५५

पञ्चपञ्चाशोऽध्यायः

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

बलिदानं ततः पश्चात् कुर्याद् देव्याः प्रमोदकम् ।
मोदकैर्गजवक्त्रं च हविषा तोषयेद्रविम् ॥ १ ॥

मूलम्

तौर्यत्रिकैश्च नियमैः शङ्करं तोषयेद्धरिम् ।
चण्डिकां बलिदानेन तोषयेत् साधकः सदा ॥ २ ॥

पक्षिणः कच्छपा ग्राहाश्छागलाश्च वराहकाः ।
महिषो गोधिकाशोषा तथा नवविधा मृगाः ॥ ३ ॥

चामरः कृष्णसारश्च शशः पञ्चाननस्तथा ।
मत्स्याः स्वगात्ररुधिरैश्चाष्टधा बलयो मताः ॥ ४ ॥

अभावे च तथैवैषां कदाचिद्धयहस्तिनौ ।
छागलाः शरभाश्चैव नरश्चैव यथाक्रमात् ॥ ५ ॥

बलिर्महाबलिरिति बलयः परिकीर्तिताः ।

स्नापयित्वा बलिं तत्र पुष्पचन्दनधूपकैः ॥ ६ ॥

विश्वास-प्रस्तुतिः

पूजयेत् साधको देवीं बलिमन्त्रैर्मुहुर्मुहुः ।
उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं तथा ॥ ७ ॥

निरीक्ष्य साधकः पश्चादिमं मन्त्रमुदीरयेत् ।
वरस्त्वं बलिरूपेण मम भाग्यादुपस्थितः ॥ ८ ॥

प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् ।
चण्डिकां प्रीतिदानेन दातुरापद्विनाशनः ॥ ९ ॥

वैष्णवीबलिरूपाय बले तुभ्यं नमो नमः ।
यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा ॥ १० ॥

अतस्त्वां घातयाम्यद्य तस्माद् यज्ञे वधोऽवधः ।

(ॐ) ऐं ह्रीं श्रीम् इति मन्त्रेण तं बलिं कामरूपिणम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

चिन्तयित्वा न्यसेत् पुष्पं मूर्ध्नि तस्य च भैरव ।
ततो देवीं समुद्दिश्य काममुद्दिश्य चात्मनः ॥ १२ ॥

अभिषिच्य बलिं पश्चात् करवालं प्रपूजयेत् ।
रसना त्वं चण्डिकायाः सुरलोकप्रसाधकः ॥ १३ ॥

इं ह्रीं श्रीमिति मन्त्रेण ध्यात्वा खड्गं प्रपूजयेत् ।
कृष्णं पिनाकपाणिं च कालरात्रिस्वरूपिणम् ॥ १४ ॥

उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् ।
रक्ताम्बरधरं चैकं पाशहस्तं कुटुम्बिनम् ॥ १५ ॥

पीयमानं च रुधिरं भुञ्जानं क्रव्यसंहतिम् ।

असिर्विशसनः खड्गस्तीक्ष्णधरो दुरासदः ॥ १६ ॥

विश्वास-प्रस्तुतिः

स्रीगर्वो विजयश्चैव धर्मपाल नमोऽस्तु ते ।
पूजयित्वा ततः खड्गं ॐ अं ह्रीं फडितिमन्त्रकैः ॥ १७ ॥

गृहीत्वा विमलं खड्गं छेदयेद् बलिमुत्तमम् ।
ततो बलीनां रुधिरं तोयसैन्धवसत्फलैः ॥ १८ ॥

मधुभिर्गन्धपुष्पैश्च अधिवास्य प्रयत्नतः ।
ॐ ऐं ह्रीं श्रीं कौशिकीति रुधिरं दापयामि ते ॥ १९ ॥

स्थाने नियोजयेद्रक्तं शिरश्च सप्रदीपकम् ।
एवं दत्त्वा बलिं पूर्णं फलं प्राप्नोति साधकः ॥ २० ॥

हीनं स्याद्धीनतामूलं निष्फलं स्याद् विपर्ययात् ।
बलिदाने तु दुर्गाया अन्यत्रापि विधिः सदा ॥ २१ ॥

अयमेव प्रयोक्तव्यः सद्भिर्वेतालभैरवौ ।
जपं समारभेत् पश्चात् पूर्ववद्ध्यानमास्थितः ॥ २२ ॥

