विश्वास-प्रस्तुतिः
सप्तपञ्चाशोऽध्यायः
मार्कण्डेय उवाच
श्रुत्वेमं सगरो राजा संवादं भैरवेण वै ।
वेतालेनापि भर्गस्य पुनरौर्वमपृच्छत ॥ १ ॥
मूलम्

सगर उवाच
मन्त्रं कलेवरगतम् आङ्गं प्रोक्तं त्वया द्विज ।
अङ्गमन्त्राणि मे देव्याः कथ्यन्तां भो द्विजोत्तम ॥ २ ॥

तथा मन्त्राणि सर्वाणि पूजास्थानानि सर्वशः ।
तथैवोत्तरमन्त्राणि कवचानि पृथक् पृथक् ॥ ३ ॥

कामाख्यायाश्च माहात्म्यं सरहस्यं समन्त्रकम् ।
यथा शशंस भगवान् महादेव उमापतिः ॥ ४ ॥

वेतालभैरवाभ्यां तत् समाचक्ष्व सविस्तरात् ।
शृण्वतो न हि मे तृप्तिर्जायते महदद्भुतम् ॥ ५ ॥

भवता कथ्यमानं हि परं कौतूहलं मम ।
और्व उवाच
शृणु त्वं राजशार्दूल यत्पुत्राभ्यामुमापतिः ॥ ६ ॥

उवाच महदाख्यानं तन्मे निगदतोऽधुना ।
एतद्रहस्यं परमं पवित्रं पापनाशनम् ॥ ७ ॥
मूलम्
उवाच महदाख्यानं तन्मे निगदतोऽधुना ।
एतद्रहस्यं परमं पवित्रं पापनाशनम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
अरं स्वस्त्ययनं पुंसां गर्भे पुंसवनं स्मृतम् ।
कल्याणकारकं भद्रं चतुर्वर्गफलप्रदम् ॥ ८ ॥

शठाय चलचित्ताय नास्तिकायाजितात्मने ।
देवद्विजगुरूणां च मिथ्यानिर्बन्धकारिणे ॥ ९ ॥

न पापायाभिशस्ताय खञ्जकाणादिरोगिणे ।
न कथ्यं न च वा देयं श्रद्धाविरहिताय च ॥ १० ॥

महामायामन्त्रकल्पं प्रोक्त्वा ताभ्यामुमापतिः ।
वेतालभैरवाभ्यां तु पुनरेवाभ्यभाषत ॥ ११ ॥

भगवानुवाच
अङ्गमन्त्रं प्रवक्ष्यामि प्रोक्तवाँस्तन्त्रमुत्तमम् ।
तदेव प्रथमं विद्धि सर्वपूजासु सङ्गतम् ॥ १२ ॥

आचान्तः शुचितां प्राप्तः सुस्नातो देवपूजने ।
पूजावेद्या बहिःस्थित्वा चतुर्हस्तान्तरे धिया ॥ १३ ॥

गृहे वां द्वारदेशस्थः प्रणम्य शिरसा गुरुम् ।
प्रणमेदिष्टदेवं स्वं दिक्पालानपि चेतसा ॥ १४ ॥

यत् पूर्वमर्जितं पापं तद्दिनेऽन्यदिनेऽपि वा ।
प्रायश्चित्तैर्नापनुन्नं तच्च पापं स्मरेद्धिया ॥ १५ ॥

तत्पापस्यापनोदाय मन्त्रद्वयमुदीरयेत् ।
देवि त्वं प्राकृतं चित्तं पापाक्रान्तमभून्मम ॥ १६ ॥

तन्निःसारय चित्तान्मे पापं हूं फट् च ते नमः ।
सूर्यः सोमो यमः कालो महाभूतानि पञ्च वै ॥ १७ ॥

एते शुभाशुभस्येह कर्मणो नव साक्षिणः ।
ततः पुनर्हूं फडिति पार्श्वमूर्ध्वमधस्तथा ॥ १८ ॥

आत्मानं क्रोधदृष्ट्याथ निरीक्ष्य सुमना भवेत् ।
एवं कृते प्रथमतः पापोत्सारणकर्मणि ॥ १९ ॥

यत् स्याद् दृढतरं पापं तद् दूरे चावतिष्ठते ।
अतीते पूजने स्थानं स्वं प्रयाति पुनश्च यत् ॥ २० ॥

यत् स्यादल्पतरं पापं तन्नाशमुपगच्छति ।
ॐ अः फडितिमन्त्रेण पूजावेदीं ततो विशेत् ॥ २१ ॥

पूजने त्यक्तपापस्य काममिष्टं क्षणाद् भवेत् ।
नाराचमुद्रया दृष्ट्वा समया अम्प्रलोकयेत् ॥ २२ ॥

पुष्पनैवेद्यगन्धादि ह्रीं हूं फडिति मन्त्रकैः ।
यदात्मनानवज्ञातं सम्यक् पुष्पादिदूषणम् ॥ २३ ॥

