४६

विश्वास-प्रस्तुतिः

षट्चत्वारिंशोऽध्यायः

सगर उवाच

कोऽसौ भैरवनामाभूत् को वा वेतालसञ्ज्ञकः ।
कथं वा तौ शरीरेण मानुषेण गणाधिपौ ॥ १ ॥

मूलम्

षट्चत्वारिंशोऽध्यायः

सगर उवाच

कोऽसौ भैरवनामाभूत् को वा वेतालसञ्ज्ञकः ।
कथं वा तौ शरीरेण मानुषेण गणाधिपौ ॥ १ ॥

विश्वास-प्रस्तुतिः

अभूतां द्विजशार्दूल तन्मे वद महामुने ।
जानामि नन्दिनं विप्र सहायं शशभृद्भृतः ॥ २ ॥

मूलम्

अभूतां द्विजशार्दूल तन्मे वद महामुने ।
जानामि नन्दिनं विप्र सहायं शशभृद्भृतः ॥ २ ॥

विश्वास-प्रस्तुतिः

यथाभवद् गणाध्यक्षस्तन्नारदमुखाछ्रुतम् ।
यथा भृङ्गिमहाकालौ विश्रुतौ हि हरात्मजौ ॥ ३ ॥

मूलम्

यथाभवद् गणाध्यक्षस्तन्नारदमुखाछ्रुतम् ।
यथा भृङ्गिमहाकालौ विश्रुतौ हि हरात्मजौ ॥ ३ ॥

विश्वास-प्रस्तुतिः

कथं वा तौ समुत्पन्नौ त्वत्तः श्रोतुं समुत्सहे ।
योऽसौ शरभरूपस्य महादेवस्य वै पुरा ॥ ४ ॥

मूलम्

कथं वा तौ समुत्पन्नौ त्वत्तः श्रोतुं समुत्सहे ।
योऽसौ शरभरूपस्य महादेवस्य वै पुरा ॥ ४ ॥

विश्वास-प्रस्तुतिः

कायभागः श्रुतः पूर्व्ऽम् स महाभैरवाह्वयः ।
स एव किं भैरवाख्यः किं वान्यो द्विजसत्तम ॥ ५ ॥

मूलम्

कायभागः श्रुतः पूर्व्ऽम् स महाभैरवाह्वयः ।
स एव किं भैरवाख्यः किं वान्यो द्विजसत्तम ॥ ५ ॥

विश्वास-प्रस्तुतिः

वेत्तुं तत्त्वेन तत् सर्वमिच्छामि द्विजसत्तम ।
कस्य वा तनयौ भूत्वा गणाध्यक्षत्वमागतौ ।
तच्चापि कथयस्वाद्य यथा तौ वानराननौ ॥ ६ ॥

मूलम्

वेत्तुं तत्त्वेन तत् सर्वमिच्छामि द्विजसत्तम ।
कस्य वा तनयौ भूत्वा गणाध्यक्षत्वमागतौ ।
तच्चापि कथयस्वाद्य यथा तौ वानराननौ ॥ ६ ॥

विश्वास-प्रस्तुतिः

और्व्य उवाच

शृणु राजन् प्रवक्ष्यामि महाकालस्य भृङ्गिणः ।
भैरवस्यापि चरितं वेतालस्य महात्मनः ॥ ७ ॥

मूलम्

और्व्य उवाच

शृणु राजन् प्रवक्ष्यामि महाकालस्य भृङ्गिणः ।
भैरवस्यापि चरितं वेतालस्य महात्मनः ॥ ७ ॥

विश्वास-प्रस्तुतिः

योऽसौ भृङ्गी हरसुतो महाकालोऽपि भर्गजः ।
तावेव गौरीशापेन सम्भूय नरयोनिजौ ॥ ८ ॥

मूलम्

योऽसौ भृङ्गी हरसुतो महाकालोऽपि भर्गजः ।
तावेव गौरीशापेन सम्भूय नरयोनिजौ ॥ ८ ॥

विश्वास-प्रस्तुतिः

वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि ।
यथा भृङ्गिमहाकालव्युत्पन्नौ प्राक् तथा शृणु ॥ ९ ॥

मूलम्

वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि ।
यथा भृङ्गिमहाकालव्युत्पन्नौ प्राक् तथा शृणु ॥ ९ ॥

विश्वास-प्रस्तुतिः

योऽसौ महाभैरवाख्यः सकायः शरभो हरः ।
भैरवः पृथगेवायं गणाध्यक्षो हरात्मजः ॥ १० ॥

मूलम्

योऽसौ महाभैरवाख्यः सकायः शरभो हरः ।
भैरवः पृथगेवायं गणाध्यक्षो हरात्मजः ॥ १० ॥

विश्वास-प्रस्तुतिः

ऊढायां हिमवत्पुत्र्यां भर्गेण सुमहात्मना ।
तारकस्य वधार्थाय देवैः शक्रपुरोगमैः ।
स्तुतिभिर्नतिभिः शम्भुं सन्ततिर्याचिता पुरा ॥ ११ ॥

मूलम्

ऊढायां हिमवत्पुत्र्यां भर्गेण सुमहात्मना ।
तारकस्य वधार्थाय देवैः शक्रपुरोगमैः ।
स्तुतिभिर्नतिभिः शम्भुं सन्ततिर्याचिता पुरा ॥ ११ ॥

