६१

विश्वास-प्रस्तुतिः

एकषष्टितमोऽध्यायः

और्व उवाच

यथाह भगवान् देवो भैरवाय महात्मने ।
वेतालाय नृपश्रेष्ठ तथा त्वं प्रस्तुतं शृणु ॥ १ ॥

मूलम्

एकषष्टितमोऽध्यायः

और्व उवाच

यथाह भगवान् देवो भैरवाय महात्मने ।
वेतालाय नृपश्रेष्ठ तथा त्वं प्रस्तुतं शृणु ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच

उग्रचण्डा च या मूर्तिरष्टादशभुजाऽभवत् ।
सा नवम्यां पुरा कृष्णपक्षे कन्यां गते रवौ ॥ २ ॥

मूलम्

श्रीभगवानुवाच

उग्रचण्डा च या मूर्तिरष्टादशभुजाऽभवत् ।
सा नवम्यां पुरा कृष्णपक्षे कन्यां गते रवौ ॥ २ ॥

विश्वास-प्रस्तुतिः

प्रादुर्भूता महामाया योगिनीकोटिभिः सह ।
आषाढस्य तु पूर्णायां सत्रं द्वादशवार्षिकम् ॥ ३ ॥

मूलम्

प्रादुर्भूता महामाया योगिनीकोटिभिः सह ।
आषाढस्य तु पूर्णायां सत्रं द्वादशवार्षिकम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

दक्षः कर्तुं समारेभे वृताः सर्वे दिवौकसः ।
ततोऽहं न वृतस्तेन दक्षेण सुमहात्मना ॥ ४ ॥

मूलम्

दक्षः कर्तुं समारेभे वृताः सर्वे दिवौकसः ।
ततोऽहं न वृतस्तेन दक्षेण सुमहात्मना ॥ ४ ॥

विश्वास-प्रस्तुतिः

कपालीति सती चापि तज्जायेति च नो वृता ।
ततो रोषसमायुक्ता प्राणास्तत्याज सा सती ॥ ५ ॥

मूलम्

कपालीति सती चापि तज्जायेति च नो वृता ।
ततो रोषसमायुक्ता प्राणास्तत्याज सा सती ॥ ५ ॥

विश्वास-प्रस्तुतिः

त्यक्तदेहा सती चापि चण्डमूर्तिस्तदाऽभवत् ।
ततः प्रवृत्ते यज्ञेऽपि तस्मिन् द्वादशवार्षिके ॥ ६ ॥

मूलम्

त्यक्तदेहा सती चापि चण्डमूर्तिस्तदाऽभवत् ।
ततः प्रवृत्ते यज्ञेऽपि तस्मिन् द्वादशवार्षिके ॥ ६ ॥

विश्वास-प्रस्तुतिः

नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्तिधृक् ।
योगनिद्रा महामाया योगिनीकोटिभिः सह ॥ ७ ॥

मूलम्

नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्तिधृक् ।
योगनिद्रा महामाया योगिनीकोटिभिः सह ॥ ७ ॥

विश्वास-प्रस्तुतिः

सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत् ।
शङ्करस्य गणैः सर्वैः सहिता शङ्करेण च ॥ ८ ॥

मूलम्

सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत् ।
शङ्करस्य गणैः सर्वैः सहिता शङ्करेण च ॥ ८ ॥

विश्वास-प्रस्तुतिः

स्वयं बभञ्ज सा देवी महासत्रं महात्मनः ।
ततो देव्या महाक्रोधे व्यतीते त्रिदिवौकसः ॥ ९ ॥

मूलम्

स्वयं बभञ्ज सा देवी महासत्रं महात्मनः ।
ततो देव्या महाक्रोधे व्यतीते त्रिदिवौकसः ॥ ९ ॥

विश्वास-प्रस्तुतिः

पूजयाञ्चक्रुरतुलां देवीं पूर्वोदितेन वै ।
पूर्वोदितविधानेन पूजामस्या दिवौकसः ॥ १० ॥

मूलम्

पूजयाञ्चक्रुरतुलां देवीं पूर्वोदितेन वै ।
पूर्वोदितविधानेन पूजामस्या दिवौकसः ॥ १० ॥

विश्वास-प्रस्तुतिः

कृत्वैव परमामापुर्निवृतिं दुःखहानये ।
एवमन्यैरपि सदा कार्यं देव्याः प्रपूजनम् ॥ ११ ॥

मूलम्

कृत्वैव परमामापुर्निवृतिं दुःखहानये ।
एवमन्यैरपि सदा कार्यं देव्याः प्रपूजनम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

विभूतिमतुलां प्राप्तुं चतुर्वर्गप्रदायिकाम् ।
यो मोहादथवाऽलस्याद् देवीं दुर्गां महोत्सवे ॥ १२ ॥

मूलम्

विभूतिमतुलां प्राप्तुं चतुर्वर्गप्रदायिकाम् ।
यो मोहादथवाऽलस्याद् देवीं दुर्गां महोत्सवे ॥ १२ ॥

विश्वास-प्रस्तुतिः

न पूजयति दम्भाद् वा द्वेषाद्वाऽप्यथ भैरव ।
क्रुद्धा भगवती तस्य कामानिष्टान्निहन्ति वै ॥ १३ ॥

मूलम्

न पूजयति दम्भाद् वा द्वेषाद्वाऽप्यथ भैरव ।
क्रुद्धा भगवती तस्य कामानिष्टान्निहन्ति वै ॥ १३ ॥

विश्वास-प्रस्तुतिः

परत्र च महामाया - बलिर्भूत्वा प्रजायते ।
अष्टम्यां रुधिरैश्चैव महामांसैः सुगन्धिभिः ॥ १४ ॥

मूलम्

परत्र च महामाया - बलिर्भूत्वा प्रजायते ।
अष्टम्यां रुधिरैश्चैव महामांसैः सुगन्धिभिः ॥ १४ ॥

विश्वास-प्रस्तुतिः

पूजयेद्बहुजातीयैर्बलिभिर्भोजनैः शिवाम् ।
सिन्दूरैः पट्टवासोभिर्नानाविधविलेपनैः ॥ १५ ॥

मूलम्

पूजयेद्बहुजातीयैर्बलिभिर्भोजनैः शिवाम् ।
सिन्दूरैः पट्टवासोभिर्नानाविधविलेपनैः ॥ १५ ॥

विश्वास-प्रस्तुतिः

पुष्पैरनेकजातीयैः फलैर्बहुविधरपि ।
उपवासं महाष्टम्यां पुत्रवान् न समाचरेत् ॥ १६ ॥

