ ॥

तन्त्रं तदेवमुक्तं तु तस्मान्नान्यं तु किञ्चन । मण्डलादिविसृष्ट्यर्थं महामायामहोत्सवे ॥ ४९ ॥

यत्प्रोक्तं तेन तां देवीं महोत्साहां तु मण्डले । स्नानपूर्वं पूजयेत्तु मध्वाज्यादिभिरासवैः ॥ ५० ॥

शृणुतं त्रिपुरामूर्तेः कामाख्यायाः प्रपूजनम् । एतस्या मूलमन्त्रं तु पूर्वमुत्तरतन्त्रके ॥ ५१ ॥

युवयोरिष्टयोः सम्यक् क्रमात् तत् प्रतिपादितम् । वाग्भवं कामबीजं तु डामरं चेति तत्त्रयम् ॥ ५२ ॥

सर्वधर्माथकामादिसाधकं कुण्डलीयुतम् । त्रीण्यस्मात् पुरतो दद्याद् दुर्गा ध्याता महेश्वरी ॥ ५३ ॥

त्रिपुरेति ततः ख्याता कामाख्या कामरूपिणी । तस्यास्तु स्नापनं यादृक्कामाख्यायाः प्रकीर्तितम् ॥ ५४ ॥

तेनैव स्नापनं कुर्यान्मूलमन्त्रेण पूजकः । रिकोणं मण्डलं चास्यास्त्रिपुरं तु त्रिरेखकम् ॥ ५५ ॥

मन्त्रं तु अक्षरं ज्ञेयं तथा रूपं त्रयं पुनः । त्रिविधा कुण्डली शक्तिस्त्रिदेवानां च सृष्टये ॥ ५६ ॥

सर्वं त्रयं त्रयं यस्मात् त्रिपुरा तेन सा स्मृता । उदीच्याद्यथ पूर्वान्ता रेखाः कार्यास्तु मण्डले ॥ ५७ ॥

त्रिस्त्रिरेखास्तु कर्तव्यास्ता एव पुष्पचन्दनैः । ऐशान्यमथ नैर्-ऋत्यां मन्त्रं कृत्वा तु संलिखेत् ॥ ५८ ॥

नै-ऋत्यां चैव वायव्यां ततो ह्यैशान्यगां पुनः । एवं त्रिकोणं विलिखेन्मण्डलस्यान्तरे पुनः ॥ ५९ ॥

इशान्याद्यास्तु या रेखा सा तु शक्तिर्निगद्यते । नैर्-ऋत्यां वायवीं याता ततो ह्यैशान्यगा तु या ॥ ६० ॥

सा तु शम्भुः समाख्याता शक्त्या शम्भुं विभेदयेत् । शक्त्या विभिन्नं भूतेशं वेष्टयेत् कमलेन तु ॥ ६१ ॥

अष्टपत्रेण तां ध्यात्वा त्रिवर्णां प्राक् प्रपूजयेत् । त्रिभिस्त्रिभिस्तु रेखाभिः शक्तिं शम्भुं च वेष्टयेत् ॥ ६२ ॥

स्थानस्याभ्युक्षणं सम्यद्ध मार्जनं लिखनं तथा । अस्त्रमन्त्रप्रयोगाणां भूतानामपसारणम् ॥ ६३ ॥

वैष्णवीतन्त्रमन्त्रोक्तं तथैवोत्तरतन्त्रके । यत् प्रोक्तं तत् तु सामान्यं प्राक् कुर्यात् साधको नरः ॥ ६४ ॥

त्रिपुराया विशेषेण सहितं पूजनक्रमम् । एतत् त्रिकोणं देवानां त्रयाणां स्थानमिष्यते ॥ ६५ ॥

ऐशान्यां तु तथेशानो नैर्-ऋत्यां चतुराननः । वायव्यां तु तथा ब्रह्मा षट्कोणेषु प्रकीर्तिताः ॥ ६६ ॥

दलं त्वेकपुरं प्रोक्तं केशरं चापरं पुरम् । पुरं शेषं त्रिकोणं तु त्रिकोणं मण्डलं स्मृतम् ॥ ६७ ॥

