५०

पञ्चाशोऽध्यायः

और्व उवाच

विश्वास-प्रस्तुतिः

अथ काले व्यतीते तु पुनस्तारावती शुभा ।
आर्तवं विहितं स्नानं नदीं प्राप्ता दृषद्वतीम् ॥ १ ॥

मूलम्

दासीसहस्रैः संयुक्ता नानालङ्कारमण्डिता ।
रम्भादिभिर्यथेन्द्राणी तथा सा प्रत्यदृश्यत ॥ २ ॥

सावतीर्णा जले देवी गौराङ्गी तडिदुज्ज्वला ।
नदीमुज्ज्वलयामास भिन्नाञ्जनसमाम्भसम् ॥ ३ ॥

स्थलीं काचमयीं स्वच्छां काञ्चनीप्रतिमा यथा ।
स्वभासा ज्वलयामास प्रतिबिम्बेन सा तथा ॥ ४ ॥

अथ तां पुनरेवाथ कपोतो मुनिसत्तमः ।
आनाभिमग्नां तोयौघैर्ददर्श सुमनोहराम् ॥ ५ ॥

दृष्ट्वा तामथ पप्रच्छ तदा चित्राङ्गदां मुनिः ।
केयं जले दृषद्वत्यामवतीर्णा सखीशतैः ॥ ६ ॥

श्रिया ज्वलन्ती श्रीतुल्या किमपर्णा गिरेः सुता ।
अतीव भ्राजते रूपैर्न संस्तौषि च तां किमु ॥ ७ ॥

अथ तस्य वचः श्रुत्वा मुनेश्चित्राङ्गदा तदा ।
ऋषिशापभयात् साध्वी संस्तौमीति तदाऽब्रवीत् ॥ ८ ॥

इयं तारावती नाम ककुत्स्थस्य सुता सती ।
चन्द्रशेखरभूपालभार्याऽतिदयिता शुभा ॥ ९ ॥

एषा त्वया कामिता तु कामार्थं पूर्वतो मुने ।
स्वालङ्कारैरङ्कृत्य मां दत्त्वा ते गृहं गता ॥ १० ॥

सेयं पुनर्नदीं स्नातुं भगिनी मे समागता ।
ज्येष्ठां तां तु मुने वक्तुं न ते किञ्चिच्च युज्यते ॥ ११ ॥

त्वमत्र तिष्ठ विप्रेन्द्र ज्येष्ठा तां भगिनीं प्रियाम् ।
समाभाष्य समेष्ये त्वामनुजानासि चेद् गतौ ॥ १२ ॥

इति श्रुत्वा वचस्तस्या मुनिः स्नेहेन वञ्चनाम् ।
तारावत्या कृतां पूर्वं मुनिस्तस्यै चुकोप ह ॥ १३ ॥

इयं पापीयसी रामा वञ्चनामकरोन्मयि ।
तस्याः सङ्कालनञ्चाहं करिष्याम्यद्यनिश्चितम् ॥ १४ ॥

इत्युक्त्वा स तया सार्धं मुनिश्चिताङ्गदाख्यया ।
जगाम यत्र सा देवी स्थिता तारावती शुभा ॥ १५ ॥

गत्वा तां तु समासाद्य कपोतो मुनिसत्तमः ।
इदं तारावतीं प्राह कुपितः प्रहसन्निव ॥ १६ ॥

कामार्थं प्रार्थिता पूर्वं त्वं मया च्छद्मना त्वया ।
वञ्चितोऽस्मि दुराधर्षे धलं तस्य समापुहि ॥ १७ ॥

ममापि पुरतः पापे त्वं सतीति विकत्थसे ।
सतीत्वभ्रंशकं मां त्वं नैव कामितवत्यसि ॥ १८ ॥

तस्माद् बीभत्सवेषास्त्वां कपाली पलितो रहः ।
विरूपो धनहीनश्च कामयिष्यति वै हठात् ॥ १९ ॥

सद्योजातं पुत्रयुगं सश्रीकं वानराननम् ।
भविष्यति च ते पापे त्वेकाब्दाभ्यन्तरेऽधुना ॥ २० ॥

