६२

विश्वास-प्रस्तुतिः

द्विषष्टितमोऽध्यायः

भगवानुवाच

कामार्थमागता यस्मान्मया सार्धं महागिरौ ।
कामाख्या प्रोच्यते देवी नीलकूटे रहोगता ॥ १ ॥

मूलम्

कामदा कामिनी कामा कान्ता कामाङ्गदायिनी ।
कामाङ्गनाशिनी यस्मात् कामाख्या तेन चोच्यते ॥ २ ॥

एतस्याः शृणु माहात्म्यं कामाख्याया विशेषतः ।
या सा प्रकृतिरूपेण जगत्सर्वं नियोजयेत् ॥ ३ ॥

मधुकैटभनाशाय महामायाविमोहितः ।
यदा संयुयुधे विष्णुस्तदैषामोहयद्धरिम् ॥ ४ ॥

दैनन्दिने तु प्रलये प्रसुप्ते गरुडध्वजे ।
तस्य श्रवणविड्जातावसुरौ मधुकैटभौ ॥ ५ ॥

कूर्मपृष्ठे स्थिता देवी विशीर्णेवाभवज्जलैः ।
तां विशीर्णां योगनिद्रा महामाया व्यलोकयत् ॥ ६ ॥

तां वै दृढतरां पृथ्वीं कर्तुं प्रति तदेश्वरी ।
उपायं चिन्तयामास कथं पृथ्वी भवेद्दृढा ॥ ७ ॥

इदानीमाज्यवत् पृथ्वी प्रवृत्ता कोमला जलैः ।
सृष्टिकाले जनान् सोढुं कथं शक्ता भविष्यति ॥ ८ ॥

इति सञ्चिन्त्य सा माया जगतां सृष्टिरूपिणी ।
उपगम्य तदा विष्णुमाससाद सुनिद्रितम् ॥ ९ ॥

तं तु सुप्तं समासाद्य जगन्नाथं जगत्पतिम् ।
वामहस्तकनिष्ठाग्रं तस्य कर्णे न्यवेशयत् ॥ १० ॥

निवेश्य नखराग्रेण प्रोद्धृत्य श्रावणं मलम् ।
चूर्णीचकार सा देवी योगनिद्रा जगत्प्रसूः ॥ ११ ॥

तत्कर्णमलचूर्णेभ्यो मधुर्नामासुरोऽभवत् ।
ततो दक्षिणहस्तस्य कनिष्ठाग्रं तु दक्षिणे ॥ १२ ॥

कर्णे न्यवेशयद् देवी तस्मादप्युद्धृतं मलम् ।
तच्चापि क्षोदयामास करशाखाद्वयेन तु ॥ १३ ॥

ततोऽभूत् कैटभो नाम बलवान् सोऽसुरो महान् ।
उत्पन्नः स च पानार्थं यस्मान्मृगितवान्मधु ॥ १४ ॥

ततस्तस्य महादेवी मधुनामाकरोत्तदा ।
उत्पन्नः कीटवद्भाति महामायाकरे यतः ॥ १५ ॥

ततोऽस्य कैटभं नाम महामाया तदाकरोत् ।
आवुवाच महामाया युध्यतां हरिणा सह ॥ १६ ॥

मूलम्

ततोऽस्य कैटभं नाम महामाया तदाकरोत् ।
आवुवाच महामाया युध्यतां हरिणा सह ॥ १६ ॥

विश्वास-प्रस्तुतिः

युवां नो श्रद्धयेवात्र भवन्तौ निहनिष्यति ।
युवां यदा प्रभाषेथे आवां विष्णो वधान भो ॥ १७ ॥

तदैवायं युवां हन्ता नान्यथा हरिरप्यथ ।
महामायामोहितौ तौ विष्णुगात्रं तदा गतौ ॥ १८ ॥

भ्रममाणौ ददृशतुर्नाभिपद्मोत्थितं विधिम् ।
तमूचतुस्तौ धातारं हनिष्यावोऽद्य त्वामिह ॥ १९ ॥

तं जागरय वैकुण्ठं यदि जीवितुमिच्छसि ।

ततो ब्रह्मा महामायां योगनिद्रां जगत्प्रसूम् ॥ २० ॥

प्रसादयामास तदा स्तुतिभिर्बहुभिर्भयात् ।
चिरं स्तुताथ सा देवी ब्रह्मणा जगदात्मना ॥ २१ ॥