अस्पृश्यस्पर्शनं वापि यदन्यायार्जितं च वा ।
तथा निर्माल्यसंसृष्टं कीटाद्यारोहणं च यत् ॥ २४ ॥

तत्सर्वं नाशमायाति नैवेद्याद्यवलोकनात् ।
ततो रमितिमन्त्रेण शिखां दीपस्य संस्पृशेत् ॥ २५ ॥

स तस्य सुभगो दीपो भवेत् स्पर्शनमात्रतः ।
पतङ्गकीटकेशादि-दाहात् क्रव्यादसंहतः ॥ २६ ॥

वसामज्जास्थिसम्पूतिर्यज्ञादावुअयोजनम् ।
अज्ञातरूपं तत्सर्वं दोषं स्पर्शाद् विनाशयेत् ॥ २७ ॥

नारसिंहेन मन्त्रेण देवतीर्थेन संस्पृशेत् ।
पानीयं घटमध्यस्थं वीक्सन्नभ्युक्ष्य याजकः ॥ २८ ॥

वामेन पाणिना धृत्वा वामपार्श्वे स्थितं तदा ।
पात्रमाधारमन्त्रेण संस्कुर्वन् संस्पृशेज्जलम् ॥ २९ ॥

यज्ञदानादपेयादि संसृष्टिरिह सङ्गता ।
यदन्यद् दूषणं पात्रे तोये वा ज्ञानतो भवेत् ॥ ३० ॥

जलाशयं शवस्पर्शाज्जलं स्ननाच्च सङ्गतम् ।
दूषणानि विनश्यन्ति तानि वै देवपूजने ॥ ३१ ॥

प्रजापतिसुतो हान्तप्रान्तः स्वरसमन्वितः ।
चन्द्रार्धबिन्दुसहितो मन्त्रोऽयं नारसिंहकः ॥ ३२ ॥

स्वसञ्ज्ञाद्यक्षरं बिन्दुचन्द्रार्धपरियोजितम् ।
आधारमन्त्रं जानीयात् साधकः कार्यसिद्धये ॥ ३३ ॥

तत आधारमन्त्रेण पाणिभ्यामासनं स्वकम् ।
आदाय विनिधायाशु पुनः संस्पृश्य पाणिना ॥ ३४ ॥

आत्ममन्त्रेण्पविशेत् तदा तस्मिन् वरासने ।
दुःशिल्पिरचितत्वादि यद्वान्यासनऊषणम् ॥ ३५ ॥

अज्ञातं विलयं याति उपवेशात् समन्त्रकात् ।
आहूय स्वाक्षरं पूर्वं सोमसामिसमन्वितम् ॥ ३६ ॥

सबिन्दुकं विजानीयादात्ममन्त्रं तु साधकः ।
ततस्तु मातृकान्यासं नादबिन्दुसमन्वितम् ॥ ३७ ॥

कुर्यात् तु मातृकामन्त्रैः स्वशरीरे विचक्षणः ।
कल्पेषु च यदज्ञातं मन्त्रोच्चारणकर्मणि ॥ ३८ ॥

यद्दुष्टं वा तथा स्पृष्टं माताभ्रष्टादिदूषणम् ।
तन्न्यस्ता मातृकामन्त्रा नाशयन्ति सदैव हि ॥ ३९ ॥

व्यञ्जनानि च सर्वाणि तथा विष्ण्वादयः स्वराः ।
सर्वे ते मातृकामन्त्राश्चन्द्रबिन्दुविभूषणा ॥ ४० ॥

सर्वे युगान्तवन्द्येषु न्यस्तेषु न्यूनपूरणम् ।
मन्त्रे कल्पे च कुर्वन्ति विन्यस्ता मातृकाः स्वयम् ॥ ४१ ॥

एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते ।
प्लुतस्त्रिमात्रो विज्ञेयो वर्णा एते व्यवस्थिताः ॥ ४२ ॥

सर्वेषामेव वर्णानां मात्रादेव्यस्तु मातृकाः ।
शिवदूतीप्रभृतयस्तन्न्यासास्तत्तनुस्थिताः ॥ ४३ ॥

पूरयन्ति च तान् न्यूनांश्चतुर्वर्ग तथाचिरात् ।
ददत्येव सदा रक्षां कुर्वन्ति सुरपूजने ॥ ४४ ॥

चतुर्वर्गप्रदश्चायं सर्वकामफलप्रदः ।
सर्वदामातृकान्यासस्तुष्टिपुष्टिप्रदायकः ॥ ४५ ॥

यः कुर्याद् मातृकान्यासं विनापि सुरपूजनात् ।
तस्माद् बिभेति सततं भूतग्रामश्चतुर्विधः ॥ ४६ ॥

तं द्रष्टुमपि देवाश्च स्पृहयन्ति महौजसम् ।
स सर्वं च वशं कुर्याद् न च याति पराभवम् ॥ ४७ ॥

कुसुमं विष्णुमन्त्रेण अङ्गुल्यग्रेण साधकः ।
विमर्दनार्थं गृह्णीयात करशोधनकर्मणि ॥ ४८ ॥