एतच्छ्रुत्वा मुनेर्वाक्यं प्राह तारावती मुनिम् ।
कोपाद् भयाच्च सा देवी स्फुरदोष्ठपुटा तदा ॥ २१ ॥

यदि सा पूजयित्वा तु चण्डिकां प्राप मां प्रसूः ।
यद्यहं व्रतिनी नित्यं भूपतौ चन्द्रशेखरे ॥ २२ ॥

ककुत्स्थस्य सुता सत्यं यद्यहं द्विजसत्तम ।
तेन सत्येन मे देवान्नान्यो मां कामयिष्यति ॥ २३ ॥

यदि सत्यं महादेवो नित्यमाराध्यते मया ।
तेन सत्येन मे देवादाराध्याच्चन्द्रशेखरात् ॥ २४ ॥

स्वप्नेऽपि मुनिशार्दूल नान्यो मां कामयिष्यति ।
इत्युक्त्वा सा मुनिं नत्वा स्वामिविन्यस्तमानसा ॥ २५ ॥

ययौ तारावती देवी स्वस्थानमिति भामिनी ।
तस्यां गतायां देव्यां तु चिन्तयामास तां मुनिः ॥ २६ ॥

ममैव पुरतश्चैषा निर्भीताति प्रवल्गते ।
अत्रान्तर्विनिगूढं तु बीजं शुद्धं भविष्यति ॥ २७ ॥

एवं विचिन्त्य स मुनिर्ध्यानसंयुक्तमानसः ।
दिव्यज्ञानपरो भूत्वा सर्ववृत्तान्तमाददे ॥ २८ ॥

यथा भृङ्गिमहाकालौ देव्या शप्तौ सुतावुभौ ।
प्रतिशापं यथा तौ तु ददतुः पार्वतीं हरम् ॥ २९ ॥

यथावतीर्णौ मानुष्ययोनौ तौ तु यदर्थतः ।
चित्राङ्गदा यथा जाता यदर्थं देवकन्यका ॥ ३० ॥

दिव्यज्ञानेन तज्ज्ञात्वा मुनिः किञ्चन नाकरोत् ।
चित्राङ्गदामादरेण समादाय मुनिस्ततः ॥ ३१ ॥

स्वस्थानं गतवान् विप्रः पूजयामास तां मुनिः ।
तारावती च तत्सर्वं चन्द्रशेखरभूपतेः ॥ ३२ ॥

वृत्तान्त मुनिशापस्य कथयामास भामिनी ।
तत्सर्वं पौष्यजो राजा स्वगतं चिन्तया युतः ॥ ३३ ॥

आश्वास्य दयितां भार्यां माभैर्देवीति सोऽचिरात् ।
सततं सेवया पत्युर्धर्मार्थपरिसेवनैः ॥ ३४ ॥

वर्जनादप्रशस्तानां मुनिशापोऽपनीयते ।
तस्मात् त्वं देवि सुभगे चारित्रव्रतधारिणी ॥ ३५ ॥

कल्याणभागिनी नित्यं नापदं समवाप्स्यसि ।
एवमुक्त्वा स राजा तु करवीरपुराधिपः ॥ ३६ ॥

प्रासादं कारयामास उच्चैरभ्रङ्कषं बहु ।
उच्चैश्चतुःशतं व्यामं त्रिंशद्योजनविस्तृतम् ॥ ३७ ॥

रत्नस्फटिकभूम्यन्तःखचितं रत्नकर्बुरैः ।
वैदूर्यपटलैः शुभ्रैश्छादितं सुमनोहरम् ॥ ३८ ॥

स्वर्णं रत्नतुलास्तम्भं विश्वकर्मविनिर्मितम् ।
रक्षार्थं कारयामास तारावत्याः प्रियङ्करम् ॥ ३९ ॥

रत्नसोपानसंयुक्तं वैदूर्यवलभीयुतम् ।
सौवर्णनीपसम्बद्धसुधर्मा अदृशं गुणैः ॥ ४० ॥

तस्यां समस्तभोग्यानि स्वादूनि च मृदूनि च ।
आप्तैरासादयामास पुरुषैश्चन्द्रशेखरः ॥ ४१ ॥