दलेषु केशरे चापि त्रिकोणे च त्रिधा त्रिधा । रेखास्तु विहिताः सम्यक् कुर्यात् तत्र पुनः पुनः ॥ ६८ ॥

उत्तरं तद् भवेद् द्वारं तस्य वै धनुराकृतिः । पूर्वद्वारं तु षट्कोणं चतुष्कोणं तु दक्षिणे ॥ ६९ ॥

पश्चिमं तोरणाकारं यथा चान्यत्र मण्डले । ऐशान्यां पञ्चबाणांस्तु लिखेद् वह्नौ च तद्धनुः ॥ ७० ॥

नैर्-ऋत्यां पुस्तकं चापि वायव्यामक्षमालिकाम् । एवं कृत्वा मण्डलं तु धृत्वा वामेन पाणिना ॥ ७१ ॥

वाग्वेश्मने नम इति मण्डलं पूजयेत् ततः । पूजयित्वा ततो भूतान् नालिकात्रितयेन तु ॥ ७२ ॥

मूलमन्त्रेण पूर्वोक्तैर्मन्त्रैरपि अमाचरेत् । नवभिश्छोटिकाभिस्तु त्रिधा कृत्वा तु वेष्टनम् ॥ ७३ ॥

अभ्युक्षणं ततः कुर्याद् भूतानामपसारणम् । प्रतिपत्तिस्तु पात्रस्य अर्घ्यार्थं नवधा पुनः ॥ ७४ ॥

पूर्ववत् साधकः कुर्याद् दहनं प्लवनं तथा । अमृतीकरणं कुर्यात् प्रथमं धेनुमुद्रया ॥ ७५ ॥

योनिमुद्रां ततः कुर्यात् पात्रतोयं तु त्रिः स्पृशेत् । मार्तण्डभैरवायार्घ्यं दूर्वाभिः सिद्धसर्षपैः ॥ ७६ ॥

रक्तपुष्पैश्चन्दनैश्च सगणाय निवेदयेत् । पाणिकच्छपिकां कृत्वा चिन्तनं योनिमुद्रया ॥ ७७ ॥

आदौ मध्ये च कर्तव्यं क्रमाद् वेतालभैरव । अस्त्रमन्त्रेण पात्रस्य स्थापनार्थं तु मण्डलम् ॥ ७८ ॥

षट्कोणं तु लिखेत् पूर्वं तन्मन्त्रस्थापनेऽपि च । ऐँ आँ क्लीमिति मन्त्रेण त्रिधा पात्रे जलं क्षिपेत् ॥ ७९ ॥

त्रिधा गन्धं च पुष्पं च त्रिधा दूर्वाक्षतं पुनः । राँ ह्रीँ ह्रूँ ह्रैँ ह्रौमिति च अङ्गुष्ठादि क्रमान्न्यसेत् ॥ ८० ॥

ॐ ह्र इत्यस्त्रमन्त्रेण पाणिपृष्ठतले तथा । हृदयादिक्रमात् पश्चान्न्यासं कुर्यात् त्रिधा त्रिधा ॥ ८१ ॥

संयोज्य पाण्योः क्रमतश्चाङ्गुष्ठादि द्वयं द्वयम् । त्रिधा त्रिधा पृथक् कुर्याच्छेषाङ्गानि च विन्यसेत् ॥ ८२ ॥

कर्णरन्ध्रे तथा ब्रह्मद्वारं केशतलं तथा । नासिकारन्ध्रयुगलं जानुयुग्मं पदद्वयम् ॥ ८३ ॥

त्रिधा त्रिधा न्यसेदेभिः षड्भिर्मन्त्रैः पृथक् पृथक् । प्राणायामं ततः कुर्यात् पूरकैः स्तम्भकैस्तथा ॥ ८४ ॥

रेचकेनापि त्रिपुरामूर्तिं देवीं विचिन्तयेत् । दहनप्लवनं कृत्वा आद्यां मूर्तिं विचिन्तयेत् ॥ ८५ ॥

त्रिधादृत्याथ हृदये तां मूर्तिं शृणु भैरव । सिन्दूरपुञ्जसङ्काशां त्रिनेत्रां तु चतुर्भुजाम् ॥ ८६ ॥

वामोर्ध्वे पुष्पकोदण्डं धृत्वाधः पुस्तकं तथा । दक्षिणोर्ध्वे पञ्चबाणानक्षमालां दधात्यधः ॥ ८७ ॥