उपान्तः सामि चन्द्रेण रञ्जितः शून्यसंयुतः ।
रुद्रान्तोपरिसंसृष्टो मन्त्रोऽयं वैष्णवो मतः ॥ ४९ ॥

प्रासादेन तु मन्त्रेण अङ्गुल्यग्रेण साधकः ।
गृहीत्वा च ततः कुर्यात् कराभ्यां पुष्पमर्दनम् ॥ ५० ॥

इर्मथेत् कामबीजेन जिघ्रेद् ब्राह्मेण तत् पुनः ।
प्रासादेन परित्यागो दिश्यैशान्यां विशेषतः ॥ ५१ ॥

एवं कृते तु करयोर्विशुद्धिरतुला भवेत् ।
जलौकागूढपादादिस्पर्शाच्छुद्दिर्विशोधनात् ॥ ५२ ॥

दुर्गन्ध्युच्छिष्टसंस्पर्शाद् दूषणं करयोस्तु यत् ।
अज्ञातरूपं तत्सर्वं नाशयेत् सुविधानतः ॥ ५३ ॥

अङ्गुल्यग्राणि शुद्धानि पुष्पाणां ग्रहणाद् भवेत् ।
तलद्वयं मर्दनात् तु विशुद्धमभिजायते ॥ ५४ ॥

निर्मञ्छनात् पाणिपृष्ठं घ्राणान्नासाग्रमुत्तमम् ।
तीर्थानि च समायान्ति नासिकायां करं प्रति ॥ ५५ ॥

तस्माद् यत्नेन कार्याणि कर्माण्येतानि भैरव ।
प्रान्तादिर्वासुदेवेन वर्णेनापि च संहितः ॥ ५६ ॥

शम्भुचूडाबिन्दुयुक्तः प्रासाद च स उच्यते ।
कामबीजं तु विज्ञेयं वासुदेवेन्दुविन्दुभिः ॥ ५७ ॥

व्यञ्जनं चाद्यदन्तं च प्रान्तदन्त्या तु पूर्वकम् ।
आद्यदन्त्यद्वयं पश्चाद् व्यञ्जनं प्रणवोत्तरम् ॥ ५८ ॥

ब्रह्मबीजमिदं प्रोक्तं सर्वपापप्रणाशनम् ।
प्रणवं दीर्घमुच्चार्य प्रथमं मुखशुद्धये ॥ ५९ ॥

वासुदेवस्य बीजेन प्राणायामं समाचरेत् ।
यस्य देवस्य यद्रूपं तथा भूषणवाहनम् ॥ ६० ॥

तदेव पूजने तस्य चिन्तयेत् पूरकादिभिः ।
वैष्णवीतन्त्रमन्त्रस्य कण्ठाद्यं यत्पुरःसरम् ॥ ६१ ॥

तद् बीजं वासुदेवस्य पूर्णचन्द्रनिभं सदा ।
गङ्गावतारबीजेन प्रथमं धेनुमुद्रया ॥ ६२ ॥

अमृतीकरणं कुर्यादर्घपात्राहिते जले ।
शशिखण्डयुतः कण्ठ्यः पञ्चमीबलबीजकः ॥ ६३ ॥

गङ्गावतारमन्त्रोऽयं सर्वपापप्रणाशकः ।
मात्राद्वययुतो विष्णुर्बलबीजमुदाहृतम् ॥ ६४ ॥

अमृतीकरणे वृत्ते तोयं यद् दीयतेऽमृतम् ।
भूत्वा प्रयाति देवस्य प्रीतये सुरपूजने ॥ ६५ ॥

गङ्गापि स्वयमायाति पूजापात्रजलं प्रति ।
अमृतीकरणं कुर्याद् धर्मकामार्थसिद्धये ॥ ६६ ॥

स्वस्तिकं गोमुखं पद्ममर्धस्वस्तिकमेव च ।
पर्यङ्कमासनं शस्तुमभीष्टसुरपूजने ॥ ६७ ॥

पादयन्त्रमिदं प्रोक्तं सर्वमन्त्रोत्तमोत्तमम् ।
तद् गृह्णीयाद् वराहस्य बीजेन प्रथमं बुधः ॥ ६८ ॥

मायादिरग्निबीजस्य चतुर्थः समव्याप्तिकः ।
सष्ठस्वरोपरिचरो वाराहं बीजमुच्यते ॥ ६९ ॥

वाराहबीजसंशुद्धं मन्त्रपादद्वये कृतम् ।
पश्यन्नभीष्टदेवं तु पाददोषं न पश्यति ॥ ७० ॥

न युक्तमन्यथा पाददर्शनं सुरपूजने ।
अन्त्रेण लभतेऽभीष्टांस्तस्मान्मन्त्रपरो भवेत् ॥ ७१ ॥

पाणिकच्छपिकां कुर्यात् कूर्ममन्त्रेण साधकः ।
तत्र संस्कृतपुष्पेण पूजयेदात्मनो वपुः ॥ ७२ ॥

