४५

पञ्चचत्वारिंशोऽध्यायः

ऋषयः ऊचुः

विश्वास-प्रस्तुतिः

विचित्रमिदमाख्यातं ब्रह्मन् कालीहरागमम् ।
पुण्यं पापहरं नित्यं श्रुतिसौख्यप्रदं वरम् ॥ १ ॥

मूलम्

भूयः कथय शर्वस्य कालीतन्वर्धमुत्तमम् ।
कथं जहार गौरी वा कथम्भूताथ कालिका ॥ २ ॥

मूलम्

भूयः कथय शर्वस्य कालीतन्वर्धमुत्तमम् ।
कथं जहार गौरी वा कथम्भूताथ कालिका ॥ २ ॥

विश्वास-प्रस्तुतिः

केन वा कारणेनाशु कृष्णा गौरीत्वमागता ।
तन्नः कथय तत्त्वेन मुनिश्रेष्ठ द्विजोत्तम ॥ ३ ॥

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

इदं तु महदाख्यानं कथयिष्यामि वोऽधुना ।
महर्षयस्तच्छृण्वन्तु तत्त्वेन शुभदं परम् ॥ ४ ॥

एतदौर्व पुरा राजा सगरः पृष्टवान्मुनिम् ।
स तं यथा समाचष्ट तद्वोऽथ निगदाम्यहम् ॥ ५ ॥

पुराभूत् सोमवंशे च सगरो नाम पार्थिवः ।
स श्रीमान् बलवान् दक्षः सर्वशास्त्रार्थपारगः ॥ ६ ॥

सोऽभूदेकरथेनैव जित्वा सर्वान् महीभुजः ।
सार्वभौमो नरपतिः सर्वराजगुणैर्युतः ॥ ७ ॥

तं प्राप्तराज्यं राजानं सगरं पार्थिवोत्तमम् ।
सभाजयितुमत्यर्थं मुनयः समुपागताः ॥ ८ ॥

प्राच्योदीच्या महात्मानो दाक्षिणात्यास्तथोत्तराः ।
मुनयो ब्राह्मणाश्चैव नृपं द्रष्टुं समागमन् ॥ ९ ॥

आगतेष्वथ सर्वेषु महात्मा ज्वलनोपमः ।
और्वो नाम मुनिः श्रीमानागतो नन्दितुं नृपम् ॥ १० ॥

तमागतं मुनिं दृष्ट्वा ज्वलन्तमिव पावकम् ।
सपर्यया महत्या तु सगरस्तमपूजयत् ॥ ११ ॥

पाद्यमाचमनीयं च दत्त्वैवार्धपुरोगमम् ।
निवेशयामास च तं मुनिश्रेष्ठं वरासने ॥ १२ ॥

उवाच च महात्मानमौर्वं स सगरो नृपः ।
प्रणम्य च यथायोग्यं कुशलं त इति द्विजम् ॥ १३ ॥

स च प्राह मुनिश्रेष्ठो नरराज सदा मम ।
सर्वत्र कुशलं त्वां तु द्रष्टुं कुशलमुत्सहे ॥ १४ ॥

त्वत्तः कोऽन्योऽस्ति कुशली पृथिव्यां सर्वराजसु ।
य एकः सञ्जिगायाशु भवान् सकलपार्थिवान् ॥ १५ ॥

कुशलं वर्धतां नित्यं तव राजवरोत्तम ।
यथा नीत्या सदाचारैः पृथिवीं शाधि भूपते ॥ १६ ॥

तव वृद्धौ जगद्वृद्धिर्वृद्धौ चेष्टां तत्ऽह् कुरु ।
शुभ्रांशुवृद्धौ सततं सागरस्येव वर्धनम् ॥ १७ ॥

प्रथमं सद्गुणैरात्मा क्रियतां नृप योजनम् ।
ततः स्वभार्या महिषी क्रियतां तद्गुणैर्युता ॥ १८ ॥

नित्या संयोजिता चेत् स्याद्वनिता स्वयमेव हि ।
स्वगुणेषु प्रवेक्ष्यन्ती महत्यपि धृतव्रता ॥ १९ ॥

श्रूयते हिमवत्पुत्री शम्भुसङ्गतमानसा ।
क्रियाभ्युपायैर्बहुभिः शम्भुना सा प्रयोजिता ॥ २० ॥

ततोऽतिमहता प्रेम्णा शङ्करस्याथ पार्वती ।
शरीरमर्धमहरत्तस्यैवानुमते सती ॥ २१ ॥

अर्धनारीश्वरस्तेन तदा प्रभृति शङ्करः ।
अभवन् नृपशार्दूल नान्यां भार्यां गृहीतवान् ॥ २२ ॥

तस्मात् त्वमपि राजेन्द्र स्वजायामात्मनोत्तरे ।
गुणैः संयोजय लघुं संयोजय ततः सुतम् ॥ २३ ॥

मूलम्

तस्मात् त्वमपि राजेन्द्र स्वजायामात्मनोत्तरे ।
गुणैः संयोजय लघुं संयोजय ततः सुतम् ॥ २३ ॥

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

इत्यौर्वभाषित श्रुत्वा सगरोऽपि मुदान्वितः ।
इद मुनिमपृच्छत् स नृपतिः स्मितसन्ततः ॥ २४ ॥