हस्तेन स्रजमादाय चिन्तयेन्मनसा शिवाम् ।
चिन्तयित्वा गुरुं मूर्ध्नि यथा वर्णादिकं भवेत् ॥ २३ ॥

मन्त्रं च कण्ठतो ध्यात्वा सितवर्णं हिरण्मयम् ।
महामायां च हृदये आत्मानं गुरुपादयोः ॥ २४ ॥

अचक्षेत ततः पश्चाद् गुरोर्मन्त्रस्य चात्मनः ।
देव्याश्चाप्येकतां ध्यात्वा सुषुम्नावर्त्मना ततः ॥ २५ ॥

तत्त्वस्वरूपमेकं तु षट्चक्रं प्रति लम्बयेत् ।
षट्चक्रेऽपि महामायां क्षणं ध्यात्वा प्रयत्नतः ॥ २६ ॥

लम्बयेन्मूलमात्रेण वादिषोडशचक्रकम् ।

आदिषोडशचक्रस्थां साधकानन्दकारिणीम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

इन्तयन् साधको देवीं जपकर्म समारभेत् ।
भ्रवोरुपरि नाडीनां त्रयाणां प्रान्त उच्यते ॥ २८ ॥

तत्प्रान्तं त्रिपथस्थानं षट्कोणं चतुरङ्गुलम् ।
रक्तवर्णं तु योगज्ञैराज्ञाचक्रमितीर्यते ॥ २९ ॥

कण्ठे त्रयाणां नाडीनां वेष्ठनं विद्यते नृणाम् ।
सुषुम्नेडापिङ्गलानां षट्कोणं तत्षडङ्गुलम् ॥ ३० ॥

तत् षट्चक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्यगम् ।
त्रयाणामथ नाडीनां हृदये चैकता भवेत् ॥ ३१ ॥

तत्स्थानं षोडशारं स्यात् सप्ताङ्गुलप्रमाणतः ।
अत्प्रयुक्तं तु योजज्ञैरादिषोडशचक्रकम् ॥ ३२ ॥

ध्यानानामथ मन्त्राणां चिन्तनस्य जपस्य च ।
यस्मादाद्यं तु हृदयं तस्मादादीति गद्यते ॥ ३३ ॥

जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः ।
निधाय मण्डलस्यान्तः सव्यहस्तगतां च वा ॥ ३४ ॥

ॐ माले माले महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ ३५ ॥

पूजयित्वा ततो मालाम् ऋह्णीयाद् दक्षिणे करे ।
मध्यमाया मध्यभागे वर्जयित्वाथ तर्जनीम् ॥ ३६ ॥

अनामिकाकनिष्ठाभ्यां युताया नम्रभागतः ।
स्थापयित्वा तत्र मालामङ्गुष्ठाग्रेण तद्गतम् ॥ ३७ ॥

प्रत्येकं बीजमादाय जप्यादर्धेन भैरव ।
प्रतिवारं पठेन्मन्त्रं शनैरोष्ठं च चालयेत् ॥ ३८ ॥

मालाबीजं तु जप्तव्यं स्पृशेन्नहि परस्परम् ।
पूर्वजापप्रयुक्तेन नैवाङ्गुष्ठेन भैरव ॥ ३९ ॥

पूर्वबीजं जपन् यस्तु परबीजं च संस्पृशेत् ।
अङ्गुष्ठेन भवेत् तस्य निष्फलस्तस्य तज्जपः ॥ ४० ॥

मालां स्वहृदयासन्ने धृत्वा दक्षिणपाणिना ।
देवीं विचिन्तयन् जप्यं कुर्याद् वामेन न स्पृशेत् ॥ ४१ ॥

स्फटिकेन्द्राक्षरुद्राक्षैः पुत्रञ्जीवसमुद्भवैः ।
सुवर्णमणिभिः सम्यक् प्रवालैरथवाब्जजैः ॥ ४२ ॥

अक्षमाला तु कर्तव्या देवीप्रीतिकरी परा ।
जपेदुपांशु सततं कुशग्रन्थ्याथ पाणिना ॥ ४३ ॥

मालाबीजेषु सर्वेषु रुद्राक्षो मत्प्रियाप्रियः ।
रुद्रप्रीतिकरी यस्मात् तेन रुद्राक्षरोचनी ॥ ४४ ॥