विश्वास-प्रस्तुतिः

स याचितो देवगणैर्भगवान् वृषभध्वजः ।
महामैथुनमारेभे सन्तानायोमया सह ॥ १२ ॥

मूलम्

स याचितो देवगणैर्भगवान् वृषभध्वजः ।
महामैथुनमारेभे सन्तानायोमया सह ॥ १२ ॥

विश्वास-प्रस्तुतिः

आरब्धे मैथुने तेन नरवर्येण वै ययुः ।
द्वात्रिंशद् वत्सरा राजन् क्षणवच्चन्द्रधारिणः ॥ १३ ॥

मूलम्

आरब्धे मैथुने तेन नरवर्येण वै ययुः ।
द्वात्रिंशद् वत्सरा राजन् क्षणवच्चन्द्रधारिणः ॥ १३ ॥

विश्वास-प्रस्तुतिः

स महामैथुनं कुर्वंस्तृप्तिं नाप महेश्वरः ।
माप्यस्य प्रच्युतं तेजो न तृप्तिं प्राप पार्वती ॥ १४ ॥

मूलम्

स महामैथुनं कुर्वंस्तृप्तिं नाप महेश्वरः ।
माप्यस्य प्रच्युतं तेजो न तृप्तिं प्राप पार्वती ॥ १४ ॥

विश्वास-प्रस्तुतिः

तन्महासङ्गसमये चकम्पे वसुधा स्फुटम् ।
आकुलाः सकला देवाः स्युः स्वर्गस्थाश्च येऽपरे ॥ १५ ॥

मूलम्

तन्महासङ्गसमये चकम्पे वसुधा स्फुटम् ।
आकुलाः सकला देवाः स्युः स्वर्गस्थाश्च येऽपरे ॥ १५ ॥

विश्वास-प्रस्तुतिः

सर्वं जगत्तदा भूतमाकुलं शिवयोस्तयोः ।
ततो निवृत्तिजातेन महामैथुनकर्मणा ॥ १६ ॥

मूलम्

सर्वं जगत्तदा भूतमाकुलं शिवयोस्तयोः ।
ततो निवृत्तिजातेन महामैथुनकर्मणा ॥ १६ ॥

विश्वास-प्रस्तुतिः

अथ सेन्द्राः सुराः सर्वं ब्रह्माणं जगतां पतिम् ।
शरण्य शरणं जग्मुर्भीताः शङ्करकेलिभिः ॥ १७ ॥

मूलम्

अथ सेन्द्राः सुराः सर्वं ब्रह्माणं जगतां पतिम् ।
शरण्य शरणं जग्मुर्भीताः शङ्करकेलिभिः ॥ १७ ॥

विश्वास-प्रस्तुतिः

ते सम्भूयाथ धातारं प्रणम्य च सुरोत्तमाः ।
आकुलं सर्वमाचक्षुर्हरमैथुनकर्मणा ॥ १८ ॥

मूलम्

ते सम्भूयाथ धातारं प्रणम्य च सुरोत्तमाः ।
आकुलं सर्वमाचक्षुर्हरमैथुनकर्मणा ॥ १८ ॥

विश्वास-प्रस्तुतिः

ततः सर्वान् देवगणान् पश्चात् कृत्वैव वृत्रहा ।
स्वयमाह विधातारं तत्कालभयभाषितम् ॥ १९ ॥

मूलम्

ततः सर्वान् देवगणान् पश्चात् कृत्वैव वृत्रहा ।
स्वयमाह विधातारं तत्कालभयभाषितम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

इन्द्र उवाच

आकुलाः सकला लोका हरमैथुनकर्मणा ।
अहं महद् भयं प्राप्य शरणं त्वामिहागतः ॥ २० ॥

मूलम्

इन्द्र उवाच

आकुलाः सकला लोका हरमैथुनकर्मणा ।
अहं महद् भयं प्राप्य शरणं त्वामिहागतः ॥ २० ॥

विश्वास-प्रस्तुतिः

एवम्भूते सङ्गमे च शङ्करस्योमया सह ।
यः पुत्रो जायते ब्रह्मन् स मामभिभविष्यति ॥ २१ ॥

मूलम्

एवम्भूते सङ्गमे च शङ्करस्योमया सह ।
यः पुत्रो जायते ब्रह्मन् स मामभिभविष्यति ॥ २१ ॥

विश्वास-प्रस्तुतिः

तत्क्रियादर्शनादेव सूत्पन्नादपि तत्सुतात् ।
ब्रह्मन् जातं भयं मेऽद्य तारकादपि चाधिकम् ॥ २२ ॥

मूलम्

तत्क्रियादर्शनादेव सूत्पन्नादपि तत्सुतात् ।
ब्रह्मन् जातं भयं मेऽद्य तारकादपि चाधिकम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

तस्मादेवं त्वं विधेहि तत्सुतो मां सुरान् यथा ।
न बाधेत तथा यत्नात्तारयास्मान्महाभयात् ॥ २३ ॥

मूलम्

तस्मादेवं त्वं विधेहि तत्सुतो मां सुरान् यथा ।
न बाधेत तथा यत्नात्तारयास्मान्महाभयात् ॥ २३ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच

उमायां जायते पुत्रो यदि शङ्करतेजसा ।
अशक्यः सर्वलोकेशैः सेन्द्रैरपि सुरासुरैः ॥ २४ ॥