सगर उवाच

विश्वास-प्रस्तुतिः

कथं सा गिरिजा देवी कायार्धमहरत् सती ।
शङ्करस्य द्विजश्रेष्ठ तदहं श्रोतुमुत्सहे ॥ २५ ॥

नीत्या यया वा योक्तव्या स्वात्मा भार्या सुतोऽथवा ।
तां नीतिं च सदाचारसंहितां श्रोतुमुत्सहे ॥ २६ ॥

राजनीतिं सतां नीतिमन्येषां च कृतात्मनाम् ।
पृथक् पृथक् श्रोतुमिच्छुरहं त्वां नाथये द्विज ॥ २७ ॥

यदि गुह्यमिदं ब्रह्मन्न तदा श्रोतुमुत्सहे ।
तथा नाज्ञापयामि त्वां श्रोतुमिच्छुश्च तत्समम् ॥

कृपया कथनीयं चेत्तदा कथय तन्मुने ॥ २८ ॥

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

इत्येवं सगरेणोक्तमौर्वोऽपि द्विजसत्तम ।
प्रत्युवाच महात्मानं कृपालुस्तत्र भूपतौ ॥ २९ ॥

और्व उवाच

विश्वास-प्रस्तुतिः

शृणु राजन् प्रवक्ष्यामि यद् यत् पृष्टमिह त्वया ।
यथा हरस्य तन्वर्थं भूभृत्पुत्री पुराहरत् ॥ ३० ॥

यथा नीतिस्त्वया कार्या यत्र यत्र नृपोत्तम ।
सर्वेषां च सदाचारं क्रमाद् वक्ष्यामि तच्छृणु ॥ ३१ ॥

यदोढा हिमवत्पुत्री शङ्करेण महात्मना ।
कियन्तं स तदा कालं तत्र निन्ये सहोमया ॥ ३२ ॥

रममाणस्तया सार्धं सानौ कुञ्जे दरीषु च ।
विजहार चिरं तत्र पार्वतीं मोदयन् हरः ॥ ३३ ॥

अथ काले तु सम्प्राप्ते शम्भुः कैलासपर्वतम् ।
सगणो भार्यया सार्धमगच्छत्त्रिदिवोपमम् ॥ ३४ ॥

स त्वया क्रीडमानश्च त्यक्तध्यानात्मचिन्तनः ।
तद्वक्त्रचन्द्रे नेत्राणि चकोरानिव चाकरोत् ॥ ३५ ॥

पुष्पाणि क्वचिदाहृत्य गिरिजां प्रति शङ्करः ।
सर्वाङ्गसङ्गिनीं मालां विदधेऽतिमनोहराम् ॥ ३६ ॥

कदाचिदादर्शतले युगपच्चात्मनो मुखम् ।
मुखं तथैवापर्णाया वीक्षाञ्चक्रे वृषधवजः ॥ ३७ ॥

कदाचिन्मृगनाभीनां विलेपैर्गन्धपत्रकम् ।
तस्या घनस्तनयुगे विलिलेख स्मरान्तकः ॥ ३८ ॥

गन्धसारविलेपेन तिलकान्यम्बिकातनौ ।
ललाटे चाकरोच्चारु चन्द्रवद्घनसन्धिषु ॥ ३९ ॥

उमानिर्याससंसक्तकेशपाशेषु चित्रकम् ।
चन्दनागुरुकस्तूरीकुङ्कुमस्य विलेपनैः ॥ ४० ॥

चकार येन तस्यास्तु केशपाशो व्यराजत ।
नर्तनायावतीर्णस्य शिखिपुच्छस्य साम्यधृक् ॥ ४१ ॥

जाम्बूनदमयाञ् शुद्धान् कुण्डलाद्यान् मनोहरान् ।
अलङ्कारानुमा देहे समाकार्षीद् वृषध्वजः ॥ ४२ ॥

तैर्जाम्बूनदसम्भूतैर्योजितैर्गिरिजातनुः ।
विभाति जलदापूर्णे कालिकेव तडिद्गणैः ॥ ४३ ॥

सर्वैर्दिव्यैरलङ्कारैर्नानारत्नैः सदंशुकैः ।
सम्पूर्णमण्डिता काली सादृश्यं प्रकृतेर्दधौ ॥ ४४ ॥

एवं सदा सानुरागस्तस्यां शम्भुर्जगत्पतिः ।
जगद्धिताय चिक्रीड काल्या दयितया सह ॥ ४५ ।

काली च जगतां माता महामाया जगन्मयी ।
योगनिद्रा जगद्बुद्धिर्विद्याविद्यात्मिकाखिला ॥ ४६ ॥

प्रकृतिः परमा मूर्तिः सर्गान्तस्थितिकारिणी ।
सम्मोह्य शङ्करं यत्राज्जगतां च हितेषिणी ।
रेमे तेन समं देवी चन्द्रिकेव सुधांशुना ॥ ४७ ॥

अथैकदा स्मरहरः कैलासाग्रे सहोमया ।
रममाणो मुदा युक्तो ददृशेऽप्सरसः शुभाः ॥ ४८ ॥

रूपयौवनसम्पन्नाः सर्वलक्षणसंयुताः ।
तासां मध्यगता वेश्या उर्वशी च मनोहरा ॥ ४९ ॥

ताः सर्वा रक्तगौराङ्ग्यः सर्वालङ्कारभूषिताः ।
मुनीनां च मनोऽत्यर्थं शक्ता मोहयितुं हठात् ॥ ५० ॥

