६०

विश्वास-प्रस्तुतिः

षष्टितमोऽध्यायः

श्रीभगवानुवाच

दुर्गातन्त्रेण मन्त्रेण कुर्याद् दुर्गामहोत्सवम् ।
महानवम्यां शरदि बलिदानं नृपादयः ॥ १ ॥

मूलम्

आश्वनस्य तु शुक्लस्य भवेद् या अष्टमी तिथिः ।
महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा ॥ २ ॥

तनोऽनु नवमी या स्यात् सा महानवमी स्मृता ।
सा तिथिः सर्वलोकानां पूजनीया शिवप्रिया ॥ ३ ॥

अनयोर्वत्स पूजायां विशेषं शृणु भैरव ।
सम्पूज्य मण्डले देवीं विधिवत् प्रयतो नरः ॥ ४ ॥

वैष्णवीतन्त्रमन्त्रेण दुर्गातन्क्षेण भैरव ।
मूर्तिभेदे यथा देवी पूजां गृह्णाति भूतये ॥ ५ ॥

कन्यासंस्थे रवौ वत्स शुक्लामारभ्य नन्दिकाम् ।
अयाचिताशी नक्ताशी एकाशी त्वथ चापदः ॥ ६ ॥

प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः ।
जपहोमसमायुक्तो भोजयेच्च कुमारिकाः ॥ ७ ॥

बोधयेद् बिल्वशाखासु षष्ट्यां देवीफलेषु च ।
सप्तम्यां बिल्वशाखां तामाहृत्य प्रतिपूजयेत् ॥ ८ ॥

पुनः पूजां तथाष्टम्यां विशेषेण समाचरेत् ।
जागरं च स्वयं कुर्याद् बलिदानं महानिशि ॥ ९ ॥

प्रभूतबलिदानं तु नवम्यां विधिवच्चरेत् ।
ध्यायेद् दशभुजां देवीं दुर्गातन्त्रेण पूजयेत् ॥ १० ॥

विसर्जनं दशम्यां तु कुर्याद् वै साधकोत्तमः ।
कृत्वा विसर्जनं तस्यां तिथौ नक्तं समाचरेत् ॥ ११ ॥

यदा तु षोडशभुजां महामायां प्रपूजयेत् ।
दुर्गातन्त्रेण मन्त्रेण विशेषं तत्र वै शृणु ॥ १२ ॥

कन्यायां कृष्णपक्षस्य एकादश्यामुपोषितः ।
द्वादश्यामेकभक्तं तु नक्तं कुर्यात् परेऽहनि ॥ १३ ॥

चतुर्दश्यां महामायां बोधयित्वा विधानतः ।
गीतवादित्रनिर्घोषैर्नानानैवेद्यवेदनैः ॥ १४ ॥

अयाचितं बुधः कुर्यादुपवासं परेऽहनि ।
एवमेव व्रतं कुर्याद् यावद्वै नवमी भवेत् ॥ १५ ॥

ज्येष्ठायां च समभ्यर्च्य मूलेन प्रतिपूजयेत् ।
उत्तरेणार्चनं कृत्वा श्रवणान्ते विसर्जयेत् ॥ १६ ॥

यदा त्वष्टादशभुजां महामायां प्रपूजयेत् ।
दुर्गातन्त्रेण मन्त्रेण तत्रापि शृणु भैरव ॥ १७ ॥

कन्यायां कृष्णपक्षस्य पूजयित्वार्द्रभे दिवा ।
नवम्यां बोधयेद् देवीं गीतवादित्रनिस्वनैः ॥ १८ ॥

शुक्लपक्षे चतुर्थ्यां तु देवीकेशविमोचनम् ।
प्रातरेव तु पञ्चम्यां स्नापयेत् तु शुभैर्जलैः ॥ १९ ॥

सप्तम्यां पत्रिकापूजा अष्टम्यां चाप्युपोषणम् ।
पूजाजागरणं चैव नवम्यां विधिवद्बलिः ॥ २० ॥

सम्प्रेषणं दशम्यां तु क्रीडाकौतुकमङ्गलैः ।
नीराजनं दशम्यां तु बलवृद्धिकरं महत् ॥ २१ ॥