प्रवालैरथवा कुर्यादष्टाविंशतिबीजकैः ।
पञ्चपञ्चाशता वापि न न्यूनैरधिकैश्च वा ॥ ४५ ॥

रुद्राक्षर्यदि जप्येत इन्द्राक्षैः फटिकैस्तथा ।
नान्यं मध्ये प्रयोक्तव्यं पुत्रञ्जीवादिकं च यत् ॥ ४६ ॥

यद्यन्यत् तु प्रयुज्येत मालायां जपकर्मणि ।
तस्य कामं च मोक्षं च ददाति न प्रियङ्करी ॥ ४७ ॥

मिश्रीभावं ततो याति चाण्डालैः पापकर्मभिः ।
जन्मान्तरे जायते स वेदवेदाङ्गपारगः ॥ ४८ ॥

एको मेरुस्तत्र देयः सर्वेभ्यः स्थूलसम्भवः ।
आद्यं स्थूलं ततस्तस्माद् न्यूनं न्यूनतरं तथा ॥ ४९ ॥

विन्यसेत् क्रतस्तस्मात् सर्पाकारा हि सा यतः ।
ब्रह्मग्रन्थियुतं कुर्यात् प्रतिबीजं यथाश्तितम् ॥ ५० ॥

अथवा ग्रन्थिरहितं दृढरज्जुसमन्वितम् ।
विरावृत्याथ मध्येन चार्धवृत्यान्तदेशतः ॥ ५१ ॥

ग्रन्थिः प्रदक्षिणावर्तः स ब्रह्मग्रन्थिसञ्ज्ञकः ।
अत्मना योजयेन्मालां नामन्त्रो योजयेन्नरः ॥ ५२ ॥

दृढं सूत्रं नियुञ्जीत जपे त्रुट्यति नो यथा ।
यथा हस्तान्न च्यवेत जपतः स्रक् तमाचरेत् ॥ ५३ ॥

हस्तच्युतायां विघ्नं स्याच्छिन्नायां मरणं भवेत् ।
एवं यः कुरुते मालां जपं च जपकोविदः ॥ ५४ ॥

स प्राप्नोतीप्सितं कामं हीने स्यात् तु विपर्ययः ।
अन्यत्रापि जपेन्मालां जप्यं देवमनोहरम् ॥ ५५ ॥

तादृशः साधकः कुर्यान्नान्यथा तु कदाचन ।
यथाशक्ति जपं कुर्यात् सङ्ख्ययैव प्रयत्नतः ॥ ५६ ॥

असङ्ख्यातं च यज्जप्तं तस्य तन्निष्फलं भवेत् ।
जप्त्वा मालां शिरोदेशे प्रांशुस्थानेऽथ वा न्यसेत् ॥ ५७ ॥

स्तुतिपाठं ततः कुर्यादिष्टं कामं निवेद्य च ।
स्तुतिश्चापि महामन्त्रं साधनं सर्वकर्मणाम् ॥ ५८ ॥

वक्ष्ये युवां महाभागौ सर्वसिद्धिप्रदायकम् ।
सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके ॥ ५९ ॥

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ।
सप्तधावर्तनं कृत्वा स्तुतिमेनां च साधकः ॥ ६० ॥

पञ्चप्रणामान् कृत्वाथ ऐं ह्रीं श्रीमितिमन्त्रकैः ।
अन्येषां पुरतश्चैव अधिकं वा यथेच्छया ॥ ६१ ॥

योनिमुद्रां ततः पश्चाद् दर्शयित्वा विसर्जयेत् ।
द्वौ पाणी प्रसृतीकृत्य कृत्वा चोत्तानमञ्जलिम् ॥ ६२ ॥

अङ्गुष्ठाग्रद्वयं न्यस्य कनिष्ठाग्रद्वयोस्ततः ।
अनामिकायां वामस्य तत्कनिष्ठां पुरो न्यसेत् ॥ ६३ ॥

दक्षिणस्यानामिकायां कनिष्ठां दक्षिणस्य च ।
अनामिकायाः पृष्ठे तु मध्यमे द्वे निवेशयेत् ॥ ६४ ॥

द्वे तर्जन्यौ कनिष्ठाग्रे तदग्रेणैव योजयेत् ।
योनिमुद्रा समाख्याता देव्याः प्रीतिकरी मता ॥ ६५ ॥

