विश्वास-प्रस्तुतिः
एकोनषष्टितमोऽध्यायः
श्रीभगवानुवाच
अङ्गमन्त्राण्यहं वक्ष्ये चण्डिकाया विशेषतः ।
यैः समाराधिता देवी चतुर्वर्गप्रदा भवेत् ॥ १ ॥
मूलम्

तालव्यान्तो युतः षष्ठस्वरबिन्द्विन्दुवह्निभिः ।
तथोपान्तः स्वरस्त्वेते बाह्यं वाग्भवमेव च ॥ २ ॥

नेत्रबीजं चण्डिकायास्त्रयमेतत् प्रकीर्तितम् ।
वामललाटदाक्षिण्यनेत्रेषु त्रितयं क्रमात् ॥ ३ ॥

धर्मार्थकाममोक्षाणां सर्वदा कारणं परम् ।
मन्त्रमेतन्महागुह्यं दुर्गाबीजमिति स्मृतम् ॥ ४ ॥

यदा कात्यायनमुनेराश्रमेषु दिवौकसाम् ।
तेजोभिर्धृतकायाभूद् देवी देवौघसंस्तुता ॥ ५ ॥

तदा नेत्रत्रयाद् देव्या मूलमूर्तिर्विनिःसृता ।
तेजोमयी जगद्धात्री महिषासुरघातिनी ॥ ६ ॥

तेजोभिः सर्वदेवानां सा धृत्वा वपुरुत्तमम् ।
अस्त्राण्यनेकान्यादाय देवैर्दत्तानि भागशः ॥ ७ ॥

सगणं सानुवन्धं च सामात्यबलवाहनम् ।
ब्रह्माद्यैः संस्तुता देवी जघान महिषासुरम् ॥ ८ ॥

हते तु महिषे देवी पूजिता त्रिदशैस्ततः ।
अनेनैव तु मन्त्रेण लोके ख्यातिं च सा गता ॥ ९ ॥

ततः प्रभृति सा मूर्तिः सर्वैः सर्वत्र पूज्यते ।
मूलमूर्तिः सुगुप्ताभूत् स्वमूर्त्या ख्यातिमागता ॥ १० ॥

देवानां वरदानेन ब्रह्माद्यैरुपयोजनात् ।
यन्मूर्तिः पूज्यते सर्वैस्तां मूर्तिं शृणु भैरव ॥ ११ ॥

जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् ।
लोचनत्रयसंयुक्ताम् ऊर्णेन्दुसदृशाननाम् ॥ १२ ॥

तप्तकाञ्चनवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ॥ १३ ॥

सुचारुदशनां तीक्ष्णां पीनोन्नतपयोधराम् ।
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥ १४ ॥

मृणालायतसंस्पर्शदशबाहुसमन्विताम् ।
त्रिशूलं दक्षिणे देयं खड्गं चक्रं क्रमादधः ॥ १५ ॥

तीक्ष्णबाणं तथा शक्तिं बाहुसङ्घेषु सङ्गताम् ।
खेटकं पूर्णचापं च पाशं चाङ्कुशमूर्धतः ॥ १६ ॥

घण्टां च परशुं चापि वामेऽधः प्रतियोजयेत् ।
अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ॥ १७ ॥

शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् ।
हृदि शूलेन निर्भिन्नम् इर्यदन्त्रविभूषितम् ॥ १८ ॥

रक्तरक्तीकृताङ्गं च रक्तविस्फुरितेक्षणम् ।
वेष्टितं नागपाशेन भ्रुकुटीकुटिलाननम् ॥ १९ ॥

सपाशवामहस्तेन धृतकेशं च दुर्गया ।
वमद्रुधिरवक्त्रं च देव्याः सिंहं प्रदर्शयेत् ॥ २० ॥

देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम् ।
किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ॥ २१ ॥

उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चामुण्डा चण्डिका तथा ॥ २२ ॥

आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् ।
चिन्तयेत् सततं देवीं धर्मकामार्थमोक्षदाम् ॥ २३ ॥

एतस्याश्चाङ्गमन्त्रं तु दुर्गातन्त्रमिति श्रुतम् ।
शृणुष्वैकमना भूत्वा धर्मकामार्थसाधनम् ॥ २४ ॥

वह्निभार्या स्वरः षष्ठो हान्तः प्रान्तोऽग्निरेव च ।
दुर्गादिरिति सोङ्कारं दुर्गामन्त्रं मिति श्रुतम् ॥ २५ ॥

रवौ मकरराशिस्थे या भवेत् सितपञ्चमी ।
तस्यामनेन मन्त्रेण सम्पूज्य विधिवच्छिवाम् ॥ २६ ॥

शुक्लाष्टम्यां पुनर्देवीं पूजयित्वा यथाविधि ।
नवम्यां बलिदानानि प्रभूतानि समाचरेत् ॥ २७ ॥

