५६

विश्वास-प्रस्तुतिः

षट्पञ्चाशोऽध्यायः

श्रीभगवानुवाच

अस्य मन्त्रस्य कवचं शृणु वेतालभैरव ।
वैष्णवीतन्त्रसञ्ज्ञस्य वैष्णव्याश्च विशेषतः ॥ १ ॥

मूलम्

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपधृक् ।
वर्णो द्वितीयो ब्रह्मैव तृतीयश्चन्द्रशेखरः ॥ २ ॥

चतुर्थो गजवक्त्रश्च पञ्चमस्तु दिवाकरः ।
शक्तिः स्वयं पकारश्च महामाया जगन्मयी ॥ ३ ॥

यकारस्तु महालक्ष्मीः शेषवर्णः सरस्वतो ।
योगिनीपूर्ववर्णस्य शैलपुत्री प्रकीर्तिता ॥ ४ ॥

द्वितीयस्य तु वर्णस्य चण्डिका योगिनी मता ।
चन्द्रघण्टा तृतीयस्य कुष्माण्डी तत् परस्य च ॥ ५ ॥

स्कन्दमाता तकारस्य पस्य कात्यायनी स्वयम् ।
कालरात्रिः सप्तमस्य महादेवीति संस्थिता ॥ ६ ॥

प्रथमं वर्णकवचं योगिनीकवचं तथा ।
देवौघकवचं पश्चाद् देवीदिक्कवचं तथा ॥ ७ ॥

ततस्तु पार्श्वकवचं द्वितीयान्ताव्ययस्य च ।
कवचं तु ततः पश्चात् षड्वर्णं कवचं तथा ॥ ८ ॥

अभेद्यकवचं चेति सर्वत्राणपरायणम् ।
इमानि कवचान्यष्टौ यो जानाति नरोत्तमः ॥ ९ ॥

सोऽहमेव महादेवी देवीरूपश्च शक्तिमान् ।
अस्य वैष्णवीतन्त्रकवचस्य आरद-ऋषिअनुष्।उप्छन्दः ॥ १० ॥

कात्यायनी देवता सर्वकामार्थसाधने विनियोगः ।
अः पातु पूर्वकाष्ठायामाग्नेय्यां पातु कः सदा ॥ ११ ॥

पातु चो यमकाष्ठायां दो नै-ऋत्यां च सर्वदा ।
मां पातु तोऽसौ पाश्चात्ये शक्तिर्वायव्यदिग्गता ॥ १२ ॥

यः पातु मां चोत्तरस्यामैशान्याम् अस्तथावतु ।

मूध्नि रक्षतु मां सोऽसौ बाहौ मां दक्षिणे तु कः ॥ १३ ॥

मां वामबाहौ चः पातु हृदि टो मां सदावतु ।
तः पातु कण्ठदेशे मां कट्योः शक्तिस्तथावतु ॥ १४ ॥

यः पातु दक्षिणे पादे षो मां वामपादे तथा ।
शैलपुत्री तु पूर्वस्यामाग्नेय्यां पातु चण्डिका ॥ १५ ॥

चन्द्रघण्टा पातु याम्याम् अमभीतिविवर्धिनी ।
नैर्-ऋत्ये त्वथ कूष्माण्डी पातु मां जगतां प्रसूः ॥ १६ ॥

स्कन्दमाता पश्चिमायां मां रक्षतु सदैव हि ।
कात्यायनी मां वायव्ये पातु लोकेश्वरी सदा ॥ १७ ॥

कालरात्री तु कौबेर्यां सदा रक्षतु मां स्वयम् ।
महागौरी तथैशान्यां सततं पातु पावनी ॥ १८ ॥

नेत्रयोर्वासुदेवो मां पातु नित्यं सनातनः ।
ब्रह्मा मां पातु वदने पद्मयोनिरयोनिजः ॥ १९ ॥

नासाभागे रक्षतु मां सर्वदा चन्द्रशेखरः ।
गजवक्त्रः स्तनयुग्मे पातु नित्यं हरात्मजः ॥ २० ॥

वामदक्षिणपाण्योर्मां नित्यं पातु दिवाकरः ।
महामाया स्वयं नाभौ मां पातु परमेश्वरी ॥ २१ ॥

महालक्ष्मीः पातु गुह्ये जानुनोश्च सरस्वती ।

महामाया पूर्वभागे नित्यं रक्षतु मां शुभा ॥ २२ ॥

अग्निज्वाला तथाग्नेय्यां पायान्नित्यं वरासिनी ।
रुद्राणी पातु मां याम्यां नैर्-ऋत्यां चण्डनायिका ॥ २३ ॥