चतुर्णां कुणपानां तु पृष्ठेऽन्यं कुणपान्तरम् । निधाय तस्य पृष्ठे तु समपादेन संस्थिताम् ॥ ८८ ॥

जटाजूटार्धचन्द्रेण समाबद्धशिरोधराम् । नग्नां त्रिवलिभेदेन चारुमध्यां मनोहराम् ॥ ८९ ॥

सर्वालङ्कारसम्पूर्णां सर्वाङ्गसुन्दरी शुभाम् । स्रवद्द्रविणसन्दोहां सर्वलक्षणसंयुताम् ॥ ९० ॥

एनां तु प्रथमं ध्यात्वा त्रिधात्मानं तु चिन्तयेत् । अद्रूपं च ततः पश्चात् पुष्पं तद्वाग्भवेन तु ॥ ९१ ॥

स्वमस्तके पुनर्दद्यादङ्गन्यासं पुनस्तथा । मन्त्रद्वयं त्रिधा जप्त्वा वाग्भवाद्यं तु साधकः ॥ ९२ ॥

अर्घ्यपात्रस्य तोयेषु तैस्तोयैः सेचयेच्छिरः । पजोपकरणं चापि त्रिरभ्युक्ष्य तथैव तु ॥ ९३ ॥

कामपीठं ततो ध्यात्वा पूजयेत् क्रमतस्त्विमान् । गणेशं च गणाध्यक्षं गणनाथं तथैव च ॥ ९४ ॥

गणक्रीडं च पूर्वादिद्वारे मन्त्रेण पूजयेत् । हैरम्बबीजमेतेषां मन्त्रस्तु परिकीर्तितः ॥ ९५ ॥

विद्याशान्तिनिवृत्तिश्च प्रतिष्ठा द्वारपालकाः । कलान्ताः पूजयेत् सम्यक् पूर्वादिक्रमतस्तथा ॥ ६९ ॥

सिद्धपुत्रं ज्ञानपुत्रं तथा सहजपुत्रकम् । शेषं समयपुत्रं तु पूजयेद् बटुकानिमान् ॥ ९७ ॥

प्रत्येकं तु श्रियं देवीं बटुकानां परे वरे । श्रीमित्यनेन मन्त्रेण पूर्वादौ पूजयेत् क्रमात् ॥ ९८ ॥

सिद्धस्य सहजस्याथ ज्ञानस्य समयस्य च । कुमारीं पूजयेत् कोणे ऐशान्यादौ तु मण्डले ॥ ९९ ॥

योरटं डामरं चैव लोहजङ्घं तथैव च । भूतनाथं क्षेत्रपालमीशानादौ प्रपूजयेत् ॥ १०० ॥

मण्डलस्य च मध्ये तु पञ्चबाणान् प्रपूजयेत् । द्रावणं शोषणं चैव बन्धनं मोहनं तथा ॥ १०१ ॥

आकर्षणं च मध्येन मन्त्रेणैव प्रपूजयेत् । ततस्त्रिष्वथ कोणेषु पूजयेत् तु त्रियोगिनीः ॥ १०२ ॥

भगं च भगजिह्वां च भगास्यामुत्तरादिकम् । क्रमात्तु पूज्यास्तिस्रोऽन्या अन्या मध्ये त्रिकोणके ॥ १०३ ॥

भागमालिनीं तु प्रथमे द्वितीये तु भगोदरीम् । तृतीये भगरोहां तु योगिनीं कामरूपिणीम् ॥ १०४ ॥

अनङ्गकुसुमां देवीं तथैवानङ्गमेखलाम् । अनङ्गमदनां चैव ह्यनङ्गमदनातुराम् ॥ १०५ ॥

अनङ्गवेशां चानङ्गमालिनीं मदनातुराम् । दलकेशरमध्ये तु ह्यष्टमीं मदनाङ्गकुशाम् ॥ १०६ ॥

शैलपुत्र्यादयश्चाष्टौ त्रिपुरापूजनक्रमे । एतन्नामभिरव्यग्रा बभूवुः कामयोगिनीः ॥ १०७ ॥