प्रसन्ना तरसा व्यग्रमुवाच च यथाविधि ।
किमर्थं संस्तुता चाहं किं करिष्याम्यहं तव ॥ २२ ॥

तद् वद त्वं महाभाग करिष्याम्यहमद्य ते ।
ततस्तेन महामाया प्रोक्ता धात्रा महात्मना ॥ २३ ॥

प्रबोधय जगन्नाथं यावत्रो मां हनिष्यतः ।
सम्मोहय दुराधर्षावसुरौ मधुकैटभौ ॥ २४ ॥

मूलम्

प्रबोधय जगन्नाथं यावत्रो मां हनिष्यतः ।
सम्मोहय दुराधर्षावसुरौ मधुकैटभौ ॥ २४ ॥

विश्वास-प्रस्तुतिः

इत्युक्ता सा तदा देवी ब्रह्मणा जगदात्मना ।
बोधयामास वैकुण्ठं मोहयामास तौ तदा ॥ २५ ॥

ततः प्रबुद्धः कृष्णस्तु ददर्श भयशालिनम् ।
ब्रह्माणं तौ तदा घोरावसुरौ मधुकैटभौ ॥ २६ ॥

ततस्ताभ्यां स युयुधे ह्यसुराभ्यां जनार्दन ।
नाशकद्धारितुं वीरावसुरौ मधुकैटभौ ॥ २७ ॥

अनन्तोऽपि फणाग्रेण तान्नो धर्तुं क्षमोऽभवत् ।
युध्यमानान् महावीरान् वैकुण्ठ मधुकैटभान् ॥ २८ ॥

अथ ब्रह्मा शिलारूपां स्थितिशक्तिं तदाकरोत् ।
अर्धयोजनविस्तीर्णामर्धयोजनमायताम् ॥ २९ ॥

तस्यां शिलायां गोविन्दो युयुधे नृपसत्तम ।
सह ताभ्यां शिला सा तु प्रविवेश जलान्तरम् ॥ ३० ॥

तस्यां तु शक्त्यां मग्नायां तोये स युयुधे हरिः ।
पञ्चवर्षसहस्राणि बाहुयुद्धैर्निरन्तरम् ॥ ३१ ॥

यदा वै नाशकद् हन्तुं तौ विष्णुर्जगतां पतिः ।
परां चिन्तां तदावाप विधातापि भयात् ततः ॥ ३२ ॥

ततस्तावेव तं विष्णुमूचतुर्बलदर्पितौ ।
पुनः पुनर्जगन्मातृ-महामाया-विमोहितौ ॥ ३३ ॥

तुष्टौ स्वस्त्वन्नियुद्धेन वरं वरय माधव ।
तवेष्टं सम्प्रदास्यावः सत्यमेतद् ब्रुवोऽधना ॥ ३४ ॥

तयोस्तद्वचनं श्रुत्वा माधवो जगतां पतिः ।
उवाच तौ युवां वध्यौ भवतां मे महाबलौ ॥ ३५ ॥

इति देहि वरं मह्यं दातव्यं यदि विद्यते ।
तौ तदा प्राहतुर्नाशस्त्वत्तो नौ शोभनोऽधुना ॥ ३६ ॥

तत्रावां जहि नो यत्र तोयं सम्प्रति विद्यते ।
तयोस्तद्वचनं श्रुत्वा माधवो जगतां पतिः ॥ ३७ ॥

ब्रह्माणं मां च शीघ्रेण प्राहेदं चात्मसञ्ज्ञया ।
ब्रह्मशक्तिशिलां शीघ्रमुद्धृत्य ध्रियतां यथा ॥ ३८ ॥

तत्र स्थित्वा महाघोरौ हनिष्यामि महाबलौ ।
ततो ब्रह्मा ह्यहं चैव उद्दधार शिलां तु ताम् ॥ ३९ ॥

तस्यां मध्ये पूर्वभागे ह्यह पर्वतरूपधृक् ।
ऊर्ध्वे स्थित्वा शिलां भित्त्वा प्रविवेश रसातलम् ॥ ४० ॥

ऐशान्यामभवत् कूर्मः पर्वतश्चाग्रहीच्छिलाम् ।
वायव्यां तथानन्तो नैर्-ऋत्यां च सुरेश्वरी ॥ ४१ ॥

महामाया जगद्धात्री शैलरूपप्रधारिणी ।
आग्नेय्यां च तथा विष्णुरेकरूपेण संस्थितः ॥ ४२ ॥