सन्ध्यायां च बलिं कुर्याग्निजगात्रासृगुक्षितम् ।
एवं कृते तु कल्याणैर्युक्तो नित्यं प्रमोदते ॥ २८ ॥

पुत्रपौत्रसमृद्धस्तु धनधान्यसमृद्धिभिः ।
(
विश्वास-प्रस्तुतिः
न तस्य जायते शोको न च पारी प्रजायते ।
दीर्घायुः सर्वसुभगो लोकेऽस्मिन् स च जायते ॥ २९ ॥

सिताष्टम्यां तु चैत्रस्य पुष्पैस्तत्कालसम्भवैः ।
अशोकैरपि यः कुर्यान्मत्रेणानेन पूजनम् ॥ ३० ॥

न तस्य जायते शोको रोगो वाप्यथ दुर्गतिः ।
ज्यैष्ठे तु शुक्लपक्षस्य अष्टाम्यां समुपोषितः ॥ ३१ ॥

नवम्यां सतिलैरन्नैर्यावकैरथ मोदकैः ।
क्षीरैराज्यस्तथा क्षौद्रैः शर्कराभिः सपिष्टकैः ॥ ३२ ॥

नानापशूनां रुधिरैर्मांसैरपि च पूजयेत् ।
ततो दशम्यां शुक्लायामद्भिस्तु तिलमिश्रितैः ॥ ३३ ॥

दुर्गातन्त्रेण मन्त्रेण दातव्यमञ्जलित्रयम् ।
एवं कृते दशम्यां तु यत्पापं दशजन्मभिः ॥ ३४ ॥

कृतं तत्प्रलयं याति दीर्घायुरपि जायते ।
आषाढे शुक्लपक्षस्य याष्टमी श्रावणस्य च ॥ ३५ ॥

पवित्रारोपणं कुर्याद् देवीप्रीतिकरं परम् ।
दुर्गातन्त्रेण मन्त्रेण दुर्गाबीजेन भैरव ॥ ३६ ॥

ऐष्णवीतन्त्रमन्त्रेण दुर्गाबीजेन भैरव ।
वैष्णवीतन्त्रमन्त्रेण पवित्रारोपणं चरेत् ।
विशेषाच्छ्रावणं प्राप्य देव्याः कुर्यात् पवित्रकम् ॥ ३७ ॥

सर्वेषामेव देवानां पवित्रारोपणं चरेत् ।
आषाढे श्रावणे वापि संवत्सरफलप्रदम् ॥ ३८ ॥

प्रतिपद्धनदस्योक्ता पवित्रारोपणे तिथिः ।
द्वितीया तु श्रियो देव्यास्तिथीनामुत्तमा स्मृता ॥ ३९ ॥

तृतीया भवभाविन्याश्चतुर्थी तत्सुतस्य च ।
पञ्चमी सोमराजस्य षष्ठी प्रोक्ता गुहस्य च ॥ ४० ॥

सप्तमी भास्करस्योक्ता दुर्गायाश्च तथाष्टमी ।
मातृणां नवमी प्रोक्ता वासुकेर्दशमी मता ॥ ४१ ॥

एकादशी ऋषीणां च द्वादशी चक्रपाणिनः ।
त्रयोदशी त्वनङ्गस्य मम चैव चतुर्दशी ॥ ४२ ॥

ब्रह्मणो दिक्पतीनां च पौर्णमासी तिथिर्मता ।
पवित्रारोपणं यो वै देवानां न समाचरेत् ॥ ४३ ॥

तस्य सांवत्सरीपूजाफलं हरति केशवः ।
तस्माद् यत्नेन कर्तव्यं पवित्रारोपणं परम् ॥ ४४ ॥

कृते बहुफलप्राप्तिस्तत्पूजा सफला भवेत् ।
पवित्रं येन सूत्रेण यथा कार्यं विजानता ॥ ४५ ॥

तच्छ्रणुष्व प्रमाणं तु वचनान्मम भैरव ।
प्रथमं दर्भसूत्रं च पद्मसूत्रं ततः परम् ॥ ४६ ॥

ततः क्षौमं सुपुण्यं स्यात् कार्पासकमतः परम् ।
पट्टसूत्रं तथान्येन पवित्राणि न कारयेत् ॥ ४७ ॥

विचित्राणि पवित्राणि कर्तव्यानि तु यत्नतः ।
गन्धमाल्यैः सुरभिभिः रचितानि यथोदितम् ॥ ४८ ॥

कन्या च कर्तयेत् सूत्रं प्रमदा च पतिव्रता ।
विधवा साधुशीला वा दुःखशीला न कर्तयेत् ॥ ४९ ॥

