विश्वास-प्रस्तुतिः
एकोनपञ्चाशोऽध्यायः
मार्कण्डेय उवाच
अथ काले व्यतीते तु ककुत्स्थतनया सती ।
विधातुमार्तवं स्नानं योषिद्भिः परिवारिता ॥ १ ॥
मूलम्

शीतामलजलां हृद्यां कलुषध्वंसकोविदाम् ।
प्रभिन्नाञ्जनसङ्काशां कलुषध्वंसकोविदाम् ॥ २ ॥

कृतस्नानामनुत्तिर्णामर्धमग्नां महासतीम् ।
ददृशे स्वर्णगौराङ्गीं कपोतो मुनिसत्तमः ॥ ३ ॥

कापोतं वपुरास्थाय प्राणिनां वधशङ्कया ।
विचचार यतः पूर्वं कपोतस्तेन स स्मृतः ॥ ४ ॥

तां दृष्ट्वा हेमगर्भाभां चन्द्रिकां शारदीमिव ।
कपोतः कामयामास कामबाणादितो भृशम् ॥ ५ ॥

कामाग्निपरितप्तः स ककुत्स्थतनयां मुनिः ।
अभिगम्याथ कल्याणीमिदं वचनमब्रवीत् ॥ ६ ॥

कपोत उवाच
का त्वं कस्यासि वनिता पुत्री वा कस्य सुन्दरि ।
कस्मात् समागता वा त्वमुपांशु तटिनीजलम् ॥ ७ ॥

रूपं ते सौम्यमाह्लादि पूर्णचन्द्रनिभं मुखम् ।
तिलपुष्पप्रतीकाशं नासिकायुगलं तव ॥ ८ ॥

वातकम्पितनीलाब्जसदृशे लोचने तव ।
बाहू मनोहरौ वृत्तौ मृणालमृदुलायतौ ।
ऊरू गजकरप्रख्यौ मध्यं वेदिविलग्नकम् ॥ ९ ॥

ईदृशेन तु रूपेण न त्वं मानुषभामिनी ।
देवी वा दानवी वा त्वमप्सरोगुणशालिनी ॥ १० ॥

अथवा भोग्यभोगाय श्रीस्त्वं नारीत्वमागता ।
अपर्णा वा शची वा त्वं तन्मे वद मनोहरे ॥ ११ ॥

और्व उवाच
इति वाक्यं मुनेः श्रुत्वा जलादुत्तीर्य भामिनी ।
प्रणम्य तं मुनिं नम्रा वचनं चेदमब्रवीत् ॥ १२ ॥

अहं तारावती नाम्ना ककुत्स्थस्य सुता सती ।
चन्द्रशेखरभूपस्य भार्यां जानीहि मां मुने ॥ १३ ॥

नाहं देवी न गन्धर्वी न यक्षी न च राक्षसी ।
मानुष्यहं नृपसुता चारित्रव्रतधारिणी ॥ १४ ॥

त्वां दृष्ट्वा मां स्वयं कामः सङ्गतः सङ्गमाय ते ।
पीडितश्चापि तेनाहं त्वया शक्त्या समक्षया ॥ १५ ॥

स्मरसागरकल्लोलपतितं मां निराकुलम् ।
त्वदूरुतरिणा त्राहि तूर्णं त्वं मृदुभाषिणी ॥ १६ ॥

मत्तः पुत्रद्वयं चारु रूपलक्षणसंयुतम् ।
भविष्यति महाभागे बलवीर्ययुतं महत् ॥ १७ ॥
मूलम्
मत्तः पुत्रद्वयं चारु रूपलक्षणसंयुतम् ।
भविष्यति महाभागे बलवीर्ययुतं महत् ॥ १७ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
कपोतस्य वचः श्रुत्वा भयदुःखसमाकुला ।
जगाद गद्गदं वाक्यं वाग्मिन्यथ ककुत्स्थजा ॥ १८ ॥

तारावत्युवाच
वाक्यमन्यन्मया कार्यं न कार्यमतिनिन्दितम् ।
तस्मान्मा वद मामित्थं प्रणम्य त्वां प्रसादये ॥ १९ ॥