ब्रह्मशक्तिशिलां गृह्णन् भगवान् परमेश्वरः ।
मध्ये ब्रह्मा त्वहं चैव वराहश्च तथापरः ॥ ४३ ॥

ततो वराहपृष्ठस्य चरमे जगताम्पतिः ।
स्थित्वा शिलामवष्टभ्य ब्रह्मशक्तिमधोगताम् ॥ ४४ ॥

वामोरुजघने यत्नादारोप्य शिरसी तयो ।
जगदाधारभूतः स सर्वयत्नेन संयुतः ॥ ४५ ॥

मूलम्

वामोरुजघने यत्नादारोप्य शिरसी तयो ।
जगदाधारभूतः स सर्वयत्नेन संयुतः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

सर्वर्बलैः समाक्रम्य चिच्छेद च पृथक् पृथक् ।
मधुकैटभयोः सम्यग् ग्रीवयोः पृथिवीमृते ॥ ४६ ॥

तस्य चाक्रमत स्थेम्ना ब्रह्मशक्तिरधोगता ।
ध्रियमाणापि देवौघैर्यत्नादपि मुहुर्मुहुः ॥ ४७ ॥

ततस्तयोस्तु मृतयोः शरीरे जगतां पतिः ।
ब्रह्मशक्तिं समुद्धृत्य न्यधात् तस्यां प्रयत्नतः ॥ ४८ ॥

उद्धृतायां पृथिव्यां तु तयोर्मेदोविलेपनैः ।
सुदृढामकरोत् पृथ्वीं क्लेदितां तोयराशिभिः ॥ ४९ ॥

मेदोविलेपनाद् यस्माद् गीयते मेदिनी च सा ।
अद्यापि पृथिवी देवी देवराक्षसमानुषैः ॥ ५० ॥

अथ काले बहुतिथे व्यतीते प्राणिसर्जने ।
अगृह्णां दक्षतनयां भार्यार्थेऽहं वधूं वराम् ॥ ५१ ॥

सा मेऽभूत् प्रेयसी भार्या प्रादाय समयं पितुः ।
अनिष्टकारी त्वं चेत् स्याः प्राणांस्त्यक्ष्ये तदा त्वहम् ॥ ५२ ॥

ततो यज्ञे समस्तांस्तु स च वव्रे चराचरम् ।
न मां नापि सतीं वव्रे तदानीष्टान्मृता तु सा ॥ ५३ ॥

ततो मोहं समाक्रान्ततामादाय मृतामहम् ।
प्रातः पीठवरं तं तु भ्रममाण इतस्ततः ॥ ५४ ॥

तस्यास्त्वङ्गानि पर्यायात् पतितानि यतो यतः ।
तत् तत् पुण्यतमं जातं योगनिद्राप्रभावतः ॥ ५५ ॥

तस्मिंस्तु कुब्जिकापीठे सत्यास्तद्योनिमण्डलम् ।
पतितं तत्र सा देवी महामाया व्यलीयत ॥ ५६ ॥

लीनायां योगनिद्रायां मयि पर्वतरूपिणिः ।
स नीलवर्णः शैलोऽभूत्पतिते योनिमण्डले ॥ ५७ ॥

स तु शैलो महातुङ्गः पातालतलमाविशत् ।
तस्या आक्रमणाद्गाढं ह्यन्तस्थं द्रुहिणो ह्यधात् ॥ ५८ ॥

स तु पूर्वं ब्रह्मशक्तिं शिलां धर्तुं चतुर्मुखः ।
शैलरूपोऽभवत् तेन शैलरूपेण मामधात् ॥ ५९ ॥

ब्रह्मा पर्वतरूपी स मयि पर्वतरूपिणि ।
स शक्तोऽधोऽगमद् गाढमाक्रान्तो मायया विधेः ॥ ६० ॥

ततो वराहः संसक्तो मयि मां स तु माधवः ।
शैलरूपः शैलरूपं धर्तुं समुपचक्रमे ॥ ६१ ॥

सोऽप्यधोऽयान्मया सार्धं तदा पर्वतरूपिणी ।
आक्रम्य देवीं पृथिवीं स्थितो भुवि निखानितः ॥ ६२ ॥

शतं शतं योजनानां तुङ्गमासीद् गिरित्रयम् ।
तदाक्रान्तं महादेव्या सर्वमेव ह्यधोगतम् ॥ ६३ ॥