ताः प्रणम्य हरं दृष्ट्वा गिरिजां च मनोरमाम् ।
अग्रे प्राञ्जलयस्तस्थुस्तद्भीतिनतमस्तकाः ॥ ५१ ॥

अथ प्राह तदा भर्गः पार्वतीमिदमद्भुतम् ।
तासां समक्षं तस्यां तु भाषितुं स्याद् यदप्रियम् ॥ ५२ ॥

कालि भिन्नाञ्जनश्यामे उर्वश्याद्यप्सरोगणैः ।
त्वयेह स्त्रीस्वभावेन संलापः क्रियतामिति ॥ ५३ ॥

तच्छ्रुत्वा वचनं तस्य यथायोग्यं च सोर्वशी ।
अप्सरसः समाभाष्य विसृष्टा गिरिजा तया ॥ ५४ ॥

अथ सा क्रोधवशगा पार्वती भर्गभावितात् ।
काली भिन्नाञ्जनश्यामेत्युदिता ह्यभवत् क्षणात् ॥ ५५ ॥

सा चाप्सरसां पुरतो वर्णोद्देशविकत्थनम् ।
न सेहे मन्युना युक्ता गिरिजेन्दुकलाभृतः ॥ ५६ ॥

अथ सा रोषसंयुक्ता त्यक्त्वा वृषवाहनम् ।
अपह्नुते शैलसानौ रोषापह्नुतिमागता ॥ ५७ ॥

मार्गमाणोऽथ विरहव्याकुलो वृषवाहनः ।
नाससाद कियत्कालं पार्वतीं पर्वतोत्तमे ॥ ५८ ॥

विरहव्याकुलं ज्ञात्वा स्वय सा पार्वती हरम् ।
आत्मानं दर्शयामास गिरिसानावपह्नुते ॥ ५९ ॥

तामासाद्य ततः शम्भुः किमर्थमभजः प्रिये ।
मानं मनोनुदं देवि विशीर्ण इव चाब्रवीत् ॥ ६० ॥

भर्तुरागः पुरन्ध्रीणां मानग्रहणकारणम् ।
तद्विना ग्रहणात्तस्य भीरु प्राप्नोति वाच्यताम् ॥ ६१ ॥

तस्मात् किमर्थमकरो रोषं त्वं जलजानने ।
तदाचक्ष्व द्रुतं कान्ते मनो मे न प्रसीदति ॥ ६२ ॥

इत्युक्त्वा शङ्करो देवीं तामालिङ्गितुमुद्यतः ।
काली तं वारयामास वचनं चाब्रवीदिदम् ॥ ६३ ॥

न दृष्टपूर्वा किमहं येन भिन्नाञ्जनोपमा ।
क्रियते मयि भूतेश भवताप्सरसां पुरः ॥ ६४ ॥

जातिहीनं वृत्तिहीनं रूपहीनमदक्षिणम् ।
हीनाङ्गमतिरिक्ताङ्गं तेन दोषेण नाक्षिपेत् ॥ ६५ ॥

इति ब्रह्मा पुरा प्राह वेदौघार्थावनिश्चयम् ।
तं चावमन्य भवता परिहासोऽभ्यभाष्यते ॥ ६६ ॥

यावन्न मे शरीरस्य भवित्री स्वर्णगौरता ।
न समेष्ये त्वया तावदिति सत्यं ब्रवीमि ते ॥ ६७ ॥

शरीरगौरतां शम्भो न समेष्ये त्वया विना ।
तत्र मे शृणु सन्धाय आत्मनः शिरसा शपे ॥ ६८ ॥

इत्युक्त्वा सा तदा देवी तस्यैव पुरतो ययौ ।
महाकोषीप्रपाताख्यं हिमवत्साउमुत्तमम् ॥ ६९ ॥

महादेवोऽपि तं भाव्यं ज्ञानेन कृतनिश्चयम् ।
अर्थं ज्ञात्वा तदापर्णां सर्वज्ञो नाप्यवारयत् ॥ ७० ॥

सा गत्वा पूर्ववत्तत्र शम्भुसङ्गतमानसा ।
शतमाराधयामास वर्षाणि वृषभध्वजम् ॥ ७१ ॥

मूलम्

सा गत्वा पूर्ववत्तत्र शम्भुसङ्गतमानसा ।
शतमाराधयामास वर्षाणि वृषभध्वजम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

एकं पादं समुत्क्षिप्य वामेनाक्रम्य सा क्षितिम् ।
उत्तराभिमुखी भूत्वा निराहारा निरन्तरम् ॥ ७२ ॥

वैयाघ्रचर्मवसना सोर्ध्वमूर्द्धानना सती ।
ज्योतिर्मयं परं शान्तं शिवं शिवकरं वरम् ॥ ७३ ॥

आत्मस्वरूपतत्त्वज्ञा तत्त्वेनाराधयद्धरम् ।
तां चिन्तयन्तीं परमनिश्चलां तत्त्वमानसाम् ॥ ७४ ॥

मेने मुनिगणः स्थाणुर्यो न जानाति तत्त्वतः ।
एवं तस्यास्तपस्यन्त्या जग्मुर्वर्षाणि वै शतम् ॥ ७५ ॥

