५३

विश्वास-प्रस्तुतिः

त्रिपञ्चाशोऽध्यायः

श्रीभगवानुवाच

ततो लमिति मन्त्रेण अर्घपात्रस्य मण्डलम् ।
चतुष्कोणं विधायाशु द्वारपद्मविवर्जितम् ॥ १ ॥

मूलम्

ॐ ह्रीं श्रीमितिमन्त्रेण अर्घपात्रं तु मण्डले ।
विन्यसेत् प्रथमं तत्र पूजयित्वा समिध्यति ॥ २ ॥

ॐ ह्री ह्रौमितिमन्त्रेण गन्धपुष्पे तथा जलम् ।
अर्घपात्रे क्षिपेत् तत्र मण्डलं विन्यसेत् ततः ॥ ३ ॥

पूर्ववन्मण्डलं कृत्वा अर्घपात्रे ततो जलैः ।
त्रिभागैः पूरयेत् पात्रं पुष्पं तत्र विनिःक्षिपेत् ॥ ४ ॥

ततो ह्रीमिति मन्त्रेण आसनं पूजयेत् स्वकम् ।
ततः क्षौमितिमन्त्रेण आत्मानं पूजयेद् बुधः ॥ ५ ॥

गन्धैः पुष्पैः शिरोदेशे ततः पूजां समाचरेत् ।
ॐ ह्रीं स इति मन्त्रेण पुष्पं हस्ततलस्थितम् ॥ ६ ॥

सम्मृज्य सव्यहस्तेन घ्रात्वा वामकरेण तु ।
ऐशान्यां निक्षिपेदेतत् पूर्वमन्त्रेण कोविदः ॥ ७ ॥

रक्तं पुष्पं गृहीत्वा तु कराभ्यां पाणिकच्छपम् ।
बद्ध्वा कुर्यात् ततः पश्चाद् दहनप्लवनादिकम् ॥ ८ ॥

वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठिकाम् ।
तथा दक्षिणतर्जन्यां वामाङ्गुष्ठं नियोजयेत् ॥ ९ ॥

उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः ।
अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च ॥ १० ॥

वामस्य पितृतीर्थेन मध्यमानामिके तथा ।
अधोमुखे तु ते कुर्याद् दक्षिणस्य करस्य च ॥ ११ ॥

कूर्मपृष्ठसमं पृष्ठं कुर्याद् दक्षिणहस्ततः ।
एवं बद्धः सर्वसिद्धिं ददाति पाणिकच्छपः ॥ १२ ॥

कुर्यात् तद्धृदयासन्नं निमील्य नयनद्वयम् ।
समं कायशिरोग्रीवं कृत्वा स्थिरमना बुधः ॥ १३ ॥

ध्यानं समारभेद् देव्या दाहप्लवनपूर्वकम् ।
अग्निं वायौ विनिक्षिप्य वायुं तोये जलं हृदि ॥ १४ ॥

हृदयं निश्चले दत्त्वा आकाशे निक्षिपेत्स्वनम् ।
ॐ हूं फडिति मन्त्रेण भित्त्वा रन्ध्रं तु मस्तके ॥ १५ ॥

शब्देन सहितं जीवमाकाशे स्थापयेत् ततः ।
वाय्वग्नियमशक्राणां बीजेन वरुणस्य च ॥ १६ ॥

परास्थानपराश्चैतैः सार्धचन्द्रैः सबिन्दुकैः ।
शोषं दाहं तथोच्छादं पीयूषासेवनं परम् ॥ १७ ॥

यथाक्रमेण कर्तव्यं चिन्तामात्रं विशुद्धये ।

ततस्तु देवीबीजेन अणुं जाम्बूनदाकृतिम् ॥ १८ ॥

तत्रासाद्य द्विधा कुर्यात् उम् ह्रीं श्रीमिति मन्त्रकाः ।
तदूर्ध्वभागेषु हृद्लोकं स्वर्गं च खं तथा ॥ १९ ॥

निष्पाद्य शेषभागेन भुवं पातालवारिणि ।
चिन्तयेत्तत्र सर्वाणि सप्तद्वीपां च मेदिनीम् ॥ २० ॥

तत्तेषु सागरांस्तांस्तु स्वर्णद्वीपं विचिन्तयेत् ।
तन्मध्ये रत्नपयङ्क रत्नमण्डपसंस्थितम् ॥ २१ ॥

