विश्वास-प्रस्तुतिः
सप्तचत्वारिंशोऽध्यायः
और्व्य उवाच
हरो यावद् जगत्यर्थे देववर्गैः प्रसादितः ।
तावन्महामैथुनेन हीनोऽभूदुमया सह ॥ १ ॥
मूलम्

वर्तते रतिमात्रेण स्वेच्छां सम्पूरयन् सदा ।
यथा मनोरथं देव्याः सततं पूरयन्मृडः ॥ २ ॥

अथैकदोमया सार्धं निगूढे रतिमन्दिरे ।
नर्माकरोन्महादेवो मोदयुक्तो रतिप्रियः ॥ ३ ॥

यदा सा नर्मणे याता गौरी स्मरहरान्तिकम् ।
तदा भृङ्गिमहाकालौ द्वाःस्थौ द्वारि प्रतिष्ठितौ ॥ ४ ॥

नर्मावसाने सा देवी मुक्तधम्मिल्लबन्धना ।
बन्धहीनं गलद्गात्राद्वस्त्रमालम्ब्य पाणिना ॥ ५ ॥

व्यस्तहारा गन्धपुष्पैराकुलैर्नातिशोभना ।
विलुप्तकुङ्कुमा दष्टदशनच्छदविभ्रमा ॥ ६ ॥

निःषृता रतिसङ्केलिनिलयाज्जलजानना ।
ईषदाघूर्णनयना निचिता स्वेदबिन्दुभिः ॥ ७ ॥

तां निःसरन्तीं सदनात् तथाभूतामनिन्दिताम् ।
अयोग्यां वीक्षितुञ्चन्यैर्वृषध्वजमृते पतिम् ॥ ८ ॥

ददशृतुर्महात्मानौ नातिहृष्टात्ममानसौ ।
भृङ्गी चापि महाकालः प्राप्तकालं चुकोपतुः ॥ ९ ॥

दृष्ट्वा तां मातरं दीनौ तथाभूतावधोमुखौ ।
चिन्तां च जग्मतुस्तीव्रां निशश्वसतुरुत्तमौ ॥ १० ॥

तौ पश्यन्तौ तदा देवी ददर्श हिमवत्सुता ।
चुकोप च तदापर्णा वाक्यं चैतदुवाच ह ॥ ११ ॥

एवम्भूतां च मां कस्मादसम्बद्धावपश्यताम् ।
भवन्तौ तनयौ शुद्धौ ह्नीमर्यादाविवर्जितौ ॥ १२ ॥

यष्मादिमाममर्यादं भवन्तौ निरपत्रपौ ।
अकुर्वतां ततो भूयाद् सवतोर्जन्म मानुषे ॥ १३ ॥

मानुषीं योनिमासाद्य मदवेक्षणदोषतः ।
भविष्यन्तौ भवन्तौ तु शाखामृगमुखौ भुवि ॥ १४ ॥

इति तावुमया शप्तौ हरपुत्रौ महामती ।
भृङ्गी चैव महाकालः स्वमातुरन्तिकं तदा ॥ १५ ॥

तौ प्राप्तदुःखौ तु तदा दुर्मनस्कौ हरात्मजौ ।
शापं तस्या न सेहाते प्रोचतुश्चेदमद्विजाम् ॥ १६ ॥

अनागसौ सदैवावां भवत्या हिमवत्सुते ।
कथं शप्तौ त्वया मातर्हठादेवं प्रकोपया ॥ १७ ॥

नियोजितौ यथा द्वारि महेशेन त्वया सह ।
तथा नियोगं कुर्वन्तो तिष्ठावो द्वारि संयतौ ॥ १८ ॥

हठान्निःसरणं गेहात् तवैव न हि युज्यते ।
आगच्छन्त्या भवत्या तु दृष्टावावां सुसंयतौ ॥ १९ ॥