क्रोशमात्रस्थितं तुङ्गशेषं तत्त्रितयस्य तु ।
एका समस्तजगतां प्रकृतिः सा यतस्ततः ॥ ६४ ॥

ब्रह्मविष्णुशिवैर्देवैर्धृता सा जगतां प्रसूः ।
तत्र पूर्वो ब्रह्मशैलः श्वेत इत्युच्यते सुरैः ॥ ६५ ॥

मद्रूपधारी शैलस्तु नील इत्युच्यते तथा ।
स तु मध्यगतः पीठस्त्रिकोणोलूखलाकृतिः ॥ ६६ ॥

विभ्राजमानः सततं मध्ये ब्रह्मवराहयोः ।
वराहः शैलरूपो यः स चित्र इति कथ्यते ॥ ६७ ॥

सर्वेषां संस्थितः पश्चाद् दीर्घः सर्वेभ्य एव तु ।

ऐशान्यां योऽभवत् कूर्मः शैलरूपो महाद्युतिः ॥ ६८ ॥

मणिकर्णः स नाम्ना तु ख्यातो देवौघसेवितः ।
योऽनन्तरूपः शैलस्तु वायव्यां समवस्थितः ॥ ६९ ॥

मणिपर्वतसञ्ज्ञोऽसौ पर्वतो माधवप्रियः ।
महामाया गिरिर्यस्तु नैर्-ऋत्यां समवस्थितः ॥ ७० ॥

स गन्धमादनो नाम्ना सर्वदा शङ्करप्रियः ।
वराहपृष्ठचरमे यतश्छिन्नौ महासुरौ ॥ ७१ ॥

मूलम्

स गन्धमादनो नाम्ना सर्वदा शङ्करप्रियः ।
वराहपृष्ठचरमे यतश्छिन्नौ महासुरौ ॥ ७१ ॥

विश्वास-प्रस्तुतिः

हरिणा तत्र संयातः पाण्डुनाथ इति स्मृतः ।
ब्रह्मशक्तिशिलायास्तु पूर्वभागे तु मध्यतः ॥ ७२ ॥

यस्तु पर्वतरूपोऽहं स तु भस्मचलाह्वयः ।
एवं पुण्यतमे पीठे कुब्जिकापीठसञ्ज्ञके ॥ ७३ ॥

नीलकूटे मया सार्धं देवी रहसि संस्थिता ।
सत्यास्तु पतितं तत्र विशीर्णं योनिमण्डलम् ॥ ७४ ॥

शिलात्वमगमच्छैले कामाख्या तत्र संस्थिता ।
संस्पृश्य तां शिलां मर्त्यो ह्यमरत्वमवाप्नुयात् ॥ ७५ ॥

अमर्त्यो ब्रह्मसदनं तत्स्थो मोक्षमवाप्नुयात् ।

तस्याः शिलाया माहात्म्यं यत्र कामेश्वरी स्थिता ॥ ७६ ॥

अद्भुतं यस्य गुह्ये तु लोहं भस्म भवेद्गतम् ।
सा चापि प्रत्यहं तत्र पञ्चमूर्तिधराभवत् ॥ ७७ ॥

मोहार्थं सर्वलोकानां ममापि प्रीतये शिवा ।
अहं पञ्चमुखेनाशु पञ्चभागे व्यवस्थितः ॥ ७८ ॥

ईशानः पूर्वभागस्थः कामेश्वर्याः प्रधानतः ।
ऐशान्यां वै तत्पुरुषो ह्यघोरस्तस्य सन्निधौ ॥ ७९ ॥

सद्योजातोऽथ वायव्यां वामदेवस्तु सङ्गतः ।
देव्याश्चापि नरश्रेष्ठ पञ्चरूपाणि भैरव ॥ ८० ॥

शृणु वेताल गुह्यानि देवैरपि सदैव हि ।
कामाख्या त्रिपुरा चैव तथा कामेश्वरी शिवा ॥ ८१ ॥

शारदाथ महालोका कामरूपगुणैर्युता ।
मयि लिङ्गत्वमापन्ने शिलायां योनिमण्डले ॥ ८२ ॥

सर्वे शिलात्वमगमच्छैलरूपाश्च निर्जराः ।
यथाहं निजरूपेण रेमे वै सह कामया ॥ ८३ ॥

मूलम्

सर्वे शिलात्वमगमच्छैलरूपाश्च निर्जराः ।
यथाहं निजरूपेण रेमे वै सह कामया ॥ ८३ ॥

विश्वास-प्रस्तुतिः

शिलारूपप्रतिच्छन्नास्तथा सर्वास्तु देवताः ।
शिलारूपप्रतिच्छन्नाः शैले शैले व्यवस्थिता ॥ ८४ ॥