ततस्तारावतीं देवीमादाय चन्द्रशेखरः ।
नित्यं प्रासादपृष्ठं तमारुह्य रमते नृपः ॥ ४२ ॥

एवं संवत्सरं यावदन्यैरप्राप्यवेश्मनि ।
आप्तैरधिष्ठितद्वारि तां देवीं समरक्षत ॥ ४३ ॥

एकदा तु विना तेन करवीराधिपेन तु ।
उच्चैः प्रासादमारुह्य स्थिता तारावती सदा ॥ ४४ ॥

चिन्तयन्ती नृपं तं तु दयितं चन्द्रशेखरम् ।
तत्पदे न्यस्तमनसा सावित्रीव पतिव्रता ॥ ४५ ॥

आराध्य च महादेवं पार्वत्या सहितं तदा ।
इष्टां देवीं च सा देवी चिन्तयन्ती स्म च स्थिता ॥ ४६ ॥

तत्र सा चिन्तयन्ती तु त्र्यम्बकं चन्द्रशेखरम् ।
विवेद भेदं न तयोश्चन्द्रशेखरयोर्द्वयोः ॥ ४७ ॥

एवं प्रासादपृष्ठे तु स्थिता तारावती सती ।
सुधर्मामध्यगा देवि शक्रश्रीरिव भूषिता ॥ ४८ ॥

अथोमया समं देवो वियता चन्द्रशेखरः ।
आजगाम तदा गच्छन् प्रासादं प्रति तं नृप ॥ ४९ ॥

अदृशे सूत्तरन्ती सा उमायाः सदृशी गुणैः ।
सर्वलक्षण-सम्पूर्णा माधवस्येव माधवी ॥ ५० ॥

तां दृष्ट्वा न्यगदद् देवीं गौरीं वृषभकेतनः ।
स्मितप्रसन्नवदनः प्रहसन्निव भामिनीम् ॥ ५१ ॥

ईश्वर उवाच

विश्वास-प्रस्तुतिः

इयं ते मानुषी मूर्तिः प्रिये तारावतीति या ।
भृङ्गिमहाकालयोस्ते जन्मनो विहिता स्वयम् ॥ ५२ ॥

त्वत्तो ह्यनन्यकान्तोऽहं नान्यं गन्तुमिहोत्सहे ।
त्वमिदानीं स्वयं चास्यां मूर्त्यां प्रविश भामिनि ।
तत उत्पादयिष्यामि महाकालं च भृङ्गिणम् ॥ ५३ ॥

देव्युवाच

विश्वास-प्रस्तुतिः

ममैव मानुषी मूर्तिरस्यां वृषभकेतन ।
विशामि तेऽत्र वचनादुत्पादय सुतद्वयम् ॥ ५३ ॥

मम भृङ्गिमहाकाल कपोतानां च शापतः ।
एवं मोक्षो भवेद् भर्ग तस्मात् त्वं कुरुमत्प्रियम् ॥ ५५ ॥

प्रविवेश ततो देवी स्वयं तारावतीतनौ ।
महादेवोऽपि तस्यां तु कामार्थं समुपस्थितः ॥ ५६ ॥

ततः सापर्णयाविष्टा देवी तारावती सती ।
कामयानं महादेवं स्वयमेवाभजन्मुदा ॥ ५७ ॥

मूलम्

ततः सापर्णयाविष्टा देवी तारावती सती ।
कामयानं महादेवं स्वयमेवाभजन्मुदा ॥ ५७ ॥

विश्वास-प्रस्तुतिः

तस्मिन्कालेऽभवद्गर्गः कपाली चास्थिमाल्यधृक् ।
वीभत्सवेशो दुर्गन्धः पलितोऽतिविरूपधृक् ॥ ५८ ॥

