विश्वास-प्रस्तुतिः
एकपञ्चाशोऽध्यायः
और्व उवाच
अथ कालक्रमेणैव प्रवृद्धास्ते महाबलाः ।
शस्त्रास्त्रज्ञानकुशलाः शास्त्रार्थपरिनिष्ठिताः ॥ १ ॥
मूलम्

सम्प्राप्तयौवना दीप्ता दुर्धर्षाः परिपन्थिभिः ।
धमार्थज्ञानकुशला ब्रह्मण्याः सत्यवादिअनः ॥ २ ॥

सदा सहचरौ तत्र प्रीत्या वेतालभैरवौ ।
अलर्कौ दमनश्चैव तथोपरिचरस्त्रयः ।
सदा सहचरा नित्यं भ्रातरश्चान्द्रशेखराः ॥ ३ ॥

त्रिष्वात्मजेषु नृपतेः सदोपरिचरादिषु ।
ममत्वमधिकं नित्यं प्रीतिस्नेहौ तथाधिकौ ॥ ४ ॥

वेताले भैरवे चापि चन्द्रशेखरभूभृतः ।
नास्त्येव तादृशी प्रीतिर्यादृशी तेषु जायते ॥ ५ ॥

न तौ दृष्ट्वा स नृपतिः कदाचिच्चन्द्रशेखरः ।
अत्याह्लादयतेऽजस्रं पुत्रबुद्धयेष्यतेऽथवा ॥ ६ ॥

तौ वीरौ धर्मकुशलौ महाबलपराक्रमौ ।
त्रैलोक्यविजये दक्षौ शस्त्रास्त्रग्रामपारगौ ॥ ७ ॥

ताभ्यां बिभेति च नृपः कदा किंवा करिष्यतः ।
वेतालभैरवावेतौ मां सुतान् राज्यमेव वा ॥ ८ ॥

इति चिन्तापरो राजा नित्यमेव निरीक्षते ।
प्रणतावपि तत्पुत्रौ सम्यग् वेतालभैरवौ ॥ ९ ॥

अथोपरिचरं राजा यौवराज्येऽभ्यषेचयत् ।
ज्यायांसमौरसं पुत्रं सर्वराजगुणैर्युतम् ॥ १० ॥

यः पश्चात् सर्वभूपालान् योजयिष्यति नीतिभिः ।
राजोपरिचरो नाम सर्वशास्त्रार्थपारगः ॥ ११ ॥

दमनाय ददौ दायं तथालर्काय भूमिभृत् ।
प्रभूतधनरत्नानि तथासनरथान् बहून् ॥ १२ ॥
मूलम्
दमनाय ददौ दायं तथालर्काय भूमिभृत् ।
प्रभूतधनरत्नानि तथासनरथान् बहून् ॥ १२ ॥
विश्वास-प्रस्तुतिः
तावन्ति नददौ ताभ्यां दायवित्तानि भागशः ।
वेतालभैरवाभ्यां तु ततस्तौ मन्युराविशत् ॥ १३ ॥

मन्युनाभिपरीतौ तौ विचरन्तावितस्ततः ।
न भोगमीप्सतां वीरौ तपसे च कृतोद्यमौ ।
अनूढभार्यौ सततं निर्जने वसतः सदा ॥ १४ ॥
मूलम्
मन्युनाभिपरीतौ तौ विचरन्तावितस्ततः ।
न भोगमीप्सतां वीरौ तपसे च कृतोद्यमौ ।
अनूढभार्यौ सततं निर्जने वसतः सदा ॥ १४ ॥
विश्वास-प्रस्तुतिः
तथाभूतौ तदा पुत्रौ देवौ वेतालभैरवौ ।
बुबुधे चिन्तयाक्रान्ता देवी तारावती तदा ॥ १५ ॥

राजोपरिचराद् भीता पत्युश्च चन्द्रशेखरात् ।
नोवाच किञ्चित सुदतीच्छन्नं तौ बौधयत्यपि ॥ १६ ॥

एतस्मिन्नन्तरे विद्वान् कपोतो मुनिसत्तमः ।
चित्राङ्गदासङ्गभोगी सन्तुष्टः सुरतोत्सवैः ॥ १७ ॥

चित्राङ्गदां परित्यज्य सपुत्रां सहचारिणीम् ।
येष गन्तुं स प्रोचे तदा चित्राङ्गदां वचः ॥ १८ ॥

मुनिरुवाच
चित्राङ्गदे तपस्तप्तुं गमिष्यामि तपोवनम् ।
किं ते प्रियं करोमीह तं मे वद मनोहरे ॥ १९ ॥

चित्राङ्गदोवाच
तम्बुरुश्च सुवर्चाश्च तनयौ तव सुव्रत ।
एतयोस्त्वं मुनिश्रेष्ठ प्रियं कुरु यथोचितम् ॥ २० ॥

मां चापि भगिनीगेहे संस्थाप्य द्विजसत्तम ।
तदा तपोवनं गच्छ यदि ते रोचतेऽनघ ॥ २१ ॥

इति श्रुत्वा वचस्तस्याः कपोतो मुनिसत्तमः ।
हिरण्यार्थम् अमालोच्य कुबेरसदनं ययौ ॥ २२ ॥

प्रार्थयित्वा कुबेरं तु सुवर्णानां शतानि षट् ।
निष्काणां तु सहस्राणि स लेभे मुनिसत्तमः ॥ २३ ॥

शतं भारांश्च रत्नानामानीय व सवीवधैः ।
पुत्राभ्यां प्रददौ विप्रो भार्यायै च विशेषतः ॥ २४ ॥

ततस्तां सहपुत्राभ्यां तैर्धनैरपि भूरिभिः ।
चित्राङ्गदामतेनाथ पुत्रयोरपि सम्मते ॥ २५ ॥

सुवर्चसं तुम्बुरुं च तथा चित्राङ्गदामपि ।
आमन्त्र्य मुनिशार्दूलः करवीरपुरं ययौ ॥ २६ ॥

तत्र गत्वा स अपोतो राजानं चन्द्रशेखरम् ।
राजोपरिचरं चैव वाक्यमेतदुवाच ह ॥ २७ ॥

इयं ककुत्स्थजा भूप तवैव विदिता पुरा ।
सद्योजातौ तथैवास्यामेतौ मे तनयौ शुची ॥ २८ ॥