वाग्भवेन तथा दुर्गां नेत्रबीजान्तकेन तु । अङ्गन्यासं समन्त्रैस्तु षड्भिरष्टाविमान् पुनः ॥ १०८ ॥

मानसतरङ्गिणीकृत् - टिप्पनी
agnivetAla is one of 8 kShetrapAla-s associated with the eastern reflex of the dakShiNAMnAya: hetuka, tripuraghna, agnijihva, agnivetAla, kAla, karAlaka, ekapAda, bhImanAtha. Further, we suspect that hetuka has an equivalence with heruka, who was prominent at the cemetery at kAmAkhyA and is worshiped in a great li~Nga.
विश्वास-प्रस्तुतिः
पूजयेत् क्षेत्र-पालांस् तु
मव्ये किञ्जल्क-पत्रयोः ।
हेतुकं विपुर-घ्नं च
अग्नि-जिह्वं तथैव च ॥ १०९ ॥
मूलम्
पूजयेत् क्षेत्रपालांस्तु मव्ये किञ्जल्कपत्रयोः । हेतुकं विपुरघ्नं च अग्निजिह्वं तथैव च ॥ १०९ ॥
विश्वास-प्रस्तुतिः
अग्नि-वेताल-सञ्ज्ञं च
कालं चाथ करालकम् ।
एक-पादं भीम-नाथम्
उत्तरादि-क्रमेण तु ॥ ११० ॥
मूलम्
अग्निवेतालसञ्ज्ञं च कालं चाथ करालकम् । एकपादं भीमनाथमुत्तरादिक्रमेण तु ॥ ११० ॥
विश्वास-प्रस्तुतिः
एभिर् एवाष्टभिर् मन्त्रैः
काम-राजेन संयुतैः ।
नवैतान् अ-सिताङ्गादीन्
नायकान् पूजयेत् क्रमात् ॥ १११ ॥
मूलम्
एभिरेवाष्टभिर्मन्त्रैः कामराजेन संयुतैः । नवैतानसिताङ्गादीन् नायकान् पूजयेत् क्रमात् ॥ १११ ॥
विश्वास-प्रस्तुतिः
मण्डलस्य चतुर्-दिक्षु
द्वौ द्वौ पूर्वादिषु क्रमात् ।
पद्म-मण्डलयोर् मध्ये
शेषम् एकं तु पूजयेत् ॥ ११२ ॥
मूलम्
मण्डलस्य चतुर्दिक्षु द्वौ द्वौ पूर्वादिषु क्रमात् । पद्ममण्डलयोर्मध्ये शेषमेकं तु पूजयेत् ॥ ११२ ॥
विश्वास-प्रस्तुतिः
असिताङ्गी रुरुश्चण्डः क्रोधोन्मत्तौ भयङ्करः । कपाली भीषणश्चैव अंहारश्चेति वै नव ॥ ११३ ॥

ऐशान्यादिक्रमाद् द्वे द्वे नायिकां पूजयेन्नरः । पद्ममण्डलयोर्मध्ये अग्नौ द्वे च प्रपूजयेत् ॥ ११४ ॥

ब्रह्माणीं भैरवीं चैव तथा माहेश्वरीमपि । कौमारीं वैष्णवीं चैव नारसिंहीं तथैव च ॥ ११५ ॥

वाराहीं च तथेन्द्राणीं चामुण्डां चण्डिकां तथा । आधारशक्तिप्रभृतीन् मण्डलस्य तु मध्यतः ॥ ११६ ॥

वैष्णवी तन्त्रकल्पोक्तान् सर्वान् भैरव पूजयेत् । शिवस्य पञ्च याः प्रोक्ताः सद्योजातादयः पुरा ॥ ११७ ॥

मूर्तयस्ताः पद्ममध्ये पञ्चप्रेतत्वमागताः । ताः पञ्च पूजयेन्मध्ये रक्तपद्मं शवं तथा ॥ ११८ ॥

सिंहं च पूजयेत् तत्र जगदाधारसञ्ज्ञितम् । जयन्तीं मङ्गलां कालीं भद्रकालीं कपालिनीम् ॥ ११९ ॥

दुर्गां क्षमां शिवां धात्रीं स्वधां स्वाहां च पूजयेत् ।
उग्रचण्डा प्रचण्डा चण्डोग्रा चण्डनायिका ॥ १२० ॥