यत्सूचिभिन्नं दग्धं च भस्मधूमाभिगुण्ठितम् ।
तद्वर्जनीयं यत्नेन सूत्रमस्मिन् पवित्रके ॥ ५० ॥

उपयुक्तं चाखुजग्धं मद्यरक्तादिदूषितम् ।
मलिनं नीलरक्तं च प्रयत्नेन विवर्जयेत् ॥ ५१ ॥

सूत्रैः पवित्रं कुर्वीत कनिष्ठोत्तममध्यमम् ।
कनिष्ठं यत् पवित्रं तु सप्तविंशतितन्तुभिः ॥ ५२ ॥

मर्त्यलोके यशः कीर्तिः सुखसौभाग्यवर्धनम् ।
चतुःपञ्चाशता प्रोक्तं तन्तूनां मध्यमं परम् ॥ ५३ ॥

दिव्यभोगावहं पुण्यं स्वर्गमोक्षरदायकम् ।
उत्तमं चैव तन्तूनामष्टोत्तरशतेन वै ॥ ५४ ॥

तद्दत्वा तु महादेव्यै शिवसायुज्यमाप्नुयात् ।
उत्तमं वासुदेवाय दद्याद् यदि पवित्रकम् ॥ ५५ ॥

तदा याति हरेर्लोकं साधको नात्र संशयः ।
अष्टोत्तरसहस्रं तु रत्नमालेति गीयते ॥ ५६ ॥

पवित्रं सु महादेव्या भुक्तिमुक्तिप्रदायकम् ।
रत्नमाल्यां तु यो यच्छेन्महादेव्यै पवित्रकम् ॥ ५७ ॥

कल्पकोटिसहस्राणि स्वर्गे स्थित्वा शिवो भवेत् ।
एतत् तु नागहाराख्यं शङ्करस्य पवित्रकम् ॥ ५८ ॥

अष्टोत्तरसहस्रेण तन्तुना सुमनोहरम् ।
यः प्रयच्छति मह्यं तु स यावांस्तन्तुसञ्चयः ॥ ५९ ॥

तावत्कल्पसहस्राणि मम लोके प्रमोदते ।
अष्टोत्तरसहस्रेण वनमाला हरेः स्मृता ॥ ६० ॥

तन्तूनां तस्य दानेन विष्णुसायुज्यमाप्नुयात् ।
यत् कनिष्ठं पवित्रं तु नाभिमात्रं भवेत् तु तत् ॥ ६१ ॥

द्वादशग्रन्थिसंयुक्तमात्ममानेन योजयेत् ।
ऊरुप्रमाणं मध्यं स्याद् ग्रन्थीनां तत्र योजयेत् ॥ ६२ ॥

चतुर्विंशतिमप्यस्य मानमात्मन एव च ।
पवित्रमुत्तमं प्रोक्तं जानुमात्रं च भैरव ॥ ६३ ॥

षट्त्रिंशत्तन्तुग्रन्थीनां योजयेदात्ममानतः ।
शतमष्टोत्तरं कार्यं ग्रन्थीनां सुविधानतः ॥ ६४ ॥

नागहाराह्वयं तद्वदन्येषु च विधानतः ।
पवित्रं क्रियते येन सूत्रेण ग्रन्थयः पुनः ॥ ६५ ॥

तदन्यवर्णसूत्रेण कर्तव्या लक्षणान्विता ।
ग्रन्थिं तु सप्तभिः कुर्याद् वेष्टनैस्तु कनिष्ठके ॥ ६६ ॥

द्विगुणैर्मध्यमे कुर्यात्त्रिगुणरुत्तमे तथा ।
अधिवास्य पवित्राणि पूर्वस्मिन् दिवसे ततः ॥ ६७ ॥

मन्त्रन्यासं पवित्रे तु कुर्यात् तत्रापरेऽहनि ।
दुर्गाबीजेन मन्त्रेण मन्त्रन्यासं द्विजश्चरेत् ॥ ६८ ॥

वैष्णवीतन्त्रमन्त्रेण कुर्युरन्ये च भैरव ।
प्रतिग्रन्थि स्वयं कुर्यान्मन्त्रन्यासं विचक्षणः ॥ ६९ ॥

अङ्गुष्ठाग्रेण जपनं मालायामिह भैरव ।
यावन्तो ग्रन्थयश्चात्र तावन्त्येव च सन्न्यसेत् ॥ ७० ॥

मन्त्राणि तस्य तेन स्यादेवाङ्गोपनियोजनम् ।
दुर्गातन्त्रेण मन्त्रेण तत्त्वन्यासं तु कारयेत् ॥ ७१ ॥

एकत्र न्यस्य सकलं यज्ञपात्रे पवित्रकम् ।
तस्मिन् निधाय गन्धादि पुष्पाणि च सुशोभनम् ॥ ७२ ॥