कामावसाने तस्यां तु सद्योजातं सुतद्वयम् ।
अभवन्नृपशार्दूल तथाशाखामृगाननम् ॥ ५९ ॥

तद्देहान्निःसृतापर्णा जातयोः सुतयोस्तयोः ।
मोहयित्वा यथात्मानं न जानाति ककुत्स्थजा ॥

अहम् औरी तथा भर्गभावेन मानुषेण तु ॥ ६० ॥
विश्वास-प्रस्तुतिः

अथ तारावती देवी सुतौ दृष्ट्वा क्षितिस्थितौ ।
आतिव्रत्यात् परिभ्रष्टा आत्मानं वीक्ष्य भामिनी ॥ ६१ ॥

तथा बीभत्सवेशं तु हरं दृष्ट्वाग्रतः स्थितम् ।
मुनिशापं तदा मेने प्राप्तं कालान्तकोपमम् ॥ ६२ ॥

इति शोकविमुढा च निनिन्द च सतीव्रतम् ।
इदं चोवाच तं वीक्ष्य महादेवं त्रिशूलिनम् ॥ ६२ ॥

मुनिव्रतादपि वरं नारीणां च सतीव्रतम् ।
इति स्म सततं धीरा व्याहरन्ति पुराविदः ॥ ६४ ॥

न तत्सत्यमहं मन्ये यत्प्रवृत्तं ममेदृशम् ।
इत्युक्त्वा सा तदा देवी शुशोच च मुमोह च ॥ ६५ ॥

तामाहाथ महादेवो मा कार्षीस्त्वं वरानने ।
शोकं सतीव्रतं चापि मा निन्द त्वं सुचेतने ॥ ६६ ॥

अपोतेन यदा शप्ता त्वं तदैव तदग्रतः ।
उक्तवत्यसि दीर्घाक्षि यत् तद्भूतं तवाधुना ॥ ६७ ॥

यदि सत्यं महादेवी नित्यमाराध्यते मया ।
तेन सत्येन मे देवादाराध्याच्चन्द्रशेखरात् ॥ ६८ ॥

मूलम्

यदि सत्यं महादेवी नित्यमाराध्यते मया ।
तेन सत्येन मे देवादाराध्याच्चन्द्रशेखरात् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

स्वप्नेऽपि मुनिशार्दूल नान्यो मां कामयिष्यति ।
सोऽहमेव महादेव आराध्यश्चन्द्रशेखरः ॥ ६९ ॥

त्वं मया कामिता चापि मा कार्षीः शोकमङ्गने ।
इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत ॥ ७० ॥

मायया मोहिता देवी तत्र तारावती सती ।
भूमौ मलिनवेशेन मन्युना समुपाविशत् ॥ ७१ ॥

सुतौ च पतितौ भूमौ सा देवी नासभाजयत् ।
भर्तुरागमनं शश्वत् काङ्क्षन्ती भर्गभाषितम् ॥ ७२ ॥

न रराज गृहे चापि मुक्तकेशी तथास्थिता ।
अथ क्षणान्महाभागः स राजा चन्द्रशेखर ॥ ७३ ॥

प्रासादपृष्ठमागच्छद् द्रष्टुं तारावतीं तदा ।
स तं प्रासादमारुह्य जायां तारावतीं तदा ॥ ७४ ॥

ददर्श पतितां भूमौ मुक्तकेशीं निरुत्सवाम् ।
श्यामाननां श्वसन्तीं च अत्यगर्हण तत्पराम् ॥ ७५ ॥

सुतौ च पतितौ भूमौ सूर्याचन्द्रमसौ तदा ।
वानरास्यौ स ददृशे पदक्षोभं वृषस्य च ॥ ७६ ॥

इति सर्वमवेक्ष्याथ सा राजा चन्द्रशेखरः ।
भीतश्च विस्मितश्चैव भार्यां पप्रच्छ सम्भ्रमात् ॥ ७७ ॥

किं किं तारावति तव प्रवृत्तं निर्जने गृहे ।
को वा धषितवांस्त्वां हि शिवः सिंहवधूमिव ॥ ७८ ॥

कस्य वा पृथुकावैतौ प्रोद्दीप्तौ वानराननौ ।
तन्मे द्रुतं समाचक्ष्व को वा त्वां कामितोऽपरः ॥ ७९ ॥