चण्डा चण्डवती चैव अण्डरूपातिचण्डिका । एताः सम्पूजयेन्मध्ये मण्डलस्य विशेषतः ॥ १२१ ॥

आदित्यादीन् ग्रहान् सर्वान् रूपतो ह्यस्त्रसंयुतान् । क्रमात् प्रत्येकमुद्दिश्य पार्श्वे पार्श्वे प्रपूजयेत् ॥ १२२ ॥

दिक्पालानां तु मन्त्रेण तथा सर्वांस्तु दिक्पतीन् । अस्त्रमन्त्रैस्तु तान् सर्वांस्तेषां मन्त्राणि भैरव ॥ १२३ ॥

नाथं कामेश्वरं तत्र एकवत्रं चतुर्भुजम् । भस्मश्वेतं मध्यहृदि रक्तपुष्पैस्तु कुङ्कुमैः ॥ १२४ ॥

त्रिशूलं च पिनाकं च वामहस्तद्वये स्थितम् । उत्पलं बीजपूरं च दक्षिणद्वितये तथा ॥ १२५ ॥

श्वेतपद्मोपरिस्थं च ध्यात्वा मध्ये प्रपूजयेत् । कामाख्यां मूर्तितो ध्यात्वा कामाख्यामपि पूजयेत् ॥ १२६ ॥

कामेश्वरीं तत्र देवीं पूजयेत् परमेश्वरीम् । वक्ष्यमाणेन रूपेण तत्र वेतालभैरवी ॥ १२७ ॥

करालं क्षेत्रपालं च कर्त्रिखर्परधारिणम् । पूजयेदीशमत्यर्थं दंष्त्राभिन्नाधरं भयम् ॥ १२८ ॥

तिन्तिडीं कल्पवृक्षं च सुच्छायं रत्नभूषितम् । त्रिकूटं कृष्णवर्णं च नीलशैलं महाद्युतिम् ॥ १२९ ॥

मनोभवां गुहां तत्र पञ्चव्यामायतां शुभाम् । रत्नमण्डलसंयुक्तां रक्तवर्णां सुवर्तुलाम् ॥ १३० ॥

अपराजितां च वल्लीं च व्यामत्रयसुविस्तृताम् । आरक्तवर्णां सततं कुसुमैरूपशोभिताम् ॥ १३१ ॥

बटुकं कम्बलाख्यं तु स्वर्णगौरं गजासनम् । द्विभुजं दक्षिणे दण्डपाणिं वामे कपालकम् ॥ १३२ ॥

बिभ्रतं पुरतो देव्याः पूज्यो विघ्नविपत्तये । भैरवः पाण्डुनाथश्च रक्तगौश्चतुर्भुजः ॥ १३३ ॥

गदां पद्मं च शक्तिं च चक्रं चापि करेषु च । बिभ्रद् देव्याः पुरोभागे पूज्योऽयं विष्णुरूपधृक् ॥ १३४ ॥

श्मशानं हेरुकाख्यं च रक्तवर्णं भयङ्करम् । असिचर्मधरं रौद्रं भुञ्जानं मनुजामिषम् ॥ १३५ ॥

तिसृभिर्मुण्डमालाभिर्गलद्रक्ताभिराजितम् । अग्निनिर्दग्धविगलद्दन्तप्रेतोपरिस्थितम् ॥ १३६ ॥

पूजयेच्चिन्तनेनैव शत्रस्वाहनभूषणम् । महोत्साहां योगिनीं तु महामायास्वरूपिणीम् ॥ १३७ ॥

ध्यानतो रूपतस्तां तु देव्या अग्रे प्रपूजयेत् । पुरीं चन्द्रवतीं देव्या नीलपर्वतपूर्वतः ॥ १३८ ॥

योजनद्वयविस्तीर्णामर्धयोजनमायताम् । उच्चैरनेकप्रासाद सौधसद्मविभूषिताम् ॥ १३९ ॥

मणिरत्नसुवर्णौघजातप्रासादविस्तृताम् । क्रीडासरोवरैः सद्भिः सञ्छन्नां विकचैः कचैः ॥ १४० ॥