एभिर्वित्तैः समं पुत्रौ मम त्वं प्रतिपालय ।
राजोपरिचरश्चापि पालयत्विह मे सुतौ ॥ २९ ॥

अपुत्रस्य नृपः पुत्रो निर्धनस्य धनं नृपः ।
अमातुर्जननी राजा ह्यतातस्य पिता नृपः ॥ ३० ॥

अनाथस्य नृपो नाथो ह्यभर्तुः पार्थिवः पतिः ।
अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा ।
सर्वदेवमयो राजा तस्मात् त्वामर्थये नृप ॥ ३१ ॥

ततः स राजा तं प्राह मुनिमेवं द्विजोत्तमम् ।
करिष्ये त्वद्वचश्चाहं राजोपरिचरश्च सः ॥ ३२ ॥

अथ चित्राङ्गदा राजा जग्राह मुनिसम्मते ।
सुतौ च तस्य सधनौ ज्यायसे सूनवे ददौ ॥ ३३ ॥

स चोपरिचरः प्रादाद्राज्यमर्धं सुवर्चसे ।
तथैव सचिवाध्यक्षमकरोत्तुम्बुरुं तदा ॥ ३४ ॥

कपोतस्चापि सुप्रीतः पुत्रार्धं समवेक्ष्य च ।
जगामामन्त्र्य नृपतिं तपसे च तपोवनम् ॥ ३५ ॥

पथि गच्छन् स कपोतः शम्भुपुत्रौ मनोहरौ ।
एकाकिनौ चरन्तौ तु सूर्याचन्द्रमसाविब ॥ ३६ ॥

तयोर्ददृदर्श च तदा वदने वानराकृती ।
स्मृत्वा पूर्वकथां दृष्ट्वा तावपृच्छत् तपोधनः ॥ ३७ ॥

कौ युवां देवगर्भाभौ चरन्तौ विजने पथि ।
एकाकिनौ नरश्रेष्ठौ तन्मे वदतमीरितम् ॥ ३८ ॥

अथ तौ प्रणिपत्यैनं सम्भाष्य च समञ्जसम् ।
कपोताख्यं मुनिश्रेष्ठमूचतुः शङ्करात्मजौ ॥ ३९ ॥

चन्द्रशेखरपुत्रौ नौ तारावत्यां समुद्गतौ ।
विद्धि त्वं मुनिशार्दूल प्रणमावः पदं तव ॥ ४० ॥

अवज्ञां वीक्ष्य नृपतेरावयोः सततं मुने ।
एकाकिनौ निर्जनेषु भ्रभावो मन्युना सदा ॥ ४१ ॥

किमर्थमात्मजौ पुत्रौ प्रणतौ सततं नृपः ।
अवज्ञाय महाभाग दायमात्रं न दित्सति ॥ ४२ ॥

तस्मादावां तपस्तप्तुमिच्छावो द्विजसत्तम ।
उपदेशप्रदानेन चानुगृह्णाति चेद्भवान् ॥ ४३ ॥

ततस्तयोर्वचः श्रुत्वा प्रहस्य मुनिसत्तमः ।
भूतभव्यभवज्ज्ञानस्ताविदं मुनिरब्रवीत् ॥ ४४ ॥

न युवां तनयौ तस्य चन्द्रशेखरभूपतेः ।
तारावत्यां समुत्पन्नौ भवन्तौ शङ्करात्मजौ ॥ ४५ ॥

सद्यौ जातौ महावीर्यौ वेतालत्वे च सम्मतौ ।
भृङ्गिमहाकालसञ्ज्ञौ शापाद् धरणिमागतौ ॥ ४६ ॥

युवयोरत्र तेनैव न दायं दित्सति प्रियम् ।
गच्छतं शरणं तातं शङ्करं वृषभध्वजम् ॥ ४७ ॥

स एव युवयोः सर्वं करिष्यति महेश्वरः ।
किं वात्युग्रेण तपसा चिरकालफलेन वै ॥ ४८ ॥

इत्युक्त्वा मुनिशार्दूलः अपोतः परमात्मधृक् ।
भूतभव्यभवजज्ञानन्ताभ्यां सर्वमथोचिवान् ॥ ४९ ॥

यथा भृङ्गिमहाकालौ शप्ताववनिमागतौ ।
यथा हरश्च गौरी च पृथिवीमागतौ नृप ॥ ५० ॥
मूलम्
यथा भृङ्गिमहाकालौ शप्ताववनिमागतौ ।
यथा हरश्च गौरी च पृथिवीमागतौ नृप ॥ ५० ॥
विश्वास-प्रस्तुतिः
तारावती यथा शप्ता तेनैव मुनिना पुरा ।
यथा तौ च समुत्पन्नौ तारावत्युदरे पुरा ॥ ५१ ॥

यथा वा नारदेनैव संशयच्छेदनं नृपे ।
तत्सर्वं कथयामास पुत्राभ्यां गिरिशस्य तु ॥ ५२ ॥

तच्छ्रुत्वा तौ महात्मानौ तदा वेतालभैरवौ ।
मुदा परमया युक्तौ बभूवतुरनिन्दितौ ॥ ५३ ॥

मोदपूर्णौ तदा भूत्वा सिक्त्वाविव सुधारसैः ।
पुनः पप्रच्छ कपोतं वेतालो भैरवोऽपि च ॥ ५४ ॥

पितावयोर्महादेवस्त्वया सत्यमितीरितम् ।
सोऽर्चनीयो यथावाभ्यां सिद्धये मुनिसत्तम ॥ ५५ ॥

आवाभ्यां च यथाराध्यो यत्र वाराधितो हरः ।
प्रसादमेष्यत्यचिरात् तन्नो वद महामते ॥ ५६ ॥

धन्यावनुगृहितौ नौ यत् त्वया मुनिसत्तम ।
विज्ञापितमिदं सर्वं हृच्छल्यं चोद्धृतं च नौ ॥ ५७ ॥

पुनरावां दयस्व त्वं कृपामय मुनीश्वर ।
प्राप्स्यावो न चिराद् भर्गं यथा वद तथैव नौ ॥ ५८ ॥