तवापि नैतद् योग्यं स्यान्मुनेरिह तपोधन ।
तपःक्षयकरं गर्ह्यं सतीत्वभ्रंशकं मम ॥ २० ॥

तपोव्ययो वा चान्यद्वा दूषण तन्ममास्त्विह ।
तथापि त्वामहं त्यक्तुं नेच्छामि सुरतौ शुभे ॥ २१ ॥

अवश्यं मम कामेभ्यस्त्राणं कर्तुमिहार्हसि ।
अन्यथा कामदग्धोऽहं त्वया त्यक्तो मनोहरे ॥ २२ ॥

भवतीं च करिष्यामि शापदग्धां सबान्धवाम् ।
ततस्तद्वचनं श्रुत्वा देवी तारावती तदा ।
ऋषिशापभयात् साध्वी न किञ्चिच्चोत्तरं ददौ ॥ २३ ॥

सम्भाषयेऽहं स्वसखीरिह तिष्ठ महामुने ॥ २४ ॥

एवमुक्त्वा तदा देवी दासीनां मध्यमागता ।
चित्राङ्गदां समाहूय वचनं चेदमब्रवीत ॥ २५ ॥

चित्राङ्गदे मिनिरसौ मां वै कामयते भृशम् ।
किं करिष्ये सतीभावान्न भ्रष्टा स्यामहं कथम् ॥ २६ ॥

पतिं बन्धूंश्च कपोतः सद्यः शापाग्निना दहेत् ।
नाहं मुनिं कामये चेत् संशये पतिता त्वहम् ॥ २७ ॥

ततश्चित्राङ्गदा प्राह मा भैस्त्वं सत्यभाषिणि ।
तत्रोपायमहं वक्ष्ये यत्कृत्वा त्वं प्रमोक्ष्यसे ॥ २८ ॥

न जहाति मुनिश्चेत्त्वां दासीमेकां मनोहराम् ।
सुभूषणैर्भूषयित्वा मुनये त्वं नियोजय ॥ २९ ॥

कामातुरो मुनिर्मोहात् कृपणो ज्ञास्यते न हि ।
दासीं त्वद्भूषणाच्छन्नां ज्योत्स्नाच्छन्नां मृगीमिव ॥ ३० ॥

एवं कुरु महाभागे मा त्वं चिन्तां गमः शुभे ।
त्वं चेत् सतीति नियतं न ज्ञास्यति तदा मुनिः ॥ ३१ ॥

ततस्तारावती प्राह तां रूपगुणशालिनीम् ।
चित्राङ्गदां भूपपुत्रीं शश्वद्विनयसूनृताम् ॥ ३२ ॥

त्वमेव गच्छ भगिनी अपोताख्यमनिन्दिते ।
मद्भूषणैर्भूषयित्वा स्वशरीरं मनस्विनि ॥ ३३ ॥

अन्यां प्रस्थापितां विप्रः सम्बुध्य क्रोधवह्निना ।
धक्ष्यत्यवश्यं सकुलां मां तस्माद् गच्छ सुन्दरि ॥ ३४ ॥

त्वं मत्समा सर्वगुणैः सर्वभूषणभूषिता ।
मुनिं सङ्गमयस्वाद्य रक्ष मां सकुलां शुभे ॥ ३५ ॥

ततस्तस्या वचः श्रुत्वा विनयं च सकातरम् ।
तूष्णीं भूत्वा क्षणं तस्थौ नातिहृष्टमना इव ॥ ३६ ॥

जगाद च महाभागां चित्राङ्गदा ककुत्स्थजाम् ।
करिष्ये वचनं तेऽद्य समये मां स्मरिष्यसि ॥ ३७ ॥

यदर्थे पितरं चेमं भूपं च चन्द्रशेखरम् ।
आश्वासयिष्यति तथा समस्तां च सखीगणान् ॥ ३८ ॥

एवमुक्त्वा भूषणानि तारावत्याः पिधाय सा ।
चित्राङ्गदा जगामाशु मुनेः कामोत्सवाय च ॥ ३९ ॥

तारावती तदा दीन वस्त्रालङ्कारवर्जिता ।
दासीमध्यगता भूत्वा तामेवानुययौ प्रियाम् ॥ ४० ॥