अन्येषां च यथा शश्वदेकं नृपतिसत्तम ।
ततस्तां शतवर्षान्ते शङ्करो योगतत्परः ॥ ७६ ॥

आत्मानं दर्शयामास क्रमादेकं स सत्रपम् ।
प्रथमं दर्शयामास ब्रह्माणं च हरिं ततः ॥ ७७ ॥

ततस्तु शाम्भवं देहं ततस्तेषामथैकताम् ।
ज्योतिर्मयत्वं शुद्धत्वं सर्वेषां हेतुतां तथा ॥ ७८ ॥

ततस्तु शम्भुरूपं स दर्शयामास शङ्करः ।
योगनिद्रां महामायां योगिनीं कालिकाम्बिकाम् ॥ ७९ ॥

प्रथमं दर्शयित्वा तु तस्याः प्रकृतिरूपताम् ।
पश्चात् सा पार्वतीत्येव क्रमात्तस्या अदर्शयत् ॥ ८० ॥

तपसा सम्भृतेनाशु ज्ञानमासाद्य पार्वती ।
अन्तर्दृष्ट्या बहिर्दृष्ट्या तत्त्वं ज्ञात्वा यथातथम् ॥ ८१ ॥

शम्भुं जगन्मयं मेने तथात्मान जगन्मयीम् ।
ब्रह्मा विष्णुर्हरश्चापि ततः सर्वमिदं जगत् ॥ ८२ ॥

अहं समस्तप्रकृतिर्योगनिद्रा तथा सती ।
इति ध्यानेन सा देवी प्राप्य ध्यानं तदात्यजत् ।
उन्मील्य नयनद्वन्द्व बहिः शम्भुं ददर्श च ॥ ८३ ॥

सा दृष्ट्वा शङ्करं देवं देवदेवमुमापतिम् ।
तुष्टाव वाग्भिरिष्टाभिर्यमिनं योगतत्परम् ॥ ८४ ॥

पार्वत्युवाच

विश्वास-प्रस्तुतिः

नमस्ते जगतां नाथ नमस्ते केशवाव्यय ।
प्रधानपुरुषातीत कारणत्रयकारण ॥ ८५ ॥

मूलम्

नमस्ते जगतां नाथ नमस्ते केशवाव्यय ।
प्रधानपुरुषातीत कारणत्रयकारण ॥ ८५ ॥

विश्वास-प्रस्तुतिः

योगमोहमनोराग-धर्माधर्ममयस्तथा ।
विद्याविद्यास्वरूपश्च शाम्भवः काय एष ते ॥ ८६ ॥

त्वं निःश्रेयः श्रेयसा युज्यमानो
दृश्योऽदृश्यो योगमूर्तिर्मनीषी ।
सम्यक् श्रद्धा पौरुषे तत्त्वरूपं
त्वं वै ज्योति शान्तिरूपं पुरस्तात् ॥ ८७ ॥

ब्रह्मा विष्णुस्त्वं हरस्त्वं महेन्द्रः
सूर्यः सोमो वायुरग्निर्धनेशः ।
त्वं तोयेशः शमनो राक्षसश्च
शेषस्त्वत्तो भिद्यते कोऽपि नास्मिन् ॥ ८८ ॥

त्वं भूमिद्यौर्द्युर्सदां चापि पन्था-
स्त्व स्थावरो जङ्गमो भूर्वलस्थः ।
ज्ञानं ज्ञेयं ध्यानगम्यं च तत्त्वं
परात्परं व्यक्तरूपं परेषाम् ॥ ८९ ॥

मूलम्

त्वं भूमिद्यौर्द्युर्सदां चापि पन्था-
स्त्व स्थावरो जङ्गमो भूर्वलस्थः ।
ज्ञानं ज्ञेयं ध्यानगम्यं च तत्त्वं
परात्परं व्यक्तरूपं परेषाम् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

त्वं पुरुषः परमात्मा प्रधानं
त्वं हि ज्यायानागमो ज्ञानगम्यः ।
भावः कृत्यं पञ्चरूपी समस्तै-
रासाद्यस्ते गोचरास्तद्भवाय ॥ ९० ॥

मूलम्

त्वं पुरुषः परमात्मा प्रधानं
त्वं हि ज्यायानागमो ज्ञानगम्यः ।
भावः कृत्यं पञ्चरूपी समस्तै-
रासाद्यस्ते गोचरास्तद्भवाय ॥ ९० ॥

विश्वास-प्रस्तुतिः

कीर्तिः कीव्यः स्तुत्यरूपी स्तुतिश्च
द्रष्टा दृश्यः स्थैर्यधृक् स्थावरश्च ।
नित्योऽनित्यो मुक्तयोगो वियोगो
दानादाने भेदसामप्रयोगः ॥ ९१ ॥

मूलम्

कीर्तिः कीव्यः स्तुत्यरूपी स्तुतिश्च
द्रष्टा दृश्यः स्थैर्यधृक् स्थावरश्च ।
नित्योऽनित्यो मुक्तयोगो वियोगो
दानादाने भेदसामप्रयोगः ॥ ९१ ॥