शृणु त्वं कथयाम्यद्य यत्र चाराधितो हरः ।
नचिरादेव भवतोरायास्यति समक्षताम् ॥ ५९ ॥

नित्यं यत्र महादेवो वसन् भवति तुष्टये ।
युवां तत् सम्प्रवक्ष्यामि स्थानं गुह्यं प्रकाशितम् ॥ ६० ॥

वाराणसी नाम पुरी गङ्गातीरे मनोहरे ।
अरणायास्तथा चासेर्मध्ये चापाकृतिः सदा ॥ ६१ ॥

स्वयं वृषध्वजस्तत्र नित्यं वसति योगिनाम् ।
सदा प्रीतिकरो योगी स्वयं चाप्यात्मचिन्तकः ॥ ६२ ॥

वियत्स्था सा पुरी नित्यं भर्गयोगबलाद् धृता ।
दिव्यज्ञानं ददात्येषा तत्र यो म्रियते नरः ॥ ६३ ॥

तस्मै स्वयं महादेवः संसार-ग्रन्थिमुक्तये ।
स भूत्वा परमो योगी मृतस्तत्र भवान्तरे ॥ ६४ ॥

सुलभेनैव निर्वाणमाप्नोति हरसम्मतः ।
योगयुक्तो महादेवः पार्वत्या सहितः सदा ॥ ६५ ॥

देवगन्धर्वयक्षाणां मानुषाणां च नित्यशः ।
ज्ञेयो हरः प्रकाशश्च क्षेत्रं तच्च प्रकाशितम् ॥ ६६ ॥

न तत्र कामदो देवो नचिराच्च प्रसीदति ।
आराधितश्चिरं प्रीत्या निर्वाणाय प्रसीदति ॥ ६७ ॥

गौर्या विवजिता सा तु पुरी तत्र न गच्छति ।
योगस्थानं महाक्षेत्रं कदाचिदपि शाङ्करी ॥ ६८ ॥

आसन्नं युवयोः क्षेत्रमिदं वाराणसी तु यत् ।
कथितं नातिदूरे च वर्तते नरसत्तमौ ॥ ६९ ॥

अपरं तु प्रवक्ष्यामि गुह्यं पीठं सदार्चितम् ।
हरगौरीसमायुक्तं परं धर्मार्थकामदम् ॥ ७० ॥

तपसा चाति तीव्रेण चिराद् भवति मोक्षदम् ।
नचिरात् कामदं पुण्यं क्षेत्रं पीठं निगद्यते ॥ ७१ ॥

चिरात् तु कामदो देवो न चिराद् यत्र ज्ञानदः ।
तत्क्षेत्रमिति लोकेषु गद्यते पूर्ववन्दिभिः ॥ ७२ ॥

कामरूपं महापीठं गुह्याद् गुह्यतमं परम् ।
सदा सन्निहितस्तत्र पार्वत्या सह शङ्करः ॥ ७३ ॥

न चिरात् पूजितो देवस्तस्मिन् पीठे प्रसीदति ।
पार्वती चानुगृह्णाति भर्गभक्तं तु तत्र वै ॥ ७४ ॥

ददाति नचिरात् कामं भक्ताय परमेश्वरः ।
तत् तु पीठं प्रवक्ष्यामि शृणुत साम्प्रतं युवाम् ॥ ७५ ॥

करतोया नदीपूर्वं यावद् दिक्करवासिनीम् ।
त्रिंशद्योजनविस्तीर्णं योजनैकशतायतम् ॥ ७६ ॥

त्रिकोणं कृष्णवर्णं च प्रभूताचलपूरितम् ।
नदीशतसमायुक्तं कामरूपं प्रकीर्तितम् ॥ ७७ ॥

शम्भुनेत्राग्निनिर्दग्धः कामः शम्भोरनुग्रहात् ।
तत्र रूपं यतः प्राप कामरूपं ततोऽभवत् ॥ ७८ ॥

तस्य पीठस्य वायव्यां नैर्-ऋत्यां मध्यभागतः ।
ऐशान्यां च तथाग्नेय्यां मध्ये पार्श्वे च शङ्करः ॥ ७९ ॥

स्वमाश्रमपदं कृत्वा षट्सु स्थानेषु शोभनम् ।
नित्यं वसति तत्रापि पार्वत्या सह नर्मभिः ॥ ८० ॥

मध्ये देवीगृहं तत्र तदधीनं तु शङ्करः ।
नीलाख्ये पर्वतश्रेष्ठे पार्वती तत्र तिष्ठति ॥ ८१ ॥

ऐशान्यां नाटके शैले शङ्करस्य महाश्रमः ।
नित्यं वसति तत्रेशस्तदधीना च पार्वती ॥ ८२ ॥

अपरे चाश्रमाः सन्ति हरगौर्योः सदातनाः ।
नैतयोः सदृशः कोऽपि विद्यते शङ्कराश्रमः ॥ ८३ ॥

अत्राराध्यो महादेवो भवद्भयां नरसत्तमौ ।
तत्स्थानं मनसादाय प्रसादय वृषध्वजम् ॥ ८४ ॥

एतालभैरवावूचतुः
कामरूपं गमिष्यावौ रहस्यं नाटकाचलम् ।
गौरीहरौ स्थितौ यत्र नित्यं सन्निहितौ मुने ॥ ८५ ॥

आराधनीयो भूतेशो ह्यवश्यमिह चावयोः ।
यथैवाराधयिष्यावस्तथाचक्ष्व द्विजोत्तम ॥ ८६ ॥

येन मन्त्रेण वा देवो नचिरात् तु प्रसीदति ।
तत् त्वं वद महाभागानुग्रहोऽस्त्यावयोर्यदि ॥ ८७ ॥

ऋषिरुवाच
नाटकं पर्वतश्रेष्ठं गच्छतं नरसत्तमौ ।
तत्र नित्यं महादेवी अमतेऽपर्णया सह ॥ ८८ ॥

सन्ध्याचले तत्र मुनिराराधयति शङ्करम् ।
वशिष्ठो ब्रह्मणः पुत्रस्तं युवामनुगच्छतम् ॥ ८९ ॥

स च मन्त्रं सतन्त्रं च हराराधनकर्मणि ।
ज्ञापयिष्यति वां पृष्टः किल वेतालभैरवौ ॥ ९० ॥