संयुतां पूजयेत् तत्र देव्या अग्रे समन्त्रकम् । लौहित्यं रक्तगौराङ्गं नीलवस्त्रविभूषितम् ॥ १४१ ॥

रत्नमालासमायुक्तं चतुर्बाहुसमन्वितम् । पुस्तकं श्वेतपद्मं च बिभ्रतं दक्षिणे करे ॥ १४२ ॥

वामे शक्तिध्वजं चैव शिशुमारस्थितं शुभम् । पीठेश्वरानिमान् मध्ये मन्त्रेरेतैः प्रपूजयेत् ॥ १४३ ॥

नाथ कामेश्वरं देवं प्रासादेन प्रपूजयेत् । कामेश्वर्यास्तु मन्त्रेण यजेत् कामेश्वरी शुभाम् ॥ १४४ ॥

द्वावुपान्तौ बलेनैव मदनान्ते च तत्क्रमात् । योजयेन्नादबिन्दुभ्याम् आयाकरणमन्त्रकम् ॥ १४५ ॥

चण्डिकानेत्रबीजस्य यच्छेषमक्षरं तु तत् । कल्पं तिन्तिडिकावृक्षमन्त्रमेतत् प्रकीर्तितम् ॥ १४६ ॥

उग्राया मध्यबीजं तु नीलशैलस्य मन्त्रकम् । मनोभवस्य बीजं तु महादेवेन संहितम् ॥ १४७ ॥

अदिस्थेनेन्दुना बिन्दुयुक्तं वान्तेन योजितम् । मनोभवगुहायां तु मन्त्रमेतत् प्रकीर्तितम् ॥ १४८ ॥

वैष्णवीतन्त्रमन्त्रस्य यच्छेषं बीजमस्वरम् । तदधो वान्तसंश्लिष्टं चतुर्थस्वरसंयुतम् ॥ १४९ ॥

चन्द्रबिन्दुसमायुक्तं तन्मन्त्रञ्चापराजितम् । हयग्रीवस्वरूपस्य विष्णोर्यद्बीजमुत्तमम् ॥ १५० ॥

कम्बलस्य तु तन्मन्त्रं पूजनं परिकीर्तितम् । केवलः सप्ररोहादिषष्ठस्वरसमन्वितः ॥ १५१ ॥

चन्द्रबिन्दुसमायुक्तं हयग्रीवस्य बीजकम् । भैरवं पाण्डुनाथं च वनमालिस्वरूपिणम् ॥ १५२ ॥

वाराहेण तु बीजेन पूजयेत् तु विधानतः । सपरौ द्वावनुस्वारविसर्गाभ्यां तु संयुतौ ॥ १५३ ॥

महाभैरवमन्त्रेण भैरवान्तेन पूजयेत् । महोत्साहां महामायां द्वितीयाष्टाक्षरेण तु ॥ १५४ ॥

देवीतन्त्रोदितेनैव पूजयेद् भूतिवृद्धये । आद्याक्षरं तु सामीन्दुबिन्दुभ्यां समलङ्कृतम् ॥ १५५ ॥

स्वनाम्नश्चन्द्रवत्यास्तु पूजामन्त्रं प्रकीर्तितम् । सर्वलक्षणसम्पूर्णं सर्वालङ्कारभूषितम् ॥ १५६ ॥

लौहित्यनदराजस्य ब्रह्मपुत्रस्य भूतिदम् । ब्रह्मबीजं तु मन्मत्रं वह्निभार्यान्तमिष्यते ॥ १५७ ॥

द्वितीयं त्रिपुरारूपं तथैव तु तृतीयकम् । आवाहनार्थं देव्यास्तु चिन्तयेद् योनिमुद्रया ॥ १५८ ॥

बन्धूकपुष्पसङ्काशां जटाजूटेन्दुमण्डिताम् । सर्वलक्षणसम्पूर्णां सर्वालङ्कारभूषिताम् ॥ १५९ ॥

उद्यद्रविप्रभाम् अद्मपर्यङ्केषु सुसंस्थिताम् । मुक्तारत्नावलीयुक्तां पीनोन्नतपयोधराम् ॥ १६० ॥

वलिविभङ्गचतुरामासवामोदमोदिताम् । नेत्राह्लादकरीं शुभ्रां क्षोमणीं जगतां तथा ॥ १६१ ॥