मूलम्

पुष्पैरनेकजातीयैः फलैर्बहुविधरपि ।
उपवासं महाष्टम्यां पुत्रवान् न समाचरेत् ॥ १६ ॥

विश्वास-प्रस्तुतिः

यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत् ।
पूजयित्वा महाष्टम्यां नवम्यां बलिभिस्तथा ॥ १७ ॥

मूलम्

यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत् ।
पूजयित्वा महाष्टम्यां नवम्यां बलिभिस्तथा ॥ १७ ॥

विश्वास-प्रस्तुतिः

विसर्जयेद् दशम्यां तु श्रवणे शावरोत्सवैः ।
अन्त्यपादो दिवाभागे श्रवणस्य यदा भवेत् ॥ १८ ॥

मूलम्

विसर्जयेद् दशम्यां तु श्रवणे शावरोत्सवैः ।
अन्त्यपादो दिवाभागे श्रवणस्य यदा भवेत् ॥ १८ ॥

विश्वास-प्रस्तुतिः

तदा सम्प्रेषणं देव्या दशम्यां कारयेद् बुधः ।
सुवासिनी कुमारीभिर्वेश्याभिर्नर्तकैस्तथा ॥ १९ ॥

मूलम्

तदा सम्प्रेषणं देव्या दशम्यां कारयेद् बुधः ।
सुवासिनी कुमारीभिर्वेश्याभिर्नर्तकैस्तथा ॥ १९ ॥

विश्वास-प्रस्तुतिः

शङ्खतूर्यनिनादैश्च मृदङ्गैः पटहैस्तथा ।
ध्वजैर्वस्त्रैर्बहुविधैर्लाजपुष्पप्रकीर्णकैः ॥ २० ॥

मूलम्

शङ्खतूर्यनिनादैश्च मृदङ्गैः पटहैस्तथा ।
ध्वजैर्वस्त्रैर्बहुविधैर्लाजपुष्पप्रकीर्णकैः ॥ २० ॥

विश्वास-प्रस्तुतिः

धूलिकर्दमविक्षेपैः क्रीडाकौतुकमङ्गलैः ।
भगलिङ्गाभिधानैश्च भगलिङ्गप्रगीतकैः ॥ २१ ॥

मूलम्

धूलिकर्दमविक्षेपैः क्रीडाकौतुकमङ्गलैः ।
भगलिङ्गाभिधानैश्च भगलिङ्गप्रगीतकैः ॥ २१ ॥

विश्वास-प्रस्तुतिः

भगलिङ्गादिशब्दैश्च क्रीद्ऽयेयुरलं जनाः ।
परैर्नाक्षिप्यते यस्तु यः परान्नक्षिपेद् यदि ॥ २२ ॥

मूलम्

भगलिङ्गादिशब्दैश्च क्रीद्ऽयेयुरलं जनाः ।
परैर्नाक्षिप्यते यस्तु यः परान्नक्षिपेद् यदि ॥ २२ ॥

विश्वास-प्रस्तुतिः

क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम् ।
आदिपादो निशाभागे श्रवणस्य यदा भवेत् ॥ २३ ॥

मूलम्

क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम् ।
आदिपादो निशाभागे श्रवणस्य यदा भवेत् ॥ २३ ॥

विश्वास-प्रस्तुतिः

तदा देव्याः समुत्थानं नवम्यां न पुनर्दिवा ।
अन्त्यपादो निशाभागे श्रवणस्य यदा भवेत् ॥ २४ ॥

मूलम्

तदा देव्याः समुत्थानं नवम्यां न पुनर्दिवा ।
अन्त्यपादो निशाभागे श्रवणस्य यदा भवेत् ॥ २४ ॥

विश्वास-प्रस्तुतिः

तदा देव्याः समुत्थानं नवम्यां दिनभागतः ।
विसर्जनमनेनैव मन्त्रेण वत्स भैरव ॥ २४ ॥

मूलम्

तदा देव्याः समुत्थानं नवम्यां दिनभागतः ।
विसर्जनमनेनैव मन्त्रेण वत्स भैरव ॥ २४ ॥

विश्वास-प्रस्तुतिः

कर्तव्यमम्भसि स्थाप्य विसृज्य च विभूतये ।
उत्तिष्ठ देवि चण्डेशे शुभां पूजां प्रगृह्य च ॥ २६ ॥

मूलम्

कर्तव्यमम्भसि स्थाप्य विसृज्य च विभूतये ।
उत्तिष्ठ देवि चण्डेशे शुभां पूजां प्रगृह्य च ॥ २६ ॥

विश्वास-प्रस्तुतिः

कुरुष्व मम कल्याणमष्टभिः शक्तिभिः सह ।
गच्छ गच्छ परं स्थानं स्वस्थानं देवि चण्डिके ॥ २७ ॥

मूलम्

कुरुष्व मम कल्याणमष्टभिः शक्तिभिः सह ।
गच्छ गच्छ परं स्थानं स्वस्थानं देवि चण्डिके ॥ २७ ॥

विश्वास-प्रस्तुतिः

यत् पूजितं मया देवि परिपूर्णं तदस्तु मे ।
व्रज त्वं स्रोतसि जले तिष्ठ गेहे च भूतये ॥ २८ ॥

मूलम्

यत् पूजितं मया देवि परिपूर्णं तदस्तु मे ।
व्रज त्वं स्रोतसि जले तिष्ठ गेहे च भूतये ॥ २८ ॥

विश्वास-प्रस्तुतिः

निमज्ज्याम्भसि सन्त्यज्य पत्रिकावजिते जले ।
पुत्रायुर्धनवृद्ध्यर्थं स्थापितासि जले मया ॥ २९ ॥

मूलम्

निमज्ज्याम्भसि सन्त्यज्य पत्रिकावजिते जले ।
पुत्रायुर्धनवृद्ध्यर्थं स्थापितासि जले मया ॥ २९ ॥

विश्वास-प्रस्तुतिः

इत्यनेन तु मन्त्रेण देवीं संस्थापयेज्जले ।
सर्वलोक-हितार्थाय सर्वलोकविभूतये ॥ ३० ॥

मूलम्

इत्यनेन तु मन्त्रेण देवीं संस्थापयेज्जले ।
सर्वलोक-हितार्थाय सर्वलोकविभूतये ॥ ३० ॥

विश्वास-प्रस्तुतिः

दुर्गा-तन्त्रेण मन्त्रेण पूजितव्ये उभे अपि ।
भद्रकालीमुग्रचण्डां महामायां महोत्सवे ॥ ३१ ॥

मूलम्

दुर्गा-तन्त्रेण मन्त्रेण पूजितव्ये उभे अपि ।
भद्रकालीमुग्रचण्डां महामायां महोत्सवे ॥ ३१ ॥