मूलम्

ब्रह्मोवाच

उमायां जायते पुत्रो यदि शङ्करतेजसा ।
अशक्यः सर्वलोकेशैः सेन्द्रैरपि सुरासुरैः ॥ २४ ॥

विश्वास-प्रस्तुतिः

अस्माद्धरो यथोमायां न प्रसूतो भविष्यति ।
तथाहं संविधास्यामि गत्वा देवैर्हरान्तिकम् ॥ २५ ॥

मूलम्

अस्माद्धरो यथोमायां न प्रसूतो भविष्यति ।
तथाहं संविधास्यामि गत्वा देवैर्हरान्तिकम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

तारकस्य विघातश्च यथा स्याद्धरतेजसा ।
तच्चाप्यहं करिष्यामि व्येतु ते मानसो ज्वरः ॥ २६ ॥

मूलम्

तारकस्य विघातश्च यथा स्याद्धरतेजसा ।
तच्चाप्यहं करिष्यामि व्येतु ते मानसो ज्वरः ॥ २६ ॥

विश्वास-प्रस्तुतिः

और्व्य उवाच

इत्युक्त्वा सह देवौघैः कैलासाद्रिं प्रजापतिः ।
जगाम रेमे गिरिशो गिरिपुत्र्या समं भृशम् ॥ २७ ॥

मूलम्

और्व्य उवाच

इत्युक्त्वा सह देवौघैः कैलासाद्रिं प्रजापतिः ।
जगाम रेमे गिरिशो गिरिपुत्र्या समं भृशम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

तत्र गत्वा महादेवं ब्रह्मा लोकपितामहः ।
सर्वैः सुरगणैः सार्धं तुष्टाव वृषभध्वजम् ॥ २८ ॥

मूलम्

तत्र गत्वा महादेवं ब्रह्मा लोकपितामहः ।
सर्वैः सुरगणैः सार्धं तुष्टाव वृषभध्वजम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

देवा ऊचुः

प्रीतये यस्य न रतिर्न कामो यन्मनोभवः ।
न यस्य जन्मनो हेतुस्तस्मै तुभ्यं नमो नमः ॥ २९ ॥

मूलम्

देवा ऊचुः

प्रीतये यस्य न रतिर्न कामो यन्मनोभवः ।
न यस्य जन्मनो हेतुस्तस्मै तुभ्यं नमो नमः ॥ २९ ॥

विश्वास-प्रस्तुतिः

यस्य लोकहितायैव जातो जायापरिग्रहः ।
त्र्यम्बकाय नमस्तस्मै स शिवो नः प्रसीदतु ॥ ३९ ॥

मूलम्

यस्य लोकहितायैव जातो जायापरिग्रहः ।
त्र्यम्बकाय नमस्तस्मै स शिवो नः प्रसीदतु ॥ ३९ ॥

विश्वास-प्रस्तुतिः

यन्मन्मथं विना देवं शृङ्गाराद्या विशन्ति च ।
स्वबलेनैव तं देवं त्वां वयं प्रणता हरम् ॥ ३१ ॥

मूलम्

यन्मन्मथं विना देवं शृङ्गाराद्या विशन्ति च ।
स्वबलेनैव तं देवं त्वां वयं प्रणता हरम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

हिरण्यरेताः स्वर्णाभो यो हिरण्यभुजाह्वयः ।
स त्वं सर्गहरो देवो नित्यं नोऽभिप्रसीदतु ॥ ३२ ॥

मूलम्

हिरण्यरेताः स्वर्णाभो यो हिरण्यभुजाह्वयः ।
स त्वं सर्गहरो देवो नित्यं नोऽभिप्रसीदतु ॥ ३२ ॥

विश्वास-प्रस्तुतिः

जगन्मयी योगनिद्रा विष्णुमाया बलीयसी ।
तस्याभवत् स्वयं जाया तस्मै तुभ्यं नमो नमः ॥ ३३ ॥

मूलम्

जगन्मयी योगनिद्रा विष्णुमाया बलीयसी ।
तस्याभवत् स्वयं जाया तस्मै तुभ्यं नमो नमः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

पञ्चभूतमयं यस्य पञ्चशीर्षं विराजते ।
तं पञ्चवदनं देवं भक्त्या त्वां प्रणमामहे ॥ ३४ ॥

मूलम्

पञ्चभूतमयं यस्य पञ्चशीर्षं विराजते ।
तं पञ्चवदनं देवं भक्त्या त्वां प्रणमामहे ॥ ३४ ॥

विश्वास-प्रस्तुतिः

सद्योजातमघोरं च वामदेवमुमापतिम् ।
ईशानं प्रणमामोऽद्य यं तत्पुरुषमाह वै ॥ ३५ ॥

मूलम्

सद्योजातमघोरं च वामदेवमुमापतिम् ।
ईशानं प्रणमामोऽद्य यं तत्पुरुषमाह वै ॥ ३५ ॥

विश्वास-प्रस्तुतिः

योऽसतामशिवो नित्यं यो वा भक्तिमतां शिवः ।
शिवाशिवस्वरूपाय नमस्तस्मै शिवाय ते ॥ ३६ ॥