त्रिनेत्रां योनिमुद्रायामीषद्धाससमायुताम् । नवयौवनसम्पन्नाम् ऋणालाभचतुर्भुजाम् ॥ १६२ ॥

वामार्धे पुस्तकं धत्ते अक्षमालां तु दक्षिणे । वामेनाभयदां देवीं दक्षिणार्धे वरप्रदाम् ॥ १६३ ॥

स्रवद्रक्तौघसूर्याभां शिरोमालां तु बिभ्रतीम् । आपादलम्बिनीं कल्पद्रुममासाद्य संस्थिताम् ॥ १६४ ॥

कदम्बोपवनान्तस्थां कामाह्लादकरीं शुभाम् । द्वितीयां त्रिपुरां ध्यायेदेवंरूपां मनोहराम् ॥ १६५ ॥

तृतीयं त्रिपुरारूपं शृणु वेतालभैरव । जवाकुसुमसङ्काशां मुक्तकेशीं शुभाननाम् ॥ १६६ ॥

सदाशिवं हसन्तं तु प्रेतवद् विनिधाय वै । हृदये तस्य देवस्य ह्यर्द्धपद्मासनस्थिताम् ॥ १६७ ॥

रक्तोत्पलैर्मिश्रितां तु मुण्डमालां पदानुगाम् । ग्रीवायां धारयन्तीं तु पीनोन्नतपयोधराम् ॥ १६८ ॥

चतुर्भुजां तथा नग्नां दक्षिणार्धेऽक्षमालिनीम् । वरदां तदधो वामे जगन्मायां तथाभयाम् ॥ १६९ ॥

अधस्तु पुस्तकं धत्ते त्रिनेत्रां हसिताननाम् । स्रवद्रुधिरभोगार्तां तथा सर्वाङ्गसुन्दरीम् ॥ १७० ॥

एवंविधं तृतीयं तु रूपं ध्यायेत् तु पूजकः । आद्यं तु वाग्भवं रूपं द्वितीयं कामराजकम् ॥ १७१ ॥

डामरं मोहनं चापि तृतीयं परिकीर्तितम् । एकैकं तु त्रिरूपाणि प्राग्विचिन्त्यार्थसाधकः ॥ १७२ ॥

मन्त्रत्रयेण प्रत्येकं हृदि षोडशकैस्तथा । पूजयेदुपचारैस्तु बहिर्यद्वत्तथैव च ॥ १७३ ॥

मन्त्रत्रयं तथैकत्र कृत्वा च मनमूर्तयः । कर्तव्या एकतस्तत्र मध्यरूपे निवेशयेत् ॥ १७४ ॥

नासापुटेन निःसार्य दक्षिणेनाथ तां पुनः । अवतार्य कराभ्यां तु देवीमावाहयेत् त्रिधा ॥ १७५ ॥

गायत्रीत्रयमुचार्य स्नापयेत् प्रथमं तु ताम् । आवाहने तु मन्त्रोऽयं पठितव्यश्च साधकैः ॥ १७६ ॥

एहि देवि शुभावर्ते यज्ञेऽस्मिन् मम सन्निधौ । अव्युच्छिन्नां ततः शुभ्रां वाचं कण्ठस्य देहि मे ॥ १७७ ॥

एह्येहि भगवत्यम्ब त्रिपुरे कामदायिनि । इमं भागबलिं गृह्य सान्निध्यमिह कल्पय ॥ १७८ ॥

नारायण्यै च विद्महे आग्मयायै च धीमहि । एवमुक्त्वा ततः पश्चात् तन्नो देवी प्रचोदयात् ॥ १७९ ॥

नारायण्यै विद्महे त्वां चण्डिकाय च धीमहि । शेषभागे प्रयुञ्जीत तन्नः कुब्जि प्रचोदयात् ॥ १८० ॥

महामायायै विद्महे त्वां सम्मोहिन्यै च धीमहि । पश्चादेवं प्रयुञ्जीत तन्नाश्चण्डि प्रचोदयात् ॥ १८१ ॥

एतास्तु त्रिपुरादेव्या गायत्र्यः परिकीर्तिताः । प्रत्येकं स्नापनं कुर्यात् त्रिपुराणां च तिसृभिः ॥ १८२ ॥

