विश्वास-प्रस्तुतिः
अष्टचत्वारिंशोऽध्यायः
और्व उवाच
अवतीर्णे महादेवे पौष्यजायासुखेच्छया ।
मानुषेण प्रमाणेन गते संवत्सरत्रये ॥ १ ॥
मूलम्
अष्टचत्वारिंशोऽध्यायः
और्व उवाच
अवतीर्णे महादेवे पौष्यजायासुखेच्छया ।
मानुषेण प्रमाणेन गते संवत्सरत्रये ॥ १ ॥
विश्वास-प्रस्तुतिः
गिरिजापि ककुत्स्थस्य राज्ञो भार्यास्वजायत ।
मेनकायां यथापूर्वं स्वेच्छया परमेश्वरी ॥ २ ॥

अथार्यावर्तविषये ब्रह्मण्यः शूरसत्तमः ।
इक्ष्वाकुवंशजो राजा ककुत्स्थो नाम धार्मिकः ॥ ३ ॥

भोगवत्याह्वयायां तु पुर्यां रिपुनिषूदनः ।
सर्वलक्षणसम्पन्नो भूपालगुणसंयुतः ॥ ४ ॥

तस्य भार्या महाभागा भर्गदेवस्य पुत्रिका ।
सा मनोन्मथिनी नाम्ना पूजिता पतिवल्लभा ॥ ५ ॥

तस्याः पुत्रशतं यज्ञे देवगर्भाभमच्युतम् ।
बलवीर्यसमायुक्तं ककुत्स्थनृपसत्तमात् ॥ ६ ॥

पुत्री न विद्यते तस्यास्तदर्थं सा गृहान्तरे ।
निभृतं स्थण्डिलं कृत्वा चण्डिकां समपूजयत् ॥ ७ ॥

पूज्यमाना महादेवी चण्डिका राजभार्यया ।
प्रसन्ना सा त्रिभिर्वर्षैस्तां स्वप्ने चाब्रवीदिदम् ॥ ८ ॥

योषिल्लक्षणसम्पन्ना सार्वभौमस्य भामिनी ।
नक्षत्रमालया युक्ता पुत्री तव भविष्यति ॥ ९ ॥

सापि स्वप्ने वरं प्राप्य मुदिताभून्नृपाङ्गना ।
सापि स्वप्ने वरं प्राप्य मुदिताभून्नपाङ्गना ॥ १० ॥

पार्वत्यपि स्वयं तस्या गर्भे काले विवेश ह ।
सा मनोन्मथिनी देवी प्रवृत्ते ऋतुसङ्गमे ।
गर्भं दधौ महासत्त्वं चन्द्रिकेवामृतोत्करम् ॥ ११ ॥

सम्पूर्णे तु ततः काले प्राप्ते नक्षत्रमालिनीम् ।
सा मनोन्मथिनी देवी सुषुवे तनयां शुभाम् ॥ १२ ॥

तां दृष्ट्वा हारसंयुक्तां शरज्ज्योत्स्नोपमां शुभाम् ।
ककुत्स्थो भार्यया सार्धमत्यर्थमुदितोऽभवत् ॥ १३ ॥

सहजेनाथ हारेण भूषिता तु ककुत्स्थजा ।
ववृधे मन्दिरे तस्य वर्षास्विव सुरापगा ॥ १४ ॥

तेनैव हारचिह्नेन तस्यास्तारावतीति वै ।
नामाकरोत पिता काले यथोक्ते नृपसत्तम ॥ १५ ॥

कालक्रमेण सा बाल्यं व्यतीता वरवर्णिनी ।
मञ्जुलं यौवनोद्भेदं प्राप श्रीरिव माधवे ॥ १६ ॥

सा श्रिया श्रियमन्वेति शौचेनाथ सती शुभा ।
सुशीलां शीलचरितैः स्वरूपेण च पार्वतीम् ॥ १७ ॥

तस्यास्तु यौवनोद्भेदं दृष्ट्वा राजा सुतैः सह ।
ककुत्स्थः कारयामास समयेऽथ स्वयंवरम् ॥ १८ ॥