यदा वै वैष्णवी देवीं महामायां जगन्मयीम् ।
पूजयेत् तत्र च तदा विशेषं शृणु भैरव ॥ २२ ॥

कन्यासंस्थे रवौ पूजा या शुक्ला तिथिरष्टमी ।
तस्यां रात्रौ पूजितव्या महाविभवविस्तरैः ॥ २३ ॥

नवम्यां बलिदानं तु कर्तव्यं वै यथाविधि ।
जपं होमं च विधिवत् कुर्यात् तत्र विभूतये ॥ २४ ॥

सम्पूजयेन्महादेवीमष्टपुष्पिकया नरः ।
रामस्यानुग्रहार्थाय रावणस्य वधाय च ॥ २५ ॥

रात्रावेव महादेवी ब्रह्मणा बोधिता पुरा ।
ततस्तु त्यक्तनिद्रा सा नन्दायामाश्विने सिते ॥ २६ ॥

जगाम नगरीं लङ्कां यत्रासीद्राघवः पुरा ।
तत्र गत्वा महादेवी तदा तौ रामरावणौ ॥ २७ ॥

युद्धं नियोजयामास स्वयमन्तर्हिताम्बिका ।
रक्षसां वानराणां च जग्ध्वा सा मांसशोणिते ॥ २८ ॥

रामरावणयोर्युद्धं सप्ताहं सा न्ययोजयत् ।
व्यतीते सप्तमे रात्रौ नवम्यां रावणं ततः ॥ २९ ॥

रामेण घातयामास महामाया जगन्मयी ।
यावत्तयोः स्वयं देवी युद्धकेलिमुदैक्षत ॥ ३० ॥

तावत् तु सप्तरात्राणि सैव देवैः सुपूजिता ।
निहते रावणे वीरे नवम्यां सकलैः सुरैः ॥ ३१ ॥

विशेषपूजां दुर्गायाश्चक्रे लोकपितामहः ।
ततः सम्प्रेषिता देवी दशम्यां शार्वरोत्सवैः ॥ ३२ ॥

शाक्रोऽपि देवसेनाया नीराजनमथाकरोत् ।
शान्त्यर्थं सुरसैन्यानां देवराज्यस्य वृद्धये ॥ ३३ ॥

रामरावणबाणेन युद्धं चावेक्ष्य भोतिदम् ।
तृतीयायां तु लङ्कायाः पूर्वोत्तरदिशि स्थितम् ॥ ३४ ॥

स्वातीनक्षत्रयुक्तायां भीतं सुरबलं महत् ।
शान्त्यर्थं वरयामास देवेन्द्रो वचनाद् हरेः ॥ ३५ ॥

ततस्तु श्रवणेनाथ दशम्यां चण्डिकां शुभाम् ।
विसृज्य चक्रे शान्त्यर्थं बलनीराजनं हरिः ॥ ३६ ॥

नीराजितबलः शक्रस्तत्र रामं च राघवम् ।
सम्प्राप्य प्रययौ स्वर्गं सह देवैः शचीपतिः ॥ ३७ ॥

इतिवृत्तं पुराकल्पे मनोः स्वायम्भुवेऽन्तरे ।
प्रादुर्भूता दशभुजा देवी देवहिताय वै ॥ ३८ ॥

नृणां त्रेतायुगस्यादौ जगतां हितकाम्यया ।
पुराकल्पे यथावृत्तं प्रतिकल्पं तथा तथा ॥ ३९ ॥

प्रवर्तते स्वयं देवी दैत्यानां नाशनाय वै ।
प्रतिकल्पं भवेद्रामो रावणश्चापि राक्षसः ॥ ४० ॥

तथैव जायते युद्धं तथा त्रिदशसङ्गमः ।
एवं रामसहस्राणि रावणानां सहस्रशः ॥ ४१ ॥

मूलम्

तथैव जायते युद्धं तथा त्रिदशसङ्गमः ।
एवं रामसहस्राणि रावणानां सहस्रशः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

भवितव्यानि भूतानि तथा देवी प्रवर्तते ।
पूजयन्ति सुराः सर्वे बलं नीराजयन्त्यपि ॥ ४२ ॥