वाग्भवेन तु मन्त्रेण प्रथमं पूजयेच्छिवाम् । कामराजेन वै पश्चाड्डामरेणापि पूजयेत् ॥ १८३ ॥

पश्चादेनां त्रिभिर्मन्त्रैरेकत्रैव तु पूजयेत् । ततो मन्त्रेण वै दद्यादुपचारास्तु षोडश ॥ १८४ ॥

कामाख्यातन्त्रगदितान् सम्पूज्याङ्गाक्षरान् पुनः । अङ्गन्यासस्य यन्मत्रैर्देव्या अङ्गानि पूजयेत् ॥ १८५ ॥

शेषं तु मूलमन्त्रेण चाष्टाङ्गानां प्रपूजनम् । एकैकं प्रक्रमं पूज्य त्रिपुरायै अमस्ततः ॥ १८६ ॥

नवधा पूजयेद् देवीं त्रिपुरां कामरूपिणीम् । उत्तरादिचतुष्पत्रे पद्मस्यैतान् प्रपूजयेत् ॥ १८७ ॥

ब्रह्माणं माधवं शम्भुं भास्करं च तथैव च । ऐशान्यादिषु तेष्वेवं क्रमाद् देव्याः प्रपूजयेत् ॥ १८८ ॥

जयन्तीं प्रथमं पश्चाद् वायव्यामपराजिताम् । नैर्-ऋत्यां विजयां चैव तथाग्नेय्यां जयाह्वयाम् ॥ १८९ ॥

त्रिकोणे केशरस्यान्ते कामं प्रीतिं रतिं तथा । पूजयेत् पञ्चबाणांश्च पुष्पं चापं च पुस्तिकाम् ॥ १९० ॥

अक्षमालाम् अञ्चशरान् रत्नपर्यङ्कमेव च । प्रेतपद्मशिवं चैव सम्यक् तत्रैव पूजयेत् ॥ १९१ ॥

सम्पूज्य पूर्ववन्मालां स्फाटिकामेव भैरव । आदायाथोत्तरीयेण तामाच्छाद्य प्रयत्नतः ॥ १९२ ॥

पूर्वोद्धृतं जपेत् सम्यक् साधकस्त्रिपुरामनुम् । जप्त्वा स्तुतिं पठित्वा च प्रणम्य च मुहुर्मुहुः ॥ १९३ ॥

त्रिपुरायै बलिं दद्यात् सम्भवात् तत् त्रिजातिकम् । सफेनैस्तोयसंयुक्तैः शर्करामधुसैन्धवैः ॥ १९४ ॥

अभ्युक्ष्य रुधिरं दद्यात् कामराजेन भैरव । छेदयेद् वाग्भवेनैव डामरैर्विहरेच्छिरः ॥ १९५ ॥

यत्र यत्र बलिं दद्यात् साधको देवतार्चने । वैष्णवीतन्त्रकल्पोक्तमादद्यात् पूजने बलिम् ॥ १९६ ॥

ततो देव्यै वलीन् दद्यादेतद्वर्णक्रमात् पुनः । गोक्षीरं ब्राह्मणो दद्याद् गव्यमाज्यं तु राजजः ॥ १९७ ॥

वैश्यस्तु माक्षिकं दद्याच्छूद्रः पुष्पासवादिक्रम् । घ्रात्वा पुष्पमथैशान्यां निर्माल्यं निक्षिपेद् बुधः ॥ १९८ ॥

निर्माल्यधारिणी चास्या देवी त्रिपुरचण्डिका । विसृज्यादौ योनिमुद्रां पद्ममुद्रां तथैव च ॥ १९९ ॥

अर्धमुद्रां त्रिमुद्रां च प्रत्येकमपि दर्शयेत् । निर्माल्यमथ गृह्णीयात् कामराजह्वयेन तु ॥ २०० ॥

एवं यः पूजयेद् देवी त्रिपुरां कामरूपिणीम् । स कामानखिलान् प्राप्य देवीलोकमवाप्नुयात् ॥ २०१ ॥

इति श्रीकालिकापुराणे त्रिपुरापूजने रिषष्टितमोऽध्यायः ॥ ६३ ॥