नीतिर्नेयो दीक्षितो दक्षिणाश्च
सारात् सारः सविधाता विधेयः ।

विश्वास-प्रस्तुतिः

आर्योऽनार्यो रूपधृग्रूपहीनो
दिव्यो देवो मानुषोऽमानुषाश्च ॥ ९२ ॥

मूलम्

आर्योऽनार्यो रूपधृग्रूपहीनो
दिव्यो देवो मानुषोऽमानुषाश्च ॥ ९२ ॥

विश्वास-प्रस्तुतिः

सृज्यः स्रष्टा पालकः पाल्यरूप-
श्चेता चेयो नोर्मियुक्तस्तथोर्मिः ।
विद्याविद्यावेदवादैकरूपो
रूपारूपस्तीक्ष्णसौम्यैकरूपः ॥ ९३ ॥

मूलम्

सृज्यः स्रष्टा पालकः पाल्यरूप-
श्चेता चेयो नोर्मियुक्तस्तथोर्मिः ।
विद्याविद्यावेदवादैकरूपो
रूपारूपस्तीक्ष्णसौम्यैकरूपः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

भावाभावः शोभनः शुद्धरूपी
शश्वद्दान्तः शान्तिरुग्रा मुनीनाम् ।
द्वन्द्वोऽद्वन्द्वः सर्वगोऽसर्वगश्च
भ्रान्तोऽभ्रान्तः सिद्धसिद्धिप्रदश्च ॥ ९४ ॥

एकस्थस्त्वं सर्वगोप्ता सुदेहो
निर्देहस्त्वं देह एकः सुराणाम् ।
स्थूलः सूक्ष्मो निर्विकारः शरीरी
विश्वात्मा त्व नास्ति भिन्नो भवत्तः ॥ ९५ ॥

कार्याकार्ये यस्य रूपे समस्ते
व्याप्याव्याप्ये भागहीनोऽतिपूर्णः ।

विश्वास-प्रस्तुतिः

योगज्ञानस्थात्मकं यस्य नित्यं
रूपं यस्य श्रीद तस्मै नमस्ते ॥ ९६ ॥

मूलम्

योगज्ञानस्थात्मकं यस्य नित्यं
रूपं यस्य श्रीद तस्मै नमस्ते ॥ ९६ ॥

विश्वास-प्रस्तुतिः

प्रधानपुंसोरपि यो विधाता
यः कालरूपी पुरुषः परेशः ।
तमीशमुग्रं वरदं वरेण्यं
नमामि चिन्नीतिवितानकत्वाम् ॥ ९७ ॥

मूलम्

प्रधानपुंसोरपि यो विधाता
यः कालरूपी पुरुषः परेशः ।
तमीशमुग्रं वरदं वरेण्यं
नमामि चिन्नीतिवितानकत्वाम् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

अक्षयो योऽव्ययः साक्षी क्षेत्रज्ञःक्षेत्रधृग्वरः ।
तस्मै नमस्ते विश्वात्मन् वृषध्वज महेश्वरः ॥ ९८ ॥

ज्ञानामृतविनिस्यन्दि यस्य चिच्चन्द्रमाः सदा ।
तद्रूपमेकं यं ज्ञेयं भाक्तिमात्रं नमोऽस्तु ते ॥ ९९ ॥

इति स्तुतो महादेवः सर्वभूतानुकम्पकः ।
प्रसन्नवदनः प्राह पार्वतीं प्रतिहर्षयन् ॥ १०० ॥

ईश्वर उवाच

विश्वास-प्रस्तुतिः

प्रीतोऽस्मि देवि भद्रं ते वरं वरय वाञ्छितम् ।
तपसाप्यायितश्चाहं त्वया ब्रह्मा तथा हरिः ॥ १०१ ॥

तपसा त्वत्समो नास्ति शीलेन च गुणेन च ।
त्वां विना न हि तृप्यामि प्रिये कुरु यथेप्सितम् ॥ १०२ ॥

ततः सा मोहिता प्राह मायया हिमवत्सुता ।

और्व उवाच

विश्वास-प्रस्तुतिः

जाम्बुनदाभगौरो मे देहो भवतु साम्प्रतम् ।
अनन्यकान्तस्त्वं चापि भूया मत्तो विना हर ॥ १०३ ॥

एवमुक्तो महादेवः पार्वत्या पार्वतीं ततः ।
आकाशगङ्गातोयोघे मज्जयामास भामिनीम् ॥ १०४ ॥

सा निमज्ज्य समुत्तीर्णा विद्युद्गौरी व्यजायत ।
सिताम्भोमध्यगा देवी शारदाभ्रे तडिद्यथा ॥ १०५ ॥

शम्भुश्चाङ्गीचकाराशु नाहं त्वत्तो विना प्रिये ।
मनसापि ग्रहीष्यामि नान्यां सत्यं ब्रवीमि ते ॥ १०६ ॥

अथ तोयात् समुत्तीर्णा पार्वती मोदसंयुता ।
तपःक्लेशपरित्यक्ता चन्द्रिकेव विधोर्यथा ॥ १०७ ॥

अथ तां पार्वतीं देवीमादाय वृषध्वजः ।
जगाम शैलं कैलासं स्वमाश्तमपदं लघु ॥ १०८ ॥

तदा गत्वा हरो देवीमधिवास्य विभूष्य च ।
पूर्ववन्मोदयामास नर्महासकथादिभिः ॥ १०९ ॥

सापि सौवर्णगौराङ्गी वीक्ष्य रूपं मनोहरम् ।
गृहीतसमयं शम्भुं प्राप्यातीव मुमोद ह ॥ ११० ॥

