विश्वास-प्रस्तुतिः
द्विपञ्चाशोऽध्यायः
और्व उवाच
एवं वदति भूतेशे तदा वेतालभैरवौ ।
प्राहतुर्व्योमकेशं तौ हर्षोत्फुल्लविलोचनौ ॥ १ ॥
मूलम्

वेतालभैरवावूचतुः
पार्वत्या न हि जानीवो ध्यानं मन्त्रं विधिं तथा ।
कथमाराधयिष्यावो भगवन् सम्यगुच्यताम् ॥ २ ॥

श्रीभगवानुवाच
महामायाविधिं मन्त्रं कल्पं च भवतोः सुतौ ।
उपदेक्ष्यामि तत्त्वेन येन सर्वं भविष्यति ॥ ३ ॥

इत्युक्त्वा स महामायाध्यानं मन्त्रं विधिं तथा ।
कथयामास गिरिशस्तयोः सम्यङ् नृपोत्तम ॥ ४ ॥

यदष्टादशभिः पश्चात्पटलैश्च स भैरवः ।
स निर्णयविधिं कल्पं निबबन्ध शिवामृते ॥ ५ ॥

सगर उवाच
कीदृङ् मन्त्रं पुरा शम्भुरवोचदुभयोस्तयोः ।
येनाराध्य महामायां तौ गणेशत्वमापतुः ॥ ६ ॥

सकल्पं सरहस्यं च साङ्गं तच्छ्रोतुमुत्सहे ।
दशाष्टपटलैर्यत् तु निबबन्ध स भैरवः ॥ ७ ॥

बहुत्वाद् वदितुं तस्य चिरेणैव तु शक्यते ।
तस्मात् सद्यः समुद्धृत्य यन्महादेवभाषितम् ।
सङ्क्षेपात् कथये तत्त्वं तच्छृणुष्व नृपोत्तम ॥ ८ ॥

पृच्छन्तौ पार्वती मन्त्रं तदा वेतालभैरवौ ।
जगाद स महादेवः शृणुत मन्त्रकल्पकौ ॥ ९ ॥
मूलम्
पृच्छन्तौ पार्वती मन्त्रं तदा वेतालभैरवौ ।
जगाद स महादेवः शृणुत मन्त्रकल्पकौ ॥ ९ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
शृणु मन्त्रं प्रवक्ष्यामि गुह्याद् गुह्यतमं परम् ।
अष्टाक्षरं तु वैष्णव्या महामायामहोत्सवम् ॥ १० ॥

अस्य श्रीवैष्णवीमन्त्रस्य नारद ऋषिः शम्भुर्देवता ।
अनुष्टुप् छन्दः सर्वार्थसाधने विनियोगः ॥ ११ ॥

हान्तान्तयुर्वो रान्तश्च नान्तो णान्तस्तथैव च ।
कैकादशाष्टादिषष्ठः खान्तो विष्णुपुरःसरः ॥ १२ ॥

एभिरष्टाक्षरैर्मन्त्रं शोणपत्रसमप्रभम् ।
ओङ्कारं पूर्वतः कृत्वा जप्यं सर्वैस्तु साधकैः ॥ १३ ॥

महामन्त्रमिदं गुह्यं वैष्णवीमन्त्रसञ्ज्ञकम् ।
मन्त्रं कलेवरगतं तस्मादङ्गं प्रकीर्तितम् ॥ १४ ॥

महादेवस्योर्ध्वमुखं बीजमेतत् प्रकीर्तितम् ।
ओङ्काराक्षरबीजं च यकारः शक्तिरुच्यते ॥ १५ ॥

सबीजं कथितं मन्त्रं कल्पं च शृणु भैरव ।
तीर्थे नद्यां देवखाते गर्तप्रस्रवणादिके ॥ १६ ॥

परकीयेतरे तोये स्नानं पूर्वं समाचरेत् ।
आचान्तः शुचितां प्राप्तः कृतासनपरिग्रहः ॥ १७ ॥

उत्तराभिमुखो भूत्वा स्थण्डिलं मार्जयेत् ततः ।
करेणानेन मन्त्रेण यूं सहः क्षित्या इति स्वयम् ॥ १८ ॥

ॐ ह्रीं स इति मन्त्रेण आशापूरणकेन च ।
तोयैरभ्युक्षयेत् स्थानं भूतानामपसारणे ॥ १९ ॥

ततः सव्येन हस्तेन गृहीत्वा स्थण्डिलं शुचिः ।
मन्त्रं लिखेत् सुवर्णेन याज्ञिकेन कुशेन वा ॥ २० ॥

ॐ वैष्णव्यै नमः इति मन्त्रराजमथापि वा ।
ततस्त्रिमण्डलं कुर्यात् तेनैव समरेखया ॥ २१ ॥

नित्यासु न हि पूजासु रजोभिर्मण्डलं लिखेत् ।
पुरश्चरणकार्येषु तत्काम्येषु प्रयोजयेत् ॥ २२ ॥

रेखामुदीच्यां प्रथमं पश्चिमे तदनन्तरम् ।
दक्षिणे तु ततः पश्चात् पूर्वभागे तु शेषतः ॥ २३ ॥

वर्णानां च सहद्वारैरेवमेव क्रमो भवेत् ।
ॐ ह्रीं श्रीं स इति मन्त्रेण मण्डलं पूजयेत् ततः ॥ २४ ॥

हस्तेन मण्डलं कृत्वा कुर्याद् दिग्बन्धनं ततः ।
आशाबन्धनमन्त्रेण पूर्वोक्तेन यथाक्रमम् ॥ २५ ॥

फडन्तेनात्मनाप्यत्र करेणैव निबन्धयेत् ।
यवानाम् अण्डलैरेकमङ्गुलं चाष्टभिर्भवेत् ॥ २६ ॥

अदीर्घयोजितैर्हस्तैस्चतुर्विंशतिरङ्गुलैः ।
तत्प्रमाणेन हस्तेन हस्तैकं तस्य मण्डलम् ॥ २७ ॥

पद्मं वितस्तिमात्रं स्यात् कर्णिकारं तदर्धकम् ।
दलान्यन्योन्यसक्तानि ह्यायतानि नियोजयेत् ॥ २८ ॥

न न्यूनाधिकभागानि सबहिर्वेष्टितानि च ।
मध्यभागे न्यसेद् द्वारं न न्यूने नाधिके तथा ।
सुबद्धं मण्डलं तच्च रक्तवर्णं विचिन्तयेत् ॥ २९ ॥

इतोऽन्यथा मण्डलमुग्रमस्याः
करोति यो लक्षणभागहीनम् ।
फलं न चाप्नोति न काममिष्टं
तस्मादिदं मण्डलमत्र लेख्यम् ॥ ३० ॥
मूलम्
इतोऽन्यथा मण्डलमुग्रमस्याः
करोति यो लक्षणभागहीनम् ।
फलं न चाप्नोति न काममिष्टं
तस्मादिदं मण्डलमत्र लेख्यम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
इति श्रीकालिकापुराणे महामायाकल्पेऽष्टादशपटले
इपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