एवमुक्ता तु भूपेन तदा तारावती सती ।
वृत्तान्तं कथयामास सकलं चन्द्रशेखरे ॥ ८० ॥

यथा समागतो भर्ग उत्तरं च यथोक्तवान् ।
तत्सर्वं कथयामास बाष्पकण्ठा सगद्गदा ॥ ८१ ॥

तस्यास्तद्वचनं श्रुत्वा चिन्तयंश्चन्द्रशेखरः ।
किं वृत्तमिति विज्ञातुं भूतले समुपाविशत् ॥ ८२ ॥

स्वगतं चिन्तयन् राजा चकारेमां विचारणाम् ।
अनन्यकान्तो गिरिशः स नान्यां पार्वतीमृते ॥ ८३ ॥

कामयिष्यति तस्मात् स न भर्गः परमेश्वरः ।
ऋषिशापो हि बलवांस्तच्छापादेव राक्षसः ॥ ८४ ॥

कोऽपि मायाबलोपेतः शङ्करच्छद्मनागतः ।
एषा सती प्रिया भार्या राक्षसेनापि दूषिता ॥ ८५ ॥

कथं चेयं मया ग्राह्या पूर्ववत् सर्वकर्मसु ।
एतौ च तनयौ तस्य सद्योजातौ च राक्षसौ ॥ ८६ ॥

अन्यथा वा कथम्भूतौ शाखामृगमुखौ सुतौ ।
एवं चिन्तयतस्तस्य देवौघविनियोजिता ॥ ८७ ॥

सरस्वती वियत्स्था तु राजानमिति चाब्रवीत् ।
न त्वया संशयः कार्यस्तारावत्यां नृपोत्तम ॥ ८८ ॥

सत्यमेव महादेवो भार्यां वव समेयिवान् ।
एमौ च तनयौ तस्य राजंस्त्वं परिपालय ॥ ८९ ॥

योऽन्यस्ते संशयोऽत्रास्ति नारदस्तं विनेष्यति ।
इत्युक्त्वा विररामाशु वाग्देवी प्रियवादिनी ॥ ९० ॥

जातसम्प्रत्ययो राजा भार्यामाश्वासयत्तदा ।
सुतौ तु देवदेवस्य संस्कृत्य विधिना तदा ॥ ९१ ॥

पालयामास नृपतिराकाङ्क्षान्नारदागमम् ।
अथाजगाम देवर्षिर्नारदस्तस्य मन्दिरम् ॥ ९२ ॥

पूजाभिर्बहुभिस्तं तु प्रत्यगृह्णात् स भूपतिः ।
पूजयित्वा यथान्यायं तारावत्या समं नृपः ॥ ९३ ॥

उच्चैः प्रासादमतुलं सुरेशभवनोपमम् ।
आरोहयामास तदा तं मुनिं चन्द्रशेखरः ॥ ९४ ॥

तत्रोपांशु तदा राजा सभार्यश्चन्द्रशेखरः ।
पूर्वप्रवृत्तवृत्तान्तमपृच्छच्चन्द्रशेखरः ॥ ९५ ॥

पूतोस्स्म्यनुगृहीतोऽस्मि भवता ब्रह्मसूनुना ।
अन्तर्बहिश्च विप्रेन्द्र तुङ्गप्रासादगामिना ॥ ९६ ॥

एकं मे संशयं ब्रह्मंश्छेतूमर्हसि हृद्गतम् ।
त्वदन्यः संशयस्यास्य च्छेत्ता नैवास्ति कुत्रचित् ॥ ९७ ॥

ऋषिशापेन भार्येयं मम तारावती सती ।
बीभत्सवेशाकृतिना धर्षिता कृत्तिवाससा ॥ ९८ ॥

तस्यात्मजौ समुत्पन्नौ सद्योजाताविमौ पुनः ।
अत्र मे संशयं शाश्वन्नित्यं चित्ते प्रवर्तते ॥ ९९ ॥