तथैव च नराः सर्वे कुर्युः पूजां यथाविधि ।
बलनीरजनं राजा कुर्याद् बलविवृद्धये ॥ ४३ ॥

दिव्यालङ्कारयुक्ताभिर्वारुणीभिः प्रवर्तनम् ।
कर्तव्यं नृत्यगीतानि क्रीडाकौतुकमङ्गलैः ॥ ४४ ॥

मोदकैः पिष्टकैः पेयैर्भक्ष्यभोज्यैरनेकशः ।
कूष्माण्डैर्नारिकेलैश्च खर्जूरैः पनसैस्तथा ॥ ४५ ॥

द्राक्षामलकशाडिल्यैः प्लीहैश्च करुणैस्तथा ।
कशेरुक्रमुकैर्मूलैः सजम्बुतिन्दुकादिभिः ॥ ४६ ॥

गव्यैर्गुडैस्तथा मांसैर्मद्यैर्मधुभिरेव च ।
बालप्रियैश्च नैवेद्यैर्लाजाक्षतफलादिभिः ॥ ४७ ॥

इक्षुदण्डैः सिताभिश्च लवलीनागरङ्गकै ।
अजाभिर्महिषैर्मेषैरात्मशोणितसञ्चयैः ॥ ४८ ॥

पक्ष्यादिबलिजातीयैस्तथा नानाविधैर्मृगैः ।
पूजयेच्च जगद्धात्रीं मांसशोणितकर्दमैः ॥ ४९ ॥

रात्रौ स्कन्दविशाखस्य कृत्वा पिष्टकपुत्रिकाम् ।
पूजयेच्छत्रुनाशाय दुर्गायाः प्रीतये तथा ॥ ५० ॥

होमं च सतिलैराज्यैर्मांसैरपि तथा चरेत् ।
उग्रचण्डादिकाः पूज्यास्तथाष्टौ योगिनीः शुभाः ॥ ५१ ॥

योगिन्यश्च चतुःषष्ठिस्तथा वै कोटियोगिनीः ।
नवदुर्गास्तथा पूज्या देव्याः सन्निहिताः शुभाः ॥ ५२ ॥

जयन्त्यादिर्गन्धपुष्पैस्ता देव्या मूर्तयो यतः ।
देव्यः सर्वाणि चास्त्राणि भूषणानि तथैव च ॥ ५३ ॥

अङ्गप्रत्यङ्गयुक्तानि वाहनं सिंहमेव च ।
महिषासुरमर्दिन्याः पूजयेद् भूतये सदा ॥ ५४ ॥

पुराकल्पे महादेवी मनोः स्वायम्भुवेऽन्तरे ।
नृणां कृतयुगस्यादौ सर्वदेवैः स्तुता सदा ॥ ५५ ॥

महिषासुरनाशाय जगतां हितकाम्यया ।
योगनिद्रा महामाया जगद्धात्री जगन्मयी ॥ ५६ ॥

भुजैः षोडशभिर्युक्त्या भद्रकालीति विश्रुता ।
क्षीरोदस्योत्तरे तीरे बिभ्रती विपुलां तनुम् ॥ ५७ ॥

अतसीपुष्पवर्णाभा ज्वलत्काञ्चनकुण्डला ।
जटाजूटसखण्डेन्दुकुटत्रयभूषिता ॥ ५८ ॥

मूलम्

अतसीपुष्पवर्णाभा ज्वलत्काञ्चनकुण्डला ।
जटाजूटसखण्डेन्दुकुटत्रयभूषिता ॥ ५८ ॥

विश्वास-प्रस्तुतिः

नागहारेण सहिता स्वर्णहारविभूषिता ।
शूलं चक्रं च खड्गं शङ्खं बाणं तथैव च ॥ ५९ ॥

शक्तिं वज्रं च दण्डं च नित्यं दक्षिणबाहुभिः ।
बिभ्रती सततं देवी विकाशिदशनोज्ज्वला ॥ ६० ॥

खेटकं चर्म चापं च पाशं चाङ्कुशमेव च ।
घण्टां पर्शुं च मुषलं बिभ्रती वामपाणिभिः ॥ ६१ ॥

