विश्वास-प्रस्तुतिः
चतुःपञ्चाशोऽध्यायः
श्रीभगवानुवाच
ततोऽर्घपात्रे तन्मन्त्रमष्टधाकृत्य सञ्जजपेत् ।
तेन तोयानि पुष्पाणि स्वं मण्डलमथासनम् ॥ १ ॥
मूलम्

आशोधयेत् ततः पश्चात् पूजोपकरणं समम् ।
ॐ ऐं ह्रीं ह्रौंइति मन्त्रेण शब्दप्रांशुविवर्जितम् ॥ २ ॥

द्वारपालं ततो देव्या आसनानि च पूजयेत् ।
नन्दिभृङ्गिमहाकालगणेशा द्वारपालकाः ।
उत्तरादिक्रमात् पूज्या आसनानि च मध्यतः ॥ ३ ॥

आधारशक्तिप्रभृति एमाद्यन्तात् प्रपूजयेत् ।
प्रसिद्धान् सर्वतन्त्रेषु पूजाकल्पेषु भैरव ॥ ४ ॥

दशदिक्पालसहितान् धर्माधर्मादिकांस्तथा ।
मण्डलाग्न्यादिकोणेषु पूजयेत् पार्श्वदेशतः ॥ ५ ॥

सूर्याग्निसोममरुतां मण्डलानि च पद्मकम् ।
रजस्तथा तमः सत्त्वं योगपीठं गुरोः पदम् ॥ ६ ॥

सारादीन् भद्रपीठान्तान् साङ्गोपाङ्गान् प्रपूजयेत् ।
ब्रह्माण्डं स्वर्णडिम्बं च ब्रह्मविष्णुमहेश्वरान् ॥ ७ ॥

ससागरान् सप्तद्वीपान् स्वर्णद्वीपं समण्डपम् ।
रत्नपद्मं सपर्यङ्कं रत्नस्तम्भं तथैव च ॥ ८ ॥

पञ्चाननं मण्डलस्य मध्येऽवश्यं प्रपूजयेत् ।
रीं मन्त्रेण ततः कूर्मपृष्ठं पाण्योर्निबध्य च ॥ ९ ॥

ध्यायेच्च पूर्ववद् देवीमासाद्यासनमुत्तमम् ।
हृन्मध्ये चिन्तयेत् स्वर्णद्वीपं पर्यङ्कसम्भृतम् ॥ १० ॥

पश्यन्निव ततो देवीमेकाग्रमनसा स्मरेत् ।
प्रत्यक्षीकृत्य हृदये मानसैरुपचारकैः ॥ ११ ॥

सोडशानां प्रकारैस्तु हृदिस्थां पूजयेच्छिवाम् ।
ततस्तु वायुबीजेन दक्षिणे च पुटेन च ॥ १२ ॥

नासिकाया विनिःसार्य क्रीं मन्त्रेण च भैरव ।
स्थापयेत् पद्ममध्ये तु तद्धस्तं न वियोजयेत् ॥ १३ ॥

कृते वियोगे हस्तस्य पुष्पात् तस्माच्च भैरव ।
गन्धर्वैः पूज्यते देवी पूजकैर्नाप्यते फलम् ॥ १४ ॥

आवाहनं ततः कुर्याद् गायत्र्या शिरसा सह ।
महामायायै विद्महे त्वां चण्डिकाख्यां धीमहि ॥ १५ ॥

तदुक्त्वा ततः पश्चाद् धियो यो नः प्रचोदयात् ।
स्नानीयं देवि ते तुभ्यं ॐ ह्रीं श्रीं नम इत्यतः ॥ १६ ॥

स्नानीयं च ततो देव्यै दद्याल्लक्षणलक्षितम् ।
ततस्तु मूलमन्त्रेण गन्धपुष्पं सदीपकम् ॥ १७ ॥

धूपादिकं प्रदद्यात् तु मोदकं पायसं तथा ।
सितां गुडं दधि-क्षीरं सर्पिर्नानाविधैः फलैः ॥ १८ ॥

रक्तपुष्पं पुष्पमालां सुवर्णरजतादिकम् ।
नैवेद्यमुत्तमं देव्या लाङ्गलं मोदकं सिताम् ॥ १९ ॥

शाण्डिल्यकरताम्राख्य-कूष्माण्डानां फलानि च ।
हरीतकीफलं चापि नागरङ्गकमेलकम् ॥ २० ॥

बालप्रियं च यद् द्रव्यं कसेरुकबिसादिकम् ।
तोयं च नारिकेलस्य देव्यै देयं प्रयत्नतः ॥ २१ ॥

रक्तं कौशेयवस्तं च देयं नीलं कदापि न ।
देव्याः प्रियाणि पुष्पाणि बकुलं केशरं तथा ॥ २२ ॥

माध्यं कह्लारवज्राणि करवीरकुरुण्टकान् ।
अर्कपुष्पं शाल्मलकन्दूर्वाङ्कुरं सुकोमलम् ॥ २३ ॥

कुशमञ्जरिका दर्भा बन्धूककमले तथा ।
मालूरपत्रं पुष्पञ्च त्रिसन्ध्यारक्तपर्णके ॥ २४ ॥