अनन्यकान्तो गिरिशो गिरिजां पार्वतीमृते ।
कथं सङ्गमयामास मानुषीं हीनजन्मजाम् ॥ १०० ॥

कथमुत्पादयामास अनुष्यौ तनयौ स्वकौ ।
एदत्सर्वं समाचक्ष्व यदि गुह्यं न ते भवेत् ॥ १०१ ॥

इति पृष्टः स तु मुनिश्चन्द्रशेखरभूभृता ।
कथयामास तत्सर्वं नारदो मुनिसत्तमः ॥ १०२ ॥

यथा भृङ्गिमहाकालौ समुत्पन्नौ पुरातनौ ।
यथा शप्तौ च पार्वत्या तौ ओदाहरतां यथा ॥ १०३ ॥

यथा पौष्यसुतो जातो भर्गः स चन्द्रशेखरः ।
तारावती ककुत्स्थस्य गृहे गौरी यथाभवत् ॥ १०४ ॥

तत्सर्वं कथयामास नारदश्चन्द्रशेखरे ।
इदं च परमाख्यानं कथयामास नारदः ॥ १०५ ॥

मूलम्

तत्सर्वं कथयामास नारदश्चन्द्रशेखरे ।
इदं च परमाख्यानं कथयामास नारदः ॥ १०५ ॥

नारद उवाच

विश्वास-प्रस्तुतिः

ब्याजहार यदापर्णां कालीति वृषभध्वजः ।
तदोमा तपसे याता वपुर्गौरत्वकाङ्क्षया ॥ १०६ ॥

अमर्षयुक्ता वचनाच्छङ्करस्य गिरेः सुता ।
विनीयमाना भर्गेण सानुं हिमवतो गिरेः ॥ १०७ ॥

तस्यां गतायां पार्वत्यां शङ्करो विरहार्दितः ।
कैलासाद्रिं परित्यज्य मेरुपृष्ठं तदा ययौ ॥ १०८ ॥

तत्रापि शर्म नो लेभे पार्वत्या च विनाकृतः ।
मोहितः कामदेवेन तथा वै योगनिद्रया ॥ १०९ ॥

अथैकदा मेरुपृष्ठे चरन्तीं सुमनोहराम् ।
सावित्रीं ददृशे शम्भुः पार्वत्याः सदृशीं गुणैः ॥ ११० ॥

तां दृष्ट्वा मदनाविष्टः पार्वत्या विरहादितः ।
अविद्यया समाविष्टो बभूव प्राकृतो यथा ॥ १११ ॥

अथ तां पार्वतीभ्रान्त्या चरन्तीमन्वधावत ।
एहि मां पार्वति शुभे भवद्विरहपीडितम् ॥ ११२ ॥

प्रहरत्येष मां कामः पर्ववैरमनुस्मरन् ।
मम तत्र प्रतीकारम् उरु सम्प्रति वल्लभे ॥ ११३ ॥

इत्युक्त्वा विमुखीं यान्तीं सावित्रीं वृषभध्वजः ।
स्कन्धे हस्तेन पस्पर्श सा चुकोप ततो भृशम् ॥ ११४ ॥

अथ सा सम्मुखी भूत्वा सावित्र्यतिपतिव्रता ।
इदमाह महादेवं गर्हयन्ती वृषध्वजम् ॥ ११५ ॥

किं त्वं पशुपते मूर्ख मानुषः प्राकृतो यथा ।
निरस्य कलहैर्भार्यामनुनेतुमिहार्हसि ॥ ११६ ॥

विमूढचेतनः कामैस्त्वं संस्तौषि परस्त्रियम् ।
असंस्तुत्वापि सम्प्रष्टुं मादृशीं युज्यते तव ॥ ११७ ॥

किमहं पार्वती मूढ येन मत्स्कन्धदेशतः ।
हस्तं ददास्यविज्ञाय सावित्रीं विद्धि मां सतीम् ॥ ११८ ॥

अस्मान्मानुषवन्मां त्वमनुजानासि बर्बर ।
तस्मात् त्वं मानुषीयोन्यां सुरतं संविधास्यसि ॥ ११९ ॥