उग्रचण्डा पश्चिमायां पातु नित्यं महेश्वरी ।
प्रचण्डा पातु वायव्ये कौबेर्यां घोररूपिणी ॥ २४ ॥

ईश्वरी च तथैशान्यां पातु नित्यं सनातनी ।
ऊर्ध्वं पातु महामाया पात्वधः परमेश्वरी ॥ २५ ॥

अग्रतः पातु मामुग्रा पृष्ठतो वैष्णवी तथा ।
ब्रह्माणी दक्षिणे पार्श्वे नित्यं रक्षतु शोभना ॥ २६ ॥

माहेश्वरी वामपार्श्वे नित्यं पायाद् वृषध्वजा ।
कौमारी पर्वते पातु वाराही सलिले च माम् ॥ २७ ॥

नारसिंही दंष्टिभये पातु मां विपिनेषु च ।
ऐन्द्री मां पातु चाकाशे तथा सर्वजले स्थले ॥ २८ ॥

सेतुः सर्वाङ्गुलीः पातु देवादिः पातु कर्णयोः ।
देवान्तश्चिबुके पातु पार्श्वयोः शक्तिपञ्चमः ॥ २९ ॥

हा पातु मां तथैवोर्वोर्माया रक्षतु जङ्घयोः ।
सर्वैन्द्रियाणि यः पातु रोमकूपेषु अर्वदा ॥ ३० ॥

त्वचि मां वै सदा पातु मां शम्भुः पातु सर्वदा ।
नखदन्तकरोष्ठादौ राँ मां पातु सदैव हि ॥ ३१ ॥

देवादिः पातु मां वस्तौ देवान्तः स्तनकक्षयोः ।
एतदादौ तु यः सेतुर्बाह्ये मां पातु देहतः ॥ ३२ ॥

आज्ञाचक्रे सुषम्नायां षट्चक्रे हृदि सन्धिषु ।
आदिषोडशचक्रे च ललाटाकाश एव च ॥ ३३ ॥

वैष्णवी तन्त्रमन्त्रो मां नित्यं रक्षंश्च तिष्ठतु ।
अर्णनाडीषु सर्वासु पार्श्वकक्षशिखासु च ॥ ३४ ॥

३४ ॥
विश्वास-प्रस्तुतिः

रुधिरस्नायुमज्जासु मस्तिष्केषु च पर्वसु ।
द्वितीयाष्टाक्षरो मन्त्रः कवचं पातु सर्वतः ॥ ३५ ॥

रेतो वायौ नाभिरन्ध्रे पृष्ठसन्धिषु सर्वतः ।
षडक्षरस्तृतीयोऽयं मन्त्रो मां पातु सर्वदा ॥ ३६ ॥

नासारन्ध्रे महामाया कण्ठरन्ध्रे तु वैष्णवी ।
सर्वसन्धिषु मां पातु दुर्गा दुर्गार्तिहारिणी ॥ ३७ ॥

श्रोत्रयोर्हूं फडित्येवं नित्यं रक्षतु कालिका ।
नेत्रबीजत्रयं नेत्रे सदा तिष्ठतु अक्षितुम् ॥ ३८ ॥

ॐ ऐं ह्रीं ह्रौ नासिकायां रक्षन्ती चास्तु चण्डिका ।
ॐ ह्रीं हूं मां सदा तारा जिह्वामूले तु तिष्ठतु ॥ ३९ ॥

हृदि तिष्ठतु मे सेतुर्ज्ञानं रक्षितुमुत्तमम् ।
ॐ क्षौं फट् च महामाया पातु मां सर्वतः सदा ॥ ४० ॥

ॐ युँ सः प्राणान् कौशिकी मां प्राणान् रक्षतु रक्षिका ।
ॐ ह्रीं हूं सौं भर्गदैता देहशून्येषु पातु माम् ॥ ४१ ॥

ॐ अमः सदा शैलपुत्री सर्वान् रोगान् प्रमृज्यताम् ।
ॐ ह्रीं सः स्फें क्षः फडस्त्राय सिंहव्याघ्रभयाद्रणात् ॥ ४२ ॥

शिवदूती पातु नित्यं ह्रीं सर्वास्त्रेषु तिष्ठतु ।
ॐ हां हीं सश्चण्डघण्टा कर्णच्छिद्रेषु पातु माम् ॥ ४३ ॥