तत्त्वन्यासं ततः कुर्यादङ्गुल्यग्रेण भैरव ।
विष्णोस्तु मूलमन्त्रेण तत्त्वन्यासं तु कारयेत् ॥ ७३ ॥

इदं विष्णुरिति प्रोक्तं मन्त्रन्यासं द्विजस्य हि ।
शूद्राणां मन्त्रविन्यासे मन्त्रो वै द्वादशाक्षरः ॥ ७४ ॥

प्रासादेन तु मन्त्रेण तत्त्वन्यासो मम स्मृतः ।
अनेन मन्त्रन्यासं च दानं चानेन कारयेत् ॥ ७५ ॥

कुङ्कुमोशीरकर्पूरै श्चन्दनादिविलेपनैः ।
पवित्राणि विलिप्याथ तत्त्वन्यासं तु योजयेत् ॥ ७६ ॥

सम्पूज्य मण्डले देवीं विधिवत् प्रयतो नरः ।
वैष्णवीतन्त्रमन्त्रेण दुर्गातन्त्रेण भैरव ॥ ७७ ॥

दुर्गाबीजेन दद्यात् तु देव्या मूर्ध्नि पवित्रकम् ।
यस्य देवस्य यः प्रोक्तस्तस्य तेनैव मण्डलम् ॥ ७८ ॥

यस्य यस्य तु यो मन्त्रो यथा ध्यानादिपूजनम् ।
तत् तत् तेनैव मन्त्रेण पूजयित्वा प्रयत्नतः ॥ ७९ ॥

तस्यैव बीजमन्त्राभ्यां मूर्ध्नि दद्यात् पवित्रकम् ।
पवित्रं मम यो दद्याद् देवेभ्यश्च पवित्रकम् ॥ ८० ॥

सर्वेषामेव देवानां सम्पूर्णार्थश्च भैरव ।
अग्निर्ब्रह्मा भवानी च गजवक्त्रो महोरगः ॥ ८१ ॥

स्कन्दो भानुर्मातृगणो दिक्पालाश्च नवग्रहाः ।
एतान् घटेषु प्रत्येकं पूजयित्वा यथाविधि ॥ ८२ ॥

पवित्रं मूर्ध्नि चैकैकं दद्यादेभ्यः समाहितः ।
पञ्चगव्यचरुं कृत्वा देव्यै दत्त्वाहुतित्रयम् ॥ ८३ ॥

तेनैव विष्णवे दत्त्वा शम्भवे च यथाविधि ।
आज्यैरष्टोत्तरशतं तिलैराज्यैस्तथैव च ॥ ८४ ॥

अष्टोत्तरशतं दद्यान्महादेव्यै च साधकः ।
एवमेव विधानेन विष्ण्वादीनां च साधकः ॥ ८५ ॥

पवित्रारोपणं कुर्याद् धर्मकामार्थसिद्धये ।
नैवेद्यैर्विविधैः पेयैर्वटपिष्टकमोदकैः ॥ ८६ ॥

कूष्माण्डैर्नारिकेलैश्च खर्जूरैः पनसैस्तथा ।
आम्रदाडिमकर्कारुद्राक्षादिविविधैः फलैः ॥ ८७ ॥

भक्ष्यभोज्यादिभिः सर्वैर्मत्स्यैर्मांसैस्तथौदनैः ।
गन्धैः पुष्पैस्तथा धूपैर्दीपैश्च सुमनोहरैः ॥ ८८ ॥

वासोभिर्भूषणैश्चैव भवानीसाधको यजेत् ।
नटनर्तकसङ्घैश्च वेश्याभिश्चैव भैरव ॥ ८९ ॥

नृत्यगीतः समुदितो जागरं कारयेन्निशि ।
भोजयेद् ब्राह्मणांश्चापि ज्ञातीनपि द्विजातिभिः ॥ ९० ॥

पवित्रारोपणे वृत्ते दक्षिणामुपदापयेत् ।
हिरण्यं गां तिलघृतं वासो वा शाकमेव वा ॥ ९१ ॥

इमं मन्त्रं ततः पश्चात् साधकः समुदीरयेत् ।
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥ ९२ ॥

इयं सांवत्सरी पूजा तवास्तु परमेश्वरि ।
ततो विसर्जयेद् देवीं पूजाभिः प्रतिपत्तिभिः ॥ ९३ ॥

एवं कृते पवित्राणां दाने देव्या यथाविधि ।
संवत्सरस्य या पूजा सम्पूर्णा वत्सराद् भवेत् ॥ ९४ ॥

कल्पकोटिशतं यावद् देवीगेहे वसेन्नरः ।
तत्रापि सुखसौभाग्यसमृद्धिरतुला भवेत् ॥ ९५ ॥

इति श्रीकालिकापुराणे कोनषष्टितमोऽध्यायः ॥ ५९ ॥