सिंहस्था नयनै रक्तवर्णैस्त्रिभिरतिज्वला ।
शूलेन महिषं भित्त्वा तिष्ठन्ती परमेश्वरी ॥ ६२ ॥

वामपदेन चाक्रम्य तत्र देवी जगन्मयी ।
तां दृष्ट्वा सकला देवाः प्रणम्य परमेश्वरीम् ॥ ६३ ॥

नोचुः किञ्चन तं दृष्ट्वा निहतं महिषासुरम् ।
ततः प्रोवाच देवांस्तान् ब्रह्मादीन् परमेश्वरी ॥ ६४ ॥

स्मितप्रभिन्नवदना विकाशिवदनोज्ज्वला ।
गच्छन्तु भोः सुरगणा जम्बुद्वीपान्तरं प्रति ॥ ६५ ॥

हिमवत् पर्वतासन्ने वरं कात्यायनाश्रमम् ।
तत्रैव भवतां साध्यं भविष्यति न संशयः ॥ ६६ ॥

इत्युक्त्वा सा महादेवी तत्रैवान्तरधीयत ।
देवा अपि तदा जग्मुः कात्यायनमुनेः पुरम् ॥ ६७ ॥

आश्रमं प्रति ते गत्वा विस्मयाविष्टमानसाः ।
निहतो महिषो देव्या दिष्टोऽस्माभिर्यदर्थतः ॥ ६८ ॥

स्तुता चैषा महादेवी जगद्धात्री जगन्मयी ।
किमर्थमाह सा देवी गन्तुं कात्यायनाश्रमम् ॥ ६९ ॥

किमन्यद् वाञ्छितं कार्यमस्माकं वा भविष्यति ।
इति ब्रुवन्तस्ते सर्वे गच्छन्ति स्म परस्परम् ॥ ७० ॥

हिमवत्-पर्वतासन्नं मुनि-कात्यायनाश्रमम् ।
ततः सेन्द्राः सदिक्पाला ब्रह्मविष्णुशिवास्तथा ॥ ७१ ॥

निषेदुः सुचिरं प्रीता दुर्गादर्शनलालसाः ।
ततो रुद्रगणाः सर्वे महिषासुरचेष्टितम् ॥ ७२ ॥

आगत्य कथयामासुर्देवलोकपराभवम् ।
ततस्तत्र महाकोपं ब्रह्मविष्णुशिवादयः ॥ ७३ ॥

चक्रुः कोऽन्योऽस्ति महिषो हतो देव्या स दानवः ।
पुनर्येनेह क्रियते जगद्विध्वंसनं भृशम् ॥ ७४ ॥

इति प्रकुप्यतां तेषां शरीरेभ्यः पृथक् पृथक् ।
निश्चक्रमुश्च तेजांसि शक्तिरूपाणि तत्क्षणात् ॥ ७५ ॥

तत्तेजोभिर्धृतवपुर्देवी कात्यायनेन वै ।
सन्धुक्षिता पूजिता च तेन कात्यायनी स्मृता ॥ ७६ ॥

ततस्तेनैव मन्त्रेण दशबाहुयुतेन वै ।
पश्चाज्जघान महिषं जगद्धात्री जगन्मयी ॥ ७७ ॥

यदा स्तुता महादेवी बोधिता चाश्विनस्य च ।
चतुर्दशी कृष्णपक्षे प्रादुर्भूता जगन्मयी ॥ ७८ ॥

देवानां तेजसां मूर्तिः शुक्लपक्षे सुशोभने ।
सप्तम्यां साऽकरोद् देवी अष्टम्यां तैरलङ्कृता ॥ ७९ ॥

नवम्यामुपहारैस्तु पूजिता महिषासुरम् ।
निजघान दशम्यां तु विसृष्टान्तर्हिता शिवा ॥ ८० ॥

मार्कण्डेय उवाच

श्रुत्वेमां सगरो राजा देव्याः सङ्गतिमुत्तमाम् ।
संशयालुश्च तद्रूपे पुनरौर्वमपृच्छत् ॥ ८१ ॥

सगर उवाच

यदि पश्चान्महादेवी जघान महिषासुरम् ।
कथं पूर्वं हद्रकाली-रूपाभून्महिषासुरम् ॥ ८२ ॥