तस्मान्निरर्थकः कोपः को दोषस्तत्र चावयोः ।
तस्मात् तत्र प्रतीकारं शृणु मातरनिन्दिते ॥ २० ॥

त्वं मानुषी क्षितौ भूया हरो भवतु मानुषः ।
मानुषस्य हरस्याथ जायायां हरतेजसा ॥ २१ ॥

भवत्याश्चापि मानुष्यां भविष्यावस्तथोदरे ।
यदि सत्यं हरसुतावावां यदि निरागसौ ॥ २२ ॥

तदावयोरिदं वाक्यं सत्यमस्तु गिरेः सुते ।
इत्यन्योन्यमथो शापं दत्ता दत्त्वा सुदारुणम् ॥ २३ ॥

इविशुर्नृपशार्दूल गौरी हरसुतौ च तौ ।
अथ काले व्यतीते तु सर्वज्ञो वृषभध्वजः ॥ २४ ॥

तद्भावि कर्म ज्ञात्वैव मानुषो ह्यभवत् स्वयम् ।
ब्रह्मणो दक्षिणाङ्गुष्ठाद् दक्षो ब्रह्मसुतोऽभवत् ॥ २५ ॥

अदितिस्तत्सुता जाता ततः पूषाह्वयोऽभवत् ।
ऊष्णःपुत्रोऽभवत् पौष्यः सर्वशास्त्रार्थपारगः ॥ २६ ॥

यस्य तुल्यो नृपो न भूमौ न भूतो न भविष्यति ।
स पुत्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः ॥ २७ ॥

शेषे वयसि सम्प्राप्ते भार्याभिस्तिसृभिः सह ।
पौष्यः परमया भक्त्या ब्रह्माणं पर्यतोषयत् ॥ २८ ॥

ब्रह्मोवाच
तस्य प्रसन्नो भगवान् ब्रह्मा लोकपितामहः ।
तमुवाच च राजानं किमिच्छसि वदस्व मे ॥ २९ ॥

प्रसन्नोऽस्मि नृपश्रेष्ठ प्रदास्यामि यथेप्सितम् ।
यदिष्टं तव जायानां तद्वदिष्यसि साम्प्रतम् ॥ ३० ॥

पौष्य उवाच
इरण्यगर्भपुत्रोऽहं पुत्रार्थी त्वामुपास्महे ।
त्वयि प्रसन्ने पुत्रो मे मूयाल्लक्षणसंयुतः ॥ ३१ ॥

एतदर्थे सभार्योऽहं भक्त्या त्वां समुपस्थितः ।
यथा मे जायते पुत्रस्तथा कुरु जगत्पते ॥ ३२ ॥

पुन्नाम्नो नरकात् पुत्रस्त्रायते पितरं प्रसूम् ।
अतस्तस्माद् भयं ब्र्हमंस्त्वं नाशयितेमर्हसि ॥ ३३ ॥

शृणु पौष्य यथा भावी पुत्रस्तव कुलोद्वहः ।
तदहं ते वदाम्यह भार्याभिस्तत् समाचार ॥ ३४ ॥

इदं फलं गृहाण त्वं मया दत्तं नृपोत्तम ।
अजीर्णं बहुले काले प्राप्तेऽपि सुरसं सदा ॥ ३५ ॥

फलमेतत् समादाय तावत् संवत्सरत्रयम् ।
आराधय महादेवं स प्रसन्नो भविष्यति ॥ ३६ ॥

यथा सम्भाषते भर्गः फलमेतत् तथा भवान् ।
करिष्यति फल राजन् भार्याभिस्तिसृभिः सह ॥ ३७ ॥

ततस्ते लक्षणोपेतस्तनयः कुलवर्धनः ।
भविष्यति स्वयं शास्ता चक्रवर्ती वसुन्धराम् ॥ ३८ ॥

इत्युक्त्वा प्रययौ ब्रह्मा राजापि सह भीरुभिः ।
हरं यष्टुं समारेभे भक्त्या परमया युतः ॥ ३९ ॥