विश्वास-प्रस्तुतिः

नेत्रबीजं तु सर्वासां पूजने परिकीर्तितम् ।
योगिनीनां तु सर्वासां मूलमूर्तेस्तथैव च ॥ ३२ ॥

मूलम्

नेत्रबीजं तु सर्वासां पूजने परिकीर्तितम् ।
योगिनीनां तु सर्वासां मूलमूर्तेस्तथैव च ॥ ३२ ॥

विश्वास-प्रस्तुतिः

मन्त्रं तथोग्रचण्डायाः पृथक् त्वं शृणु भैरव ।
आद्यद्वयं नेत्रबीजं मन्त्रस्योपान्तमन्तरे ॥ ३३ ॥

मूलम्

मन्त्रं तथोग्रचण्डायाः पृथक् त्वं शृणु भैरव ।
आद्यद्वयं नेत्रबीजं मन्त्रस्योपान्तमन्तरे ॥ ३३ ॥

विश्वास-प्रस्तुतिः

वह्निनाऽन्तःस्वरेणेन्दुबिन्दुभ्यां तन्त्रमौग्रकम् ।
नेत्रबीजं द्वितीयं तु द्विधावर्तितमुच्यते ॥ ३४ ॥

मूलम्

वह्निनाऽन्तःस्वरेणेन्दुबिन्दुभ्यां तन्त्रमौग्रकम् ।
नेत्रबीजं द्वितीयं तु द्विधावर्तितमुच्यते ॥ ३४ ॥

विश्वास-प्रस्तुतिः

भद्रकाल्यास्तु मन्त्रोऽयं धर्मकामार्थसिद्धये ।
यदा तु वैष्णवी देवी महामाया जगन्मयी ॥ ३५ ॥

मूलम्

भद्रकाल्यास्तु मन्त्रोऽयं धर्मकामार्थसिद्धये ।
यदा तु वैष्णवी देवी महामाया जगन्मयी ॥ ३५ ॥

विश्वास-प्रस्तुतिः

पुज्यते वैष्णवी देवी तन्त्रोक्ता अष्टयोगिनीः ।
ताः प्रोक्ताः शैलपुत्र्याश्च पूर्वकल्पे च भैरव ॥ ३६ ॥

मूलम्

पुज्यते वैष्णवी देवी तन्त्रोक्ता अष्टयोगिनीः ।
ताः प्रोक्ताः शैलपुत्र्याश्च पूर्वकल्पे च भैरव ॥ ३६ ॥

विश्वास-प्रस्तुतिः

उग्रचण्डादयश्चाष्टौ दुर्गातन्त्रस्य कीर्तिताः ।
भद्रकाल्यास्तु मन्त्रेण भद्रकालीं प्रपूजयेत् ॥ ३७ ॥

मूलम्

उग्रचण्डादयश्चाष्टौ दुर्गातन्त्रस्य कीर्तिताः ।
भद्रकाल्यास्तु मन्त्रेण भद्रकालीं प्रपूजयेत् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

पूजयेद् भूतिवृद्ध्यर्थमेता एवाष्टयोगिनीः ।
जयन्तीं मङ्गलां कालीं भद्रकालीं कपालिनीम् ॥ ३८ ॥

मूलम्

पूजयेद् भूतिवृद्ध्यर्थमेता एवाष्टयोगिनीः ।
जयन्तीं मङ्गलां कालीं भद्रकालीं कपालिनीम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

दुर्गां शिवां क्षमां धात्रीं दलेष्वष्टसु पूजयेत् ।
यदोग्रचण्डातन्त्रेण सा देवो तत्र पूज्यते ॥ ३९ ॥

मूलम्

दुर्गां शिवां क्षमां धात्रीं दलेष्वष्टसु पूजयेत् ।
यदोग्रचण्डातन्त्रेण सा देवो तत्र पूज्यते ॥ ३९ ॥

विश्वास-प्रस्तुतिः

योगिन्यस्तत्र पूज्याः स्युरष्टावन्याश्च भैरव ।
कौशिकी शिवदूती च उमा हैमवतीश्वरी ॥ ४० ॥

मूलम्

योगिन्यस्तत्र पूज्याः स्युरष्टावन्याश्च भैरव ।
कौशिकी शिवदूती च उमा हैमवतीश्वरी ॥ ४० ॥

विश्वास-प्रस्तुतिः

शाकम्भरी च दुर्गा च सप्तमी च महोदरी ।
उमायाः सौम्यमूर्तेस्तु तन्त्रं त्वं शृणु भैरव ॥ ४१ ॥

मूलम्

शाकम्भरी च दुर्गा च सप्तमी च महोदरी ।
उमायाः सौम्यमूर्तेस्तु तन्त्रं त्वं शृणु भैरव ॥ ४१ ॥

विश्वास-प्रस्तुतिः

पादिः समाप्तिसहितः फडन्तो नान्त एव च ।
एकाक्षरस्त्र्यक्षरश्य उमामन्त्र इति स्मृतः ॥ ४२ ॥

मूलम्

पादिः समाप्तिसहितः फडन्तो नान्त एव च ।
एकाक्षरस्त्र्यक्षरश्य उमामन्त्र इति स्मृतः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

सुवर्णसदृशीं गौरीं भुजद्वयसमन्विताम् ।
नीलारविन्दं वामेन पाणिना बिभ्रतीं सदा ॥ ४३ ॥

मूलम्

सुवर्णसदृशीं गौरीं भुजद्वयसमन्विताम् ।
नीलारविन्दं वामेन पाणिना बिभ्रतीं सदा ॥ ४३ ॥

विश्वास-प्रस्तुतिः

शुक्लं तु चामरं धृता भर्गस्याङ्गेऽथ दक्षिणे ।
विन्यस्य दक्षिणं हस्तं तिष्ठन्तीं परिचिन्तयेत् ॥ ४४ ॥

मूलम्

शुक्लं तु चामरं धृता भर्गस्याङ्गेऽथ दक्षिणे ।
विन्यस्य दक्षिणं हस्तं तिष्ठन्तीं परिचिन्तयेत् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

विनापि शम्भुं रुद्राणीं भक्तस्तु परिचिन्तयेत् ।
द्विभुजां स्वर्णगौराङ्गीं पद्मचामरधारिणीम् ॥ ४५ ॥

मूलम्

विनापि शम्भुं रुद्राणीं भक्तस्तु परिचिन्तयेत् ।
द्विभुजां स्वर्णगौराङ्गीं पद्मचामरधारिणीम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