तथाहि दर्शनं तस्याः पादाक्रान्तश्चकार च ।
हृदिशूलेन निर्भिन्नं ददृशुः सकलाः सुराः ।
एवं तु संशयं छिन्धि मुनिश्रेष्ठ समाधुना ॥ ८३ ॥

और्व उवाच

शृणु त्वं नृपशार्दूल भद्रकाली यथा पुरा ।
प्रादुर्भूता महामाया महिषेण सहैव तु ॥ ८४ ॥

महिषासुर एवासौ निद्रायां निशि पर्वते ।
स्वप्नं प्रददृशे वीरो दारुणं घोरदर्शनम् ॥ ८५ ॥

महामाया भद्रकाली छित्त्वा खड्गेन मे शिरः ।
पपौ तस्य च रक्तानि व्यादितास्यातिभीषणा ॥ ८६ ॥

ततः प्रातर्भययुतः स दैत्यो महिषासुरः ।
तामेव पूजयामास सुचिरं सानुगस्तदा ॥ ८७ ॥

मूलम्

ततः प्रातर्भययुतः स दैत्यो महिषासुरः ।
तामेव पूजयामास सुचिरं सानुगस्तदा ॥ ८७ ॥

विश्वास-प्रस्तुतिः

आराधिता तदा देवी महिषेणासुरेण वै ।
प्रादुर्भूता भद्रकाली भुजैः षोडशभिर्युता ॥ ८८ ॥

ततः प्रणम्य महिषो महामायां जगन्मयीम् ।
उवाचेदं वचो नम्रमूर्तिर्भक्तियुतोऽसुरः ॥ ८९ ॥

महिष उवाच

देवि खड्गेन सञ्छिद्य शोणितानि शिरो मम ।
त्वया मुक्तानि दृष्टानि मया स्वप्नेन निश्चितम् ॥ ९० ॥

अवश्यं तु त्वया कार्यं मया ज्ञातं प्रमाणतः ।
एतद्रुधिरपाअं मे तत्रैकं देहि मे वरम् ॥ ९१ ॥

वध्यस्तवाहं नात्रास्ति संशयः परमेश्वरि ।
ममापि तत्र नो दुःखं नियतिः केन लङ्घ्यते ॥ ९२ ॥

किन्तु त्वयैव सहितः शम्भुराराधितः पुरा ।
मम पित्रा मदर्थेन जातः पश्चादहं ततः ॥ ९३ ॥

मयाप्याराधितः शम्भुः प्राप्ताश्चेष्टास्तथाविधाः ।
मन्वन्तरत्रयं यावदासुरं राज्यमुत्तमम् ॥ ९४ ॥

अकण्टकं मया भुक्तमनुतापो न विद्यते ।
कात्यायनेन मुनिना शप्तोऽहं शिष्यकारणात् ॥ ९५ ॥

सीमन्तिनी विनाशं ते करिष्यति न संशयः ।
पुरा मुनिं तपस्यन्तं रौद्राश्वं नाम सत्तमम् ॥ ९६ ॥

मुनेः कात्यायनाख्यस्य शिष्यं हिमवदन्तिके ।
दिव्यस्त्रीरूपमतुलं कृत्वाहं कौतुकात् तदा ॥ ९७ ॥

मया सम्मोहितो विप्रोऽत्यजत् सद्यस्तदा तपः ।
नदूरात् संस्थितेनाहं मुनिना कात्यसूनुना ॥ ९७ ॥

ज्ञात्वा मायां तदा शप्तः शिष्यार्थे क्रोधवह्निना ।
यस्मात् त्वया मे शिष्योऽयं मोहितस्तपसश्च्युतः ॥ ९९ ॥

कृतस्त्वया स्त्रीरूपेण तत् त्वां स्त्री निहनिष्यति ।
इति मां शप्तवान् पूर्वं मुनिः कात्यायनः स्वयम् ॥ १०० ॥

तस्य शापस्य कालोऽयमागत्य समुपस्थितः ।
देवेन्द्रत्वं मया प्राप्तं भुक्तं त्रिभुवनं समम् ॥ १०१ ॥