आकाशगङ्गातोयोधैः सदैव सेवितं शुभम् ।
तत्पर्यङ्के रक्तपद्मं प्रसन्नं सर्वदाशिवम् ॥ २२ ॥

चिन्तयेत् स्वर्णमानाङ्कं सप्तपातालनालकम् ।
आब्रह्मभुवनस्पर्शि उवर्णाचलकर्णिकम् ॥ २३ ॥

तत्रस्थितां महामायां ध्यायेदेकाग्रमानसः ।
शोणपद्मप्रतीकाशां मुक्तमूर्धजलम्बिनीम् ॥ २४ ॥

चलत्काञ्चनामारुह्य कुण्डलोज्ज्वलशालिनीम् ।
सुवर्णरत्नसम्पन्न किरीटवयधारिणीम् ॥ २५ ॥

शुक्लकृष्णारुणैर्नेत्रैस्त्रिभिश्चारुविभूषिताम् ।
सन्ध्याचन्द्रसमप्रख्य-कपोलां लोललोचनाम् ॥ २६ ॥

विपक्वाअडिमीबीजदन्तान् सुभ्रूओगोज्ज्वलाम् ।
बन्धूकदन्तवसनां शिरीषप्रभनासिकाम् ॥ २७ ॥

कम्बुग्रीवां विशालाक्षीं सूर्यकोटिसमप्रभाम् ।
चतुर्भुजा विवसनां पीनोन्नतपयोधराम् ॥ २८ ॥

दक्षिणोर्ध्वेन निस्त्रिंशत्परेण सिद्धसूत्रकम् ।
बिभ्रतीं वामहस्ताभ्यामभीतिं वरदायिनीम् ॥ २९ ॥

निम्नाभिरमायातां क्षीणमध्यां मनोहराम् ।
आनमन्नागपाशोरूं गुप्तगुल्फां सुपार्ष्णिकाम् ॥ ३० ॥

बद्धपर्यङ्कसङ्कल्पां निवीरासनराजिताम् ।
गात्रेण रत्नसंस्तम्भं सम्यगालम्ब्य संस्थिताम् ॥ ३१ ॥

किमिच्छसीति वचनं व्याहरन्तीं मुहुर्मुहुः ।
पन्चाननं पुरःसंस्थं निरीक्षन्तीं सुवाहनम् ॥ ३२ ॥

मुक्तावली स्वर्णरत्नहाअकङ्कणादिभिः ।
सर्वैरलङ्कारगणैरुज्ज्वलां सस्मिताननाम् ॥ ३३ ॥

सूर्यकोटिप्रतीकाशां सर्वलक्षणसंयुताम् ।
नवयौवनसम्पन्नां तथा सर्वाङ्गसुन्दरीम् ॥ ३४ ॥

ईदृशीमम्बिकां ध्यात्वा नमः फडिति मस्तके ।
स्वकीये प्रथमं दद्यात् साऽहमेव विचिन्त्य च ॥ ३५ ॥

अङ्गन्यासकरन्यासौ ततः कुर्यात् क्रमेण च ।
एभिर्मन्त्रैः स्वरैः अह सृमीसूमैः क्रमान्वितैः ॥ ३६ ॥

ॐ क्षौम् चैते सप्रणवां रक्तवर्णा मनोहराम् ।
अङ्गुष्ठादिकनिष्ठान्तमन्त्रसम्बेष्टनं फट् ॥ ३७ ॥

प्रान्तेन कुर्याद् विन्यासं पूर्वं करतलद्वये ।
हृच्छिरःशिखाकवचनेत्रेषु रमतो न्यसेत् ॥ ३८ ॥

ततस्तु मूलमन्त्रस्य वक्त्रे पृष्ठे तथोदरे ।
बाह्वोर्गुह्ये पादयोश्च जङ्घयोर्जघने क्रमात् ॥ ३९ ॥

विन्यसेदक्षराण्यष्टौ ओङ्कारं च तथा स्मरन् ।
एभिः प्रकारैरतिसुद्धदेहः पूजां सदैवार्हति नान्यथा हि ।
शरीरशुद्धिं मनसो निवेशं भूतप्रसारं कुरुते नृणां तत् ॥ ४० ॥

इति श्रीकालिकापुराणे महामायाकल्पे रिपञ्चाशोऽध्यायः ॥ ५३ ॥