मूलम्

योऽसतामशिवो नित्यं यो वा भक्तिमतां शिवः ।
शिवाशिवस्वरूपाय नमस्तस्मै शिवाय ते ॥ ३६ ॥

विश्वास-प्रस्तुतिः

रूपैस्त्रिभिर्यः थितिसृष्टिनाशम्
इष्ण्वात्मभिः शम्भुरिति प्रसिद्धैः ।
करोति शश्वज्जगतां नुमस्तं
सिवं विरूपाक्षममुं शिवेशम् ॥ ३७ ॥

मूलम्

रूपैस्त्रिभिर्यः थितिसृष्टिनाशम्
इष्ण्वात्मभिः शम्भुरिति प्रसिद्धैः ।
करोति शश्वज्जगतां नुमस्तं
सिवं विरूपाक्षममुं शिवेशम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

अः शूलखट्वाङ्गमृगाङ्कधारी
यो गोध्वजः शक्तिमान् पञ्चरूपी ।
तस्मै तुभ्यं जातवेदः प्रभाय
भूयो भूयो न नमः शङ्कराय ॥ ३८ ॥

मूलम्

अः शूलखट्वाङ्गमृगाङ्कधारी
यो गोध्वजः शक्तिमान् पञ्चरूपी ।
तस्मै तुभ्यं जातवेदः प्रभाय
भूयो भूयो न नमः शङ्कराय ॥ ३८ ॥

विश्वास-प्रस्तुतिः

ब्रह्मार्चिष्मान् भोगभृद्दैत्यहन्ता
अन्ता योद्धा वीतगर्भो जगत्याः ।
स त्वं स्तुतो नः प्रसीदत्वनन्तो
नित्योद्रेकी उक्तरूपः प्रधानः ॥ ३९ ॥

मूलम्

ब्रह्मार्चिष्मान् भोगभृद्दैत्यहन्ता
अन्ता योद्धा वीतगर्भो जगत्याः ।
स त्वं स्तुतो नः प्रसीदत्वनन्तो
नित्योद्रेकी उक्तरूपः प्रधानः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

अरब्रह्मरूपी नियतैकमुक्तः
परज्योतिरूपी नियतस्त्वनन्तः ।
अरः पाररूपी नियतात्मभागी
अ नो भर्गरूपी गिरिशोऽस्तु भूत्यैः ॥ ४० ॥

मूलम्

अरब्रह्मरूपी नियतैकमुक्तः
परज्योतिरूपी नियतस्त्वनन्तः ।
अरः पाररूपी नियतात्मभागी
अ नो भर्गरूपी गिरिशोऽस्तु भूत्यैः ॥ ४० ॥

विश्वास-प्रस्तुतिः

उमापतिं महामायं महादेवं जगत्पतिम् ।
शिवं शिवकरं शान्तं नमानः स प्रसीदतु ॥ ४१ ॥

मूलम्

उमापतिं महामायं महादेवं जगत्पतिम् ।
शिवं शिवकरं शान्तं नमानः स प्रसीदतु ॥ ४१ ॥

विश्वास-प्रस्तुतिः

और्व्य उवाच

इति स्तुतो महादेवः शक्राद्यैस्त्रिदशैः स्वयम् ।
उमासङ्गं परित्यज्य भर्गोऽगात्त्रिदिवौकसः ॥ ४२ ॥

मूलम्

और्व्य उवाच

इति स्तुतो महादेवः शक्राद्यैस्त्रिदशैः स्वयम् ।
उमासङ्गं परित्यज्य भर्गोऽगात्त्रिदिवौकसः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

येन भावेन स तदा महामैथुनतत्परः ।
आसीन् तेनैव भावेन ब्रह्मादीनां ससाद ह ॥ ४३ ॥

मूलम्

येन भावेन स तदा महामैथुनतत्परः ।
आसीन् तेनैव भावेन ब्रह्मादीनां ससाद ह ॥ ४३ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच

अथ तान् स सुरान् प्राह महादेवस्त्वरन्निव ।
किमर्थमागता यूयं तन्मे वदत निर्जराः ॥ ४४ ॥

मूलम्

ईश्वर उवाच

अथ तान् स सुरान् प्राह महादेवस्त्वरन्निव ।
किमर्थमागता यूयं तन्मे वदत निर्जराः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

देवा ऊचुः

तमूचुस्त्रिदशाः सर्वे ब्रह्मशक्रपुरोगमाः ।
त्वन्महामैथुनाद्भर्ग व्याकुलं सकलं जगत् ॥ ४५ ॥

मूलम्

देवा ऊचुः

तमूचुस्त्रिदशाः सर्वे ब्रह्मशक्रपुरोगमाः ।
त्वन्महामैथुनाद्भर्ग व्याकुलं सकलं जगत् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

पृथिवी कम्पतेऽतीव सशैलवनकानना ।
सागराः क्षुभिताः सर्वे नदा नद्यश्च शङ्कर ॥ ४६ ॥

मूलम्

पृथिवी कम्पतेऽतीव सशैलवनकानना ।
सागराः क्षुभिताः सर्वे नदा नद्यश्च शङ्कर ॥ ४६ ॥

विश्वास-प्रस्तुतिः

देवाश्च सर्वे दिक्पाला न शान्ति प्राप्नुवन्ति वै ।
तस्मात् त्वं सर्वलोकेश सकलाननुकम्पय ॥ ४७ ॥