व्याघ्रचर्मस्थिते पद्मे पद्मासनगता सदा ।
एतस्याः पूजने प्रोक्ता अष्टौ वेतालभैरव ॥ ४६ ॥

मूलम्

व्याघ्रचर्मस्थिते पद्मे पद्मासनगता सदा ।
एतस्याः पूजने प्रोक्ता अष्टौ वेतालभैरव ॥ ४६ ॥

विश्वास-प्रस्तुतिः

योगिन्यो नायिकाश्चापि पृथक्त्वेन व्यवस्थिताः ।
जया च विजया चैव मातङ्गी ललिता तथा ॥ ४७ ॥

मूलम्

योगिन्यो नायिकाश्चापि पृथक्त्वेन व्यवस्थिताः ।
जया च विजया चैव मातङ्गी ललिता तथा ॥ ४७ ॥

विश्वास-प्रस्तुतिः

नारायण्यथ सावित्री स्वधा स्वाहा तथाऽष्टमी ।
पूर्वं शुम्भो निशुम्भश्च दानवौ भ्रातरावुभौ ॥ ४८ ॥

मूलम्

नारायण्यथ सावित्री स्वधा स्वाहा तथाऽष्टमी ।
पूर्वं शुम्भो निशुम्भश्च दानवौ भ्रातरावुभौ ॥ ४८ ॥

विश्वास-प्रस्तुतिः

बभूवतुर्महासत्त्वौ महाकायौ महाबलौ ।
अन्धकस्य सुतौ द्वौ तौ दन्तिनाविव दुर्मदौ ॥ ४९ ॥

मूलम्

बभूवतुर्महासत्त्वौ महाकायौ महाबलौ ।
अन्धकस्य सुतौ द्वौ तौ दन्तिनाविव दुर्मदौ ॥ ४९ ॥

विश्वास-प्रस्तुतिः

मया विनिहते तस्मिन्नन्धकाख्ये महाबले ।
ससैन्यवाहनौ तौ तु पातालतलमाश्रितौ ॥ ५० ॥

मूलम्

मया विनिहते तस्मिन्नन्धकाख्ये महाबले ।
ससैन्यवाहनौ तौ तु पातालतलमाश्रितौ ॥ ५० ॥

विश्वास-प्रस्तुतिः

अतस्तप्त्वा तपस्तीव्रं ब्रह्माणन्तौ महासुरौ ।
सम्यक् तदाऽतोषयतां स सुप्रीतो वरं ददौ ॥ ५१ ॥

मूलम्

अतस्तप्त्वा तपस्तीव्रं ब्रह्माणन्तौ महासुरौ ।
सम्यक् तदाऽतोषयतां स सुप्रीतो वरं ददौ ॥ ५१ ॥

विश्वास-प्रस्तुतिः

तौ ब्रह्मवरदृप्तौ तु समासाद्य जगत्त्रयम् ।
इन्द्रत्वमकरोच्छुम्भश्चन्द्रत्वं च निशुम्भकः ॥ ५२ ॥

मूलम्

तौ ब्रह्मवरदृप्तौ तु समासाद्य जगत्त्रयम् ।
इन्द्रत्वमकरोच्छुम्भश्चन्द्रत्वं च निशुम्भकः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

सर्वेषामेव देवानां यज्ञभागानुपाहरत् ।
स्वयं शुम्भो निशुम्भश्च दिक्पालत्वं च तौ गतौ ॥ ५३ ॥

मूलम्

सर्वेषामेव देवानां यज्ञभागानुपाहरत् ।
स्वयं शुम्भो निशुम्भश्च दिक्पालत्वं च तौ गतौ ॥ ५३ ॥

विश्वास-प्रस्तुतिः

सर्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् ।
गङ्गावतारनिकटे महामायां प्रतुष्टुवुः ॥ ५४ ॥

मूलम्

सर्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् ।
गङ्गावतारनिकटे महामायां प्रतुष्टुवुः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

अनकेशः स्तुता देवी तदा सर्वामरोत्करैः ।
मातङ्गवनितामूर्तिर्भूत्वा देवानपृच्छत ॥ ५५ ॥

मूलम्

अनकेशः स्तुता देवी तदा सर्वामरोत्करैः ।
मातङ्गवनितामूर्तिर्भूत्वा देवानपृच्छत ॥ ५५ ॥

विश्वास-प्रस्तुतिः

युष्माभिरमरैरत्र स्तूयते का च भामिनी ।
किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति ॥ ५६ ॥

मूलम्

युष्माभिरमरैरत्र स्तूयते का च भामिनी ।
किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति ॥ ५६ ॥

विश्वास-प्रस्तुतिः

एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः ।
समुद्भूताऽब्रवीद् देवी मां स्तुवन्ति सुरा इति ॥ ५७ ॥

मूलम्

एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः ।
समुद्भूताऽब्रवीद् देवी मां स्तुवन्ति सुरा इति ॥ ५७ ॥

विश्वास-प्रस्तुतिः

शुम्भो निशुम्भो ह्यसुरौ बाधैते सकलान् सुरान् ।
तस्मात् तयोर्वधायाहं स्तूये तैः सकलैः सुरैः ॥ ५८ ॥

मूलम्

शुम्भो निशुम्भो ह्यसुरौ बाधैते सकलान् सुरान् ।
तस्मात् तयोर्वधायाहं स्तूये तैः सकलैः सुरैः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

विनिःसृतायां देव्यां तु
मातङ्ग्याः काय-कोषतः ।
भिन्नाञ्जन-निभा कृष्णा
साऽभूद् गौरी क्षणाद् अपि ॥ ५९ ॥

मूलम्

विनिःसृतायां देव्यां तु मातङ्ग्याः कायकोषतः ।
भिन्नाञ्जननिभा कृष्णा साऽभूद् गौरी क्षणादपि ॥ ५९ ॥

मानसतरङ्गिणीकृत् - टिप्पनी

The kAlikA purANa has an interesting emanational series for the goddesses:

  1. From the outer layer of “mAta~NgI”’s body -> kAlikA She is said to be white when emanated by immediately turned black
विश्वास-प्रस्तुतिः

कालिकाख्या ऽभवत् सापि
हिमाचल-कृताश्रया ।
ताम् उग्र-ताराम् ऋषयो
वदन्तीह मनीषिणः ॥ ६० ॥

मूलम्

कालिकाख्याऽभवत् सापि हिमाचलकृताश्रया ।
तामुग्रतारामृषयो वदन्तीह मनीषिणः ॥ ६० ॥

विश्वास-प्रस्तुतिः

उग्राद् अपि भयात् त्राति
यस्माद् भक्तान् सदा ऽम्बिका
एतस्याः प्रथमं बीजं
कथितं त्रयम् एव च ॥ ६१ ॥