माधवे मासि सम्प्राप्ते चन्द्रवृद्धौ शुभे दिने ।
स्वयंवरसभां चक्रे तारावत्याः पिता सुतैः ॥ १९ ॥

वार्तिकांस्तु बहून् राजा वडवाभिः क्रमेलकैः ।
तूर्णं प्रश्तापयामास नानादेशनृपान् प्रति ॥ २० ॥

ते राजानस्तदा श्रुत्वा वार्ता वै वार्तिकाननात् ।
तूर्णमेव समाजग्मुस्तारावत्याः स्वयंवरम् ॥ २१ ॥

तं श्रुत्वा पौष्यतनयश्चतुरङ्गबलैर्युतः ।
स्वयंवरं जगामाशु दिव्यालङ्कारसंयुतः ॥ २२ ॥

तत्र गत्वा नृपश्रेष्ठाः ककुत्स्थेन विनिर्मिते ।
स्वयंवरसभामध्ये यथायोग्यमुपस्थिताः ॥ २३ ॥

आसीनेष्वथ भूपेषु ककुत्स्थस्तनयां स्वकाम् ।
शुभे मुहूर्ते सम्प्राप्ते सभां नेतुं मनोऽकरोत् ॥ २४ ॥

एतस्मिन्नन्तरे राज्ञः कुमारी वरवर्णिनी ।
वृद्धां धात्रीं निजां सम्यक्सम्पूर्णज्ञानशालिनीम् ॥ २५ ॥

स्वयंवरसभां द्रष्टुं प्राहिणोत् सदसं प्रति ।
उवाच च तदा धात्रीं राजपुत्री सुमङ्गलाम् ॥ २६ ॥

स्वयंवरसभां गत्वा चारुरूपं सुलक्षणम् ।
नृपं निरूप्य भो धात्रि समक्षं मे निवेदय ॥ २७ ॥

त्वं मातर्मम कल्याणं सौभाग्यमपि वाच्छसि ।
यथा सौभाग्यदः स्वामी मम स्यात् त्वं तथा कुरु ॥ २८ ॥

एवं तां प्रेषयित्वाथ धात्रीं तां नृपपुत्रिका ।
सा मनोन्मथिनी यत्र प्राराधयत चण्डिकाम् ॥ २९ ॥

तत्र प्रायान् महाभागा शुभा तारावती तदा ।
तत्र गत्वा महादेवीं प्रणम्य कालिकाह्वयाम् ॥ ३० ॥

मानुषेणाथ भावेन तां ज्ञात्वात्मानमात्मना ।
प्रणनाम महाशक्त्या वाक्यं चैतदुवाच ह ॥ ३१ ॥

प्रणमामि महामायां योगनिद्रां जगन्मयीम् ।
सा मे प्रसीदतां गौरी चण्डिका भक्तवत्सला ॥ ३२ ॥

यदि सत्यं जनन्या मे मदर्थे त्वं प्रपूजिता ।
तेन सत्येन सुभगः पतिर्मम नृपोत्तमः ॥ ३३ ॥

स्वयंवरेऽद्य भवतु प्रसीद हरवल्लभे ।
इति तस्या वचः श्रुत्वा चण्डिका हरमोहिनी ॥ ३४ ॥

मोहयन्ति नृपसुतां यथात्मानं न वेत्ति च ।
तथा प्राहादृश्यमूर्तिरिदं सा सूनृतं वचः ॥ ३५ ॥

देव्युवाच
पौष्यस्य तनयो योऽसौ नाम्नाभूच्चन्द्रशेखरः ।
स मनोहररूपस्ते प्रियः स्वामी भविष्यति ॥ ३६ ॥

तमिन्दुकलया शीर्षे चिह्नितं नृपसत्तमम् ।
वरयस्व वरारोहे पार्वतीव वृषध्वजम् ॥ ३७ ॥

इत्युक्त्वा विवरामाशु पार्वती नृपपुत्रिकाम् ।
सापि नत्वा तथादृश्यां हर्षोत्फुल्लविलोचना ॥ ३८ ॥

जगाम मङ्गलगृहं जनन्या यत्र वासिता ।
अथाजगाम सा धात्री निरूप्य सदृशं पतिम् ॥ ३९ ॥

तारावत्यास्तदाचष्ट रहस्यं नृपसत्तम ।
दृष्ट्वा तामग्रतो धात्रीं प्रहृष्टां नृपते सुता ॥ ४० ॥