मूलम्

देवाश्च सर्वे दिक्पाला न शान्ति प्राप्नुवन्ति वै ।
तस्मात् त्वं सर्वलोकेश सकलाननुकम्पय ॥ ४७ ॥

विश्वास-प्रस्तुतिः

त्यक्त्वा महामैथुनं तु रतिमात्रं नियोजय ।

और्व्य उवाच

एतच्छ्रुत्वा वचस्तस्य ब्रह्मणः परमात्मनः ।
उवाच शङ्करो देवो नातिहृष्टमना इव ॥ ४८ ॥

मूलम्

त्यक्त्वा महामैथुनं तु रतिमात्रं नियोजय ।

और्व्य उवाच

एतच्छ्रुत्वा वचस्तस्य ब्रह्मणः परमात्मनः ।
उवाच शङ्करो देवो नातिहृष्टमना इव ॥ ४८ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच

इयं प्रवृत्तिर्भवतां शिवायामरसत्तमाः ।
त्यक्ते महामैथुने तु रतिमात्रं प्रयोजिते ।
नोमायां भविता पुत्रस्तदर्थमयमुद्यमः ॥ ४९ ॥

मूलम्

ईश्वर उवाच

इयं प्रवृत्तिर्भवतां शिवायामरसत्तमाः ।
त्यक्ते महामैथुने तु रतिमात्रं प्रयोजिते ।
नोमायां भविता पुत्रस्तदर्थमयमुद्यमः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

उमाशरीरजः पुत्रो यो भवेन्मम तेजसा ।
स एव तु रिपून् हत्वा त्रिदशान् वर्धयिष्यति ॥ ५० ॥

मूलम्

उमाशरीरजः पुत्रो यो भवेन्मम तेजसा ।
स एव तु रिपून् हत्वा त्रिदशान् वर्धयिष्यति ॥ ५० ॥

विश्वास-प्रस्तुतिः

तस्मान्महामैथुने मेऽतीव भीताः सुरोत्तमाः ।
स्वं स्वं स्थानं प्रगच्छन्तु अहं तदनुचिन्तये ॥ ५१ ॥

मूलम्

तस्मान्महामैथुने मेऽतीव भीताः सुरोत्तमाः ।
स्वं स्वं स्थानं प्रगच्छन्तु अहं तदनुचिन्तये ॥ ५१ ॥

विश्वास-प्रस्तुतिः

देवा ऊचुः

उमाशरीरजः पुत्रो यथा न भविता हर ।
तथा कुरु जगन्नाथ तन्महामैथुनं त्यज ॥ ५२ ॥

मूलम्

देवा ऊचुः

उमाशरीरजः पुत्रो यथा न भविता हर ।
तथा कुरु जगन्नाथ तन्महामैथुनं त्यज ॥ ५२ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच

रतिमात्रेण नोमायां मत्पुत्रः सम्भविष्यति ।
महामैथुनसन्त्यागात् स्यादपुत्री तु पार्वती ॥ ५३ ॥

मूलम्

ईश्वर उवाच

रतिमात्रेण नोमायां मत्पुत्रः सम्भविष्यति ।
महामैथुनसन्त्यागात् स्यादपुत्री तु पार्वती ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तस्मादहं तु देवानां वचनाद् ब्रह्मणस्तथा ।
त्यक्ष्ये महामैथुनं तु किं त्वेकं कुरुतामराः ॥ ५४ ॥

मूलम्

तस्मादहं तु देवानां वचनाद् ब्रह्मणस्तथा ।
त्यक्ष्ये महामैथुनं तु किं त्वेकं कुरुतामराः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

येन मे प्रसृतं तेजो महामैथुनकारणात् ।
धायं तेजस्विनं देवमानयन्त्वमरास्तु तम् ॥ ५५ ॥

मूलम्

येन मे प्रसृतं तेजो महामैथुनकारणात् ।
धायं तेजस्विनं देवमानयन्त्वमरास्तु तम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

यो निष्कम्पो निर्विकारो भूत्वा तेजो ग्रहीष्यति ।
तन्मे वदन्तु त्रिदशास्त्यक्ष्ये तेजः शरीरजम् ॥ ५६ ॥

मूलम्

यो निष्कम्पो निर्विकारो भूत्वा तेजो ग्रहीष्यति ।
तन्मे वदन्तु त्रिदशास्त्यक्ष्ये तेजः शरीरजम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

और्व्य उवाच

वृषध्वजवचः श्रुत्वा देवा ब्रह्मपुरोगमाः ।
हरतेजोग्रहायाथ वीतिहोत्रं ययुर्धिया ॥ ५७ ॥

मूलम्

और्व्य उवाच

वृषध्वजवचः श्रुत्वा देवा ब्रह्मपुरोगमाः ।
हरतेजोग्रहायाथ वीतिहोत्रं ययुर्धिया ॥ ५७ ॥

विश्वास-प्रस्तुतिः

अथ ब्रह्माणमामन्त्र्य तथानुज्ञाप्य पावकम् ।
सेन्द्रा देवगणाः सर्वे हरमूचुरिदं वचः ॥ ५८ ॥

मूलम्

अथ ब्रह्माणमामन्त्र्य तथानुज्ञाप्य पावकम् ।
सेन्द्रा देवगणाः सर्वे हरमूचुरिदं वचः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

