५८

विश्वास-प्रस्तुतिः

अष्टपञ्चाशोऽध्यायः

श्रीभगवानुवाच

देव्यास्तन्त्रं विशेषेण शृणुतं साम्प्रतं युवाम् ।
येन चाराधिता देवी नचिराद्वरदा भवेत् ॥ १ ॥

मूलम्

ऊर्वतन्त्राद्विशेषेण तथा वै तन्त्रमुत्तरम् ।
विशेषेण च सामान्यात् कथितं भवतोः पुरा ॥ २ ॥

पुनर्देव्या विशेषेण पूजायां भक्तिकर्मणि ।
यानि अन्त्राणि शेषाणि तानि वक्ष्याम्यहं पुनः ॥ ३ ॥

यः कुर्यात् तु महामायाभक्तिमेकाग्रमानसः ।
अङ्गिना आङ्गिमन्त्रेण तेन कार्यमिदं शुभम् ॥ ४ ॥

फलं पुष्पं च ताम्बूलमन्नपानादिकं च यत् ।
अदत्त्वा तु महादेव्यै न भोक्तव्यं कदाचन ॥ ५ ॥

पथि वा पर्वताग्रे वा सभायामपि साधकः ।
यथा तथा निवेद्यैव स्वमर्थमुपकल्पयेत् ॥ ६ ॥

दृष्ट्वैव मदिराभाण्डं रक्तवर्णास्तथा स्त्रियः ।
सिंहं शवं रक्तपद्मं व्याघ्रवारणसङ्गमम् ॥ ७ ॥

गुरुं राजानमथवा महामायां ततो नमेत् ।
पतिव्रतायां भार्यायां सदैव ऋतुसङ्गमः ॥ ८ ॥

क्रियते चण्डिकां ध्यात्वा तदा कार्यो विभूतये ।
शान्तिकं पौष्टिकं वापि तथेष्टापूर्तकर्मणी ॥ ९ ॥

यदा कुर्यात् तदा नत्वा देवीयात्रां समाचरेत् ।
तौर्यत्रिकं यदा पश्येत् केवलं गीतमेव वा ॥ १० ॥

तच्च देव्यै निवेद्यैव कर्तव्यं स्वोपयोजनम् ।
यदेव भूषणं वासो मलयोद्भवमेव वा ॥ ११ ॥

स्वकाये परियुञ्जीत तत्र मन्त्रं धिया न्यसेत् ।
व्यायामे च विधाने च सभायां वा जले स्थले ॥ १२ ॥

यत्र यत्र स्वयं गच्छेत् तत्र देवीं सदा स्मरेत् ।

यद् यत् कर्म तु पूजाङ्गं तत्तन्मन्त्रेण चाचरेत् ॥ १३ ॥

मन्त्रहीनं पूजनाङ्गं कर्म यत् तत्तु निष्फलम् ।
यस्मिन् कर्मणि योद्दिष्टो मन्त्रर्पूजासु भैरव ॥ १४ ॥

नैवेद्यालोकमन्त्रेण तत् तत् कर्म समाचरेत् ।
देव्यास्तु मण्डलन्यासमिष्टमन्त्रेण चाचरेत् ॥ १५ ॥

पूजान्ते मण्डलं लिप्त्वा तिलकं तेन कारयेत् ।
सर्ववश्येन मन्त्रेण धर्मकामार्थदायिना ॥ १६ ॥

बलिदाने बलिं छित्वा खड्गस्थै रुधिरैः स्वकैः ।
सर्ववश्येन मन्त्रेण ललाटे तिलकं न्यसेत् ॥ १७ ॥

जगद्वशे भवेत् तस्य चतुर्थः कस्य वह्निना ।
षष्ठस्वरेण संयुक्तः कलाबिन्दुसमन्वितः ॥ १८ ॥

अथोपान्तस्थकारान्तः सपरोऽपि तथा पुनः ।
द्विर्मोहीति अकारास्य तुर्यो द्विस्वरसंयुतः ॥ १९ ॥

तृतीयवर्ग-प्रान्तेन तृतीयस्वरसञ्ज्ञिना ।
पूरितान्तो विधा वर्णस्तथा आदिचतुर्थकः ॥ २० ॥

स्वरो द्वितीयश्च तथा क्षोभशब्दः पुरः सरः ।
पुरेति सहितः सोऽपि मित्र्ऽम् शत्रुश्च राक्षसः ॥ २१ ॥

अक्षप्रजा तथा राजा सर्वशास्त्र इति श्रुतः ।
विनापि पूजनं कुर्याद् यो रहस्तिलकं नरः ॥ २२ ॥

मन्त्रेणानेन सततं सर्वं तस्य वशे भवेत् ।
राजा वा राजपुत्रो वा स्त्रियो वा यक्षराक्षसाः ॥ २३ ॥

सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः ।
प्रवासे पथि वा दुर्गे स्थानाप्राप्तौ जलेऽपि वा ॥ २४ ॥