रमन्ते च स्वरूपेण नित्यं रहसि सङ्गताः ।
ब्रह्मा विष्णुर्हरश्चात्र दिक्पालाः सर्व एव ते ॥ ८५ ॥

अन्येऽप्यत्र स्थिता देवाः सानुकूलाः सदा मयि ।
उपासितुं तदा देवीं कामाख्यां कामरूपिणीम् ॥ ८६ ॥

नीलशैलस्त्रिकोणस्तु मध्यनिम्नः सदाशिवः ।
तन्मध्ये मण्डलं चारु त्रिंशच्छक्तिसमन्वितम् ॥ ८७ ॥

उहा मनोभवा तत्र मनोभवविनिर्मिता ।
योनिस्तस्यां शिलायां तु शिलारूपा मनोहरा ।
वितस्तिमात्रविस्तीर्णा एकविंशाङ्गुलीयुता ॥ ८८ ॥

क्रमसूक्ष्मविनम्रा सा भस्मशैलानुगामिनी ।
अहामाया जगद्धात्री मूलभूता सनातनी ॥ ८९ ॥

सिन्दूरकुङ्कुमारक्ता सर्वकामप्रदायिनी ।
तस्यां योनौ पञ्चरूपा नित्यं क्रीडति कामिनी ॥ ९० ॥

तत्राष्टौ योगिनीर्नित्या मूलभूताः सनातनीः ।
पूर्वोक्ताः शैलपुत्र्याद्याः स्थिता देव्याः समन्ततः ॥ ९१ ॥

तासां तु पीठनामानि शृणु चैकत्र भैरव ।
गुप्तकामा च श्रीकामा तथान्या विन्ध्यवासिनी ॥ ९२ ॥

कोटीश्वरी वनस्था तु पाददुर्गा तथापरा ।
दीर्घेश्वरी क्रमादेव प्रकटा भुवनेश्वरी ॥ ९३ ॥

स्वयोगिन्यः पीठनाम्ना ख्याता अष्टौ च देवताः ।
सर्वतीर्थानि चैकत्र जलरूपाणि भैरव ॥ ९४ ॥

स्थितानि नाम्ना सौभाग्यसरस्यल्पापि पुण्यदा ।
विष्णुस्तु तीरे तस्यास्तु नाम्ना कमल इत्युत ॥ ९५ ॥

कामुकाख्यस्तु वटुकः कामाख्याभ्यर्णसंस्थितः ।
लक्ष्मीः सरस्वती देव्यौ देव्याः सङ्गे व्यवस्थिते ॥ ९६ ॥

ललिताख्याभवल्लक्ष्मीर्मातङ्गी तु सरस्वती ।
गणाध्यक्षः पूर्वभागे तस्य शैलस्य संस्थितः ॥ ९७ ॥

सिद्धः स नाम्ना विख्याता द्वारे देव्याः प्रियः सुतः ।
कल्पवृक्षः कल्पवल्ली तिन्तिडी चापराजिता ॥ ९८ ॥

भूत्वा तस्मिन् महाशैले स्थितो देव्या धृतः प्रिये ।
वराहः पाण्डुनाथाख्यः स्थितस्तत्र हरिर्यतः ॥ ९९ ॥

जघने शिरसी कृत्वा जघान मधुकैटभौ ।
तस्यासन्ने ब्रह्मकुण्डं ब्रह्मणा निर्मितं पुरा ॥ १०० ॥

ईशानाख्यः शिवो यत्र तत् सिद्धेश्वरसञ्ज्ञकम् ।
शिलारूपं सिद्धकुण्डं मध्यस्थं विद्धि भैरव ॥ १०१ ॥

सिद्धः स नाम्ना विख्यातो द्वारे देव्याः प्रियः सुतः ।
कल्पवृक्षः कल्पवल्ली तिन्तिडी चापराजिता ॥ ९८ ॥

मूलम्

सिद्धः स नाम्ना विख्यातो द्वारे देव्याः प्रियः सुतः ।
कल्पवृक्षः कल्पवल्ली तिन्तिडी चापराजिता ॥ ९८ ॥