मूलम्

उग्रादपि भयात्त्राति यस्माद् भक्तान् सदाम्बिका ।
एतस्याः प्रथमं बीजं कथितं त्रयमेव च ॥ ६१ ॥

मानसतरङ्गिणीकृत् - टिप्पनी

In turn, kAlikA has 3 manifestations corresponding to the 3 syllables of her mantra: ugratArA, ambikA and ekajaTA:

विश्वास-प्रस्तुतिः

एषैवैकजटाख्या तु
यस्मात् तस्माज् जटैकिका ।
शृणुतं चिन्तनं चास्याः
सम्यग् वेताल-भैरवौ ॥ ६२ ॥

मूलम्

एषैवैकजटाख्या तु यस्मात्तस्माज्जटैकिका ।
शृणुतं चिन्तनं चास्याः सम्यग्वेतालभैरवौ ॥ ६२ ॥

विश्वास-प्रस्तुतिः

यथा ध्यात्वा महादेवीं
भक्तः प्राप्नोत्य् अभीप्सितम् ।
चतुर्भुजा कृष्णवर्णां
मुण्ड-माला-विभूषिताम् ॥ ६३ ॥

मूलम्

यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभीप्सितम् ।
चतुर्भुजा कृष्णवर्णां मुण्डमालाविभूषिताम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

खड्गं दक्षिणपाणिभ्याम्
बिभ्रतीं चामरं त्वधः ।
कर्त्रीं च खर्परं चैव
क्रमाद्वामेन बिभ्रतीम् ॥ ६४ ॥

मूलम्

खड्गं दक्षिणपाणिभ्याम् बिभ्रतीं चामरं त्वधः ।
कर्त्रीं च खर्परं चैव क्रमाद्वामेन बिभ्रतीम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

द्यां लिखन्तीं जटामेकां
बिभ्रतीं शिरसा स्वयम् ।
मुण्डमालाधरां शीर्षे
ग्रीवायामपि सर्वदा ॥ ६५ ॥

मूलम्

द्यां लिखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम् ।
मुण्डमालाधरां शीर्षे ग्रीवायामपि सर्वदा ॥ ६५ ॥

विश्वास-प्रस्तुतिः

वक्षसा नागहारं तु बिभ्रतीं रक्तलोचनाम् ।
कृष्णवस्त्रधरां कट्यां व्याघ्राजिन-समन्विताम् ॥ ६६ ॥

मूलम्

वक्षसा नागहारं तु बिभ्रतीं रक्तलोचनाम् ।
कृष्णवस्त्रधरां कट्यां व्याघ्राजिन-समन्विताम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ।
विन्यस्य सिंहपृष्ठे तु लेलिहानां शवं स्वयम् ॥ ६७ ॥

मूलम्

वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ।
विन्यस्य सिंहपृष्ठे तु लेलिहानां शवं स्वयम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

साट्टहासां महाघोरां रावयुक्तातिभीषणाम् ।
चिन्त्याग्रे तारा सततं भक्तिमद्भिः सुखेप्सुभिः ॥ ६८ ॥

मूलम्

साट्टहासां महाघोरां रावयुक्तातिभीषणाम् ।
चिन्त्याग्रे तारा सततं भक्तिमद्भिः सुखेप्सुभिः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

एतस्याः सम्प्रवक्ष्यामि या अष्टौ योगिनीः स्मृताः ।
महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च ॥ ६९ ॥

मूलम्

एतस्याः सम्प्रवक्ष्यामि या अष्टौ योगिनीः स्मृताः ।
महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च ॥ ६९ ॥

विश्वास-प्रस्तुतिः

घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी ।
भैरवी चाष्टमी प्रोक्ता योगिनीस्ताः प्रपूजयेत् ॥ ७० ॥

मूलम्

घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी ।
भैरवी चाष्टमी प्रोक्ता योगिनीस्ताः प्रपूजयेत् ॥ ७० ॥

विश्वास-प्रस्तुतिः

या काय-कोषान् निःसृता
कालिकायास् तु भैरव ।
सा कौशिकीति विख्याता
चारुरूपा मनोहरा ॥ ७१ ॥

मूलम्

या कायकोषान्निःसृता कालिकायास्तु भैरव ।
सा कौशिकीति विख्याता चारुरूपा मनोहरा ॥ ७१ ॥

मानसतरङ्गिणीकृत् - टिप्पनी

Most of her manifestations are terrifying and black in color. 2. from the layers of kAlikA’s body -> kaushikI (aka chaNDikA)

She is beautiful in appearance, 10 armed and wears a yellow dress.

विश्वास-प्रस्तुतिः

निःसृता हृदयाद् देव्या,
रसनाग्रेण चण्डिका
नैतस्याः सदृशी मूर्त्या
चारुरूपेण विद्यते ॥ ७२ ॥

मूलम्

निःसृता हृदयाद् देव्या रसनाग्रेण चण्डिका ।
नैतस्याः सदृशी मूर्त्या चारुरूपेण विद्यते ॥ ७२ ॥

विश्वास-प्रस्तुतिः

त्रिषु लोकेषु कान्त्या वा
नास्यास् तुल्या भविष्यति ।
योगनिद्रा महामाया
या मूलप्रकृतिर्मता ॥ ७३ ॥

मूलम्

त्रिषु लोकेषु कान्त्या वा नास्यास्तुल्या भविष्यति ।
योगनिद्रा महामाया या मूलप्रकृतिर्मता ॥ ७३ ॥

विश्वास-प्रस्तुतिः

तस्याः प्राण-स्वरूपेयं
देवी या कौशिकी स्मृता ।
नेत्रबीजं तथैतस्या
बीजं तु परिकीर्तितम् ॥ ७४ ॥

मूलम्

तस्याः प्राणस्वरूपेयं देवी या कौशिकी स्मृता ।
नेत्रबीजं तथैतस्या बीजं तु परिकीर्तितम् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

मन्त्रमस्याः प्रवक्ष्यामि मूर्तिरूपं च भैरव ।
समाप्तिनान्त्यदन्त्यस्तु षड्वर्गादि-सबिन्दुभिः ॥ ७५ ॥

मूलम्

मन्त्रमस्याः प्रवक्ष्यामि मूर्तिरूपं च भैरव ।
समाप्तिनान्त्यदन्त्यस्तु षड्वर्गादि-सबिन्दुभिः ॥ ७५ ॥