निराशीः संयताहारः कदाचित् फलभोजनः ।
दृषद्वतीनदीतीरे फलं संस्थाप्य चाग्रतः ॥ ४० ॥

पुष्पार्घदीपधूपैश्च वृषभध्वजमतर्पयत् ।
स तु वर्षत्रयेऽतीते महादेवो जगत्पतिः ॥ ४१ ॥

पौष्यस्य नृपतेः सम्यक् प्रससादार्थसिद्धये ।
प्रसन्नः प्राह नृपतिं महादेवो हसन्निव ।
उपाससे किमर्थं मां तन्मे वद ददामि ते ॥ ४२ ॥

अपुत्रोऽहं पुत्रकामस्तच्छृणुस्व वृषध्वज ।
यथाहं पुत्रवान् वै स्यां वृषध्वज तथा कुरु ॥ ४३ ॥

और्व उवाच
इति स न्यगदद्राजा भार्याभिः सह हर्षितः । प्रणम्य स्तुतिपूर्वेण
भक्तिनम्रात्ममानसः ॥ ४४ ॥

ततः पुत्रार्थिनं भूपं प्रसन्नो वृषभध्वजः । ब्रह्मदत्तं फलं
हस्ते कृत्वेदं तमुवाच ह ॥ ४५ ॥

ईश्वर उवाच
इदं फलं ब्रह्मदत्तं विभज्य नृपते त्रिधा ।
भोजयेथा स्वजायास्त्वं प्रहृष्टः सुस्थमानसः ॥ ४६ ॥

ततः प्रवृत्ते भवत एतासु ऋतुसङ्गमे ।
आधास्यन्ति तु गर्भास्तु भार्यास्ते युगपन्नृप ॥ ४७ ॥

कालं प्राप्ते च युगप्त् प्रसवो योषितां तव ।
भविष्यति नृपश्रेष्ठ तत्रेत्थं त्वं करिष्यसि ॥ ४८ ॥

एकस्या जठरे शीर्षभागस्ते सम्भविष्यति ।
अपरस्यास्तदा कुक्षेर्मध्यभागो भविष्यति ॥ ४९ ॥

अधो नाभ्यास्तु यो भागः सोऽपरस्यां भविषति ।
तच्च खण्डत्रयं भूप यथास्थानं पृथक् पृथक् ॥ ५० ॥

योजयिष्यसि पश्चात् ते पुत्र एको भविष्यति ।
तस्य शीर्षे चन्द्ररेखा सहजा सम्भविष्यति ॥ ५१ ॥

तेनैव नाम्ना स ख्यातिं गमिष्यति च भूतले ।
और्व उवाच
इत्युक्त्वा स महादेवस्तासां गर्भान् स्वयं तदा ॥ ५२ ॥

संस्कर्तुम् आह्नवीतोयमात्मवासाय वै ज्यधात् ।
ततः फले स्वयं देवः प्रविवेश वृषध्वजः ॥ ५३ ॥

तत्क्षणात् तत्फलं भूतं त्रिभागं स्वयमेव हि ।
पौष्यस्तत्फलमादाय मुदितः सह भार्यया ॥ ५४ ॥

प्रययौ मन्दिरं हृष्टो अनुज्ञाप्य वृषध्वजम् ।
ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् ॥ ५५ ॥

तत्फलं नृपशार्दूल गर्भाश्चाप्यायिताः शुभाः ।
सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत ॥ ५६ ॥

खण्डत्रयं पृथग्राजंस्तथा भर्गेण भाषितम् ।
तच्च खण्डत्रयं पौष्यौ यथास्थानं नियोज्य च ॥ ५७ ॥

एकपिण्डं चकाराशु तत्र पुत्रो व्यजायत ।
तस्य शीर्षे तदा राजन् सहजेन्दुकला शुभा ॥ ५९ ॥

विरराज यथा स्वस्था शरत्काले कला विधोः ।
तं सर्वलक्षणोपेतं पीनोरस्कं सुनासिकम् ॥ ५९ ॥