देवा ऊचुः

एष वैश्वानरः श्रीमान् भूरितेजोमयो वली ।
महामैथुनबीजं तु त्वत्तेजः सङ्ग्रहीष्यति ॥ ५९ ॥

मूलम्

देवा ऊचुः

एष वैश्वानरः श्रीमान् भूरितेजोमयो वली ।
महामैथुनबीजं तु त्वत्तेजः सङ्ग्रहीष्यति ॥ ५९ ॥

विश्वास-प्रस्तुतिः

और्व्य उवाच

इत्युक्त्वा त्रिदशा सर्वे वीतिहोत्रं पुरः स्थितम् ।
तस्मै निदेशयामासुः शम्भवे सर्वहेतवे ॥ ६० ॥

मूलम्

और्व्य उवाच

इत्युक्त्वा त्रिदशा सर्वे वीतिहोत्रं पुरः स्थितम् ।
तस्मै निदेशयामासुः शम्भवे सर्वहेतवे ॥ ६० ॥

विश्वास-प्रस्तुतिः

अतः षडङ्गं स्वं रेतो व्यादिते दहनानने ।
उत्ससर्ज महाबाहुर्महामैथुनकारणम् ॥ ६१ ॥

मूलम्

अतः षडङ्गं स्वं रेतो व्यादिते दहनानने ।
उत्ससर्ज महाबाहुर्महामैथुनकारणम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

अग्नावुत्सृज्यमानस्य तेजसः शशभृद्भृतः ।
अणुद्वयमतिस्वल्पं गिरिप्रस्थे पपात ह ॥ ६२ ॥

मूलम्

अग्नावुत्सृज्यमानस्य तेजसः शशभृद्भृतः ।
अणुद्वयमतिस्वल्पं गिरिप्रस्थे पपात ह ॥ ६२ ॥

विश्वास-प्रस्तुतिः

तयोस्तु कणयोः सद्य सम्भूतौ शङ्करात्मजौ ।
एको भृङ्गसमः कृष्णो भिन्नाञ्जानिभोऽपरः ॥ ६३ ॥

मूलम्

तयोस्तु कणयोः सद्य सम्भूतौ शङ्करात्मजौ ।
एको भृङ्गसमः कृष्णो भिन्नाञ्जानिभोऽपरः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

भृङ्गाभस्य तदा ब्रह्मा नाम भृङ्गीति चाकरोत् ।
महाकृष्णैकरूपस्य महाकालेति लोकभृत् ॥ ६४ ॥

मूलम्

भृङ्गाभस्य तदा ब्रह्मा नाम भृङ्गीति चाकरोत् ।
महाकृष्णैकरूपस्य महाकालेति लोकभृत् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

ततस्तौ पालयामास शङ्करः प्रमथोत्करैः ।
अपर्णया चापि तथा क्रमात् तावतिवर्द्धितौ ॥ ६५ ॥

मूलम्

ततस्तौ पालयामास शङ्करः प्रमथोत्करैः ।
अपर्णया चापि तथा क्रमात् तावतिवर्द्धितौ ॥ ६५ ॥

विश्वास-प्रस्तुतिः

प्रवृद्धौ तौ महात्मानौ हरोमाप्रतिपालितौ ।
क्रमाद् गणेशौ कृत्वा तौ हरो द्वारि न्ययोजयत् ॥ ६६ ॥

मूलम्

प्रवृद्धौ तौ महात्मानौ हरोमाप्रतिपालितौ ।
क्रमाद् गणेशौ कृत्वा तौ हरो द्वारि न्ययोजयत् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

सगर उवाच

उत्सृष्टमग्नौ यत्तेजस्तत् किं वृत्तं द्विजोत्तम ।
तद्प्यहं श्रोतुमिच्छुः सङ्क्षेपात् तद्वदस्व मे ॥ ६७ ॥

मूलम्

सगर उवाच

उत्सृष्टमग्नौ यत्तेजस्तत् किं वृत्तं द्विजोत्तम ।
तद्प्यहं श्रोतुमिच्छुः सङ्क्षेपात् तद्वदस्व मे ॥ ६७ ॥

विश्वास-प्रस्तुतिः

और्व्य उवाच

अग्नावुत्सृज्य तेजांसि तावत्कालं वृषध्वजः ।
आकाशगङ्गामुद्दिश्य देवानिदमुवाच ह ॥ ३८ ॥

मूलम्

और्व्य उवाच

अग्नावुत्सृज्य तेजांसि तावत्कालं वृषध्वजः ।
आकाशगङ्गामुद्दिश्य देवानिदमुवाच ह ॥ ३८ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच

एतत् तेजो दुराधर्षं स्त्रीभिरन्यैः सुरोत्तमाः ।
योगनिन्द्रामृते देवीं शैलपुत्रीमृतेऽथ वा ॥ ६९ ॥

मूलम्

ईश्वर उवाच

एतत् तेजो दुराधर्षं स्त्रीभिरन्यैः सुरोत्तमाः ।
योगनिन्द्रामृते देवीं शैलपुत्रीमृतेऽथ वा ॥ ६९ ॥

विश्वास-प्रस्तुतिः

तस्मादहं प्रवक्ष्यामि यथेदं तेजसा सुतः ।
यत्र वा भविता देवो या च वा तद् ग्रहीष्यति ॥ ७० ॥