पूजिते तेन पुष्पेण देवत्वं स्वस्य जायते ।
द्वितीयं वैष्णवीतन्त्रं बीजं बिन्द्विन्दुसंयुतम् ॥ ७३ ॥

षष्ठस्वरोपरिचरं कूर्मबीजं प्रकीर्तितम् ।
दहनप्लवनस्यादौ रन्ध्रस्य दशमस्य तु ॥ ७४ ॥

भेदनं साधकः कुर्यान्मन्त्रेण प्रणवेन तु ।
बीजेन वासुदेवस्य आकाशे विनिधापयेत् ॥ ७५ ॥

प्राणेन सहितं बीजं ततपूर्वं प्रतिपादितम् ।
अज्ञाता प्रयतानां तु मण्डलस्थानमार्जनात् ॥ ७६ ॥

द्रव्याणां विप्रकारः स्यात् संसर्गाणां तथैव च ।
मधुकैटभयोर्मेदःसङ्घातैर्दृढतां गता ॥ ७७ ॥

मेदिनी सर्वदा शुद्धा सुरपूजासु सर्वतः ।
अद्यापि सर्वे त्रिदशा न स्पृशन्ति पदा क्षितिम् ॥ ७८ ॥

न च स्वीयतनुच्छायां योजयन्ति च भूतले ।
तस्य दोषस्य मोक्षार्थं मन्त्रराजं लिखेत् क्षितौ ॥ ७९ ॥

प्रोक्षणाद् वीक्षणाद् वापि शुद्धा भवति मेदिनी ।
वीक्षणं धर्मबीजेन स्थण्डिलस्य समाचरेत् ॥ ८० ॥

दान्तो बलेन संयुक्तश्चूडाविन्दुसमन्वितः ।
धर्मबीजमिति प्रोक्तं धर्मकामार्थसाधनम् ॥ ८१ ॥

आदानं धारणं चैव तथा संस्थानपूजने ।
पूरणं संलिलेनैव निःक्षेपो गन्धपुष्पयोः ॥ ८२ ॥

मण्डलस्याथ विन्यासः पुनः पुष्पस्य संश्रयः ।
अमृतीकरण पात्रप्रतिपतीरियं नरः ॥ ८३ ॥

आनिरुद्धेन चादाय अस्त्रमन्त्रेण धारणम् ।
पात्रे तु मण्डलन्यासं वाग्बीजाग्रेण योजयेत् ॥ ८४ ॥

आनिरुद्धं भवेद्बीजमाद्यं बिन्दुद्वयोत्तरम् ।
फडन्तेनानिरुद्धं तु अस्त्रमन्त्रं प्रकीर्तितम् ॥ ८५ ॥

शम्भुराद्यवलः प्रान्तः अम्पूर्णा सहिता इमे ।
परतः परतः पूर्वं समाप्त्यन्ताः सबिन्दुकाः ॥ ८६ ॥

तृतीयं वाग्भवं बीजं सकलं निष्कलाह्वतम् ।
स्वरश्चतुर्थः सकलः संसृष्टौ बिन्दुनेन्दुना ॥ ८७ ॥

वर्गाद्यादिर्द्वितीयं तु वाग्भवं बीजमुच्यते ।
कामराजाह्वयं चैतद् धर्मकामार्थसाधनम् ॥ ८८ ॥

मनोभवस्य बीजं तु कुण्डलीशक्तिसंयुतम् ।
वासुदेवेन सम्पृक्तमाद्यं वाग्भवमुच्यते ॥ ८९ ॥

इदं सारस्वतं नाम यदाद्यं वाग्भवं स्मृतम् ।
एकैकं कामबीजादि त्रिभिस्तु त्रिपुरामहः ॥ ९० ॥

आद्यं तृतीयं सामीन्दुबिन्दुभ्यः समलङ्कृतम् ।
मदनस्य तु मन्त्रोऽयं कामभोगफलप्रदः ॥ ९१ ॥

औदेतोरूपविन्यस्तं यन्त्रं भास्करसन्निभम् ।
तद् वक्ष्ये कुण्डलीशक्तिमभेदात् तु निगद्यते ॥ ९२ ॥

भूतापसारणं कुर्यान्मन्त्रेणानेन याजकः ।
यस्मिन् कृते स्थानभूता ऊरं यान्ति सुरार्चने ॥ ९३ ॥

स्थितेषु तत्र भूतेषु नैवेद्यमण्डलं तथा ।
विलुम्पन्ति सदा लुब्धा न गृह्णन्ति च देवता ॥ ९४ ॥

तस्माद् यत्नेन कर्तव्यं भूतानामपसारणम् ।
अस्त्रमन्त्रेण सहितं तस्य मन्त्रमिदं स्मृतम् ॥ ९५ ॥