त्रिवारं दर्शयेत् तां तु मूलमन्त्रेण साधकः ।
तां मुद्रां शिरसि न्यस्य मण्डलं विन्यसेत् ततः ॥ ६६ ॥

ऐशान्यामग्रहस्तेन द्वारपद्मविवर्जितम् ।
तत्र नत्वा रक्तचण्डां ह्रीं श्रीं मन्त्रेण साधकः ॥ ६७ ॥

रक्तचण्डायै नम इति निर्माल्यं तत्र निक्षिपेत् ।
उदके तरुमूले वा निर्माल्यं तत्र सन्त्यजेत् ॥ ६८ ॥

एवं यः पूजयेद् देवीं विधानेन शिवां नरः ।
सोऽचिरेण लभेत्कामान् सर्वानेव मनोगतान् ॥ ६९ ॥

अर्धलक्षजपं जप्त्वा प्रथमं चैव साधकः ।
पुरश्चरेद् विशेषेण नानानैवेद्यवेदनैः ॥ ७० ॥

कुण्डं मण्डलवत् कृत्वा चाष्टम्यां समुपोषितः ।
नवम्यां शुक्लपक्षस्य रजोभिः पञ्चभिर्नरः ॥ ७१ ॥

पूर्ववन्मण्डलं कृत्वा गुरुपित्रोश्च सन्निधौ ।
अनेनैव विधानेन पूजयित्वा तु चण्डिकाम् ॥ ७२ ॥

सहितैर्बिल्वपत्रैश्च अष्टोत्तरशतत्रयम् ।
तिलैर्होमं चरेत् तस्यां सहस्रत्रितयं जपेत् ॥ ७३ ॥

नैवेद्यं गन्धपुष्पे च वस्त्रं दद्याच्च अत्प्रियम् ।
पूर्वोक्तं चान्यदप्यस्यै प्रदद्यात् पायसं तथा ॥ ७४ ॥

पूजावसाने देयं स्यात् तज्जातीयं बलित्रयम् ।
सिन्दूरं स्वर्णरत्नानि अद्यत् स्त्रीणां विभूषणम् ॥ ७७ ॥

निवेदयेद् यथाशक्त्या पुष्पमाल्यं च भूरिशः ।
महाशक्तुं सशाल्यन्नं गव्यव्यञ्जनसंयुतम् ॥ ७६ ॥

देव्यै नवम्यां सम्पूर्णं बलिं दद्याद् घृतादिभिः ।
दक्षिणां गुरवे दद्यात् सुवर्णं गां तथा तिलम् ॥ ७७ ॥

अभिशप्तमपुत्रं च सावद्यं कितव तथा ।
क्रियाहीनमकल्पज्ञं वामनं गुरुनिन्दकम् ॥ ७८ ॥

सदा मत्सरसंयुक्तं गुरुं मन्त्रेषु वर्जयेत् ।
गुरुर्मन्त्रस्य मूलं स्यान्मूलशुद्धौ तदुद्गतम् ॥ ७९ ॥

सफलं जायते यस्मान्मन्त्रं यत्नात्परीक्षयेत् ।
शाठ्यात् क्रोधात्तु मोहाद्वा आसन्मत्या गुरोर्मुखात् ॥ ८० ॥

कल्पेषु दृष्ट्वा वा मन्त्रं गृह्णीयाच्छद्मनाऽथ वा ।
स मन्त्रस्तेय पापेन तामिस्रे नरके नरः ॥ ८१ ॥

मन्वन्तरत्रयं स्थित्वा पापयोनिषु जायते ।
शठे क्रूरे च मूर्खे च छद्मकारिण्यभक्तिके ॥ ८२ ॥

मन्त्रं न दूषिते दद्यात् सुबीज विपिने तथा ।
लक्षेण साधयेत कामं पुरश्चरणपूर्वकम् ॥ ८३ ॥

पापक्षयो भवेद् यस्मात् पुरश्चरणकर्मणा ।
लक्षद्वयेन मन्त्रस्य जपेन नरसत्तमौ ॥ ८४ ॥

त्रिसन्ध्यासु प्रतिदिनं बीजसङ्घातकेन च ।
कविर्वाग्मी पण्डितश्च यशस्वी च प्रजायते ॥ ८५ ॥

साधकः साधकश्रेष्ठ पूजास्थानं ततः शृणु ।
यत्र यत्र नरः पूजां निर्जने कुरुते च यः ॥ ८६ ॥