विश्वास-प्रस्तुतिः

षष्ठस्वरेण संस्पृष्ठो बिन्दुना समलङ्कृतः ।
कौशिकीमन्त्रतन्त्रोऽयं सर्वकामार्थदायकः ॥ ७६ ॥

मूलम्

षष्ठस्वरेण संस्पृष्ठो बिन्दुना समलङ्कृतः ।
कौशिकीमन्त्रतन्त्रोऽयं सर्वकामार्थदायकः ॥ ७६ ॥

विश्वास-प्रस्तुतिः

तस्यास्तु सम्प्रवक्ष्यामि या मूर्तिरिह भैरव ।
शृणुष्वैकमना भूत्वा जगदाह्लादकारकम् ॥ ७७ ॥

मूलम्

तस्यास्तु सम्प्रवक्ष्यामि या मूर्तिरिह भैरव ।
शृणुष्वैकमना भूत्वा जगदाह्लादकारकम् ॥ ७७ ॥

विश्वास-प्रस्तुतिः

धम्मिल्लसंयतकचां विधोश्चाधोमुखीं कलाम् ।
केशान्ते तिलकस्योर्ध्वे दधती सुमनोहरा ॥ ७८ ॥

मूलम्

धम्मिल्लसंयतकचां विधोश्चाधोमुखीं कलाम् ।
केशान्ते तिलकस्योर्ध्वे दधती सुमनोहरा ॥ ७८ ॥

विश्वास-प्रस्तुतिः

मणिकुण्डलसङ्घृष्टगण्डा मुकुटमण्डिता ।
सज्ज्योतिः कर्णपूराभ्यां कर्णमापूर्य सङ्गता ॥ ७९ ॥

मूलम्

मणिकुण्डलसङ्घृष्टगण्डा मुकुटमण्डिता ।
सज्ज्योतिः कर्णपूराभ्यां कर्णमापूर्य सङ्गता ॥ ७९ ॥

विश्वास-प्रस्तुतिः

सुवर्णमणिमाणिक्यनागहारविराजिता ।
सदा सुगन्धिभिः अद्मैरम्लानैरतिसुन्दरी ॥ ८० ॥

मूलम्

सुवर्णमणिमाणिक्यनागहारविराजिता ।
सदा सुगन्धिभिः अद्मैरम्लानैरतिसुन्दरी ॥ ८० ॥

विश्वास-प्रस्तुतिः

मालां बिभर्ति ग्रीवायां रत्नकेयूरधारिणी ।
मृणालायतवृत्तैस्तु बाहुभिः कोमलैः शुभैः ॥ ८१ ॥

मूलम्

मालां बिभर्ति ग्रीवायां रत्नकेयूरधारिणी ।
मृणालायतवृत्तैस्तु बाहुभिः कोमलैः शुभैः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

राजन्ती कञ्चुकोपेत-पीनोन्नतपयोधरा ।
क्षीणमध्या पीतवस्त्रा त्रिवलीप्रख्यभूषिता ॥ ८२ ॥

मूलम्

राजन्ती कञ्चुकोपेत-पीनोन्नतपयोधरा ।
क्षीणमध्या पीतवस्त्रा त्रिवलीप्रख्यभूषिता ॥ ८२ ॥

विश्वास-प्रस्तुतिः

शूलं वज्रं च बाणं च खड्गं शक्तिं तथैव च ।
दक्षिणैः पाणिभिर्देवी गृहीत्वा तु विराजिता ॥ ८३ ॥

मूलम्

शूलं वज्रं च बाणं च खड्गं शक्तिं तथैव च ।
दक्षिणैः पाणिभिर्देवी गृहीत्वा तु विराजिता ॥ ८३ ॥

विश्वास-प्रस्तुतिः

गदां घण्टां च चापं च चर्म शङ्खं तथैव च ।
ऊर्ध्वादिक्रमतो देवी दधती वामपाणिभिः ॥ ८४ ॥

मूलम्

गदां घण्टां च चापं च चर्म शङ्खं तथैव च ।
ऊर्ध्वादिक्रमतो देवी दधती वामपाणिभिः ॥ ८४ ॥

विश्वास-प्रस्तुतिः

सिंहस्योपरि तिष्ठन्ती व्याघ्रचर्माणि कौशिकी ।
बिभ्रती रूपमतुलं ससुरासुरमोहनम् ॥ ८५ ॥

मूलम्

सिंहस्योपरि तिष्ठन्ती व्याघ्रचर्माणि कौशिकी ।
बिभ्रती रूपमतुलं ससुरासुरमोहनम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

एतस्याः शृणु वत्स त्वं याः पूज्या अष्टयोगिनीः ।
ताः पूजिताश्च कुर्वन्ति चतुर्वर्गं नृणां सदा ॥ ८६ ॥

मूलम्

एतस्याः शृणु वत्स त्वं याः पूज्या अष्टयोगिनीः ।
ताः पूजिताश्च कुर्वन्ति चतुर्वर्गं नृणां सदा ॥ ८६ ॥

विश्वास-प्रस्तुतिः

ब्रह्माणी प्रथमा प्रोक्ता ततो माहेश्वरी मता ।
कौमारी चैव वाराही वैष्णवी पञ्चमी तथा ॥ ८७ ॥

मूलम्

ब्रह्माणी प्रथमा प्रोक्ता ततो माहेश्वरी मता ।
कौमारी चैव वाराही वैष्णवी पञ्चमी तथा ॥ ८७ ॥

विश्वास-प्रस्तुतिः

नारसिंही तथैवैन्द्री शिवदूती तथाऽष्टमी ।
एताः पूज्या महाभागा योगिन्यः कामदायिकाः ॥ ८८ ॥

मूलम्

नारसिंही तथैवैन्द्री शिवदूती तथाऽष्टमी ।
एताः पूज्या महाभागा योगिन्यः कामदायिकाः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

देव्या ललाटनिष्क्रान्ता
या कालीति च विश्रुता ।
तस्या मन्त्रं प्रवक्ष्यामि
कामद शृणु भैरव ॥ ८९ ॥

मूलम्

देव्या ललाटनिष्क्रान्ता या कालीति च विश्रुता ।
तस्या मन्त्रं प्रवक्ष्यामि कामद शृणु भैरव ॥ ८९ ॥

मानसतरङ्गिणीकृत् - टिप्पनी
  1. From the forehead of kaushikI -> kAlI (aka chAmuNDA or tArA!):
विश्वास-प्रस्तुतिः

समाप्तिसहितो दन्त्यः प्रान्तस्तस्मात् पुरःसरः ।
षष्ठस्वराग्निबिन्द्विन्दुसहितः सादिरेव च ॥ ९० ॥