तपसे गन्तुमिच्छामि नेदानीं कालयापना ।
युज्यते मम तस्मान्मां त्यजतं वीरसत्तमौ ॥ ९१ ॥

एवमुक्त्वा मुनिश्रेष्ठः अपोतः प्रययौ वनम् ।
तौ तं मुनिं नमस्कृत्य जग्मतुर्भवनं निजम् ॥ ९२ ॥

अथ तौ समयं कृत्वा दीक्षितौ तपसे तदा ।
पितरावप्यनुज्ञाप्य भ्रातृनन्यांश्च बान्धवान् ।
प्रस्थानं कामरूपाय चक्रतुस्तौ महामती ॥ ९३ ॥

तौ गच्छन्तौ परिज्ञाय शङ्करोऽपि सहोमया ।
देवान् सर्वानुवाचेदं सान्त्वयन्निव सेन्द्रकान् ॥ ९४ ॥

ईश्वर उवाच
पुत्रौ मे तपसे यातः साम्प्रतं सुरसत्तमाः ।
ममाराधनचित्तौ तु तौ दयध्वं सुरेश्वराः ॥ ९५ ॥

संस्कृत्य तपसा चतौ पुत्रौ वेतालभैरवौ ।
गाणपत्ये नियोक्ष्यामि तौ संस्कुर्वन्तु निर्जराः ॥ ९६ ॥

अनेनैव शरीरेण तौ गणेशत्वमाप्स्यतः ।
तपसा तु तयोः कायौ भावं त्यक्त्वा तु मानुषम् ॥ ९७ ॥

यथाप्नुतः सौरभावं विधास्यामि ह्यहं तथा ।
इत्युक्त्वा वामदेवोऽपि पार्वत्या सह पुत्रकौ ।
गच्छन्तौ वियता स्नेहात् पश्चादनुययौ शिवः ॥ ९८ ॥

शक्राद्यास्त्रिदशाः सर्वे दिक्पालाश्च तथापरे ॥ ९९ ॥

सर्वे हरं चानुजग्मुरनुगच्छन्तमात्मजौ ।
अथ तौ तु नदीं प्राप्य कृष्णाजिनधरौ तदा ॥ १०० ॥

अदाय तापसं भावं गङ्गातुल्यां दृषद्वतीम् ।
तपस्विनौ तु देवेन त्र्यम्बकेणाथ पालितौ ॥ १०१ ॥

देवैः सह तदायातौ कामरूपाह्वयाश्रमम् ।
आसाद्य कामरूपं तु करतोयानदीजले ॥ १०२ ॥
मूलम्
देवैः सह तदायातौ कामरूपाह्वयाश्रमम् ।
आसाद्य कामरूपं तु करतोयानदीजले ॥ १०२ ॥
विश्वास-प्रस्तुतिः
उपस्पृश्य ततस्तौ तु नन्दिकुण्डं नृपोत्तम ।
तत्र स्नात्वाप्युपस्पृश्य नदीं गत्वा जटोद्भवाम् ॥ १०३ ॥

पस्पृश्य च तौ तत्र नन्दिनं तपसा धृतम् ।
प्रणम्य जल्पिशं देवं जग्मतुर्नाटकाचलम् ॥ १०४ ॥

नाटकाचलमासाद्य प्रणम्य वृषभध्वजम् ।
आराधनोपदेशाय कपोतकवचःस्मरौ ॥ १०५ ॥
मूलम्
नाटकाचलमासाद्य प्रणम्य वृषभध्वजम् ।
आराधनोपदेशाय कपोतकवचःस्मरौ ॥ १०५ ॥
विश्वास-प्रस्तुतिः
जग्मतुर्दक्षिणां काष्ठां यत्र सन्ध्याचलः स्थितः ।
कान्ता नाम नदी तत्र वशिष्ठेनावतारिता ॥ १०६ ॥

तस्यास्तीरे महाशैलः स्निग्धच्छायलतातरुः ।
सन्ध्यां वशिष्ठः कृतवांस्तत्र यस्माद् विधेः सुतः ॥ १०७ ॥

अतः सन्ध्याचलं नाम तस्य गायन्ति देवताः ।
तत्रासाद्य वशिष्ठं तु साक्षादिव हुताशनम् ॥ १०८ ॥

आराधयन्तं गिरिशं ध्यानसंयुक्तमानसम् ।
तपःश्रिया दीप्यमानं द्वितीयमिव भास्करम् ॥ १०९ ॥

प्रणम्य पुरतस्तस्य तदा वेतालभैरवौ ।
प्राञ्जली तस्थतुर्भूप विनयानतकन्धरौ ॥ ११० ॥

इदं चाप्यूचतुस्तौ तु प्रणमन्तौ विधेः सुतम् ।
तारावत्यां समुत्पन्नौ चन्द्रशेखरभूभृतः ॥ १११ ॥

क्षेत्रे भर्गस्य तनयावावां जानीहि मानुषौ ।
आराधयितुमिच्छावो हरं कार्यस्य सिद्धये ॥ ११२ ॥

वाञ्छितस्य यदि त्वं नावनुगृह्णासि सुव्रत ।
तयोस्तद् वचनं श्रुत्वा वशिष्ठो मुनिसत्तमः ॥ ११३ ॥

उवाचेति युवां ज्ञातौ मया सत्यं हरात्मजौ ।
हरस्याराधनम् आर्यं युवयोर्नरसत्तमौ ॥ ११४ ॥

तत्रास्ति मम कृत्यं किं तद्भाषतमनिन्दितौ ।
वृषध्वजाराधनाय युवयोस्तु प्रयोजनम् ।
विद्यते तन्निमित्तं यत् तत् सिद्धमिति चिन्त्यताम् ॥ ११५ ॥

वेतालभैरवावूचतुः
येन मन्त्रेण नचिरात् सम्यगाराधितो हरः ।
प्रसादमेष्यत्यवनौ तन्नो वद महामुने ॥ ११६ ॥

यथा चाराधयिष्यावस्तन्त्रं यद् यादृशः क्रमः ।
तत्सर्वं मुनिशार्दूल वक्तुमर्हसि चोत्तरम् ॥ ११७ ॥