एवं तयोस्तु शिवयोरन्योन्यरममाणयोः ।
जगाम सुचिरं कालं कैलासे पर्वतोत्तमे ॥ १११ ॥

अथैकदा महादेवसमीपे हिमवत्सुता ।
आसीना ददृशे तस्य स्वां छायामुरसि स्थिताम् ॥ ११२ ॥

स्फटिकाभ्रसमे स्वच्छे हृदि शम्भोर्मनोहरे ।
योगिज्ञानादर्शतले चार्वङ्गी प्रतिबिम्बिताम् ॥ ११३ ॥

आत्मच्छायां गिरिसुता वामभागे मनोहरे ।
ददर्श वनितारूपां स्मितवक्त्रां मनोहराम् ॥ ११४ ॥

भ्रान्त्या दृष्ट्याथ पार्वत्यास्तदा ज्ञानमजायत ।
कृतसत्योऽपि गिरिशः किमन्यां वनितां दधौ ॥ ११५ ॥

मायया स्थापितां गात्रे वीक्षन्तीं कुटिलं च माम् ।
इति तस्यास्तदा वक्त्रं मलिनं भृकुटीयुतम् ।
बभूव वृषकेतुश्च श्याम उत्पातको यथा ॥ ११६ ॥

सा दृष्ट्वाथ तदा छायां विष्णुमाया-विमोहिता ।
अपह्नुतं गिरेः शृङ्गं मानाद्रोषाद्विवेष ह ॥ ११७ ॥

अथ तां मार्गमाणस्तु शङ्करो विरहाकुलः ।
चिरादपह्नुतां देवीमाससाद ततो हरः ॥ ११८ ॥

तामासाद्य महादेवी विवर्णवदनां प्रियाम् ।
उवाच रोपणे हेतुं ज्ञातुमिच्छुर्यथातथम् ॥ ११९ ॥

किमर्थस्त्वं वरारोहे मह्यं कुप्यसि कोपने ।
रोषहेतुमहं वक्तुं तवेच्छामीह वल्लभे ॥ १२० ॥

न तुभ्यमपराध्यामि वाचा वा मनसाथवा ।
कायेन वा कथं कोपं कर्तुमर्हसि भामिनी ॥ १२१ ॥

देव्युवाच

विश्वास-प्रस्तुतिः

समयेन मया पूर्वं तथा सम्प्रार्थितो भवान् ।
कथं तं परिहाय त्वमन्यां भार्यां समीहसे ॥ १२२ ॥

प्रत्यक्षेण मया दृष्टा तव हृद्यन्तरे हर ।
चार्वङ्गी वनिता काचित्तोयनिर्यातभस्मनि ॥ १२३ ॥

भवान् सर्वज्ञानमयः सर्वगः परमेश्वरः ।
तोषितो मे तपोव्रातैर्न तुष्टस्त्वं महेश्वर ॥ १२४ ॥

तस्मादहं तपस्तप्तुं शाश्वद्गन्तु समुत्सहे ।
अनुजानीहि मा शम्भो मा विलम्बं वृथा कृथाः ॥ १२५ ॥

इति श्रुत्वा वचस्तस्याः स्मितविस्तारिताननः ।
शङ्करः पार्वतीं प्राह सन्दिग्धामिव भामिनीम् ॥ १२६ ॥

नाहमन्यां स्त्रियं वोढा नाहं समयभेदकः ।
तव मिथ्यामतिर्जाता मुग्धे मूढतयाधुना ॥ १२७ ॥

त्वमिच्छसि यदि श्रोतुं तत्र हेतुं च पार्वति ।
तदहं कथये तत्त्वं मानं मानिनि मा कृथाः ॥ १२८ ॥

मम वक्षसि विस्तीर्णे दर्पणस्वच्छभासिनि ।
तवैव वपुषश्छायाबिम्बिता लोकिता त्वया ॥ १२९ ॥

इदानीमेव बुध्यस्व त्वामृते नास्ति सा मयि ।
नात्र मानस्त्वया कार्यो हृदयान्तरसंस्थिते ॥ १३० ॥

मयि स्थितायां छायास्ति मामृते नास्ति सा पुनः ।
कथमेतन्मया ज्ञेयं तन्मे वद वृषध्वज ॥ १३१ ॥

गवाक्षाभ्यन्तरे स्थित्वा तज्जालेन मनोहरे ।
पश्य तोयौघनिर्यातभूतिलेपमुरो मम ॥ १३२ ॥

तथा त्वं मण्डितं देहं वीक्ष्यादर्शतले पुनः ।
मद्धृदासन्नमासाद्य तादृक्छायां विलोकय ॥ १३३ ॥

यथा द्रक्ष्यसि देहे स्वं तत् कुरु त्वं तथा मम ।
आलोकय निजां छायां त्वां विना नास्ति तत् पुनः ॥ १३४ ॥

त्वमेव ज्ञास्यसि च्छायां मद्वक्षसि मनोहरे ।
ज्ञात्वा विसृज्यमानं मां त्वं चाप्युपपत्स्यसि ॥ १३५ ॥

और्व्य उवाच

विश्वास-प्रस्तुतिः

एवमुक्ता हरेणाथ पार्वतीन्दुकलाभृतः ।
तयौर्निर्धाव्य हृदयं स्वां छायां पुनरैक्षत ॥ १३६ ॥