अपसर्पन्तु ते भूता ये भूता भूमिपालकः ।
भूतानामविरोधेन ऊजाकर्म करोम्यहम् ॥ ९६ ॥
मूलम्
अपसर्पन्तु ते भूता ये भूता भूमिपालकः ।
भूतानामविरोधेन ऊजाकर्म करोम्यहम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
अनेन स्थण्डिलाद् भूतानपसार्याथ साधकः ।
ततो दिग्बन्धनं कृत्वा दिग्भ्यस्तानपसारयेत् ॥ ९७ ॥

विष्णुबीजं फडन्तं तु मन्त्रं दिग्बन्धने स्थितम् ।
करेण होटिकापूर्वं वेष्टनं बन्धनं दिशः ॥ ९८ ॥

आत्मनः पूजनेनाथ कर्मारम्भाधिकारिता ।
पूजितं चासनं योगपीठस्य सदृशं भवेत् ॥ ९९ ॥

स्वभावतः सदा शुद्धं पञ्चभूतात्मकं वपुः ।
मलपूतिसमायुक्त श्लेषम्विण्मूत्रपिच्छिलम् ॥ १०० ॥

रेतोनिष्ठीवलालाभिः स्रवद्भिरपरिष्कृतम् ।
बीजभूतानि चैतस्य महाभूतानि पञ्च वै ॥ १०१ ॥

तेषां तु सर्वभूतानां बीजानां देहसङ्गिनाम् ।
वायुतेजःपृथिव्यम्भोवियतां शुद्धये क्रमात् ॥ १०२ ॥

शोषणं दहनं भस्मप्रोत्सादोऽमृतवर्षणम् ।
आप्लावनं च कर्तव्यं चिन्तामात्रविशुद्धये ॥ १०३ ॥

अण्डस्य चिन्तनाद् भेदात्तन्मध्ये देवचिन्तनात् ।
स्वकीयस्येष्टदेवस्य चिन्ता सर्वात्मना भवेत् ॥ १०४ ॥

सोऽहमित्यस्य सततं चिन्तनाद् देवरूपता ।
आत्मनो जायते सम्यक् संस्कृतिः पुष्पदानतः ॥ १०५ ॥

अहं देवोऽथ नैवेद्यं पुष्पगन्धादिकं च यत् ।
पूजोपकरणार्थं च देवत्वमिह जायते ॥ १०६ ॥

देवाधारो ह्यहं देवो देवं देवाय योजयेत् ।
सर्वेषां देवतासृष्ट्या जायते शुद्धतापि च ॥ १०७ ॥

मनोजीवात्मनोः शुद्धिः प्राणायामेन जायते ।
अन्तर्गतं यच्च मलं तच्च शुद्धं प्रजायते ॥ १०८ ॥

गृहे चेत् पूजयेद् देवं तदा तस्य विलोकनम् ।
कुर्यादादित्यबीजेन चतुःपार्श्वेष्वपि क्रमात् ॥ १०९ ॥

हान्तः समाप्तिसहितो वह्निबीजेन संहितः ।
उपान्तः सचतुर्थस्तु स तथा सकलोऽग्रतः ॥ ११० ॥

आदित्यबीजं कथितं सर्वरोगविनाशनम् ।
धर्मार्थकाममोक्षाणां कारणं तोषदायकम् ॥ १११ ॥

अशुद्धपक्षिसंयोग-पक्षिविष्ठाप्रसेचने ।
मूषिकाणां तथा स्पर्शः कृमिकीटादिसङ्गमः ॥ ११२ ॥

एवमादीनि नश्यन्ति लोकनाद् गृहदूषणम् ।
ततस्तु योगपीठस्य ध्यानं प्रथमतश्चरेत् ॥ ११३ ॥

ध्यानमात्रं योगपीठं प्रविशत्येव मण्डलम् ।
योगपीठे स्मृते सर्व योगपीठमय समम् ॥ ११४ ॥

न योगपीठादधिकं विद्यते परमासनम् ।
यस्य ध्यानाज्जगद् व्याप्तं सचराचरमानुषम् ॥ ११५ ॥

तच्चिन्तनस्य माहात्म्यं को वा वक्तुं समुत्सहेत् ।
चिन्तामात्रेण मानुष्यं पश्य शोकविनाशनम् ॥ ११६ ॥

धारणाद् योगपीठं तु चतुर्वर्गफलप्रदम् ।
शुद्धस्फटिकसङ्काशं चतुष्कोणं चतुर्वृतिम् ॥ ११७ ॥

आधारशक्त्या विहितं प्रग्रहं सूर्यसन्निभम् ।
आग्नेयादिषु कोणेषु चतुर्षु क्रमतः स्थितम् ॥ ११८ ॥

धर्मो ज्ञानं तथैश्वर्यं वैराग्यं क्रमतः सदा ।
पूर्वादिदिक्षु चैतानि स्थितानि क्रमतो यथा ॥ ११९ ॥

अधर्मश्च तथाज्ञानमनैश्वर्यं ततः परम् ।
अवैराग्यं परं तस्माद्धारणार्थं व्यवस्थितम् ॥ १२० ॥