सिंहग्रीवं विशालाक्षं दीर्घायतभुजं तदा ।
दृष्ट्वा पौष्योऽथ भार्याभिस्तिसृभिः सह सम्मुदम् ॥ ६० ॥

लेभे दरिद्रः सत्कोषं प्राप्येअ विपुलं ततः ।
तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः ॥ ६१ ॥

चन्द्रशेखर इत्येव कान्त्या चन्द्रमसः समः ।
ववृधे स महाभागः प्रत्यहं चन्द्रवत् सुतः ॥ ६२ ॥

कलाभिरिव तेजस्वी शरदीव निशाकरः ।
एवं तिसृणामम्बानां गर्भे जातो यतो हरः ॥ ६३ ॥

अतस्त्र्यम्बक नामाभूत् प्रथितो लोकवेदयोः ।
स राजपुत्रः कौमारीमवस्थां प्रापयत् तदा ॥ ६४ ॥

सर्वशास्त्रार्थ तत्त्वज्ञो विष्णोस्तुल्यो बभूव ह ।
बले वीर्ये प्रहरणे शास्त्रे शीले च तत्समः ॥ ६५ ॥

नान्योऽभूद् नृपशार्दूल नो वा भूमौ भविष्यति ।
अभिषिच्याथ तं राख्ये कुमारं बलवत्तरम् ॥ ६६ ॥

दशपञ्चैकवर्षीयं सर्वराजगुणैर्युतम् ।
तिसृभिः सहभार्याभिर्वनं पौष्यो विवेश ह ।
वृद्धोचितक्रियां कर्तुं राजा परमधार्मिकः ॥ ६७ ॥

गते पितरि राजा स वनवासं महाबलः ॥ ६८ ॥
मूलम्
गते पितरि राजा स वनवासं महाबलः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
सर्वां क्षितिं वशे चक्रे आमात्यश्चन्द्रशेखरः ।
सार्वभौमो नृपो भूत्वा राजभिः परिसेवितः ॥ ६९ ॥

अमरैरिव देवेन्द्रो विजहार श्रिया युतः ।
एवं पौष्यसुतो भूत्वा त्र्यम्बकः पुण्यनिर्वृतः ॥ ७० ॥

ब्रह्मावर्ताह्वये रम्ये करवीराह्वये पुरे ।
दृषद्वतीनदीतीरे राजा भूत्वा मुमोद ह ॥ ७१ ॥

अथैकदा स पितर वनवासगतं स्वयम् ।
मातृश्चापि नृपश्रेष्ठ द्रष्टुकामोऽभवन्नृपः ॥ ७२ ॥

स एकस्यन्दनेनैव एकाकी चन्द्रशेखरः ।
विपुलं धनुरादाय समार्गणगणं तदा ॥ ७३ ॥
मूलम्
स एकस्यन्दनेनैव एकाकी चन्द्रशेखरः ।
विपुलं धनुरादाय समार्गणगणं तदा ॥ ७३ ॥
विश्वास-प्रस्तुतिः
तपोवनं पुण्यमयं विषयान्ते व्यवस्थितम् ।
आससाद दिदृक्षुः स तातं वृद्धं समातृकम् ॥ ७४ ॥

स गच्छन् पितुरभ्याशं नृपतिं चन्द्रशेखरः ।
ददर्श नमुचं नाम तपस्यन्तं महामुनिम् ॥ ७५ ॥

कृष्णाजिनोत्तरीयेण संवीतं सूर्यसन्निभम् ।
ऊर्ध्वगाभिर्जटाभिश्च संयुत ध्यानिनं कृशम् ॥ ७६ ॥

तपसा द्योतिततनुं निश्चलं कुशजासनम् ।
तं दृष्ट्वा दूरतो वीरो रथोपस्थादवातरत् ॥ ७७ ॥