ॐ क्रीं सः कामेश्वरी कामानभितिष्ठतु रक्षतु ।
ॐ आं हूं फडुग्रचण्डा रिपून् विघ्नान् वमर्दताम् ॥ ४४ ॥

ॐ पं पातु नारसिंही मां क्रव्यादेभ्यस्रयास्त्रतः ।
ॐ श्रीं ह्रीं ह्राँ ह्रँ कालरात्रिः खड्गाद्रक्षतु मां सदा ॥ ४५ ॥

ओ अं शूलात् पातु नित्यं वैष्णवी जगदीश्वरी ।
ॐ कं ब्रह्माणी पातु चक्रात् (ॐ) चं रुद्राणी तु शक्तितः ॥ ४५ ॥

ॐ टं कौमारी पातु वज्रात् ॐ तं वाराही तु काण्डतः ।
ॐ पं पातु नारसिंही मां क्रव्यादेभ्यस्तथास्त्रतः ॥ ४६ ॥

शस्त्रास्त्रेभ्यः समस्तेभ्यो यन्त्रेभ्योऽनिष्टमन्त्रतः ।
चण्डिकां मां सदा पातु य सं देव्यै नमो नमः ।
विश्वासघातकेभ्यो मामैन्द्री रक्षतु मन्मनः ॥ ४७ ॥

ॐ नमो महामायायै ॐ वैष्णव्यै नमो नमः ।
रक्ष मां सर्वभूतेभ्यः सर्वत्र परमेश्वरि ॥ ४८ ॥

आधारे वायुमार्गे हृदि कमलदले चन्द्रवत् स्मेरसूर्ये ।
वस्तौ वह्नौ समिद्धे विशतु वरदया मन्त्रमष्टाक्षरन्तत् ।
यद्ब्रह्मा मूर्ध्नि धत्ते हरिरवति गले चन्द्रचूडो हृदिस्थम् ।
तं मां पातु प्रधानं निखिलमतिशयं पद्मगर्भाभबीजम् ॥ ४९ ॥

आद्याः शेषाः स्वरौघैर्मायवलवरैरस्वरेणापियुक्तैः
सानुस्वाराविसर्गैर्हरिहरविदितं यत्सहस्रं च साष्टम् ।
अन्त्राणां सेतुबन्धं निवसति सततं वैष्णवीतन्त्रमन्त्रे
तन्मां पायात्पवित्रं परमपरमजं हूतलव्योमभागे ॥ ५० ॥

अङ्गान्यष्टौ तथाष्टौ वसव इह तथैवाष्टमूर्तिर्दलानि प्रोक्तान्यष्टौ
तथाष्टौ मधुमतिरचिताः सिद्धयोऽष्टौ तथैव ।
अष्टावष्टाष्टसङ्ख्या जगति रतिकलाः क्षिप्रकाष्ठाङ्गयोगा
मय्यष्टावक्षराणि क्षरतु न हि गणो यद्धृदो यस्त्वमूषाम् ॥ ५१ ॥

इयि तत्कवचं प्रोक्तं धर्मकामार्थसाधनम् ।इदं रहस्य परममिदं
सर्वार्थसाधकम् ॥ ५२ ॥

यः सकृच्छृणुयादेतत् कवचं मयकोदितम् ।
स सर्वांल्लभते कामान् परत्र शिवरूपताम् ॥ ५३ ॥

सकृद् यस्तु पठेदेतत् कवचं मयकोदितम् ।
स सर्वयज्ञस्य फलं लभते नात्र संशयः ॥ ५४ ॥

सङ्ग्रामेषु जयेच्छत्रुं मातङ्गानिव केशरी ।
दहेत् तृणं यथावह्निस्तथा शत्रुं दहेत् सदा ॥ ५५ ॥

नास्त्राणि तस्य शस्त्राणि शरीरे प्रविशन्ति वै ।
न तस्य जायते व्याधिर्न च दुःखं कदाचन ॥ ५६ ॥

गुटिकाञ्जनपातालपादलेपरसाञ्जनम् ।
उच्चाटनाद्यास्ताः सर्वाः प्रसीदन्ति च सिद्धयः ॥ ५७ ॥