मूलम्

समाप्तिसहितो दन्त्यः प्रान्तस्तस्मात् पुरःसरः ।
षष्ठस्वराग्निबिन्द्विन्दुसहितः सादिरेव च ॥ ९० ॥

विश्वास-प्रस्तुतिः

कालीमन्त्रमिति प्रोक्तं धर्मकामार्थदायकम् ।
एतन्मूर्तिं प्रवक्ष्यामि वत्सैकाग्रमनाः शृणु ॥ ९१ ॥

मूलम्

कालीमन्त्रमिति प्रोक्तं धर्मकामार्थदायकम् ।
एतन्मूर्तिं प्रवक्ष्यामि वत्सैकाग्रमनाः शृणु ॥ ९१ ॥

विश्वास-प्रस्तुतिः

नीलोत्पलदलश्यामा चतुर्बाहुसमन्विता ।
खट्वाङ्गं चन्द्रहासं च बिभ्रती दक्षिणे करे ॥ ९२ ॥

मूलम्

नीलोत्पलदलश्यामा चतुर्बाहुसमन्विता ।
खट्वाङ्गं चन्द्रहासं च बिभ्रती दक्षिणे करे ॥ ९२ ॥

विश्वास-प्रस्तुतिः

वामे चर्म च पाशं च ऊर्ध्वाधोभागतः पुनः ।
दधती मुण्डमालां च व्याघ्रचर्मधरा वराम् ॥ ९३ ॥

मूलम्

वामे चर्म च पाशं च ऊर्ध्वाधोभागतः पुनः ।
दधती मुण्डमालां च व्याघ्रचर्मधरा वराम् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

कृशाङ्गी दीर्घदंष्ट्रा च
अतिदीर्घातिभीषणा ।
लोलजिह्वा निम्नरक्त-
नयना नादभैरवा ॥ ९४ ॥

मूलम्

कृशाङ्गी दीर्घदंष्ट्रा च अतिदीर्घातिभीषणा ।
लोलजिह्वा निम्नरक्त-नयना नादभैरवा ॥ ९४ ॥

मानसतरङ्गिणीकृत् - टिप्पनी

She is terrifying and skeletal – the classic chAmuNDA iconography.

विश्वास-प्रस्तुतिः

कबन्ध-वाहनासीना
विस्तार-श्रवणानना ।
एषा ताराऽऽह्वया देवी
चामुण्डेति च गीयते ॥ ९५ ॥

मूलम्

कबन्धवाहनासीना विस्तार-श्रवणानना ।
एषा ताराह्वया देवी चामुण्डेति च गीयते ॥ ९५ ॥

विश्वास-प्रस्तुतिः

एतस्या योगिनीश् चाष्टौ
पूजयेच्चिन्तयेद् यदि ।
त्रिपुरा भीषणा चण्डी
कर्त्री हर्त्री विधायिनी ॥ ९६ ॥

मूलम्

एतस्या योगिनीश्चाष्टौ पूजयेच्चिन्तयेद् यदि ।
त्रिपुरा भीषणा चण्डी कर्त्री हर्त्री विधायिनी ॥ ९६ ॥

मानसतरङ्गिणीकृत् - टिप्पनी

She is accompanied by 8 yoginI-s:

विश्वास-प्रस्तुतिः

कराला शूलिनी चेति
अष्टौ ताः परिकीर्तिताः ।
एषाऽतिकामदा देवी
जाड्यहानिकरी सदा ॥ ९७ ॥

मूलम्

कराला शूलिनी चेति अष्टौ ताः परिकीर्तिताः ।
एषाऽतिकामदा देवी जाड्यहानिकरी सदा ॥ ९७ ॥

विश्वास-प्रस्तुतिः

एतस्याः सदृशी काचित्
कामदा न हि विद्यते ।
कौशिक्या हृदयाद् देवी
निःसृता ध्यायतो हरेः ॥ ९८ ॥

मूलम्

एतस्याः सदृशी काचित् कामदा न हि विद्यते ।
कौशिक्या हृदयाद् देवी निःसृता ध्यायतो हरेः ॥ ९८ ॥

विश्वास-प्रस्तुतिः

शिवदूतीति सा ख्याता
या च देवशतैर्वृता ।
मन्त्रमस्याः प्रवक्ष्यामि
धर्मकामार्थदायकम् ॥ ९९ ॥

मूलम्

शिवदूतीति सा ख्याता या च देवशतैर्वृता ।
मन्त्रमस्याः प्रवक्ष्यामि धर्मकामार्थदायकम् ॥ ९९ ॥

मानसतरङ्गिणीकृत् - टिप्पनी

She is said to be surrounded by a 100 gods. Elsewhere, she is described as pherushatair vR^itA: does this imply the gods took the form of jackals, or is it merely a scribal slip?

विश्वास-प्रस्तुतिः

यच्छ्रुत्वा साधको याति दुर्लभं शिवमन्दिरम् ।
यामाराध्य महादेवीं शिवदूतीं शिवात्मिकाम् ॥ १०० ॥

मूलम्

यच्छ्रुत्वा साधको याति दुर्लभं शिवमन्दिरम् ।
यामाराध्य महादेवीं शिवदूतीं शिवात्मिकाम् ॥ १०० ॥

विश्वास-प्रस्तुतिः

नचिराल्लभते कामान् नरः सर्वजयी भवेत् ।
अन्तः समाप्तिसहितो बिन्द्विन्दुभ्यां दशावरः ॥ १०१ ॥

मूलम्

नचिराल्लभते कामान् नरः सर्वजयी भवेत् ।
अन्तः समाप्तिसहितो बिन्द्विन्दुभ्यां दशावरः ॥ १०१ ॥

विश्वास-प्रस्तुतिः

स्वरेणोपान्तदन्त्येन संस्पृष्टोऽन्तेन पूर्वशः ।
स एव बिन्दुयुगलपूर्वस्थोपान्तपावकः ॥ १०२ ॥

मूलम्

स्वरेणोपान्तदन्त्येन संस्पृष्टोऽन्तेन पूर्वशः ।
स एव बिन्दुयुगलपूर्वस्थोपान्तपावकः ॥ १०२ ॥

विश्वास-प्रस्तुतिः

षष्ठस्वरकलाशुन्यैः सहितः प्रथमस्थितः ।
मन्त्रोऽयं शिवदूत्यास्तु शिवदूतीजयप्रदः ॥ १०३ ॥

मूलम्

षष्ठस्वरकलाशुन्यैः सहितः प्रथमस्थितः ।
मन्त्रोऽयं शिवदूत्यास्तु शिवदूतीजयप्रदः ॥ १०३ ॥