यथा त्वदुपदेशेन प्राप्स्यावो नचिराद् हरम् ।
अथा आचां मुनिश्रेष्ठ ह्यनुशाधि नतौ त्वयि ॥ ११८ ॥

वसिष्ठ उवाच
प्रसन्न एव भवतोर्वृषकेतुः सहोमया ।
नचिरात् स्वयमेवात्र प्रसादं च समेष्यति ॥ ११९ ॥

सर्वैर्देवगणैः सार्धं सभार्यो वृषभध्वजः ।
आकाशमार्गेणायातः आलयन् स्वसुतौ गृहात् ॥ १२० ॥

किन्तु मानुषदेहौ वामधिवास्य तपोव्रतैः ।
स्वयन्नेष्यति कैलासं गाणपत्ये नियोज्य वाम् ॥ १२१ ॥

अहं चाप्युपदेक्ष्यामि यथा भर्गं युवां द्रुतम् ।
प्राप्स्यथः पार्वतीपुत्रवेकाग्रं शृणुतं तु तत् ॥ १२२ ॥

चिरात् प्रसीदति ध्यानान्नचिराद् ध्यानपूजनात् ।
तस्माद् ध्यानं पूजनं च कथयाम्यद्य तत्त्वतः ॥ १२३ ॥

तेजोमयः सदा शुद्धो ज्ञानामृतविवर्धितः ।
जगन्मयश्चिदानन्दः शौरिब्रह्मस्वरूपधृक् ॥ १२४ ॥

महादेवो महामूर्तिर्महायोगयुतः सदा ।
जगन्ति तस्य रूपाणि तानि को गदितुं क्षमः ॥ १२५ ॥

किन्तु यैरिह रूपैस्तु इहरत्येष शङ्करः ।
तेषां यन्मे ज्ञानगम्यं तत्रेष्टं निगदामि वाम् ॥ १२६ ॥

प्रथमं शृणुतं मन्त्रं ततोऽनुध्यानगोचरम् ।
ततः क्रमं तु पूजायाः क्रमाद् वृत्तं नरर्षभौ ॥ १२७ ॥

समस्तानां स्वराणां तु दीर्घाः शेषाः सबिन्दुकाः ।
ऋऌशून्याः सार्धचन्द्रा उपान्तेनाभिसंहिताः ॥ १२८ ॥

एभिः पञ्चाक्षरैर्मन्त्रं पञ्चवक्त्रस्य कीर्तितम् ।
क्रमात् सम्मदसन्दोह-नादगौरव-सञ्ज्ञकाः ॥ १२९ ॥

प्रासादस्तु भवेच्छेषः पञ्चमन्त्राः प्रकीर्तिताः ।
एकैकेन तथैकैकं वक्त्रं देवं प्रपूजयेत् ॥ १३० ॥

एकं समुदितं कृत्वा पञ्चभिर्वा प्रपूजयेत् ।
प्रसादेनाथ वा पञ्चवक्त्रं देवं प्रपूजयेत् ॥ १३१ ॥

सम्मदादिषु मन्त्रेषु प्रासादस्तु प्रशस्यते ।
शम्भोः प्रसादनेनैष यस्माद् वृत्तस्तु मन्त्रकः ॥ १३२ ॥

तेन प्रासादसञ्ज्ञोऽयं कथ्यते मुनिसत्तमैः ।
तस्मात् सर्वेषु मन्त्रेषु प्रासादः प्रीतिदः परः ॥ १३३ ॥

आमोदकारकः शम्भोर्मन्त्रः सम्मद उच्यते ।
मनःप्रपूरणाच्चापि सन्दोहः परिकीर्तितः ॥ १३४ ॥

आकर्षको भवेन्नादो गुरुत्वाद् गौरवाह्वयः ।
एतद्व्यस्तं समस्तं च मन्त्रं शम्भोः प्रकीर्तितम् ॥ १३५ ॥

पञ्चाक्षरं तु यन्मन्त्रं पञ्चवक्त्रस्य कीर्तितम् ।
युवां तेनैव मन्त्रेण आराधयतमीश्वरम् ॥ १३६ ॥

ध्यानं वक्ष्यामि सृणुतं सम्यग् वेतालभैरवौ ।
पञ्चवक्त्रं महाकायं जटाजूटविभूषितम् ॥ १३७ ॥

चारुचन्द्रकलायुक्तं मूर्ध्नि बालौघभूषितम् ।
बाहुभिर्दशभिर्युक्तं व्याघ्रचर्मामराम्बरम् ॥ १३८ ॥

कालकूटधरं कण्ठे नागहारोपशोभितम् ।
किरीटबन्धनं बाहुभूषणं च भुजङ्गमान् ॥ १३९ ॥

बिभ्रतं सर्वगात्रेषु ज्योत्स्नार्पितसुरोचिषम् ।
भूतिसंलिप्तसर्वाङ्गमेकैकत्र त्रिभिस्त्रिभिः ॥ १४० ॥

नेत्रैस्तु पञ्चदशभिर्ज्योर्तिष्मद्भिर्विराजितम् ।
वृषभोपरि संस्थं तु गजकृत्तिपरिच्छदम् ॥ १४१ ॥

सद्योजातं वामदेवमघोरं च ततः परम् ।
तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्तितम् ॥ १४२ ॥

सद्योजातं भवेच्छुक्लं शुद्धस्फटिकसन्निभम् ।
पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ॥ १४३ ॥

नीलवर्णमघोरं तु दंष्ट्वा भीतिविवर्धनम् ।
रक्तं तत्पुरुषं देवं दिव्यमूर्ति मनोहरम् ॥ १४४ ॥

श्यामलं च तथेशानं सर्वदैव शिवात्मकम् ।
चिन्तयेत् पश्चिमे त्वाद्यं द्वितीयं तु तथोत्तरे ॥ १४५ ॥

अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा ।
ईशानं मध्यतो ज्ञेयं चिन्तयेद् भक्तितत्परः ॥ १४६ ॥

शक्तित्रिशूलखट्वाङ्गवरदाभयदं शिवम् ।
दक्षिणेष्वथ हस्तेषु वामेष्वपि ततः सुभम् ॥ १४७ ॥

अक्षसूत्रं बीजपूरं भुजगं डमरूत्पलम् ।
अष्टैश्वर्यसमायुक्तं ध्यायेत् तु हृद्गतं शिवम् ॥ १४८ ॥