औरीमृते नान्यकान्तस्त्वमन्यां तु समीहसे ।
तस्यैतत्फलितं भर्ग गच्छ मां त्वं परित्यज ॥ १२० ॥

इत्युक्त्वा सा गता देवी स्वमाश्रमपदं सती ।
लज्जाविस्मयसंयुक्तो हरोऽप्यायात् निजास्पदम् ॥ १२१ ॥

अतोऽयं मानुषीयोनौ सुरत शङ्करोऽकरोत् ।
तस्मान्निः संशयं राजन्निमां तारावतीं सतीम् ।
दयस्व तनयावेतौ भर्गस्य प्रतिपालय ॥ १२२ ॥

ततः स राजा श्रुत्वैव नारदस्य मुखात् तदा ।
आत्मनः शम्भुरूपत्वं गौरी तारावतीति च ।
मनुष्ययोनावुत्पन्नावुमावृषभकेतनौ ॥ १२३ ॥

श्रुत्वातिहर्षितो राजा विस्मितो नारदं पुनः ।
पप्रच्छ मुनिशार्दूल विज्ञातुमिति चात्मनः ॥ १२४ ॥

शङ्करत्वं च गौरीत्व तारावत्याः समक्षतः ।
यथाहं तत्तु पश्यामि तं मां ज्ञापय निश्चितम् ॥ १२५ ॥

अङ्के तारावतीं कृत्वा अक्षिणी त्वं निमीलय ।
क्षणं तारावती चापि निमीलयतु चक्षुषी ॥ १२६ ॥

निमील्य पश्चाद्राजेन्द्र न्मीलय ततो द्रुतम् ।
ततस्ते शाम्भवं ज्ञानं रूपं चापि भविष्यति ॥ १२७ ॥

इत्युक्तो नारदेनाथ स राजा चन्द्रशेखरः ।
वामेन पाणिना धृत्वा देवीं तारावतीं सतीम् ॥ १२८ ॥

चक्षुषी च तया सार्धं निमील्योन्मील्य तत्क्षणात् ।
तन्निमीलनकाले तु तस्याभूच्छम्भुरूपता ॥ १२९ ॥

गौरीरूपाऽभवद् देवी ततस्तारावती सती ।
अहं शम्भुरहं गौरीति विज्ञानं तयोरभूत् ॥ १३० ॥

ततः प्रोवाच तं शम्भुं नारदः प्रहसन्निव ।
शम्भुः साक्षाद् भवान् गौरी देवी तारावती स्वयम् ॥ १३१ ॥

प्रत्यक्षं ते महाभाग सम्पश्यात्मानमात्मना ।
ततो राजा भवत्वेवमित्युक्त्वाथ स्वकां तनुम् ॥ १३२ ॥

व्याघ्रचर्मपरीधानां दशभिर्बाहुभिर्युताम् ।
त्रिशूलखट्वाङ्गधरां शक्त्यादिधृतहस्तकाम् ॥ १३३ ॥

वृषभोपरि संस्था तु जटाजूटविभूषिताम् ।
तारां च विद्युद्गौराङ्गी पद्महस्तां शुभाननाम् ॥ १३४ ॥

वीक्ष्य सम्प्रत्ययं प्राप ज्ञानेनापि तदात्मनि ।
ततस्तु नारदः प्राह शृणु राजन् वचो मम ॥ १३५ ॥

नृयोनौ वैष्णवी माया युवां पूर्वममोहयत् ।
तेन तेन शरीरेण शम्भुत्वं नेक्षितं त्वया ॥ १३६ ॥

अधुना दर्शिता तेऽद्य शम्भुना शम्भुरूपता ।
निमील्य नयनद्वन्द्वं पुनस्त्वं याहि मर्त्यताम् ॥ १३७ ॥

आसाद्य मानुषं भावमादेहान्तं स्थिरो भव ।
तथा तारावती देवी तूर्णं भवतु मानुषी ॥ १२८ ॥

आत्मनो देवरूपत्वं ज्ञात्वा दृष्ट्वाऽथ चक्षुसा ।
जात सम्प्रत्ययो राजा न्यमीलयत लोचने ॥ १४९ ॥