विश्वास-प्रस्तुतिः

रूपमस्याः प्रवक्ष्यामि शृणु वत्सैकसम्मतः ।
चतुर्भुजं महाकायं सिन्दूरसदृशद्युति ॥ १०४ ॥

मूलम्

रूपमस्याः प्रवक्ष्यामि शृणु वत्सैकसम्मतः ।
चतुर्भुजं महाकायं सिन्दूरसदृशद्युति ॥ १०४ ॥

विश्वास-प्रस्तुतिः

रक्तदन्तं मुण्डमाला-जटाजूटार्धचन्द्रधृक् ।
नागकुण्डलहाराभ्यां शोभितं नखरोज्ज्वलम् ॥ १०५ ॥

मूलम्

रक्तदन्तं मुण्डमाला-जटाजूटार्धचन्द्रधृक् ।
नागकुण्डलहाराभ्यां शोभितं नखरोज्ज्वलम् ॥ १०५ ॥

विश्वास-प्रस्तुतिः

व्याघ्रचर्म-परिधानं दक्षिणे शूलखड्गधृक् ।
वामे पाशं तथा चर्म बिभ्रदूर्द्व्हापरक्रमात् ॥ १०६ ॥

मूलम्

व्याघ्रचर्म-परिधानं दक्षिणे शूलखड्गधृक् ।
वामे पाशं तथा चर्म बिभ्रदूर्द्व्हापरक्रमात् ॥ १०६ ॥

विश्वास-प्रस्तुतिः

स्थूलवक्त्रं च पीनोष्ठं तुङ्गमूर्ति भयङ्करम् ।
निक्षिप्य दक्षिणं पादं सन्तिष्ठत् कुणपोपरि ॥ १०७ ॥

मूलम्

स्थूलवक्त्रं च पीनोष्ठं तुङ्गमूर्ति भयङ्करम् ।
निक्षिप्य दक्षिणं पादं सन्तिष्ठत् कुणपोपरि ॥ १०७ ॥

विश्वास-प्रस्तुतिः

वामपादं शृगालस्य पृष्ठे फेरुशतैर्वृतम् ।
ईदृशीं शिवदूत्यास्तु मूर्तिं ध्यायेद् विभूतये ॥ १०८ ॥

मूलम्

वामपादं शृगालस्य पृष्ठे फेरुशतैर्वृतम् ।
ईदृशीं शिवदूत्यास्तु मूर्तिं ध्यायेद् विभूतये ॥ १०८ ॥

विश्वास-प्रस्तुतिः

ध्यानमात्रादथैतस्या नरः कल्याणमाप्नुयात् ।
पूजनादचिराद् देवी सर्वान् कामान् ददाति च ॥ १०९ ॥

मूलम्

ध्यानमात्रादथैतस्या नरः कल्याणमाप्नुयात् ।
पूजनादचिराद् देवी सर्वान् कामान् ददाति च ॥ १०९ ॥

विश्वास-प्रस्तुतिः

यः शिवाविरुतं श्रुत्वा विशदूतीं शुभप्रदाम् ।
प्रणमेत् साधको भक्त्या तस्य कामाः करे स्थिताः ॥ ११० ॥

मूलम्

यः शिवाविरुतं श्रुत्वा विशदूतीं शुभप्रदाम् ।
प्रणमेत् साधको भक्त्या तस्य कामाः करे स्थिताः ॥ ११० ॥

विश्वास-प्रस्तुतिः

यदा जघान जगतां रक्तबीजं हिताय वै ।
महादेवी महामाया तदास्याः कायतः सृताः ॥ १११ ॥

मूलम्

यदा जघान जगतां रक्तबीजं हिताय वै ।
महादेवी महामाया तदास्याः कायतः सृताः ॥ १११ ॥

विश्वास-प्रस्तुतिः

दूतं प्रस्थापयामास शिवं शुम्भाय साम्बिका ।
तेन सा शिवदूतीति देवैः सर्वैः प्रगीयते ॥ ११२ ॥

मूलम्

दूतं प्रस्थापयामास शिवं शुम्भाय साम्बिका ।
तेन सा शिवदूतीति देवैः सर्वैः प्रगीयते ॥ ११२ ॥

विश्वास-प्रस्तुतिः

क्षेमकारी च शान्ता च वेदमाता महोदरी ।
कराला कामदा देवी भगास्या भगमालिनी ॥ ११३ ॥

मूलम्

क्षेमकारी च शान्ता च वेदमाता महोदरी ।
कराला कामदा देवी भगास्या भगमालिनी ॥ ११३ ॥

विश्वास-प्रस्तुतिः

भगोदरी भगारोहा भगजिह्वा भगा तथा ।
एता द्वादश योगिन्यः पूजने परिकीर्तिताः ॥ ११४ ॥

मूलम्

भगोदरी भगारोहा भगजिह्वा भगा तथा ।
एता द्वादश योगिन्यः पूजने परिकीर्तिताः ॥ ११४ ॥

विश्वास-प्रस्तुतिः

एता द्वादश योगिन्यः शिवदूत्याः सदैव हि ।
विचरन्ती स्वयं देवी यत्र तत्रैव गच्छति ॥ ११५ ॥

मूलम्

एता द्वादश योगिन्यः शिवदूत्याः सदैव हि ।
विचरन्ती स्वयं देवी यत्र तत्रैव गच्छति ॥ ११५ ॥

विश्वास-प्रस्तुतिः

योगिन्यो ह्यथ सख्यः स्युर्यथान्यासां तथा पुनः ।
चण्डिकायास्तु योगिन्यः सख्योऽत्र च प्रकीर्तिताः ॥ ११६ ॥

मूलम्

योगिन्यो ह्यथ सख्यः स्युर्यथान्यासां तथा पुनः ।
चण्डिकायास्तु योगिन्यः सख्योऽत्र च प्रकीर्तिताः ॥ ११६ ॥

विश्वास-प्रस्तुतिः

इति ते त्वङ्गमन्त्राणि कथितानि समासतः ।
कामाख्यायाश्च महात्म्यं कल्पमात्रं वदामि वाम् ॥ ११७ ॥

मूलम्

इति ते त्वङ्गमन्त्राणि कथितानि समासतः ।
कामाख्यायाश्च महात्म्यं कल्पमात्रं वदामि वाम् ॥ ११७ ॥

विश्वास-प्रस्तुतिः

इति श्रीकालिकापुराणे कामाख्यामाहात्म्ये एकषष्टितमोऽध्यायः ॥ ६१ ॥

मूलम्

इति श्रीकालिकापुराणे कामाख्यामाहात्म्ये एकषष्टितमोऽध्यायः ॥ ६१ ॥