विश्वास-प्रस्तुतिः

भूत्वा तस्मिन् महाशैले स्थितो देव्या धृतः प्रिये ।
वराहः पाण्डुनाथाख्यः स्थितस्तत्र हरियतः ॥ ९९ ॥

मूलम्

भूत्वा तस्मिन् महाशैले स्थितो देव्या धृतः प्रिये ।
वराहः पाण्डुनाथाख्यः स्थितस्तत्र हरियतः ॥ ९९ ॥

विश्वास-प्रस्तुतिः

जघने शिरसी कृत्वा जघान मधुकैटभौ ।
तस्यासन्ने ब्रह्मकुण्डं ब्रह्मणा निर्मितं पुरा ॥ १०० ॥

मूलम्

जघने शिरसी कृत्वा जघान मधुकैटभौ ।
तस्यासन्ने ब्रह्मकुण्डं ब्रह्मणा निर्मितं पुरा ॥ १०० ॥

विश्वास-प्रस्तुतिः

ईशानाख्यः शिवो यत्र तत् सिद्धेश्वरसञ्ज्ञकम् ।
शिलारूपं सिद्धकुण्डं मध्यस्थं विद्धि भैरव ॥ १०१ ॥

मूलम्

ईशानाख्यः शिवो यत्र तत् सिद्धेश्वरसञ्ज्ञकम् ।
शिलारूपं सिद्धकुण्डं मध्यस्थं विद्धि भैरव ॥ १०१ ॥

विश्वास-प्रस्तुतिः

तस्यासन्ने गयाक्षेत्रं क्षत्रं वाराणसी तथा ।
योनिमण्डलसङ्काशं कुण्डं भूत्वा व्यवस्थितम् ॥ १०२ ॥

तत्रैवामृतकुण्डं तु सुधासङ्घप्रपूरितम् ।
मम प्रियार्थमिन्द्रेण स्थापितं सह निर्जरैः ॥ १०३ ॥

वामदेवाह्वयं शीर्षं श्रीकामेश्वरसञ्ज्ञकम् ।
कामकुण्डं महापुण्यं तस्यासन्ने व्यवस्थितम् ॥ १०४ ॥

केदारसञ्ज्ञकं क्षेत्रं मध्यस्थं सिद्धकामयोः ।
दीर्घं चतुर्दशव्यामच्छायाच्छत्राह्वयं तु तत् ॥ १०५ ॥

तस्यासन्ने शैलपुत्री गुप्तकामाह्वया तु सा ।
गुप्तकुण्डस्य मध्यस्था कामेशग्रावणि सङ्गता ॥ १०६ ॥

कामेश्वरशिलासक्ता कामाख्यासञ्ज्ञिता सदा ।
पूर्वभागेण संसक्ता योनेस्तु परमार्गतः ॥ १०७ ॥

कामकामाख्ययोर्मध्ये कालरात्रिर्व्यवस्थिता ।
पीठे दीर्घेश्वरो नाम्ना सीमाभागे प्रचण्डिका ॥ १०८ ॥

कामाख्याप्रस्तरप्रान्ते कूष्माण्डी नाम योगिनी ।
पीठे कोटीश्वरी नाम्ना योनिरूपेण संस्थिता ॥ १०९ ॥

यच्चाघोराह्वयं शीर्षं तत्कामायास्तु दक्षिणे ।
पीठे भैरवनामा तु गदिते परमार्थिभिः ॥ ११० ॥

चामुण्डा भैरवी नाम्ना भैरवासन्नसंस्थिता ।
नायिका कामदा भक्तेश्चण्डमुण्डविनाशिनी ॥ १११ ॥

कामाभैरवयोर्मध्ये स्वयं देवी सुरापगा ।
हिताय सर्वजगतां देव्यास्तु प्रीतये सदा ॥ ११२ ॥

सद्योजाताह्वयं शीर्षं पीठे त्वाम्रातकेश्वरम् ।
भैरवाख्ये गह्वरे तु स्थितं देवर्षिसेवितम् ॥ ११३ ॥

विद्धि तत्रैव दुर्गाख्यां नायिकां योनिरूपिणीम् ।
सिद्धकामेश्वरी नाम्ना ख्याता देवेष नित्यशः ॥ ११४ ॥

अजीर्णपत्रः सुच्छायो वृक्षस्तत्र सुसंस्थितः ।
आम्रातकः कल्पवृक्षः कल्पवल्लीसमन्वितः ॥ ११५ ॥