दृष्ट्वादर्शतले वक्त्रं निजं देहं च पार्वती ।
आलोकयामास तदा शश्वच्छङ्करवक्षै ॥ १३७ ॥

यथा सा कुरुते देवी कापट्यं नेत्रविभ्रमम् ।
तथा सा कुरुते च्छाया करकम्पादिकं तथा ॥ १३८ ॥

ततः पुनर्गवाक्षस्य जाले स्थित्वा हिमाद्रिजा ।
तथा व्यलोकयच्छम्भोर्हृदयं वीतभूतिकम् ॥ १३९ ॥

तया तत्र तु पार्वत्या वृषभध्वजवक्षसि ।
न कापि दृष्टा वनिता दृष्टं जालस्य मण्डलम् ॥ १४० ॥

एवं बहुविधैर्देवी तदोपायैस्तथेतरैः ।
निर्यातसंशया भूत्वा लज्जां प्राप वराङ्गना ॥ १४१ ॥

तां लज्जितां गिरिसुतामीषद्भीतामधोमुखीम् ।
शम्भुरालिङ्ग्य पाणिभ्यां मुखं चास्याश्चुचुम्ब च ॥ १४२ ॥

स तामाह महादेवो देवीमाश्वासयन् मुहुः ।
मा ब्रीडस्व महाभागे भ्रान्तिः कस्य न जायते ॥ १४३ ॥

मानस्त्वयि वरस्त्रीभिः कार्यः प्रेमकरो यतः ।
त्वयापि विरलः कार्यो मानो देवि न सर्वदा ॥ १४४ ॥

इत्युक्ता देवदेवेन मैनाकसहजाम्बिका ।
शङ्करं प्रणयात् प्राह सूनृतं मधुरं वचः ॥ १४५ ॥

यथा तवाहं सततं छायेवानुगता हर ।
भवेयं साहचर्येण तथा मां कर्तुमर्हसि ॥ १४६ ॥

सर्वगात्रेण संस्पर्शं नित्यालिङ्गनविभ्रमम् ।
अहमिच्छामि भवतस्तत्त्वं चेत् कर्तुमर्हसि ॥ १४७ ॥

भगवानुवाच

विश्वास-प्रस्तुतिः

रोचते तन्मह्यमपि यस्त्वमिच्छसि भामिनि ।
तत्रोपायमहं वक्ष्ये यदि शक्नोषि तं कुरु ॥ १४८ ॥

अर्द्धं मम गृहाण त्वं शरीरस्य मनोहरे ।
अर्द्धं भवतु मे नारी अथैवार्द्धं पुमानिति ॥ १४९ ॥

यदि त्वमपि शक्नोषि कर्तुं तदर्धमी दृशम् ।
तदाहं ते हरिष्यामि शरीरार्द्धं वरानने ॥ १५० ॥

तवैवार्द्धं तथा नारी ह्यर्धं भवतु पूरुषः ।
विद्यते तत्र शक्तिर्मे त्वमनुज्ञातुमर्हसि ॥ १५१ ॥

तवैवाहं हरिष्यामि शरीरार्द्धं वृषध्वज ।
किं त्वहं त्वेवमिच्छामि तच्चेत्त्वं कर्तुमिच्छसि ॥ १५२ ॥

यदाहमर्द्धं भवतो भूत्वा तिष्ठामि तावता ।
त्यजाम्यहं यदा तेऽर्द्धं सम्पूर्ण स्यात्तदा द्वयम् ॥ १५३ ॥

इत्यर्द्ध भागहरणं भवेद्यदि यथेप्सितम् ।
तवैवाहं तदा शम्भो शरीरार्द्धं हराम्यहम् ॥ १५४ ॥

एवमस्तु भवेन्नित्यं यथार्द्धं हर्तुमर्हसि ।
शरीरस्यार्द्ध हरणं भूयस्तव यथेप्सितम् ॥ १५५ ॥

अथ गौरी तदा पूर्वमनुभूतं तपःस्थितौ ।
योगनिद्रास्वरूपं तदात्मनोऽचिन्तयाद्धिया ॥ १५६ ॥

हरं प्रणम्य प्रथमं ब्रह्माणं च ततः परम् ।
ततस्त्रिजगतामीशं हरिं नारायणं प्रभुम् ॥ १५७ ॥

चिन्तयित्वा यदा तेषामेकता सा जगन्मयी ।
आत्मानं योगनिद्रां च चिन्तयित्वा तपस्विनी ॥ १५८ ॥

दक्षिणे स्वशरीरस्य भागार्द्धं शशभृद्भृतः ।
शरीरस्य तदा वाममतिप्रेम्णा निजं हरे ॥ १५९ ॥

हरोऽपि स्वशरीरार्द्धं गौरिकाये तदा स्वयम् ।
प्रेम्णा न्यवेशयत्तस्याश्चिकीर्षुः प्रियमद्भुतम् ॥ १६० ॥

अथ स्थित्वा तदा भर्गः काल्या सह चिरं तदा ।
परित्यज्य शरीरार्द्धं पृथगेव बभौ रुचा ॥ १६१ ॥

काली भूत्वा स्वर्णगौरी शरीरार्द्धं च शङ्करम् ।
प्राप्तमोदा तदात्मानं सन्तुष्टा च जगन्मयी ॥ १६२ ॥