तस्योपरि जलौघस्तु तस्मिन् ब्रह्माण्डमास्थितम् ।
ब्रह्माण्डाभ्यन्तरे तोयं कूर्मस्तस्योपरि स्थितः ॥ १२१ ॥

कूर्मोपरि तथानन्तः पृथ्वी तस्योपरि स्थिता ।
अनन्तगात्रसंयुक्तं नालं पातालगोचरम् ॥ १२२ ॥

पृथ्वीमध्ये स्थितं पद्मं दिक्पत्रं गिरिकेशरम् ।
तस्याष्टदिक्षु दिक्पालाः स्वर्गो मध्ये व्यवस्थितः ॥ १२३ ॥

कर्णिकायां ब्रह्मलोको महर्लोकादयो ह्यधः ।
स्वर्गे ज्योतीषिं देवाश्च चतुर्वेदास्तदन्तरे ॥ १२४ ॥

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
सदा स्थिताः पद्ममध्ये परं तत्त्वं तथैव च ॥ १२५ ॥

आत्मतत्त्वं तत्र संस्थमूर्ध्वच्छदनमूर्धतः ।
अधोऽधश्छदनं तत्र केशराग्रे स्थितं पुनः ॥ १२६ ॥

सूर्याग्निचन्द्रमरुता मण्डलानि क्रमात् ततः ।
शावासनं योगपीठे सुखासनमतः परे ॥ १२७ ॥

आराध्यासनमस्माच्च ततश्च विमलासनम् ।
मध्ये विचिन्तयेत् सर्वं जगद्वै सचराचरम् ॥ १२८ ॥

ब्रह्मविष्णुशिवांश्चैव भागत्रयविनिश्चितान् ।
आत्मानं चिन्तयेत् तत्र पूजने समुपस्थितम् ॥ १२९ ॥

मण्डलं योगपीठं तु पद्मं पद्मं तु चिन्तयेत् ।
शावादीन्यासनानीह चत्वार्यपि विचिन्तयेत् ॥ १३० ॥

योगपीठं पृथग्ध्यात्वा मण्डलेन सहैकताम् ।
पुनर्ध्यात्वा ततः पश्चात् पूजयेदासनं ततः ॥ १३१ ॥

ध्यानेन योगपीठस्य यथा यद्दीयते जलम् ।
नैवेद्यपुष्पधूपादि तत् स्वयं चोपतिष्ठते ॥ १३२ ॥

सर्वे देवाः सगन्धर्वाः सचराचरगुह्यकाः ।
चिन्तताः पूजिताश्च स्युर्योगपीठस्य पूजने ॥ १३३ ॥

अभीष्टदेवतापूजां विना यस्य विचिन्तनात् ।
लभते वै चतुर्वर्गं तुष्टिः पुष्ठिश्च जायते ॥ १३४ ॥

आवाहनानन्तरतः पाणिभ्यामवतारयेत् ।
प्रागुत्तानौ करौ कृत्वा ऊर्ध्वमुत्क्षिप्य सान्तरौ ॥ १३५ ॥

निरन्तरावधः कुर्यान्नामयन् पूजकस्तथा ।
हेरम्बस्य तु बीजेन तस्मादवतरेति च ॥ १३६ ॥

आम्रेडितेन चाभीष्टदेवानां लम्बनाय वै ।
नासिकावायुनिःसाराद्वियत्स्था देवना भवेत् ॥ १३७ ॥

एवं कृते मण्डले तु स्थितिस्तस्य प्रजायते ।
स्वान्तः शुद्धांशुबिन्दुभ्यां हैरम्बं बीजमुच्यते ॥ १३८ ॥

नाशनं विघ्नबीजानां धर्मकामार्थसाधनम् ।
गन्धपुष्पे तथा धूपदीपौ नैवेद्यमेव च ॥ १३९ ॥

यदन्यद् दीयते वस्त्रमलङ्कारादिकं च यत् ।
तेषां दैवतमुच्चार्य कृत्वा प्रोक्षणपूजने ॥ १४० ॥

उत्सृज्य मूलमन्त्रेण प्रतिनाम्ना निवेदयेत् ।
वरुणस्य तु बीजेन तेषां प्रोक्षणमाचरेत् ॥ १४१ ॥

ष्टेन मूलमन्त्रेण तथोत्सर्गनिवेदने ।
लपरश्चन्द्रबिन्दुभ्यां बीजं वारुणमुच्यते ॥ १४२ ॥

विलोकनं पूजनं च तथा दानं पृथक् पृथक् ।
जपकर्मणि मालायाः प्रतिपत्तिरिदं त्रयम् ॥ १४३ ॥

इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् ।
बीजं गाणपतं पूर्वमुच्चार्यं तदनन्तरम् ॥ १४४ ॥

अविघ्नं कुरु माले त्वं गृह्णीयादित्यनेन च ।
जपान्ते शिरसि न्यासो मालायाः परिकीर्तितः ॥ १४५ ॥

स्रजमादाय पाणिभ्यां श्रीबीजेन तथार्चयेत् ।
अन्त्यदन्त्यान्तमात्राभ्यां चादिवर्गतृतीयकौ ॥ १४६ ॥