कारागारे निबद्धो वा रायोवेशगतोऽपि वा ।
कुर्यात् तत्र महामायापूजां वै मानसीं बुधः ॥ २५ ॥

अनोभये समुत्पन्ने सिंहव्याघ्रसमाकुले ।
परचक्रागमे वापि कुर्यान्मानसपूजनम् ॥ २६ ॥

मनसा हृदयस्यान्तर्ध्यात्वा योगाख्यपीठकम् ।
तत्रैव पृथिवीमध्ये पूजां तत्र समाचरेत् ॥ २७ ॥

मैत्रं प्रसाधनं स्नानं दन्तधावनकर्म वै ।
अन्यच्च सर्वं मनसा कृत्वा कुर्याच्च पूजनम् ॥ २८ ॥

अश्चात् पुष्पादिभिः पूजा बहिर्देशे विधीयते ।
तथा हृद्यपि कर्तव्या सर्वाश्च प्रतिपत्तयः ॥ २९ ॥

अष्टम्यां सततं देवीयाजकः स्यात् सदा व्रती ।
नवम्यां तु तथा पूजा कर्तव्या निजशोणितैः ॥ ३० ॥

लिङ्गस्थां पूजयेद् देवीं पुस्तकस्थां तथैव च ।
स्थण्डिलस्थां महामायां पादुकाप्रतिमासु च ॥ ३१ ॥

इत्रे च त्रिशिखे खड्गं जलस्थां वापि पूजयेत् ।
पञ्चाशदङ्गुलं खड्गं त्रिशिखं च त्रिशूलकम् ॥ ३२ ॥

शिलायां पर्वतस्याग्रे तथा पर्वतगह्वरे ।
देवीं सम्पूजयेन्नित्यं भक्तिश्रद्धासमन्वितः ॥ ३३ ॥

वाराणस्यां सदा पूजा सम्पूर्णफलदायिनी ।
ततस्तद्द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ ॥ ३४ ॥

ततोऽपि द्विगुणा प्रोक्ता द्वारावत्यां विशेषतः ।
सर्वक्षेत्रेषु तीर्थेषु पूजा द्वारावतीसमा ॥ ३५ ॥

विन्ध्ये शतगुणा प्रोक्ता गङ्गायामपि तत्समा ।
आर्यावर्ते मध्यदेशे ब्रह्मावर्ते तथैव च ॥ ३६ ॥

विन्ध्यवत् फलदा पूजा प्रयागे पुष्करे तथा ।
ततश्चतुर्गुणा प्रोक्ता करतोया नदीजले ॥ ३७ ॥

तस्माच्चतुर्गुणफला नन्दिकुण्डे च भैरव ।
ततश्चतुर्गुणा प्रोक्ता जल्पिषे(भे)श्वरसन्निधौ ॥ ३८ ॥

तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा स्मृता ।
ततश्चतुर्गुणा प्रोक्ता लोहित्यनदपाथसि ॥ ३९ ॥

तत्समा कामरूपे तु सर्वत्रैव जले स्थले ।
सर्वश्रेष्ठो यथा विष्णुर्लक्ष्मीः सर्वोत्तमा यथा ॥ ४० ॥

देवीपूजा तथा शस्ता कामरूपे सुरालये ।
देवीक्षेत्रं कामरूपं विद्यतेऽन्यत्र ततत्समम् ॥ ४१ ॥

अन्यत्र विरला देवी कामरूपे गृहे गृहे ।
ततः शतगुणा प्रोक्ता नीलकूटस्य मस्तके ॥ ४२ ॥

ततोऽपि द्विगुणा प्रोक्ता एरुके शिवलिङ्गके ।
ततोऽपि द्विगुणा प्रोक्ता शैलपुत्र्यादियोनिषु ॥ ४३ ॥

ततः शतगुणा प्रोक्ता कामाख्यायोनिमण्डले ।
कामाख्यायां महामायापूजां यः कृतवान् सकृत् ॥ ४४ ॥

स चेह लभते कामान् परत्र शिवरूपताम् ।
न तस्य सदृशोऽन्योऽस्ति कृत्यं तस्य न विद्यते ॥ ४५ ॥

वाञ्छितार्थमवाप्येह चिरायुरभिजायते ।
वायोरिव गतिस्तस्य भवेदन्यैरबाधिता ॥ ४६ ॥

सङ्ग्रामे शास्त्रवादे वा दुर्जयः स च जायते ।
वैष्णवीतन्त्रमन्त्रेण कामाख्यायोनिमण्डले ।
सकृत् तु पूजनं कृत्वा फलं शतगुणं लभेत् ॥ ४७ ॥

मूलमूर्तिर्महामाया योगनिन्द्रा जगन्मयी ।
तस्यास्तु वैष्णवीतन्त्रं मन्त्रं प्राक् प्रतिपादितम् ॥ ४८ ॥