मूलम्

तस्मादहं प्रवक्ष्यामि यथेदं तेजसा सुतः ।
यत्र वा भविता देवो या च वा तद् ग्रहीष्यति ॥ ७० ॥

विश्वास-प्रस्तुतिः

इयं त्वाकाशगा गङ्गा शैलराजसुतापरा ।
उमाया भगिनी ज्येष्ठा ततोऽपत्यं हुताशनात् ॥ ७१ ॥

मूलम्

इयं त्वाकाशगा गङ्गा शैलराजसुतापरा ।
उमाया भगिनी ज्येष्ठा ततोऽपत्यं हुताशनात् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

जनिष्यत्यात्मवीर्येण तेजसानुपमद्युतिः ।
भविष्यति स वः श्रीमान् सेनापतिररिन्दमः ॥ ७२ ॥

मूलम्

जनिष्यत्यात्मवीर्येण तेजसानुपमद्युतिः ।
भविष्यति स वः श्रीमान् सेनापतिररिन्दमः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

स तारकं वः पुरतो विजेष्यति शिखिध्वजः ।
अमोघया महाशक्त्या मयैव प्रतिविर्धितः ॥ ७३ ॥

मूलम्

स तारकं वः पुरतो विजेष्यति शिखिध्वजः ।
अमोघया महाशक्त्या मयैव प्रतिविर्धितः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

और्व्य उवाच

इत्युक्त्वा स महादेवो विसृज्य सकलान् सुरान् ।
पार्वतीमभिसम्मन्त्र्य शौचार्थं गतवांस्तदा ॥ ७४ ॥

मूलम्

और्व्य उवाच

इत्युक्त्वा स महादेवो विसृज्य सकलान् सुरान् ।
पार्वतीमभिसम्मन्त्र्य शौचार्थं गतवांस्तदा ॥ ७४ ॥

विश्वास-प्रस्तुतिः

पार्वती वचनं श्रुत्वा देवानामप्रियं सती ।
चुकोप त्रिदशौघाय पुत्राशापपरिवर्जिता ॥ ७५ ॥

मूलम्

पार्वती वचनं श्रुत्वा देवानामप्रियं सती ।
चुकोप त्रिदशौघाय पुत्राशापपरिवर्जिता ॥ ७५ ॥

विश्वास-प्रस्तुतिः

मन्युना दह्यमानेव स्फुरदोष्ठाधरा तदा ।
इदमाह सुरान् दृष्ट्वा हरं च त्यक्तमैथुनम् ॥ ७६ ॥

मूलम्

मन्युना दह्यमानेव स्फुरदोष्ठाधरा तदा ।
इदमाह सुरान् दृष्ट्वा हरं च त्यक्तमैथुनम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

देव्यु वाच

यस्माद्वियोजितः शम्भुर्युष्माभिर्मम मैथुने ।
अजातपुत्रा च कृता वारस्त्रीवाहमर्दिता ॥ ७७ ॥

मूलम्

देव्यु वाच

यस्माद्वियोजितः शम्भुर्युष्माभिर्मम मैथुने ।
अजातपुत्रा च कृता वारस्त्रीवाहमर्दिता ॥ ७७ ॥

विश्वास-प्रस्तुतिः

तस्मात् सर्वे सुरगणा अद्यावधि निरन्तरम् ।
महामैथुनविभ्रष्टा भवन्तु निजयोषिति ॥ ७८ ॥

मूलम्

तस्मात् सर्वे सुरगणा अद्यावधि निरन्तरम् ।
महामैथुनविभ्रष्टा भवन्तु निजयोषिति ॥ ७८ ॥

विश्वास-प्रस्तुतिः

तेषामपि तथा पुत्रा न जनिष्यन्ति मे यथा ।
भर्याश्च सन्त्वपत्येन हीना दैव्यो वराङ्गनाः ॥ ७९ ॥

मूलम्

तेषामपि तथा पुत्रा न जनिष्यन्ति मे यथा ।
भर्याश्च सन्त्वपत्येन हीना दैव्यो वराङ्गनाः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

यथाहं परितप्यामि पुत्राशापरिवर्जिता ।
तथा सन्तु समस्तास्ता देव्यः पुत्राशय च्युताः ॥ ८० ॥

मूलम्

यथाहं परितप्यामि पुत्राशापरिवर्जिता ।
तथा सन्तु समस्तास्ता देव्यः पुत्राशय च्युताः ॥ ८० ॥

विश्वास-प्रस्तुतिः

और्व्य उवाच

एवं सुरान् गिरिसुता शशाप कुपिता भृशम् ।
तत्कालावधि न स्वर्गे जायन्ते देवपुत्रकाः ॥ ८१ ॥

मूलम्

और्व्य उवाच

एवं सुरान् गिरिसुता शशाप कुपिता भृशम् ।
तत्कालावधि न स्वर्गे जायन्ते देवपुत्रकाः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

नाद्यापि सम्प्रजायन्ते पुत्रास्तासु सुधाशिनाम् ।
दहनोऽपि तथा काले प्राप्ते गङ्गोदरे स्वयम् ।
रेतः सङ्क्रामयामास शाम्भवं स्वर्णसन्निभम् ॥ ८२ ॥

मूलम्

नाद्यापि सम्प्रजायन्ते पुत्रास्तासु सुधाशिनाम् ।
दहनोऽपि तथा काले प्राप्ते गङ्गोदरे स्वयम् ।
रेतः सङ्क्रामयामास शाम्भवं स्वर्णसन्निभम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