पप्रच्छ निभृतं कीदृक् को वा दृष्टस्त्वया नृपः ।

सा प्राह धात्री वचनात् तव भूपा विलोकिताः ॥ ४१ ॥

चारुरूपाः कुलीनाश्च शास्त्रै शस्त्रे च पारगाः ।
तेषामहं न शक्नोमि प्रवक्तुं सुबहून् गुणान् ॥ ४२ ॥

येषु मे रोचते तांस्तु कथयामि शुभप्रभे ।
चारुरूपा मया तेषु चत्वारः पुरुषाः शुभे ॥ ४३ ॥

दृष्टास्तत्रापि नासत्यौ देवौ द्वावपरौ नरौ ।
देवयोः कथने कृत्यं किञ्चिन्नापि न विद्यते ॥ ४४ ॥

यौ पुनः पृथिवीपालौ तयोरेकः सदारकः ।
नाम्ना सर्वाङ्गकल्याणोऽथापरश्चन्द्रशेखरः ॥ ४५ ॥

नासत्ययोरेतयोस्तु विशेषो नास्ति कश्चन ।
रूपे शरीरसौभाग्ये सर्वे चातिमनोहराः ॥ ४६ ॥

नृपौ पुनर्महासत्त्वौ सिंहस्कन्धौ महाभुजौ ।
आरक्तपाणिनयनमुखपादकरोद्भवौ ॥ ४७ ॥

पीनोरस्कौ विशालाक्षौ लग्नभ्रूयुगलावुभौ ।
सर्वलक्षणसम्पूर्णौ देवालङ्कारमण्डितौ ॥ ४८ ॥

तयोरपि वयःस्थत्वात् प्रशस्तश्चन्द्रशेखरः ।
सुशीलः सूनृतवचाः शास्त्रे शस्त्रे च सम्मतः ॥ ४९ ॥

ईषदुद्भिन्नरोम्णा तु नीलेन चारु निर्मलम् ।
राजते वदनं तस्य लक्ष्मणेव निशाकरः ॥ ५० ॥

दीप्तिमत्यापि कलया राजते स निशापतेः ।
सहजेन शिरस्थेन साक्षात् स चन्द्रशेखरः ॥ ५१ ॥

स एव ते पतिर्योग्यश्चिह्नेनानेन सुन्दरि ।
तं त्वं वरय राजानं तव यीग्यं शुभोदयम् ॥ ५२ ॥

धात्र्याश्चैवं वचः श्रुत्वा राजपुत्री जगाद ताम् ।
मत्पार्श्वचारिणी भूत्वा निद्शय नृपोत्तमम् ॥ ५३ ॥

धात्रि सयंवरसभाप्रव्शसमये मम ।
तयोरायात्तदा राजा त्वन्योन्यं भाषमाणयोः ॥ ५४ ॥

सुतां स्वयंवरसभां नेतुं काले शुभोदये ।
स्वयं तदा ककुत्स्थस्तु सुताया मङ्गलालये ॥ ५५ ॥

आसाद्य पुत्रीं दयितां योषिद्भिः कृतमङ्गलाम् ।
माल्यं सुगन्धिपुष्पाणां करेणादाय तत्करे ॥ ५६ ॥

दत्त्वा चेदमुवाचाशु प्रापयन् मङ्गलालयात् ।
प्रविश्य समितौ मातर्माल्येनान्येन सत्तमम् ॥ ५७ ॥

यं त्वमिच्छसि राजानं द्विजं वा त्वं वरिष्यसि ।
एवमुक्त्वा शिविकया स्वाप्तैर्वृद्धैश्च पूरुषैः ॥ ५८ ॥

तामागतां सभां दृष्ट्वा शक्राद्यास्त्रिदशास्तदा ॥ ५९ ॥

अन्ये दिक्पतयश्चापि सभां तत्क्षणमागताः ।
सावतीर्य तदावाप्य यानात् तारावती मुदा ॥ ६० ॥