तामायान्तीं ततो दृष्ट्वा अपोतः काममोहितः ।
मुनीनां परजायासु सस्मार सङ्गमं तदा ॥ ४१ ॥

प्रम्लोचा कामिता पूर्वं वतण्डस्य सुतेन वै ।
यथा वा कामिता पद्मा भरद्वाजेन धीमता ॥ ४२ ॥

तथाहं कामयिष्यामि साम्प्रतं वरवर्णिनीम् ।
पश्चात् तपोबलात् तद्वज्जायापापाद् विमोक्षये ॥ ४३ ॥

इति चिन्तयतस्तस्य तदा चित्राङ्गदा शुभा ।
समेत्य तं मुनिं लज्जायुक्ता चैषाह किञ्चन ॥ ४४ ॥

तामासाद्य महाभागः कपोतो मुनिसत्तमः ।
शृङ्गारवेषभावाय मदनं मनसास्मरत् ॥ ४५ ॥
मूलम्
तामासाद्य महाभागः कपोतो मुनिसत्तमः ।
शृङ्गारवेषभावाय मदनं मनसास्मरत् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
स्मृतमात्रोऽथ मदनः स्वयमेत्य महामुनिम् ।
गन्धमाल्यैः सुवासोभिरध्युवासातिहर्षितः ॥ ४६ ॥

तेनाधिवासितो विप्रः अपोतश्चारुरूपधृक् ।
जज्वाल तेजसा चापि द्वितीय इव भास्करः ॥ ४७ ॥

मनोहरं तथा दृष्ट्वा अपोतं मदनोपमम् ।
तारावतीमृते सर्वाः सकामाश्चाभवन् स्त्रियः ॥ ४८ ॥

तारावती मुनि दृष्ट्वा सुन्दरं मदनोपमम् ।
विस्मयं परमं प्राप्ता मुनिं कामममन्यत ॥ ४९ ॥

अथ चित्राङ्गदा विप्रः कामुकः कामसङ्गमे ।
तदा नियोजयामास सुप्रीतश्चाभवत् क्षणात् ॥ ५० ॥

ततस्तस्यां समुत्पन्नं सद्योजातं सुतद्वयम् ।
देवगर्भोपमं दीप्तज्वलनार्कसमप्रभम् ॥ ५१ ॥

जाते सुतद्वये तां तु मुनिः संसृज्य पाणिना ।
निनाय पूर्ववद्भावं वचनं चेदमब्रवीत् ॥ ५२ ॥

मत्सङ्गमे कियत्कालं प्रिये तिष्ठ शुभानने ।
ममेच्छया यास्यसि त्वं भयं ते नास्ति राजतः ॥ ५३ ॥

एवमस्त्विति सा प्राह ऋषिं शापभयात् सती ।
ततो विसर्जयामास मुनिरन्याश्च योषितः ॥ ५४ ॥

ततस्तारावती देवी दासीभिः परिवारिता ।
भगिनीमनुशोचन्ती जगाम भवनं निजम् ॥ ५५ ॥
मूलम्
ततस्तारावती देवी दासीभिः परिवारिता ।
भगिनीमनुशोचन्ती जगाम भवनं निजम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
गत्वा तं सर्ववृत्तान्तम् अपोतकृतमद्भुतम् ।
ब्रह्मावर्ताधिपायाशु सशंसाथ ककुत्स्थजा ॥ ५६ ॥

स श्रुत्वा नृपशार्दूलः क्षणमात्रं विचिन्त्य च ।
चित्राङ्गदायाः साहाय्यम् अपोतानुमतेऽकरोत् ॥ ५७ ॥

अपोतोऽपि तदा तस्यां जातयोसुतयोस्तयोः ।
यथोक्तेनाथ विधिना संस्कारमकमोत्तदा ॥ ५८ ॥

सगर उवाच
चित्राङ्गदा कथं पुत्री ककुत्स्थस्याभवत् तदा ।
तदहं श्रोतुमिच्छामि कथयस्व द्विजोत्तम ॥ ५९ ॥

एकदा तु ककुत्स्थोऽसौ हिमवन्तं महागिरिम् ।
मृगयायै जगामाथ मृगाश्चापि निपातिताः ॥ ६० ॥