उपतस्थे च विप्रेन्द्रं विनयानतकन्धरः ।
प्रणनाम मुनिं तं च वाक्यमेतदुदीरयन् ॥ ७८ ॥

पौष्यस्य तनयो ब्रह्मन् नाम्नाहं चन्द्रशेखरः ।
प्रणमामि महाभक्त्या भवन्तं मुनिसत्तमम् ॥ ७९ ॥

इत्युक्त्वा प्राञ्जलिस्तस्थौ मुनेस्तस्याग्रतो नृपः ।
नमुचस्य मुखं वीक्ष्य भक्तिनम्रात्ममानसः ॥ ८० ॥

पूर्वमेव यदा राजा प्राविशत् तपसे वनम् ।
तदैव सह भार्याभिस्तं मुनिं प्रत्यपूजयत् ॥ ८१ ॥

चिरमाराध्य नमुचं पौष्यः परमपण्डितः ।
प्रसादयामास मुनिं पुत्रार्थे सूनृताक्षरः ॥ ८२ ॥

विषयान्ते तपः कुर्वन् मुनिश्रेष्ठेह तिष्ठसि ।
एकन्तु प्रार्थये त्वत्तो यदि मां दयसे मुने ॥ ८३ ॥

शिशुर्मे तनयो राजा चन्द्रशेखरसञ्ज्ञकः ।
सहजेन्दुकलायुक्तो बालभावाच्च चञ्चलः ॥ ८४ ॥

स चेद् भवन्तमासाद्य कराचिदपराध्यति ।
तदा क्षमिष्यसि मुने मयैतत् प्रार्थितं त्वयि ॥ ८५ ॥

पौष्यस्य वचनं श्रुत्वा मुनिश्चाङ्गीचकार ह ।
दृष्ट्वा तत्तनयं विप्रः पौष्यवाक्यमथास्मरत् ॥ ८६ ॥

स्मृत्वाग्रतः स्थितं नम्रं सुचिरं चन्द्रशेखरम् ।
इदं प्रोवाच स मुनिर्दयावान्नमुचाह्वयः ॥ ८७ ॥

विनयेनाद्य तुष्टोऽस्मि भवतः चन्द्रशेखर ।
वरं वरय दास्यामि वाञ्छितं मे महत्तरम् ॥ ८८ ॥

तस्य श्रुत्वा ततो वाक्यं नृपतिश्चन्द्रशेखरः ।
पुनः प्रणम्य नमुचमिदमाहातिसूनृतम् ॥ ८९ ॥

कायेन मनसा वाचा यदत्यर्थं द्विजोत्तम ।
तत्सर्वं विषये मेऽस्ति त्वादृशा यस्य दक्षिणाः ॥ ९० ॥

मनोगतं मे दुष्प्रापं वाञ्छनीयं न विद्यते ।
तदेव वरणीयं मे यद् ददाति स्वयं भवान् ॥ ९१ ॥

नमुच उवाच
त्वं सप्तदशवर्षाणां प्राप्ते संवत्सरे परे ।
भविष्यसि नृपश्रेष्ठ वररामापतिः वयम् ॥ ९२ ॥

यथा गिरिसुता शम्भोर्यथा लक्ष्मीर्गदाभृतः ।
यथा सुरेशस्य शची तथा तेऽपि भविष्यति ॥ ९३ ॥

इत्युक्त्वा स मुनिर्भूपं नमुचस्तपसां निधिः ।
विसर्जयामास तदा स चापि मुदितो ययौ ॥ ९४ ॥

स गत्वा पितरं प्राप्य मातृश्च चन्द्रशेखरः ।
अपूजयद् यथार्हन्तु तैरप्याश्वासितः सुतः ॥ ९५ ॥

अथागतो नृपः स्वीयां करवीरपुरीं प्रति ।
मुदितः सचिवै सार्धं रेमे देवेन्द्रसन्निभः ॥ ९६ ॥

इति श्रीकालिकापुराणे सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