एवं विचिन्तयेद् ध्याने महादेवं जगत्पतिम् ।
चिन्तयित्वा द्वारपालान् गणेशादीन् प्रपूजयेत् ॥ १४९ ॥

विशुद्धिं पञ्चभूतानां चिन्तयित्वा ततो मुहुः ।
अष्टमूर्तीस्ततः पश्चात् पूजयेदष्टनामभिः ॥ १५० ॥

आसनानि च तस्याथ पूजयेत् सकलानि तु ।
भावादीन्यष्टपुष्पाणि हृदैव विनियोजयेत् ॥ १५१ ॥

नाराचमुद्रया तस्य ताडनं परिकीर्तितम् ।
विसर्जनं धेनुमुद्रां दर्शयित्वा विधानतः ॥ १५२ ॥

निर्माल्यधारणं कुर्यात् सदा चण्डेश्वरं धिया ।
प्रत्येकं पञ्चभिर्मन्त्रैरङ्गादीनि प्रमार्जयेत् ॥ १५३ ॥

सम्मदादिभिरेतस्य पूर्वोक्तैर्नरसत्तमौ ।
बालां ज्येष्ठां तथा रौद्रीं कालीं च तदनन्तरम् ॥ १५४ ॥

कलविकरिणीं देवीं बलप्रमथिनीं तथा ।
दमनीं सर्वभूतानां मनोन्मथिनीं तथैव च ॥ १५५ ॥

अष्टौ ताः पूजयेद् देवीः क्रमाच्छम्भोश्च प्रीतये ।
एवं शिवं पूजयित्वा ध्यानतत्परमानसः ॥ १५६ ॥

जपेन्मालां समादाय मन्त्रं ध्यात्वा तथा गुरुम् ।
एकं पञ्चाक्षरं मन्त्रमेकं प्रासादमेव वा ॥ १५७ ॥

तत्सक्तमनसौ जप्त्वा शीघ्रं सिद्धिमवाप्स्यथः ।
इति वां कथितं मन्त्रं ध्यानपूजाक्रमं तथा ।
गच्छतं नाटकं शैलं तत्राराधयतं हरम् ॥ १५८ ॥

पञ्चाक्षरस्तु मन्त्रोऽयं धृतस्त्वत्सम्मते मुने ।
अनेनैव हरं देवं पूजयिष्यावहे मुदा ॥ १५९ ॥

इत्युक्त्वा तन्नमस्कृत्य तदा वेतालभैरवौ ।
जग्मुतुर्नाटकं शैलं वशिष्ठानुमते नृप ॥ १६० ॥

तत्रास्ति सरसी रम्या सुसम्पूर्णमनीहरा ।
सर्वदा स्वच्छसलिला प्रफुल्लकमलोत्पला ॥ १६१ ॥

तस्यास्तीरे तु विपुलः सुमनोज्ञो हराश्रमः ।
सर्वदा दानवैर्देवैः किन्नरैः प्रमथैस्तथा ॥ १६२ ॥

रक्ष्यते नृपशार्दूल नृत्यवादनतत्परैः ।
यस्मान्नटति तत्रेशो नित्यं कौतुकतत्परः ॥ १६३ ॥

तस्मान्नाटकनान्नसौ शैलराजः प्रगीयते ।
छत्राकारं तु तं शैलं मनोज्ञं शङ्करप्रियम् ॥ १६४ ॥

आसाद्य यत्र सरसी तत्र गत्वा तु तौ तदा ।
न चैवापश्यतां तत्र हराश्रममनुत्तमम् ॥ १६५ ॥

गन्तुं चैवाश्रमस्थानं तौ नैवाशकतां नृप ।
ततो हरं प्रणम्याशु तस्यैव सरसस्तटे ॥ १६६ ॥

निर्माय स्थण्डिलं चारु वशिष्ठोक्तक्रमेण तु ।
हरमाराद्धुमारेभे वेतालो भैरवोऽपि च ॥ १६७ ॥

आराधयन्तौ भूतेशं तौ तदा शङ्करात्मजौ ।
दृष्ट्वा हरो देवगणैः सार्धं तस्मिंस्तु पर्वते ।
अधित्यकायां न्यवसत् स्वाश्रमेऽपर्णया सह ॥ १६८ ॥

अधोभागे सरस्तीरे तपस्यन्तौ हरात्मजौ ।
स्थितौ दृष्ट्वा देवगणैः सहितः शङ्करः स्थितः ॥ १६९ ॥

नृत्यमर्दलशब्दो यो हरस्य सततं भवेत् ।
शृणुतस्तौ तदा शब्दं गन्तुं द्रष्टुं न लभ्यते ॥ १७० ॥

हरेणाधिष्ठितः शैलः सर्वदेवगणैः सह ।
राजते स्म तदा भूप सुधर्मा वासवी यथा ॥ १७१ ॥

ध्यायतोस्तु तदा तत्र भगवान् वृषभध्वजः ।
नचिरादेव तस्याभूद् ध्यानमार्गेषु निश्चलः ॥ १७२ ॥

तौ पुजयन्तौ गच्छन्तौ स्थितौ वा चन्द्रशेखरम् ।
नैव अत्यजतुश्चित्तैः कदाचिदपि भूमिप ॥ १७३ ॥

पञ्चाक्षरेण मन्त्रेण पूजयन्तौ वृषध्वजम् ।
व्यतिचक्रमतुस्तौ तु सहस्रं परिवत्सरान् ॥ १७४ ॥

निराहारौ यताहारौ हरसंसक्तमानसौ ।
तपसा निन्यतुर्वर्षान् सहस्रं चैकवर्षवत् ॥ १७५ ॥

गते वर्षसहस्रे तु स्वयमेव वृषध्वजः ।
प्रसङ्गस्तु तयोर्भूत्वा प्रत्यक्षत्वमुपागतः ॥ १७६ ॥

तं तु प्रत्यक्षतो दृष्ट्वा तदा वेतालभैरवौ ।
वृषध्वजं तुष्टुवतुर्ध्यानगम्यं पुरःस्थितम् ॥ १७७ ॥