तस्यादत्ते स्वयं देवी पत्रं पुष्पं फलं जलम् ।
शिला प्रशस्ता पूजायां स्थण्डिलं निर्जनं तथा ॥ ८७ ॥

जपश्चोपांशु सर्वेषामुत्तमः परिकीर्तितः ।
अशुचिर्न महामायां पूजयेत् तु कदाचन ॥ ८८ ॥

अवश्यं तु स्मरेन्मन्त्रं योऽतिभक्तियुतो नरः ।
दन्तरक्ते समुत्पन्ने स्मरणं च न विद्यते ॥ ८९ ॥

सर्वेषामेव मन्त्राणां स्मरणन्नरकं व्रजेत् ।

जानूर्ध्वे क्षतजे जाते नित्यं कर्म न चाचरेत् ॥ ९० ॥

विश्वास-प्रस्तुतिः

नमित्तिकं च तदधः स्रवद्रक्तो न चाचरेत् ।
सूतके च समुत्पन्ने क्षुरकर्मणि मैथुने ॥ ९१ ॥

धूमोद्गारे तथा वान्ते नित्यकर्माणि सन्त्यजेत् ।
द्रव्ये भुक्ते त्वजीर्णे च न वै भुक्त्वा च किञ्चन ॥ ९२ ॥

कर्म कुर्यान्नरो नित्यं सूतके मृतके तथा ।
पत्रं पुष्पं च ताम्बूलं भेषजत्वेन कल्पितम् ॥ ९३ ॥

कणादिपिप्पल्यन्तं च फलं भुक्त्वा न चाचरेत् ।
जलस्यापि नरश्रेष्ठ भोजनाद् भेषजादृते ॥ ९४ ॥

नित्यक्रिया निवर्तेत सह नैमित्तिकैः सदा ।
जलौकां गूढपादं च कृमिगण्डूपदादिकम् ॥ ९५ ॥

कामाद्धस्तेन संस्पृश्य नित्यकर्माणि सन्त्यजेत् ।
विशेषतः शिवापूजां प्रमीतपितृको नरः ॥ ९६ ॥

यावद् वत्सरपर्यन्तं मनसापि न आचरेत् ।
महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् ॥ ९७ ॥

आर्त्विज्यं ब्रह्मयज्ञं च श्राद्धं देवयजं च यत् ।

गुरुमाक्षिप्य विप्रं च प्रहृत्यैव च पाणिना ॥ ९८ ॥

विश्वास-प्रस्तुतिः

न कुर्यान्नित्यकर्माणि रेतःपाते च भैरव ।
आसनं चार्घ्यपात्रं च भग्नमासादयेन्नतु ॥ ९९ ॥

ऊषरे कृमिसंयुक्ते स्थाने मृष्टेऽपि नार्चयेत् ।
नीचैरासनमासाद्य शुचिः प्रयतमानसः ॥ १०० ॥

अर्चयेच्चण्डिकां देवीं देवमन्यं च भैरव ।
दिग्विभागे तु कौबेरी दिक् छिवा प्रतिदायिनी ॥ १०१ ॥

तस्मात् तन्ङ्ख आसीनः पूजयेच्चण्डिकां सदा ।
पुष्पं च कृमिसम्मिश्रं विशीर्णं भग्नमृद्गते ॥ १०२ ॥

सकेश मूषिकोद्धूतं यत्नेन परिवर्जयेत् ।
याचितं परकीयं च तथा पर्युषितं च यत् ।
अन्त्यसृष्टं पदा स्पृष्टं यत्नेन परिवर्जयेत् ॥ १०३ ॥

इदं शिवायाः परमं मनोहरं
करोति योऽनेन तदीयपूजनम् ।
स वाञ्छितार्थं समवाप्य चण्डिका-
गृहं प्रयाता नचिरेण भैरव ॥ १०४ ॥

मूलम्

इदं शिवायाः परमं मनोहरं
करोति योऽनेन तदीयपूजनम् ।
स वाञ्छितार्थं समवाप्य चण्डिका-
गृहं प्रयाता नचिरेण भैरव ॥ १०४ ॥

विश्वास-प्रस्तुतिः

इति श्रीकालिकापुराणे और्वसगरसंवादे महामायाकल्पः
अञ्चपञ्चाशोऽध्यायः ॥ ५५ ॥