पीठे तु सिद्धगङ्गाख्या स्वयं गङ्गा समुत्थिता ।
आम्रातकस्य निकटे मम प्रीतिविवृद्धये ॥ ११६ ॥

पुष्कराख्यं तु तत्क्षेत्रं पीठे त्वाम्रातकाह्वयम् ।
ऐशान्यां तत्पुरुषाख्यं मम शीर्षं व्यवस्थितम् ॥ २१७ ॥

भुवनेश्वरनाम्ना तु पीठे ख्यातं च भैरव ।
गह्वरं भुवनेशस्य भुवनानन्दसञ्ज्ञकम् ॥ ११८ ॥

तस्यासन्ने तु सुरभिः शिलारूपेण संस्थिता ।
कामधेनुरिति ख्याता पीठे कामप्रदायिनी ॥ ११९ ॥

योऽसौ शरभमूर्तिर्मे मध्यखण्डप्रचण्डकः ।
महाभैरवनामाभूत् कोटिलिङ्गाह्वयस्तु सः ॥ १२० ॥

मूर्तिभिः पञ्चभिः पञ्चभागेषु समवस्थितः ।
अहं पश्चादतिप्रात्या भैरवाख्यः स्थितो धरे ॥ १२१ ॥

महागौरी तु या देवी योगिनी सिद्धरूपिणी ।
सा ब्रह्मपर्वते चास्ते शिलारूपेण चोर्ध्वतः ॥ १२२ ॥

अतीवरूपसम्पन्ना नाम्ना सा भुवनेश्वरी ।
यत्र ब्रह्मा तु संसक्तो मयि पर्वतरूपिणि ॥ १२३ ॥

कल्पवल्ली तु तत्रास्ते नाम्ना सा त्वपराजिता ।
कामधेनुरदूरस्था पूर्वभागे महेश्वरी ॥ १२४ ॥

श्रीकामाख्या योनिरूपा चण्डिका सा तु योगिनी ।
आग्नेय्यां विद्धि तां संस्थां सर्वकामप्रदां शुभाम् ॥ १२५ ॥

योगिनी चण्डघण्टाख्या पीठेऽभूद् विन्ध्यवासिनी ।
योगिनी स्कन्दमाता तत्पीठेऽभूद् वनवासिनी ॥ १२६ ॥

कात्यायनी पीठनाम्ना पाददुर्गेति गद्यते ।
नैर्-ऋत्यां नीलशैलस्य प्रान्ते सा संस्थिता शिवा ॥ १२७ ॥

योऽसौ नन्दी मम तनुः स तु पाषाणरूपधृक् ।
संस्थितः पश्चिमद्वारि हनुमान् पीठनामतः ॥ १२८ ॥

और्व उवाच

इति तस्य वचः श्रुत्वा शम्भोरमिततेजसः ।
भैरवस्य तु पप्रच्छ वेतालोऽपि समुत्सुकः ॥ १२९ ॥

वेतालभैरवावूचतुः

श्रुतः पीठक्रमस्तात देव्याः पूजाक्रमस्तथा ।
श्रोतुमिच्छामि मूर्तीनां पञ्चानामपि शङ्कर ॥ १३० ॥

रूपाणि पञ्चमूर्तीनां मन्त्राणि च समन्ततः ।
तत्र मन्त्राणि तन्त्राणि वद नौ वृषभध्वज ॥ १३१ ॥

ईश्वर उवाच

शृणु वक्ष्यामि वेताल मन्त्रं तन्त्रं पृथक् पृथक् ।
कामाख्यापञ्चमूर्तीनां रूपं कल्पं च भैरव ॥ १३२ ॥

कामस्थं काममध्यस्थं कामदेवपुटीकृतम् ।
कामेन कामयेत् कामी कामं कामे नियोजयेत् ॥ १३३ ॥

ज्येष्ठं तु व्यञ्जनं ब्रह्मन् परः शान्तं तदुच्यते ।
प्रथमं क्रमतः कुर्यात्तत्संसक्तं सुधामयम् ॥ १३४ ॥

प्रजापतिस्तथा शक्रबीजं संस्थादिसंयुतम् ।
चन्द्रार्धसहितं बीजं कामाख्यायाः प्रचक्ष्यते ॥ १३५ ॥

