विश्वास-प्रस्तुतिः
चतुश्चत्वारिंशोऽध्यायः
मार्कण्डेय उवाच
अथ श्रुत्वा वचः शम्भोर्गिरिजातीव हर्षिता ।
मेने प्राप्तं तदा शम्भुं सुन्दरं दयितं पतिम् ॥ १ ॥
मूलम्

अथ प्राह तदा काली सखीवक्त्रेण शङ्करम् ।
यथा स शृणुते वाक्यं श्रोतुमिच्छंश्च शङ्करः ॥ २ ॥

न सन्धावतिभेदेन प्रवर्तन्तेऽत्र सज्जनाः ।
मर्यादया हरस्तं मे पाणिं गृह्णातु शङ्करः ॥ ३ ॥

पितृदत्ता भवेत् कन्या तपोदत्ता भवेन्नहि ।
तपसा चेत् प्रदत्ताहं मां तातश्च प्रदास्यति ॥ ४ ॥

तस्मात् सम्प्रार्थ्य पितरं हिमवन्तं नगेश्वरम् ।
वैवाहिकेन विधिना पाणिं गृह्णातु मे हरः ॥ ५ ॥
मूलम्
तस्मात् सम्प्रार्थ्य पितरं हिमवन्तं नगेश्वरम् ।
वैवाहिकेन विधिना पाणिं गृह्णातु मे हरः ॥ ५ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इत्युक्त्वा विररामाथ काली लज्जासमन्विता ।
हराऽपि तद्वचः सत्यं तथ्यं योग्यं तदाग्रहीत् ॥ ६ ॥

ततः स सगणः शम्भुस्तत्र वासं तदाकरोत् ।
गङ्गावतरणे सानौ यथापूर्वं तथाधुना ॥ ७ ॥
मूलम्
ततः स सगणः शम्भुस्तत्र वासं तदाकरोत् ।
गङ्गावतरणे सानौ यथापूर्वं तथाधुना ॥ ७ ॥
विश्वास-प्रस्तुतिः
काली पितुर्गृहं याता सखीभिः परिवारिता ।
नालोकयन्ती सा दीना गुरूणां वदनं सती ॥ ८ ॥

एतस्मिन्नन्तरे सप्त मरीचिप्रमुखान् मुनीन् ।
चिन्तयामास शशिभृत् कालीं प्रार्थयितुं तदा ॥ ९ ॥

चिन्तिताः सप्त मुनयस्तत्क्षणान्मदनारिणा ।
आकृष्टा इव केनापि तत्सकाशमुपागताः ॥ १० ॥

तान् मुनीन् ददृशे शम्भुः सप्ताग्नीनिव दीपितान् ।
अरुन्धतीं वसिष्ठस्य सकाशे ददृशे सतीम् ॥ ११ ॥

अरुन्धतीं ततो दृष्ट्वा वसिष्ठस्य समीपतः ।
मेने योषिद्ग्रहं धर्मं मुनिभिश्चाप्यवर्जितम् ॥ १२ ॥

ततस्ते मुनयः सर्वे सम्पूज्य वृषभध्वजम् ।
इदमूचुः प्रहर्षेण स्मरणाकर्षिताः प्रियम् ॥ १३ ॥

ऋषयः ऊचुः
यत् प्रत्यक्षं दृश्यते शुद्धरूपं
चन्द्रप्रख्य चन्द्रखण्डोपशोभि ।
अन्तःप्रज्ञं भावितं तन्मुनीनां
भाग्यं दृष्टं भागधेयेन मुक्तैः ॥ १४ ॥
मूलम्
ऋषयः ऊचुः
यत् प्रत्यक्षं दृश्यते शुद्धरूपं
चन्द्रप्रख्य चन्द्रखण्डोपशोभि ।
अन्तःप्रज्ञं भावितं तन्मुनीनां
भाग्यं दृष्टं भागधेयेन मुक्तैः ॥ १४ ॥
विश्वास-प्रस्तुतिः
प्रज्ञातन्त्रं ध्यानतन्त्रं पुरस्ता-
न्नित्यं ध्येयं ध्यायिनां स्वप्रकाशम् ।
पुञ्जीभूतं बाह्यतत्त्वेन शश्वद्
योग्यप्राप्यं धाम शम्भोरुदारम् ॥ १५ ॥
मूलम्
प्रज्ञातन्त्रं ध्यानतन्त्रं पुरस्ता-
न्नित्यं ध्येयं ध्यायिनां स्वप्रकाशम् ।
पुञ्जीभूतं बाह्यतत्त्वेन शश्वद्
योग्यप्राप्यं धाम शम्भोरुदारम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा यस्यैवाग्रभागं स नेत्रं
त्राणाय स्याद् दर्शनं सूर्यतुल्यम् ।
तद्धामेदं स्थानसर्वस्य नित्यं
भक्त्या स्तुत्यं तं नमः शम्भुदेहम् ॥ १६ ॥