सा तेन रेतसा देवी सर्वलक्षणसंयुतम् ।
पूर्णकालेऽथ सुषुवे पुत्त्र्ययुग्मं मनोहरम् ॥ ८३ ॥

मूलम्

सा तेन रेतसा देवी सर्वलक्षणसंयुतम् ।
पूर्णकालेऽथ सुषुवे पुत्त्र्ययुग्मं मनोहरम् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

एकः स्कन्दो विशाखाख्यो द्वितीयश्चारुरूपधृक् ।
शक्तिद्वयधरौ द्वौ तौ तेजः कान्तिविर्धितौ ॥ ८४ ॥

मूलम्

एकः स्कन्दो विशाखाख्यो द्वितीयश्चारुरूपधृक् ।
शक्तिद्वयधरौ द्वौ तौ तेजः कान्तिविर्धितौ ॥ ८४ ॥

विश्वास-प्रस्तुतिः

तावेकत्वं जगामाशु विशाखः स्कन्द एव च ।
शिशुश्चाप्यभवद् यातो यथान्यस्य सुतस्तथा ॥ ८५ ॥

मूलम्

तावेकत्वं जगामाशु विशाखः स्कन्द एव च ।
शिशुश्चाप्यभवद् यातो यथान्यस्य सुतस्तथा ॥ ८५ ॥

विश्वास-प्रस्तुतिः

ततस्तं तनयं जातं तथा दृष्ट्वातिविस्मिता ।
मध्ये शरवणस्याशु गङ्गा तं व्यसृजद्घटात् ॥ ८६ ॥

मूलम्

ततस्तं तनयं जातं तथा दृष्ट्वातिविस्मिता ।
मध्ये शरवणस्याशु गङ्गा तं व्यसृजद्घटात् ॥ ८६ ॥

विश्वास-प्रस्तुतिः

विसृज्य गर्भं तं गङ्गा बहुलायै स्वयं तदा ।
गर्भवृत्तान्तमाचख्यौ जातं च व्यसृजद् यथा ॥ ८७ ॥

मूलम्

विसृज्य गर्भं तं गङ्गा बहुलायै स्वयं तदा ।
गर्भवृत्तान्तमाचख्यौ जातं च व्यसृजद् यथा ॥ ८७ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा बहुला ज्ञात्वा महादेवतनूद्भवम् ।
परिगृह्य सुतं तं तु पालयामास कृत्तिका ॥ ८८ ॥

मूलम्

तच्छ्रुत्वा बहुला ज्ञात्वा महादेवतनूद्भवम् ।
परिगृह्य सुतं तं तु पालयामास कृत्तिका ॥ ८८ ॥

विश्वास-प्रस्तुतिः

उमायाः शङ्करस्यापि विज्ञाप्यानुमते तयोः ।
ततो नीत्वा ददौ देव्यै तं पुत्रमरिमर्दनम् ॥ ८९ ॥

मूलम्

उमायाः शङ्करस्यापि विज्ञाप्यानुमते तयोः ।
ततो नीत्वा ददौ देव्यै तं पुत्रमरिमर्दनम् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

सोऽतिवृद्धः शक्तिधरो महाबलपराक्रमः ।
वर्धितः शङ्करेणाशु देवसेनाधिपोऽभवत् ॥ ९० ॥

मूलम्

सोऽतिवृद्धः शक्तिधरो महाबलपराक्रमः ।
वर्धितः शङ्करेणाशु देवसेनाधिपोऽभवत् ॥ ९० ॥

विश्वास-प्रस्तुतिः

ततः सुरारिं सगणं तारकं लोकतारकम् ।
शक्तिहस्तो हरसुतः प्रममाथ महाबलम् ॥ ९१ ॥

मूलम्

ततः सुरारिं सगणं तारकं लोकतारकम् ।
शक्तिहस्तो हरसुतः प्रममाथ महाबलम् ॥ ९१ ॥

विश्वास-प्रस्तुतिः

एवमग्नौ समुत्सृष्टं तेजो भर्गेण सङ्गतम् ।
यथा वृत्तं तथा तेऽद्य कथितं नृपसत्तम ॥ ९२ ॥

मूलम्

एवमग्नौ समुत्सृष्टं तेजो भर्गेण सङ्गतम् ।
यथा वृत्तं तथा तेऽद्य कथितं नृपसत्तम ॥ ९२ ॥

विश्वास-प्रस्तुतिः

साम्प्रतं प्रस्तुतुअं श्राव्यं महाकालस्य भृङ्गिणः ।
वृत्तान्तं शृणु राजेन्द्र तौ भूतौ मनुजौ यथा ॥ ९३ ॥

मूलम्

साम्प्रतं प्रस्तुतुअं श्राव्यं महाकालस्य भृङ्गिणः ।
वृत्तान्तं शृणु राजेन्द्र तौ भूतौ मनुजौ यथा ॥ ९३ ॥

विश्वास-प्रस्तुतिः

इति श्रीकालिकापुराणेसट्चत्वारिंशोऽध्यायः ॥ ४६ ॥

मूलम्

इति श्रीकालिकापुराणेसट्चत्वारिंशोऽध्यायः ॥ ४६ ॥