हररूपं यथाध्यातं हृद्गतं तेजसोज्ज्वलम् ।
तथा दृष्ट्वा ततस्ताभ्याम् अशिष्ठस्यानुमानतः ॥ १७८ ॥
मूलम्
हररूपं यथाध्यातं हृद्गतं तेजसोज्ज्वलम् ।
तथा दृष्ट्वा ततस्ताभ्याम् अशिष्ठस्यानुमानतः ॥ १७८ ॥
विश्वास-प्रस्तुतिः
वेतालभैरवावूचतुः
पञ्चवक्त्रं महाकाव्यं सर्वज्ञानमयं परम् ।
संसारसागरत्राणं प्रणमावो वृषध्वजम् ॥ १७९ ॥

त्वं परः परमात्मा च परेशः पुरुषोत्तमः ।
त्वं कूटस्थो जगद्व्यापी प्रधानः परमेश्वरः ॥ १८० ॥

रूपात्मा त्वं महातत्त्वं तत्त्वज्ञानालयः प्रभुः ।
साङ्ख्ययोगालयः शुद्धो गुणत्रयविभागवित् ॥ १८१ ॥

त्वं नित्यस्त्वमनित्यश्च जगत्कर्ता लयः स्मृतः ।
एकोऽनेकस्वरूपश्च शान्तचेष्टो जगन्मयः ॥ १८२ ॥

निर्विकारो निराधारो नित्यानन्दः सनातनः ।
त्वं विष्णुस्त्वं महेन्द्रस्त्वं ब्रह्मा त्वं जगतां पतिः ॥ १८३ ॥

यो रूपरूपेश्वररत्नमालः
सम्भूतिभूतो निरवग्रहश्च ।
काक्ष्यावतीर्णावगतप्रमाथी
योगेश्वरो ज्ञानगतिस्त्वगम्यः ॥ १८४ ॥
मूलम्
यो रूपरूपेश्वररत्नमालः
सम्भूतिभूतो निरवग्रहश्च ।
काक्ष्यावतीर्णावगतप्रमाथी
योगेश्वरो ज्ञानगतिस्त्वगम्यः ॥ १८४ ॥
विश्वास-प्रस्तुतिः
प्रमेयरूपात्मधराधराभो
भोगीन्द्रबद्धामृतभोगतन्त्रः ।
सूक्ष्माक्षरस्तत्त्वविदप्रमाथी
त्वं देवदेवः शरणं सुराणाम् ॥ १८५ ॥
मूलम्
प्रमेयरूपात्मधराधराभो
भोगीन्द्रबद्धामृतभोगतन्त्रः ।
सूक्ष्माक्षरस्तत्त्वविदप्रमाथी
त्वं देवदेवः शरणं सुराणाम् ॥ १८५ ॥
विश्वास-प्रस्तुतिः
विकल्पमानापरिहीनदेहः
शुद्धान्तधामानुगतैकविद्यः ।
वर्धिष्णुरुग्रः पुरुषः परात्मा
त्वमिन्द्रियौघस्य विचारबुद्धि ॥ १८६ ॥
मूलम्
विकल्पमानापरिहीनदेहः
शुद्धान्तधामानुगतैकविद्यः ।
वर्धिष्णुरुग्रः पुरुषः परात्मा
त्वमिन्द्रियौघस्य विचारबुद्धि ॥ १८६ ॥
विश्वास-प्रस्तुतिः
त्वं नाथनाथ प्रभवः परेषां
गतिर्मुनीनां परयोगिगम्यः ।
त्वम्भूधरो भागधरो ह्यनन्तो
विश्वात्मनस्ते बहवः प्रपञ्चाः ॥ १८७ ॥
मूलम्
त्वं नाथनाथ प्रभवः परेषां
गतिर्मुनीनां परयोगिगम्यः ।
त्वम्भूधरो भागधरो ह्यनन्तो
विश्वात्मनस्ते बहवः प्रपञ्चाः ॥ १८७ ॥
विश्वास-प्रस्तुतिः
ज्ञानामृतस्यन्दकपूर्णचन्द्रो
मोहान्धकारस्य परः प्रदीपः ।
भक्तात्मजानां परमः पिता त्व
कामे च पञ्चाननरूपधारी ॥ १८८ ॥
मूलम्
ज्ञानामृतस्यन्दकपूर्णचन्द्रो
मोहान्धकारस्य परः प्रदीपः ।
भक्तात्मजानां परमः पिता त्व
कामे च पञ्चाननरूपधारी ॥ १८८ ॥
विश्वास-प्रस्तुतिः
शास्त्राखिलानां प्रथमो विवस्वां-
स्तनूनपात् त्वं तनुषे गुणौधान् ।
त्वं ब्रह्मरूपेण करोषि सृष्टिं
विष्णुस्वरूपैः सततं स्थितिं च ॥ १८९ ॥
मूलम्
शास्त्राखिलानां प्रथमो विवस्वां-
स्तनूनपात् त्वं तनुषे गुणौधान् ।
त्वं ब्रह्मरूपेण करोषि सृष्टिं
विष्णुस्वरूपैः सततं स्थितिं च ॥ १८९ ॥
विश्वास-प्रस्तुतिः
त्वं रुद्ररूपी कुरुषे तथान्तं
त्वत्तो न चान्यज्जगतीह वस्तु ।
त्वं रात्रिनाथो दिवसेश्वरश्च
त्वमग्निरापः पवनो धरित्री ॥ १९० ॥
मूलम्
त्वं रुद्ररूपी कुरुषे तथान्तं
त्वत्तो न चान्यज्जगतीह वस्तु ।
त्वं रात्रिनाथो दिवसेश्वरश्च
त्वमग्निरापः पवनो धरित्री ॥ १९० ॥
विश्वास-प्रस्तुतिः
नभस्तथा त्वं क्रतुतन्त्रहोता
त्वमष्टमूर्तिर्भवतो न चान्यत् ।
अनन्तमूर्तिस्त्विह मुख्यभावा-
न्निगद्यते चाष्टमयी त्रिमूर्तिः ॥ १९१ ॥
मूलम्
नभस्तथा त्वं क्रतुतन्त्रहोता
त्वमष्टमूर्तिर्भवतो न चान्यत् ।
अनन्तमूर्तिस्त्विह मुख्यभावा-
न्निगद्यते चाष्टमयी त्रिमूर्तिः ॥ १९१ ॥
विश्वास-प्रस्तुतिः
अनन्तमूर्ते कथमन्यथा ते
सङ्ख्यास्ति रूपस्य यदष्टमूर्तिः ।
त्वं त्र्यम्बकस्त्वं त्रिपुरान्तकश्च
त्व शम्भुरीशः शमनो विधाता ॥ १९२ ॥
मूलम्
अनन्तमूर्ते कथमन्यथा ते
सङ्ख्यास्ति रूपस्य यदष्टमूर्तिः ।
त्वं त्र्यम्बकस्त्वं त्रिपुरान्तकश्च
त्व शम्भुरीशः शमनो विधाता ॥ १९२ ॥
विश्वास-प्रस्तुतिः
सहस्रबाहुश्च हिरण्यबाहुः
सहस्रमूर्तिस्त्विह पञ्चवक्त्रः ।
प्रभूतनेत्रस्तु षडर्द्धनेत्रः
प्रभूतबाहुर्दशबाहुरीशः ॥ १९३ ॥
मूलम्
सहस्रबाहुश्च हिरण्यबाहुः
सहस्रमूर्तिस्त्विह पञ्चवक्त्रः ।
प्रभूतनेत्रस्तु षडर्द्धनेत्रः
प्रभूतबाहुर्दशबाहुरीशः ॥ १९३ ॥
विश्वास-प्रस्तुतिः
प्रभूतभोगी मितभोगयुक्तो
भोग्यानुसारो निरवग्रहश्च ॥ १९४ ॥
मूलम्
प्रभूतभोगी मितभोगयुक्तो
भोग्यानुसारो निरवग्रहश्च ॥ १९४ ॥
विश्वास-प्रस्तुतिः
नित्यानित्यस्वरूपाय नित्यधामस्वरूपिणे ।
परतत्त्वस्वरूपाय नमस्तुभ्यं शिवात्मने ॥ १९५ ॥