इदं धर्मप्रदं काममोक्षार्थानां प्रदायकम् ।
इदं रहस्यं परममन्यत्र तु सुदुर्लभम् ॥ १३६ ॥

श्रोत्रेणोद्यम्य शृणुयाद् गुरुवक्त्रान्नरोत्तमः ।
स कामानखिलान् प्राप्य शिवलोके महीयते ॥ १३७ ॥

श्रुतिसकलितसारं देवकण्ठौघहारं
सकलकलुषहारि श्रीधरानन्दकारि ।
सुनयसुभगगोभिभ्राजयेद्यद्यशोभि-
स्तदिह शिवसमस्तं विघ्नहन्त्रीङ्गितार्थम् ॥ १३८ ॥

नयनकरभकारि ध्यानिनां चोपकारि
प्रणयिसुनयसंस्थं देवसत्याह्निकस्थम् ।
परमपदविशीर्णं सर्वदौर्भाग्यजीर्णं शृणु शिवपदरूपं
कामदेव्याः स्वरूपम् ॥ १३९ ॥

श्रवणगगनमात्रा चार्दितं यस्य नाम
प्रभवति बहुभूत्यै नीतिमार्गैकधाम ।
सुरगणगणनायां कुण्डली यस्य शक्ति-
स्तदिह परमरूपं चिन्तनीयं हताशैः ॥ १४० ॥

मूलम्

श्रवणगगनमात्रा चार्दितं यस्य नाम
प्रभवति बहुभूत्यै नीतिमार्गैकधाम ।
सुरगणगणनायां कुण्डली यस्य शक्ति-
स्तदिह परमरूपं चिन्तनीयं हताशैः ॥ १४० ॥

विश्वास-प्रस्तुतिः

रविशशियुतकर्णा कुङ्कुमापीतवर्णा
मणिकनकविचित्रा लोलकर्णा त्रिनेत्रा ।
अभयवरदहस्ता साक्षसूत्रप्रशस्ता
प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १४१ ॥

मूलम्

रविशशियुतकर्णा कुङ्कुमापीतवर्णा
मणिकनकविचित्रा लोलकर्णा त्रिनेत्रा ।
अभयवरदहस्ता साक्षसूत्रप्रशस्ता
प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १४१ ॥

विश्वास-प्रस्तुतिः

अरुणकमलसंस्था रक्तपद्मासनस्था
नवतरुणशरीरा मुक्तकेशी सुहारा ।
शवहृदि पृथुतुङ्गस्तन युग्मा मनोज्ञा
शिशुरविसमवस्त्रा अर्वकामेश्वरी सा ॥ १४२ ॥

विपुलविभवदात्री स्मेरवक्त्रा सुकेशी
अलितनखरदन्ता सामिचन्द्रावनम्रा ।
मनसिजदृषदिस्था योनिमुद्रालसन्ती
अवनगमनशक्ता संश्रुतस्थानहागा ॥ १४३ ॥

मूलम्

विपुलविभवदात्री स्मेरवक्त्रा सुकेशी
अलितनखरदन्ता सामिचन्द्रावनम्रा ।
मनसिजदृषदिस्था योनिमुद्रालसन्ती
अवनगमनशक्ता संश्रुतस्थानहागा ॥ १४३ ॥

विश्वास-प्रस्तुतिः

चिन्त्या चैवं विद्युदग्निप्रकाशा
धर्मार्थाद्यं साधकैर्वाञ्छितार्थैः ।
कल्प्यन्तु त्रीण्यर्यतदं सम्यगर्यं
वेताल त्वं भैरव श्रीप्रतिष्ठम् ॥ १४४ ॥

मूलम्

चिन्त्या चैवं विद्युदग्निप्रकाशा
धर्मार्थाद्यं साधकैर्वाञ्छितार्थैः ।
कल्प्यन्तु त्रीण्यर्यतदं सम्यगर्यं
वेताल त्वं भैरव श्रीप्रतिष्ठम् ॥ १४४ ॥

विश्वास-प्रस्तुतिः

तस्मिन्नर्धं मण्डलं यद्धि पश्चात्
कार्यं चैतच्चन्दनैः पुष्पयुक्तैः ।
पर्यायो यो लेखने पूर्वमुक्तो देवीतन्त्रे सोऽत्र पूर्व विधेयः ॥ १४५ ॥

इति श्रीकालिकापुराणे कामाख्यापूजातन्त्रे विषष्टितमोऽध्यायः ॥ ६२ ॥