किञ्चिन्न शोच्यं मेऽत्रास्ति वाञ्छनीयं हि यन्मया ।
तस्मात् त्वां वै प्रपन्नोऽहं प्रार्थ्यं शेषं हि यन्मम ।
यदूदेहि देवि दुर्गे त्वं भूयस्तुभ्यं नमो नमः ॥ १०२ ॥

देव्युवाच

प्रार्थनीयो वरो यस्ते तं वृणुष्व महासुर ।
दास्यामि ते वरं प्रार्थ्यं संशयो नात्र विद्यते ॥ १०३ ॥

यज्ञभागमहं भोक्तुमिच्छामि त्वत्प्रसादतः ।
यथा मखेषु सर्वेषु पूज्योऽहं स्यां तथा कुरु ॥ १०४ ॥

त्वत्पादसेवां न त्यक्ष्ये यावत्सूर्यः प्रवर्तते ।
एवं वरद्वयं देहि यदि देयो वरो मम ॥ १०५ ॥

यज्ञभागाः सुरेभ्यस्तु कल्पिता वै पृथक् पृथक् ।
भागो न विद्यते चान्यो यं दास्यामि तवाधुना ॥ १०६ ॥

किन्तु त्वयि मया युद्धे निहते महिषासुर ।
नैव त्यक्ष्यसि मत्पादं सततं नात्र संशयः ॥ १०७ ॥

मम प्रवर्तते पूजा यत्र यत्र च तत्र ते ।
पूज्यश्चिन्त्यश्च तत्रैव कायोऽयं तव दानव ॥ १०८ ॥

इति श्रुत्वा वचस्तस्याः प्रत्यूषे महिषासुरः ।
वरं प्राप्येह मुदितः प्रसन्नवदनस्तदा ॥ १०९ ॥

उग्रचण्डे भद्रकालि दुर्गे देवि नमोऽस्तुते ।
प्रभूता मूर्तया देवि भवत्या सकलात्मिकाः ॥ ११० ॥

काभिस्ते मूर्तिभिः पूज्यो यज्ञेऽहं परमेश्वरि ।
तत् समाचक्ष्व यदि मे भवत्येह कृपा कृता ॥ १११ ॥

यानि नामानि प्रोक्तानि त्वयेह महिषासुर ।
तासु मूर्तिषु सम्पृष्टः पूज्यो लोके भविष्यसि ॥ ११२ ॥

उग्रचण्डेति या मूर्तिर्भद्रकाली ह्यहं पुनः ।
यया मूर्त्या त्वां हनिष्ये सा दुर्गेति प्रकीर्तिता ॥ ११३ ॥

एतासु मूर्तिषु सदा पादलग्नो नृणां भवान् ।
पूज्यो भविष्यति स्वर्गे देवानामपि रक्षसाम् ॥ ११४ ॥

आदिसृष्टावुग्रचण्डामूर्त्या त्वं निहितः पुरा ।
द्वितीयसृष्टौ तु भवान् भद्रकाल्या मया हतः ॥ ११५ ॥

दुर्गारूपेणाधुना त्वां हनिष्वामि सहानुगम् ।
किन्तु पूर्व न गृहीतस्त्वं मया पादयोस्तले ॥ ११६ ॥

अधुना प्रार्थितवरो ग्रहीतः पूर्वकामयोः ।
ग्रहीतव्यश्च पश्चात् त्वं यज्ञभागोपभुक्तये ॥ ११७ ॥

इत्युक्त्वा सा महामाया उग्रचण्डाह्वयां तनुम् ।
दर्शयामास च तदा महिषायासुराय वै ॥ ११८ ॥

या मूर्तिः षोडशभुजा भद्रकालीति विश्रुता ।
तथैव मूर्ति बाहुभ्यामपराभ्यां तु बिभ्रती ॥ ११९ ॥

दक्षिणाधो गदां वामपाणिना पानपात्रकम् ।
सुरापूर्णं च शिरसा मुण्डमालां विलेशयम् ॥ १२० ॥

भिन्नाञ्जनचयप्रख्या प्रचण्डा सिंहवाहिनी ।
रक्तनेत्रा महाकाया युक्ताऽष्टादशबाहुभिः ॥ १२१ ॥