धात्र्या चानुगया युक्ता व्यचरत् सदसोऽन्तरे ।
सभामध्ये चिरं सा तु विहृत्य वरवर्णिनी ॥ ६१ ॥

भावित्वान्नियतेर्योगाच्चण्डिकायाः प्रसादतः ।
तयोः समत्वादेकत्वात्तया धात्र्या विबोधिता ॥ ६२ ॥

गतिस्वेदजहर्माम्भः कणिकानिचितानना ।
पतिं पूर्वतरं पुत्री राज्ञस्तारावती सती ॥ ६३ ॥

स्वयं सा पार्वती देवी वव्रे च चन्द्रशेखरम् ।
वृतं दृष्ट्वा तदा तन्तु ब्राह्मणाः सामगीतिभिः ॥ ६४ ॥

तयोर्वैवाहिकं चक्रुर्मङ्गलं यतमानसाः ।
वैतालिका गायकाश्च तथा तौर्यत्रिका नृप ॥ ६५ ॥

प्रशंसन्ति स्म गायन्ति वादयन्ति च कौतुकात् ।
सर्वे च त्रिदशा मोदमवापुश्चन्द्रशेखरे ॥ ६६ ॥

तारावत्या वृते चाथ ककुत्स्थोऽप्यतिहर्षितः ।
वृत्तान्तं वीक्ष्य ये भूपाः सुबाहुप्रमुखाः परे ॥ ६७ ॥

रुष्टास्तान् वारयामास समितौ चन्द्रशेखरः ।
ततो यातेषु देवेषु त्रिदिवं प्रति स्वेच्छया ॥ ६८ ॥

भूपेषु च प्रयातेषु ककुत्स्थेनार्चितेषु च ।
वैवाहिकेन विधिना स राजा चन्द्रशेखरः ॥ ६९ ॥

तारावतीं तदा भार्यां ककुत्स्थानुमते पुनः ।
संस्कृत्य ज्ञापयामास देवेभ्यो वैदिकैर्मखैः ॥ ७० ॥

पाणिग्रहणसंस्कारान् कृत्वा तां सहचारिणीम् ।
करवीरपुरायाशु प्रययौ चन्द्रशेखरः ॥ ७१ ॥

द्वाविंशत् तु सहस्राणि दासीनां प्रददौ पुनः ।
ककुत्स्थाख्यो विट्पतये तस्मिन्नुद्वाहकर्मणि ॥ ७२ ॥

गवां षष्टिसहस्राणि सौरभीणां तथैव च ।
दुहित्रे प्रददौ दायं दासान् दासीः प्रमाणतः ॥ ७३ ॥

अपरा या निजा पुत्री ककुत्स्थाख्यस्य भूपतेः ।
नाम्ना चित्राङ्गदा ख्याता रूपैस्तारावती समा ॥ ७४ ॥

दासीनामधिपा भूत्वा स्वयं चानुययौ तदा ।
तारावतीं भूपसुतां ज्येष्ठां स्वां भगिनीं शुभाम् ॥ ७५ ॥

तान् दासान् सुसमादाय ककुत्स्थतनयो महान् ।
ज्येष्ठो विश्वावसुर्नाम गच्छन्तं चन्द्रशेखरम् ॥ ७६ ॥

तारावत्या च सहितं स्यन्दनेनाशुगामिना ।
धीमाननुययौ पश्चात् करवीरपुरं प्रति ॥ ७७ ॥

तारावत्या सम राजा पौष्यजश्चन्द्रशेखरः ।
करवीरपुरे रम्ये रेमे नृपतिशेखरः ॥ ७८ ॥
मूलम्
तारावत्या सम राजा पौष्यजश्चन्द्रशेखरः ।
करवीरपुरे रम्ये रेमे नृपतिशेखरः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
इति स्वयं महादेवो मानुषीं योनिमाश्रितः ।
पार्वती च स्वयं जाता नरयोनिमनिन्दिता ॥ ७९ ॥

तथा भृङ्गी महाकाल एतयोरभवत् सुतः ।
तथा त्वं शृणु राजेन्द्र कथयामि समुद्भवम् ॥ ८० ॥

इति श्रीकालिकापुराणेऽष्टचत्वारिंशोध्यायः ॥ ४८ ॥