परतः परतः पूर्वं श्रीबीजं बिन्दुनेन्दुना ।
मालाया अवतारस्तु शिरसः क्रियते तदा ॥ १४७ ॥

तां समादाय पाणिभ्यां कुर्यात् सारस्वतेन वै ।
श्रीबीजानामाद्यमाद्यं बिन्दुचन्द्रार्धसंयुतम् ॥ १४८ ॥

एतच्चतुष्टयं बीजं सारस्वतमुदीरितम् ।
पौराणिकैर्वैदिकैश्च मूलमन्त्रेण चैव हि ॥ १४९ ॥

प्रदक्षिणां प्रणामं च कुर्याद्धर्मार्थसाधकम् ।
भूमिं वीक्ष्य तथाभ्युक्ष्य क्षितिबीजेन पूर्वतः ॥ १५० ॥

स्पृशंस्तां शिरसा भूमिं प्रणमेदिष्टदेवताः ।
समाप्तिहीनं बाराहं बीजं बिन्द्विन्दुसंयुतम् ॥ १५१ ॥

क्षितिबीजं विजानीयाच्चतुर्वर्गप्रदायकम् ।
दर्पणं व्यजनं घण्टां चामरं प्रोक्षयेत् पुनः ॥ १५२ ॥

नैवेद्यालोकमन्त्रेण पूर्वप्रोक्तेन भैरव ।
नामाक्षराणि चाद्यानि चैतेषां बिन्दुनेन्दुना ॥ १५३ ॥

तस्मै नम इति प्रान्ते गहणे मन्त्र उच्यते ।
निवेदनमथैतेषामिष्टमन्त्रेण चाचरेत् ॥ १५४ ॥

वाग्भवस्य द्वितीयेन कामबीजेन भैरव ।
मुद्राया बन्धनं कार्यं मूलमन्त्रेण दर्शनम् ॥ १५५ ॥

परित्यागं तु मुद्रायास्ताराबीजेन चाचरेत् । प्रान्तादिश्चन्द्रबिन्दुभ्यां
षष्ठस्वरसमन्वितः ॥ १५६ ॥

ताराबीजमिति प्रोक्तं धर्मकामार्थसाधनम् ।
मुदं ददाति यस्मात् सा मुद्रा तेन प्रकीर्तिता ॥ १५७ ॥

दर्शितायां तु मुद्रायां भवेत् पूजासमापनम् ।
कामं मोक्षं तथा धर्ममर्थमोदयुता स्वयम् ॥ १५८ ॥

ददाति साधकायाशु देवता गन्तुमुत्सुका ।
मुद्रान्ते तु महामन्त्रान् षडिमान् समुदीरयेत् ॥ १५९ ॥

यद् दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् ।
आवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ॥ १६० ॥

आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाभावं न जानामि त्वं गतिः परमेश्वरि ॥ १६१ ॥

कर्मणा मनसा वाचा त्वत्तो आन्यं गतिर्मम ।
अन्तश्चरेण भूतानां त्वम् अतिः परमेश्वरि ॥ १६२ ॥

मातर्योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वच्युता भक्तिरच्युतेऽस्तु सदा त्वयि ॥ १६३ ॥

एवी दात्री च भोक्त्री च देवी सर्वमिदं जगत् ।
देवी जयति सर्वत्र या देवी सोऽहमेव च ॥ १६४ ॥

यदक्षरपरिभ्रष्टं मात्राहीनं च यद् भवेत् ।
तत्सर्वं क्षम्यतां देवि कस्य न स्खलितं मनः ॥ १६५ ॥

मन्त्रेषु पठितेष्वेषु स्वयमेव प्रसीदति ।
दातुं देवीं चतुर्वर्गं न चिरादेव भैरव ॥ १६६ ॥

ऐशान्यां मण्डलं कुर्याद् द्वारपद्मविवर्जितम् ।
विसर्जनार्थं निर्माल्यधारिण्याः पूजनाय वै ॥ १६७ ॥

पाद्मादिभिः पूजयित्वा ध्यात्वा निर्माल्यधारिणीम् ।
निःक्षिप्य तस्मिन् निर्माल्यं मन्त्रेण तु विसर्जयेत् ॥ १६८ ॥

गच्छ गच्छ परं स्थानं स्वस्थानं परमेश्वरि ।
यत्र ब्रह्मादयो देवा न विदुः परमं पदम् ॥ १६९ ॥

विसृज्य मन्त्रेणानेन ततः पूरकवायुना ।
ध्यायंस्तु मन्त्रेणानेन नत्वा तां स्थापयेद्धृदि ॥ १७० ॥

तिष्ठ देवि परे स्थाने स्वस्थाने परमेश्वरि ।
यत्र ब्रह्मादयः सर्वे सुरास्तिष्ठन्ति मे हृदि ॥ १७१ ॥