उग्रचण्डा भद्रकाली देव्या मूर्तिद्वयं तथा ।
महिषः प्रणनामाशु दृष्ट्वा विस्मयमागतः ॥ १२२ ॥

ततो यथा पदाक्रम्य निहतो महिषासुरः ।
तथैव जगृहे पादतले देवीद्वयं तु तम् ॥ १२३ ॥

हृदि शूलेन निर्भिन्नं माहिषं विशिरस्ककम् ।
गुहीतकेशं देव्या तु इर्यदन्त्रविभूषितम् ॥ १२४ ॥

वमद्रक्तं महाकायं दृष्ट्वा पूर्वतनुं स्वकम् ।
भयं प्राप्यासुरः सोऽथ शुशोच च मुमोह च ॥ १२५ ॥

ततस्तु क्षणमात्मानं संस्तभ्य स तु दानवः ।
प्रणम्य वचनं देवीमिदमाह स गद्गदम् ॥ १२६ ॥

यदि देवि प्रसन्नासि यज्ञभागाश्च कल्पिताः ।
तदा ममान्यदा नाश एवमेतद् भवेन्न हि ॥ १२७ ॥

यथाहं न सुरैः सार्धं करिष्ये वैरमद्भुतम् ।
तथा मां कुरु भो देवि न जन्म प्रलभे यथा ॥ १२८ ॥

आराधिताऽहं भवता वरो दत्तो मया तव ।
वध्यश्च त्वं ममैवेह नात्र कार्या विचारणा ॥ १२९ ॥

यत् त्वया प्रार्थितं चापि सर्वैः सुरगणैः सह ।
विरोधो मे सदा मा भूदिति चापि भविष्यति ॥ १३० ॥

मत्पादतलसंस्पर्शाच्छरीरं तव दानव ।
यज्ञभागोपभोगाय विशीर्णं न भविष्यति ॥ १३१ ॥

तव जीवात्मभिः प्राणाः सर्व एव महासुरः ।
हरस्य पादसंयोगाच्चिरं स्थास्यति केवलम् ॥ १३२ ॥

कल्पकोटिसहस्राणि त्रिंशत् त्वं महिषासुर ।
शतानि चाष्टावन्यानि जन्म ते न भविष्यति ॥ १३३ ॥

इति देवी वरं दत्त्वा महिषायासुराय वै ।
प्रणता तेन शिरसा तत्रैवान्तरधीयत ॥ १३४ ॥

महिषोऽपि निजस्थानम् अयौ सम्मोहितः पुनः ।
मायया चासुरं भावमादाय नृप पूर्ववत् ॥ १३५ ॥

अनेके निहिता दैत्या मायया लोकभूतये ।
न ते पुनः प्रगृहीतास्तेभ्यो दत्त्वा वराञ् शुभान् ।
एन वा कारणेनायं प्रगृहीतो वरः कथम् ।
दत्तास्तस्मै समाचक्ष्व मम सम्यग् द्विजोत्तम ॥ १३६ ॥

आराधितो महादेवो रम्भेण सुरवैरिणा ।
चिरेण स च सुप्रीतस्तपसा तस्य शङ्करः ॥ १३७ ॥

अथ तुष्टो महादेवः प्रत्यक्षं रम्भमुचिवान् ।
प्रीतोऽस्मि ते वरं रम्भ वरयस्व यथेप्सितम् ॥ १३८ ॥

एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम् ।
अपुत्रोऽह महादेव यदि ते मय्यनुग्रहः ॥ १३९ ॥

मम जन्मत्रये पुत्रो भवान् भवतु शङ्कर ।
अवध्यः सर्वभूतानां जेता च त्रिदिवौकसाम् ॥ १४० ॥

चिरायुश्च यशस्वी च लक्ष्मीवान् स च शङ्कर ।
एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः ॥ १४१ ॥

भवत्वेतद्वाञ्छितं ते भविष्यामि सुतस्तव ।
इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत ॥ १४२ ॥

रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलोचनः ।
पथि गच्छन् स रम्भोऽथ ददर्श महिषीं शुभाम् ॥ १४३ ॥

त्रिहायणीं चित्रवर्णां सुन्दरीमृतुशालिनीम् ।
स तां दृष्ट्वाथ महिषीं रम्भः कामेन मोहितः ॥ १४४ ॥