ततस्तारावती देवी न्यमीलयत चक्षुषी ।
पुनस्तौ मानवौ जातौ महिषी नृपतिस्तथा ॥ १४० ॥

उन्मील्य तौ तु नेत्राणि मानुषत्वं तदात्मनोः ।
दृष्ट्वा आवां तथा मर्त्याविति ज्ञानमभूत् तयोः ॥ १४१ ॥

ततो विमोहितौ तौ तु दम्पती विष्णुमायया ।
अहं राजा च महिषी अहमित्यभवन्मतिः ॥ १४२ ॥

तस्यां सुतौ तु जायायां देवांशाविति तन्मती ।
आवां स्थिता कला मूर्ध्नि अभूतां जातचिह्नितौ ॥ १४३ ॥

ततः स राजा न्यगदत् तं मुनिं नारदं मुदा ।
सत्यमेतत् त्वया प्रोक्तं करिष्ये वचनं तव ॥ १४४ ॥

पालयिष्ये शम्भुपुत्रौ सत्यलभ्ये सदैव हि ।
किन्त्वेतौ मुनिशार्दूल त्वं संस्कुरु यथाविधि ॥ १४५ ॥

ततस्तयोर्नाम चक्रे नारदो वचनान्नृप ।
ज्येष्ठो भैरवनामाऽभूद् औरीपुत्रो भयङ्करः ॥ १४६ ॥

वेतालसदृशः कृष्णो वेतालोऽभूत् तथापरः ।
इति चक्रे तयोर्नाम देवर्षिब्रह्मणः सुतः ॥ १४८ ॥

अन्यांश्च सर्वान् संस्कारान्नारदो मुनिसत्तमः ।
चकार क्रमशो वाक्याच्चन्द्रशेखरभूभृतः ॥ १४८ ॥

एवं सर्वान् संशयांस्तु सञ्छिद्य मुनिसत्तमः ।
संस्कृत्य भर्गतनयौ विसृष्टस्तेन भूभृता ॥ १४९ ॥

ययाआकाशमार्गेण नाकपृष्ठं स नारदः ।
नारदे तु गते राजा मुदितश्चन्द्रशेखरः ॥ १५० ॥

तारावत्या समं रेमे करवीराह्वये पुरे ।
शम्भोरंशोऽहमित्येवं गौर्यास्तारावतीति च ॥ १५१ ॥

जातश्रद्धस्तदा राजा शशास सुचिरं क्षितिम् ।
तनयौ च हरस्याथ तदा वेतालभैरवौ ॥ १५२ ॥

ववृधाते महात्मानौ शरच्चन्द्राविवोद्यतौ ।
चन्द्रशेखरभूपस्य तारावत्यां नृपोत्तमः ॥ १५३ ॥

त्रयः पुत्रा महावीर्या रूपसम्पत्-समन्विताः ।
ज्येष्ठस्तत्रोपरिचरो दमनोऽलर्क एव च ॥ १५४ ॥

वेतालभैरवाम्यां तु ज्यायांसस्तेऽभवंस्त्रयः ।
एवमेते त्रयः पुत्राश्चन्द्रशेखरभूभृतः ॥ १५५ ॥

वेतालभैरवौ चापि सद्योजातौ हरात्मजौ ।
समानभोगा ववृधुश्चन्द्रशेखरभूभृतः ।
पालितास्तु सभार्येण समानासनवाहनाः ॥ १५६ ॥

इति पञ्चसुता महाबलाः
पञ्चभूतसदृशाः कृता विधेः ।
ववृधिरे प्रथमं सकलं जगत्
समतीत्य मुदा बलदर्पिताः ॥ १५७ ॥

मूलम्

इति पञ्चसुता महाबलाः
पञ्चभूतसदृशाः कृता विधेः ।
ववृधिरे प्रथमं सकलं जगत्
समतीत्य मुदा बलदर्पिताः ॥ १५७ ॥

इति श्रीकालिकापुराणे पञ्चाशोध्यायः ॥ ५० ॥