अन्या या मूर्तयः प्रोक्ता शैलपुत्र्यादयोऽपराः ।
तस्या एव विभागास्तास्तच्छरीरविनिर्गताः ॥ ४९ ॥

निःसरन्ति यथा नित्यं सूर्यबिम्बान्मरीचयः ।
देव्यास्तथोग्रचण्डाद्या महामायाशरीरतः ॥ ५० ॥

तासामेवाङ्गरूपाणि वक्तव्यानि मया तव ।
एकैव तु महामाया कार्यार्थं भिन्नतां गता ॥ ५१ ॥

कामाख्या तु महामाया मूलमूर्तिः प्रगीयते ।
पीठैर्भिन्नाह्वया सा तु महामाया प्रगीयते ॥ ५२ ॥

क एव यथा विष्णुर्नित्यत्वाद् हि सनातनः ।
जनानामर्दनात् सोऽपि जनार्दन इति श्रुतः ॥ ५३ ॥

तथैव सा महामाया कामार्थ सङ्गता गिरौ ।
कामाख्येति सदा देवैर्गद्यते सततं नरैः ॥ ५४ ॥

यथा हि पुरुषः कोऽपि च्छत्रो च्छत्रग्रहाद् भवेत् ।
स्नापकः स्नानकाले वै कामाख्यापि तथाह्वया ॥ ५५ ॥

महामायाशरीरं तु कामार्थं समुपस्थितम् ।
लोहितैः कुङ्कुमैः पीतं कामार्थमुपयोजितैः ॥ ५६ ॥

खड्गं त्यक्त्वा कामकाले सा गृह्णाति स्रजं स्वयम् ।
यदा तु त्यक्तकामा सा तदा स्यादसिधारिणी ॥ ५७ ॥

कामकाले शिवप्रेते न्यस्तलोहितपङ्कजे ।
अमते त्यक्तकामा तु सितप्रेतोपरि स्थिता ॥ ५८ ॥

तथैवेतस्ततो गत्या सिंहस्था कामदा भवेत् ।
कदाचित् सा सितप्रेते कदाचिद्रक्तपङ्कजे ॥ ५९ ॥

कदाचित् केशरीपृष्ठे रमते कामरुपिणी ।
यदा लोहितपद्मस्था अथाग्रे केशरी चरः ॥ ६० ॥

यदा प्रेतगता देवी तदाग्रेऽन्यं निरीक्षते ।
महामायास्वरूपेण यदा सा वरदा भवेत् ॥ ६१ ॥

पूजाकाले तदा प्रेतपद्मसिंहोपरि स्थिता ।
रक्तपद्मे यदा ध्यायेत् तदाग्रे चिन्तयेद्धरिम् ॥ ६२ ॥

यदा ध्यायेद्धरौ चान्यद्वयमग्रे विचिन्तयेत् ।
त्रिषु ध्यातेषु युगपत् प्रेतपद्महरौ क्रमात् ॥ ६३ ॥

स्थितेषु कामदा देवी तेषु ह्यायेत कामदाम् ।
एकैकस्मिन्नपि तथा यथावच्छिन्तयेच्छिवाम् ॥ ६४ ॥

एका समस्ता जगतां प्रकृतिः सा यतस्ततः ।
विष्णुब्रह्मशिवैर्देवैर्ध्रियते सा जगन्मयी ॥ ६५ ॥

सितप्रेतो महादेवो ब्रह्मालोहितपङ्कजम् ।
हरिर्हरिस्तु विज्ञेयो वाहनानि महौजसः ॥ ६६ ॥

स्वमूर्त्या वाहनत्वं तु तेषां यस्मान्न युज्यते ।
तस्मान्मूर्त्यन्तरं कृत्वा वाहनत्वं गतास्त्रयः ॥ ६७ ॥

यस्मिन् यस्मिन् महामाया प्रीणाति सततं शिवा ।
तेन तेनैव रूपेण आसनान्यभवंस्त्रयः ॥ ६८ ॥

सिंहोपरि स्थितं पद्मं रक्तं तस्योर्ध्वगः शिवः ।
तस्योपरि महामाया वरदाऽभयदायिनी ॥ ६९ ॥

एवं रूपेण यो ध्यात्वा पूजयेत् सततं शिवाम् ।
ब्रह्मविष्णुशिवास्तेन पूजिताः स्युरसंशयम् ॥ ७० ॥

एवं सदा महामाया कामाख्या चैकरूपिणी ।
ध्यानतो रूपतो भिन्ना तस्मात्तां तत्र पूजयेत् ॥ ७१ ॥

एवं विशेषतन्त्राणि दुर्गायाः कथितानि वाम् ।
अङ्गमन्त्राणि तस्यास्तु श्रूयताम् अरसत्तमौ ॥ ७२ ॥

इति श्रीकालिकापुराणे ष्टपञ्चाशोऽध्यायः ॥ ५८ ॥