नान्तं लिङ्गस्य यस्याप्तं विष्णुना ब्रह्मणा तव ।
तस्यावां कि विधास्यावः स्तुतिवाक्यं वृषध्वजः ॥ १९६ ॥

स्वरूपं यस्य जानन्ति न देवा नापि दानवाः ।
आलावावां कथन्तु त्वां स्तोष्यावः परमेश्वरः ॥ १९७ ॥

भक्तिमात्रेण देवेश अवावां वृषभध्वज ।
कुर्वः प्रणामं गौरीश भूयस्तुभ्यं नमो नमः ॥ १९८ ॥

इति स्तुतो महादेवो वेतालेन महात्मना ।
भैरवेणापि राजेन्द्र प्रसन्नः प्राह तौ तदा ॥ १९९ ॥

श्री भगवानुवाच
तुष्टोऽस्मि युवयोः पुत्रौ वृणुतं वाञ्छितं वरम् ।
दास्यामि युवयोरिष्टं प्रसन्नोऽहं तपोव्रतैः ॥ २०० ॥

स्तुतिभिस्तु दमैश्चापि तथैकान्ताउचिन्तनैः ।
मुहुर्मुहुः सुप्रसन्न इष्टं दास्यामि वां सुतौ ॥ २०१ ॥
मूलम्
स्तुतिभिस्तु दमैश्चापि तथैकान्ताउचिन्तनैः ।
मुहुर्मुहुः सुप्रसन्न इष्टं दास्यामि वां सुतौ ॥ २०१ ॥
विश्वास-प्रस्तुतिः
वेतालभैरवावूचतुः
तुष्टोऽसि यदि सत्यं नौ सत्यमावां सुतौ यदि ।
वृषध्वज तवैवेह तदेष्टं देहि नौ वरम् ॥ २०२ ॥

सुतभावेन पितरं भवन्तं जगतां पतिम् ।
नित्यं यथावगच्छावस्तथा देहि वरं तु नौ ॥ २०३ ॥

न राज्यमभिकाङ्क्षावो न धनं नान्यदेव वा ।
त्वद्भक्त्या सेवनं कर्तुं तवेच्छावो वृषध्वज ॥ २०४ ॥

त्वत्पादपङ्कजद्वन्द्वे नित्यं मधुकरात्मताम् ।
त्वयि प्रसन्ने नेत्राणां युगले प्राप्नुतां सदा ॥ २०५ ॥

इतोऽन्यथा त्वच्चिन्ताभिस्त्वद्द्यानैस्त्वत्प्रपूजनैः ।
कल्पकोटिसहस्राणि यान्तु सम्यक्तथावयोः ॥ २०६ ॥

ततस्तद् वचनं श्रुत्वा महादेवो हसन्निव ।
सर्वैर्देवगणैः सार्धं देवत्वमकरोत्तयोः ॥ २०७ ॥

देवेन्द्रसम्मतेनैव सुधामानीय नाकतः ।
वेतालभैरवौ तान्तु पाययामास शङ्करः ॥ २०८ ॥

पीतेऽमृते ततस्तौ तु मर्त्यतां नरसत्तमौ ।
अमर्त्यतां परित्यज्य प्रापतुः शिवशक्तितः ॥ २०९ ॥

तस्मिन्काले स्वपन्तौ तु दिव्यज्ञानबलान्वितौ ।
दिव्यरूपोपसम्पन्नौ बभूवतुररिन्दमौ ॥ २१० ॥

अभिन्नेनैव देहेन देवत्वं गतयोस्तयोः ।
प्राह शम्भुस्तदा तौ तु सुतौ परमहर्षितौ ॥ २११ ॥

भगवानुवाच
अहं तुष्टस्तु युवयोः पार्वतीं दयितां मम ।
मद्दत्तं काममिच्छन्तावाराधयतमीश्वरीम् ॥ २१२ ॥

तामृते तु न शक्नोमि दातुमिष्टं सनातनम् ।
सेवितुं च सुतौ नित्यं शरणं व्रजतं शिवाम् ॥ २१३ ॥

अचिराद् येन भावेन प्रीतिं देवी गमिष्यति ।
त्र वा तत्र वा गत्वा तेन भावेन चार्यताम् ॥ २१४ ॥

इति श्रीकालिकापुराणे वेताल-भैरवोत्पत्तिकथने कपञ्चाशोऽध्यायः ॥ ५१ ॥