एवं यदा शरीरार्द्धमादाय परमेश्वरी ।
रहस्ये तिष्ठति तदा राजतेऽतीव शोभना ॥ १६३ ॥

अर्द्धं धम्मिल्लसंयुक्तं जटाजूटार्द्धयोजितम् ।
एकस्मिन् श्रवणे भोगी भागे जाम्बूनदार्चितम् ॥ १६४ ॥

कुण्डलं श्रवणेऽन्यस्मिन् शीर्षे तस्या व्यराजत ।
अर्द्धं मृगाक्षि चान्यार्द्धं वृषभाक्षि व्यजायत ॥ १६५ ॥

अर्द्धं स्थूलनसं चारु तिलपुष्पनसं परम् ।
दीर्घश्मश्रु तथैवार्द्धमर्द्धं श्मश्रुविवर्जितम् ॥ १६६ ॥

आरक्तचारुदशनं रक्तौष्ठमेकतस्तथा ।
अपरं शुक्लविपुलं दीर्घाकृतिरदं परम् ॥ १६७ ॥

अर्द्धनीलगलं चार्द्धमपरं हारसंयुतम् ।
अर्द्धं कङ्कणकेयूरयुक्तबाहु तथापरम् ॥ १६८ ॥

नागकेयूरसंयुक्तं स्थूलबाहुनिरूर्मिकम् ।
अर्द्धं विलोलसुभुजं करिहस्तभुजं परम् ॥ १६९ ॥

एकत्र सोमिकाशाखा करस्यान्यत्र तां विना ।
एकस्तनं तु हृदयं रोमावल्यर्धसंयुतम् ॥ १७० ॥

रम्भास्तम्भसमानोरु सुपार्ष्णि मृदुपादकम् ।
एक तथापरं स्थूलं संहतोरुपदाम्बुजम् ॥ १७१ ॥

एकं चारुमृदुस्थूलजघनं सुमनोहरम् ।
तथापरं दृढकटि संहतोर्द्धपदान्वयम् ॥ १७२ ॥

एक वैयाघ्रमर्मौघयुक्तं भूतिविलेपनम् ।
अपरं मृदु कौशेयवसनं चन्दनोक्षितम् ॥ १७३ ॥

एवमर्द्धं तथा जातं योषिल्लक्षणसंयुतम् ।
अपरं बलवद् भूरि सुगूढ पुरुषाकृति ॥ १७४ ॥

एवमर्द्धं स्मररिपोर्जहार गिरिजा सती ।
हिताय सर्वजगतां कालिका कालिकोपमा ॥ १७५ ॥

तस्याः शरीरं राजेन्द्र हरतन्वर्द्धसंयुतम् ।
येनोपमेयं तत्रास्ति मार्गितं भुवनत्रये ॥ १७६ ॥

सन्तानः पारिजातो वा एकान्तविशदस्तरुः ।
अमोघया यथा वल्ल्या तौ चापि ययतुर्नहि ॥ १७७ ॥

बहुधा च पृथक् तेन तौ रेमाते नरेश्वर ।
अर्द्धनारीश्वरो भूत्वा स तु रेमे कदाचन ॥ १७८ ॥

इति यद्यपि भूतेशः स्वयं शक्नोति कालिकाम् ।
गौरीं कर्तुं तदा सर्वभूतकारणकारणः ॥ १७९ ॥

तथापि तां गिरिसुतां संयोज्य विविधैः पुरा ।
तपश्ययोजयद् देवः क्रियोपायेरनेकशः ॥ १८० ॥

तपोनिर्धूतसर्वाङ्गीं पश्चाद् गौरीमथाकरोत् ।
अर्द्धं च प्रददौ तस्यै शरीरस्य महेश्वरः ॥ १८१ ॥

नवास्य तत्त्वं जानन्ति शक्राद्याः सकलाः सुराः ।
शरीरार्द्ध प्रदानस्य तपसे योजनस्य च ॥ १८२ ॥

एतस्य तत्त्वं जानन्ति महात्मानो महाबलाः ।
नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा ॥ १८३ ॥

अङ्गभूता महेशस्य वीतभीतास्तपोधनाः ।
ये मानुषशरीरेण प्रापिरे तपसो बलात् ॥ १८४ ॥

गणानामाधिपत्यं तु ते जानन्ति हरं परम् ।
एवं सदा त्वया योज्याः सानुगा नृपसत्तम् ॥ १८५ ॥

वनिता सत्क्रियोपायैस्ततो भद्रमवाप्स्यसि ।
य इदं शृणुयान्नित्यमद्भुतं पुण्यदायकम् ॥ १८६ ॥

शिवयोः प्रीतिकरणं शरीरार्द्ध ग्रहं तथा ।
गौरीत्वसाधानञ्चैव कालिकायाः शुभावहम् ॥ १८७ ॥

न तस्य विघ्ना जायन्ते स च पुण्यतमो मतः ।
दीर्घायुः स सुखी भूयात् पुत्रपौत्रसमन्वितः ॥ १८८ ॥

सततं परिश्र्ण्वानः शिवयोश्चरितं महत् ।
शिवलोकमवाप्नोति सुचिरं शिववल्लभः ॥ १८९ ॥

इति श्रीकालिकापुराणेऽर्द्धनारीश्वरचरिते पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