तत एकजटाबीजैरिष्टदेवीं धिया स्मरन् ।
निर्माल्यं मूर्ध्नि गृह्णीयाद् धर्मकामार्थसाधनम् ॥ १७२ ॥

मण्डलप्रतिपतीं तु ततः कुर्याद् विभूतये ।
सर्वाङ्गुलीनामग्रौधैः पद्ममष्टदलान्वितम् ॥ १७३ ॥

निर्मन्थेत् क्षितिबीजेन मण्डलं चापि भैरव ।
ततस्तु मूलमन्त्रेण सर्ववश्येन वा पुनः ॥ १७४ ॥

अनामिकानामग्रेण ललाटमपि संस्पृशेत् ।
समाप्तिसहितः प्रान्तस्ताराबीजं ततः परम् ॥ १७५ ॥

स्मरबीजं विसर्गेण परतः परतः परम् ।
भबेदेकजटाबीजं धर्मकामार्थसाधनम् ॥ १७६ ॥
मूलम्
स्मरबीजं विसर्गेण परतः परतः परम् ।
भबेदेकजटाबीजं धर्मकामार्थसाधनम् ॥ १७६ ॥
विश्वास-प्रस्तुतिः
ततो भास्करबीजेन सहितेनात्मना पुनः ।
मन्त्रेण भास्करायार्धमच्छिद्रार्थं निवेदयेत् ॥ १७७ ॥

नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे ।
जगत्सवित्रे शुचये सवित्रे कर्मदायिने ॥ १७८ ॥

ततः कृताञ्जलिर्भूत्वा पठित्वा मन्त्रमीरितम् ।
एकाग्रमनसा वाग्भिरच्छिद्रमवधारयेत् ॥ १७९ ॥

यज्ञच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम ।
सर्वं तदच्छिद्रमस्तु भास्करस्य प्रसादतः ॥ १८० ॥

ततस्तु पुष्पनैवेद्य तोयपात्रादिकं च यत् ।
देवीबीजेन तत्सर्वं पुनरेव विलोकयेत् ॥ १८१ ॥

हस्तेन चक्षुषा वापि यत्र यत्र कृतः पुरा ।
मन्त्रन्यासस्तत्र तत्र विसृष्टिरमुना भवेत् ॥ १८२ ॥

प्रान्तादिपञ्चमो वह्निबीजषष्ठस्वराहितः ।
तथोपान्तं वाग्भवाद्यं दुर्गाबीजं प्रचक्षते ॥ १८३ ॥

स्थण्डिले ज्वलदग्नौ च तोये सूर्यमरीचिषु ।
प्रतिमासु च शुद्धासु शालग्रामशिलासु च ॥ १८४ ॥

शिवलिङ्गे शिलायां तु पूजा कार्या विभूतये ।
सर्वत्र मण्डलन्यासं कुर्यादेकाग्रमानसः ॥ १८५ ॥

योगपीठस्य बीजेन स्थण्डिलादिषु साधकः ।
वासुदेवस्य रुद्रस्य ब्रह्मणो मिहिरस्य च ॥ १८६ ॥

कुर्यात् सर्वत्र पूजासु प्रतिपत्तिमिमां बुधः ।
एवं यः पूजयेद् विष्णुममीभिः प्रतिपत्तिभिः ॥ १८७ ॥

चतुर्वर्गप्रदस्तस्य न चिराज्जायते हरिः ।
शिवो वा मिहिरो वापि येऽन्ये लम्बोदरादयः ॥ १८७ ॥

प्रसीदन्ति सुराः सर्वे पूजाया विधिनामुना ।
विशेषतो महादेवी महामाया जगन्मयी ॥ १८९ ॥

प्रतिपत्तिमिमां नित्यं स्पृहयत्येव पूजने ।
एवं यः कुरुते पूजां सम्यक् स फलभाग्भवेत् ॥ १९० ॥

एतैर्विहीना या पूजा अतोऽल्पाल्पं फलं भवेत् ।
अङ्गहीनस्तु पुरुषो न सम्यग्याझिको यथा ॥ १९१ ॥

अङ्गहीना तथा पूजा न सम्यक् फलभाग्भवेत् ।
इदं रहस्यं परममिदं स्वस्त्ययनं परम् ।
मन्त्रवेदमयं शुद्धं सर्वपापप्रणाशनम् ॥ १९२ ॥

यः श्रावयेद् ब्राह्मणसन्निधाने
श्राद्धेषु यज्ञे सुरपूजनेषु ।
सम्यक् फलं तस्य लभेत् स कर्मणो
विनापि पूजां तदनन्तमश्नुते ॥ १९३ ॥
मूलम्
यः श्रावयेद् ब्राह्मणसन्निधाने
श्राद्धेषु यज्ञे सुरपूजनेषु ।
सम्यक् फलं तस्य लभेत् स कर्मणो
विनापि पूजां तदनन्तमश्नुते ॥ १९३ ॥
विश्वास-प्रस्तुतिः
इति श्रीकालिकापुराणे उत्तरतन्त्रे अप्तपञ्चाशोऽध्यायः ॥ ५७ ॥