दोर्भ्यां गृहित्वा च तदा चकार सुरतोत्सवम् ।
तयोः प्रवृत्ते सुरते तदा सा तस्य तेजसा ॥ १४५ ॥

दधार महिषी गर्भं तदाऽभून्महिषासुरः ।
तस्यां स्वांशेन गिरिशस्तत्पुत्रत्वमवाप्तवान् ॥ १४६ ॥

ववृधे स तदा राम्भिः शुक्लपक्षशशाङ्कवत् ।
तं च कात्यायनमुनिः शप्तवान्महिषासुरम् ॥ १४७ ॥

दुर्नयं वीक्ष्य शिष्यार्थे शिष्यानुग्रहकारकः ।
कात्यायनेन शप्तं तं विज्ञाय महिषासुरम् ॥ १४८ ॥

ईश्वर उवाच

देवी कात्यायनेनायं शप्तोऽद्य महिषासुरः ।
योषिद्विनाशक्र्त्रीति भवितेति जगन्मये ॥ १४९ ॥

निःसंशयमृषेर्वाक्यं भविष्यति न संशयः ।
मदीयो माहिषः आयो देवि कार्यस्त्वया त्वयि ॥ १५० ॥

हन्तव्यः सततं योगयुक्तः पूर्वे परेऽपि च ।
हरिर्हरिस्वरूपेण न त्वां वोढुं क्षमोऽधुना ॥ १५१ ॥

ममायं माहिषः कायस्तव वोढा भविष्यति ।
इति पूर्वं महादेवो देवीं प्रार्थितवान् पुरा ॥ १५२ ॥

तेन देवी महादेवं जग्राह महिषासुरम् ।
त्रिषु जन्मसु पुत्रोऽभूद्रम्भस्य भगवान् हरः ॥ १५३ ॥

सृष्टित्रये स रम्भोऽपि रम्भ एव व्यजायत ।
आसुर तादृशं तेपे तपह् परमदारुणम् ॥ १५४ ॥

तथैवाराधितः शम्भुः पुत्रार्थे प्रददौ वरम् ।
तथैव महिषीं भेजे प्रथमं सुरताय सः ॥ १५५ ॥

तस्यां तथाऽभवद्वीरो दानवो महिषासुरः ।
तथैव शेपे भगवान् मुनिः कात्यायनस्तु तम् ॥ १५६ ॥

इति प्रवृत्ते पूर्वेऽस्मिन् परस्मिन् स तु जन्मनि ।
महिषः पूजयित्वाऽथ देवीं वरमयाचत ॥ १५७ ॥

तृतीये जन्मनि वरं प्राप्य कल्पानशेषतः ।
नेह मे जन्म भवितेत्येवं वरमयाचत ॥ १५८ ॥

मूलम्

तृतीये जन्मनि वरं प्राप्य कल्पानशेषतः ।
नेह मे जन्म भवितेत्येवं वरमयाचत ॥ १५८ ॥

विश्वास-प्रस्तुतिः

तेन देवीपादतले तिष्ठत्येषोऽसुरोऽधुना ।
नोत्पत्तिरपि तस्याथ संवर्तान्तादभून्नृप ॥ १५९ ॥

एवं देवीप्रसादेन महादेवांशसम्भवः ।
परामवाप सततं प्रतिपत्तिं महासुरः ॥ १६० ॥

इति ते कथितं राजन् यथा स महिषासुरः ।
देवीपादतलं प्राप्य यथा सोऽद्यापि मोदते ।
प्रस्तुतं शृणु भो राजन् कथयामि नृपोत्तम ॥ १६१ ॥

इति वः कथितं राजा सगरः सहितो यथा ।
और्वेण चक्रे संवादं देवीमहिषयोजने ॥ १६२ ॥

पुनर्यदाह भूयोऽपि सगराय महात्मने ।
तच्छृण्वन्तु मुनिश्रेष्ठा गुह्याद् गुह्यतरं परम् ॥ १६३ ॥

इति श्रीकालिकापुराणे महिषासुरोपाख्यानो नामसष्टितमोऽध्यायः ॥ ६० ॥