लम्बन्तीं सुरलोकात् तु भूमिं प्रति तदोर्वशीम् ।
विश्रामायोपविष्टस्तु सानौ वेश्यां ददर्श ह ॥ ६१ ॥

तामासाद्य महाराजः कामबाणप्रपीडितः ।
अवतीर्णा गिरौ शश्वदङ्गसङ्गमयाचत ॥ ६२ ॥
मूलम्
तामासाद्य महाराजः कामबाणप्रपीडितः ।
अवतीर्णा गिरौ शश्वदङ्गसङ्गमयाचत ॥ ६२ ॥
विश्वास-प्रस्तुतिः
सा ज्ञात्वा नृपशार्दूलं ककुत्स्थं शक्रसन्निभम् ।
उर्वशी रमयामास गिरिकुञ्जे यथेप्सितम् ॥ ६३ ॥

ततो राज्ञः ककुत्स्थस्य स्वर्वेश्यायां तदा सुता ।
अभवन् नृपशार्दूलात् सद्योजाता मनोहरा ॥ ६४ ॥

अथ कामेन सन्तुष्टं ककुत्स्थं सा तदोर्वशी ।
थेष्टदेशं विज्ञाप्य गन्तुमैच्छदनिन्दिता ॥ ६५ ॥

तामाह राजा तनयां परित्यज्य कथं शुभे ।
गन्तुमिच्छसि चार्वङ्गि सुतामेनां तु पालय ॥ ६६ ॥

सा प्राहाहं स्वर्गगणिका मयि कस्य न चाभवत् ।
तनयस्तनया वापि सद्योजाता नृपात्मजा ॥ ६७ ॥

स्वतेजसा शरीरस्य विकारो मे न विद्यते ।
सुताश्चापि न पाल्यन्ते वेश्याभावात् स्वभावतः ॥ ६८ ॥

दयास्ति यदि ते पुत्र्यां नीत्वैनां वर्धय स्वयम् ।
गन्तुं मामनुजानीहि सत्यमेतद् ब्रवीमि ते ॥ ६९ ॥

इत्युक्त्वा सा जगामाशु यथेष्टं सोर्वशी नृपः ।
पुत्रीं तां समुपादाय नगरं स्वं विवेश ह ॥ ७० ॥

तस्याश्चित्राङ्गदा नाम स चकार नृपः स्वयम् ।
मनोन्मथिन्यै चादात् तां भार्यायै पुत्रिकां शुभाम् ॥ ७१ ॥

इदं च वचनं देवीं तदा प्राह नृपोत्तमः ।
देवि पुत्री ममेयं त्वमेनां पालय सद्गुणाम् ॥ ७२ ॥

मयानीतां शैलजातां मा हेलां कर्तुमर्हसि ।
इत्युक्ता राजपुत्री सा पालेन चाकरोन्मतिम् ॥ ७३ ॥

भर्तुराज्ञां पुरस्कृत्य नान्यत् किञ्चिदुवाच ह ।
सा चैकदा बाल्यभावादष्टावक्रं महामुनिम् ॥ ७४ ॥

व्रजन्तं जिह्ममेवाशु जहासोपजहास च ।
स चुकोप मुनिस्तस्यै शापं परमदारुणम् ॥ ७५ ॥

ददौ दासी स्ववंशस्य भवितेति ककुत्स्थजे ।
दासी भूत्वा स्ववंशस्य ह्यनूढैव सुतद्वयम् ॥ ७६ ॥

जनयिष्यसि पापिष्ठे ततो भद्रमवाप्स्यसि ।
एवं ककुत्स्थतनया जाता चित्राङ्गदा नृप ॥ ७७ ॥

दासी च भूता सा ते तारावत्या निवासिता ।
अनूढाप्यलभत् पुत्रयुग्मं मुनिवराच्छुभात् ॥ ७८ ॥

तौ च पुत्रौ महाभागौ महाकार्यं करिष्यतः ।
इति ते कथितं राजन् यथाचित्राङ्गदाऽभवत् ।
ककुत्स्थस्य सुता साध्वी प्रस्तुतं शृणु साम्प्रतम् ॥ ७९ ॥

इति शीकालिकापुराणे एकोनपञ्चशोऽध्यायः ॥ ४९ ॥