सुमनांसि प्रियाण्येतान्यम्बिकायाश्च भैरव ।
बन्धूकं बकुलं माध्यं बिल्वपत्राणि सन्ध्यकम् ॥ २५ ॥

उत्तमं सर्वपुष्पेषु द्रव्ये पायसमोदकौ ।
माल्यं बन्धूकपुष्पस्य शिवायै बकुलस्य वा ॥ २६ ॥

करवीरस्य माध्यस्य सहस्राणां ददाति यः ।
स कामान् प्राप्य चाभीष्टान् मम लोके प्रमोदते ॥ २७ ॥

चन्दनं शीतलं चैव कालीयकसमन्वितम् ।
अनुलेपनमुख्यं तु देव्यै दद्यात् प्रयत्नतः ॥ २८ ॥

कर्पूरं कुङ्कुमं कूर्चं मृगनाभिं सुगन्धिकम् ।
कालीयकं सुगन्धेषु देव्याः प्रीतिकरं परम् ॥ २९ ॥

यक्षधूपः प्रतीवाहः पिण्डधूपः सगोलकः ।
अगुरुः सिन्धुवारश्च धूपाः प्रीतिकरा मताः ॥ ३० ॥

अङ्गरागेषु सिन्दूरं देव्याः प्रीतिकरं परम् ।
सुगन्धि शालिजं चान्नं मधुमांससमन्वितम् ॥ ३१ ॥

अपूपं पायसं क्षीरमन्नं देव्याः प्रशस्यते ।
रत्नोदकं सकर्पूरं पिण्डीतककुमारकौ ॥ ३२ ॥

रोचनं पुष्पकं देव्याः स्नानीयं परिकीर्तितम् ।
घृतप्रदीपो दीपेषु प्रशस्तः परिकीर्तितः ॥ ३३ ॥

पुष्पाञ्जलित्रयं दद्याद् मूलमन्त्रेण शोभनम् ।
दत्त्वोपचारानखिलान्मध्ये चैताः प्रपूजयेत् ॥ ३४ ॥

कामेश्वरीं गुप्तदुर्गां विन्ध्यकन्दरवासिनीम् ।
कोटेश्वरीं दीर्घिकाख्यां प्रकटीं भुवनेश्वरीम् ॥ ३५ ॥

आकाशगङ्गां कामाख्यां यदा दिक्करवासिनीम् ।
मातङ्गीं ललितां दुर्गां भैरवी सिद्धिदां तथा ॥ ३६ ॥

बलप्रमथिनीं चण्डीं चण्डोग्रां चण्डनायिकाम् ।
ग्रां भीमां शिवां शान्तां जयन्तीं कालिकां तथा ॥ ३७ ॥

मङ्गलां भद्रकालीं च शिवां धात्रीं कपालिनीम् ।
स्वाहां स्वधामपर्णां च पञ्चपुष्करिणीं तथा ॥ ३८ ॥

मदनीं सर्वभूतानां मनःप्रोत्साहकारिणीम् ।
दमनीं सर्वभूतानां चतुःषष्टिं च योगिनीः ॥ ३९ ॥

एताः सम्पूज्य मध्ये तु मन्त्रेणाङ्गानि पूजयेत् ।
हृच्छिरस्तु शिखावर्मनेत्रबाहुपदानि च ॥ ४० ॥

मूलमन्त्राद्यक्षरैस्तु त्रिभिराद्यङ्गपूजनम् ।
एकैकं वर्द्धयेत् पश्चान्मन्त्राण्यङ्गौघपूजने ॥ ४१ ॥

सिद्धसूत्रं च खड्गं च खड्गमन्त्रेण पूजयेत् ।
ततोऽष्टपत्रमध्ये तु पूजयेदष्टयोगिनीः ॥ ४२ ॥

शैलपुत्रीं चण्डघण्टां स्कन्दमातरमेव च ।
कालरात्रिं च पूर्वादिचतुर्दिक्षु प्रपूजयेत् ॥ ४३ ॥

चण्डिकामथ कूष्माण्डीं तथा कात्यायनीं शुभाम् ।
महागौरीं चाग्निकोणे नै-ऋत्यादिषु पूजयेत् ॥ ४४ ॥

महामायां षमस्वेति मूलमन्त्रेण चाष्टधा ।
पूजयेत् पद्ममध्ये तु बलिदानं ततः परम् ॥ ४५ ॥

एवं यदा कल्पविधानमानैः
सम्पूज्यते भैरव कामदेवी ।
तदा स्वयं मण्डलमेत्य देयं
गृह्णाति कामं च ददाति सम्यक् ॥ ४६ ॥
मूलम्
एवं यदा कल्पविधानमानैः
सम्पूज्यते भैरव कामदेवी ।
तदा स्वयं मण्डलमेत्य देयं
गृह्णाति कामं च ददाति सम्यक् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
इति श्रीकालिकापुराणे अष्टादशपटलोद्धारे
महामायाकल्पचतुःपञ्चाशोऽध्यायः ॥ ५४ ॥
मूलम्
इति श्रीकालिकापुराणे अष्टादशपटलोद्धारे
महामायाकल्पचतुःपञ्चाशोऽध्यायः ॥ ५४ ॥