वायोरिव गतिस्तस्य भवेदन्यैरवारिता ।
दीर्घायुः काम्भोगी च धनवानभिजायते ॥ ५८ ॥

अष्टम्यां संयतो भूत्वा नवम्यां विधिवच्छिवाम् ।
पूजयित्वा विधानेन विचिन्त्य मनमा शिवाम् ॥ ५९ ॥

यो न्यसेत् कवचं देहे तस्य पुण्यफल शृणु ।

जितव्याधिः शतायुश्च रूपवान् गुणवान् सदा ॥ ६० ॥

धनरत्नौघसम्पूर्णो विद्यावान् स च जायते ।
नाग्निर्दहति तत्कायं नापः सङ्क्लेदयन्ति च ॥ ६१ ॥

न शोषयति तं वायुः रव्यात् तं न हिनस्ति च ।
शस्त्राणि नैनं छिन्दन्ति न तापयति भास्करः ॥ ६२ ॥

न तस्य जायते विघ्नो नास्ति तस्य च सञ्ज्वरः ।
वेतालाश्च पिशाचाश्च राक्षसा गणनायकाः ॥ ६३ ॥

सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः ।
नित्यं पठति यो भक्त्या कवचं हरिनिर्मितम् ॥ ६४ ॥

सोऽहमेव महादेवो महामाया च मातृका ।
धर्मार्थकाममोक्षाश्च तस्य नित्यं करे स्थिताः ॥ ६५ ॥

अन्यस्य वरदः सोऽर्थैर्नित्यं भवति पण्डितः ।
कवित्वं सत्यवादित्वं सततं तस्य जायते ॥ ६६ ॥

वदेच्च्लोकसहस्राणि भवेच्च्रुतिधरस्तथा ।
लिखितं यस्य गेहे तु कवचं भैरव स्थितम् ॥ ६७ ॥

न तस्य दुर्गतिः क्वापि जायते तस्य दूषणम् ।
ग्रहाश्च सर्वे तुष्यन्ति वशं गच्छन्ति भूमिपाः ॥ ६८ ॥

यद्राज्ये कवचज्ञोऽस्ति जायन्ते तत्र नेतयः ।

सेतुर्देवः शक्तिबीजं पञ्चमोहाय ते नमः ॥ ६९ ॥

वायुर्बलेन चैतायै द्वितीयाष्टाक्षरं त्विदम् ।
सेतुर्देवोऽठ वैष्णव्यै षडक्षरमिदं स्मृतम् ॥ ७० ॥

एतद् द्वयं तु जिह्वाग्रे सततं यस्य वर्तते ।
तस्य देवी महामाया काये तिष्ठति वै सदा ॥ ७१ ॥

मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः ।
षरत्यनोङ्कृतः पूर्वं परस्ताच्च विशीर्यते ॥ ७२ ॥

नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः ।
द्विजातीनामयं मन्त्रः शूद्राणां सर्वकर्मणि ॥ ७३ ॥

अकार चात्युकारं च मकारं च प्रजापतिः ।
वेदत्रयात्समुद्धृत्य प्रणवं निर्ममे पुरा ॥ ७४ ॥

स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः ।
प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् ॥ ७५ ॥

चतुर्दशस्वरो योऽसौ शेष औकारसञ्ज्ञकः ।
स चानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते ॥ ७६ ॥

निःसेतु च यथा तोयं क्षणान्निम्नं प्रसर्पति ।
मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् ॥ ७७ ॥

तस्मात् सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजातयः ।
पार्श्वयोः सेतुमादाय जतकर्मसमारभेत् ॥ ७८ ॥

शूद्राणामादिसेतुर्वा द्विःसेतुर्वा यथेच्छतः ।
द्विःसेतवः समाख्याताः सर्वदैव द्विजातयः ॥ ७९ ॥

और्व उवाच

एतत् ते सर्वमाख्यातं कवचं त्र्यम्बकोदितम् ।
अभेद्यं कवचं तत् तु कवचाष्टकमुत्तमम् ॥ ८० ॥

महामायामन्त्रकल्पं कवचम् अन्त्रसंयुतम् ।
षडक्षरसमायुक्तं त्रिषु लोकेषु दुर्लभम् ॥ ८१ ॥

एतत् त्वं नृपषार्दूल नित्यभक्तियुतः पठन् ।
जपन् मन्त्रं च वैष्णव्याः सर्वसिद्धिमवाप्स्यसि ॥ ८२ ॥

इति श्रीकालिकापुराणे महामायामन्त्रकल्पे (कवचं)
नामसट्पञ्चाशोऽध्यायः ॥ ५६ ॥