प्रकाशते यः प्रथमादिभागतः
स्थितः स वामे य इहैव नेता ।
सोऽस्माकमस्तु प्रथमं स्वसिद्ध्यै
हरस्य शक्त्या विधृतो ललाटे ॥ १७ ॥
मूलम्
प्रकाशते यः प्रथमादिभागतः
स्थितः स वामे य इहैव नेता ।
सोऽस्माकमस्तु प्रथमं स्वसिद्ध्यै
हरस्य शक्त्या विधृतो ललाटे ॥ १७ ॥
विश्वास-प्रस्तुतिः
यः प्रधानात्मकः सत्त्वरजोभ्यां तमसान्वितः ।
पुरुषः सर्वजगतां स हरो नः प्रसीदतु ॥ १८ ॥
मूलम्
यः प्रधानात्मकः सत्त्वरजोभ्यां तमसान्वितः ।
पुरुषः सर्वजगतां स हरो नः प्रसीदतु ॥ १८ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति संस्तुत्य देवेशं मुनयो विनयानताः ।
ऊचुः किमर्थं भवता स्मृतास्तन्नो निगद्यताम् ॥ १९ ॥

तेषां तद्वचनं श्रुत्वा शङ्करः प्रहसन्निव ।
जगाद तान्मुनीन् सर्वानाभाष्य पृथक् पृथक् ॥ २० ॥

ईश्वर उवाच
हिताय सर्वजगतां सम्भोगायात्मनस्तथा ।
दारान् ग्रहीतुमिच्छामि तथा सन्तानवृद्धये ॥ २१ ॥

सहायं तत्र कुर्वन्तु भवन्तो मम साम्प्रतम् ।
मदर्थे च ततः कालीं याचन्तां तुहिनाचलम् ॥ २२ ॥

महता तपसा काली मां पतिं लघु विन्दताम् ।
किन्तु ग्रहीष्ये विधिना तस्माद् याचन्तु तं गिरिम् ॥ २३ ॥

यथा यथा स्वयं कालीं शैलो दातुं समुत्सहेत् ।
तथा तथा विदध्वं हि यूयं वाग्विभवान्विताः ॥ २४ ॥
मूलम्
यथा यथा स्वयं कालीं शैलो दातुं समुत्सहेत् ।
तथा तथा विदध्वं हि यूयं वाग्विभवान्विताः ॥ २४ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
हरं सम्बोध्य मुनयो ह्यगच्छन् गिरिराड्गृहम् ।
तेन प्रपूजितास्ते तु प्रोचुस्तं मुनयो गिरिम् ॥ २५ ॥

यश्चन्द्रशेखरो देवो देवदेवश्च यो मतः ।
शापानुग्रहणे शक्तो य एको जगतां पतिः ॥ २६ ॥

यः संहरति सर्वाणि जगन्ति प्रयलोद्भवे ।
यो विभूतिप्रदो भक्ते नानारूपो मनोहरः ॥ २७ ॥

स ते दुहितरं कालीं भार्यामादातुमिच्छति ।
यदि पश्यसि त्वं योग्यं वरं तं दुहितुः समम् ॥ २८ ॥

तदा प्रयच्छ तनयां कालीं शशिभृते गिरे ।
इत्युक्तस्तैर्गिरिपतिश्चिरं स्वहृदयस्थितम् ॥ २९ ॥

दुहितुश्च प्रियं ज्ञात्वा प्राप्य सद्वचनान्मुदम् ।
आह चेदं प्रकाशेन युष्माभिस्त्वहमागतैः ॥ ३० ॥

पावितो मुनिशार्दूलैः पूरितश्च मनोरथः ।
दास्यामि शम्भवे पुत्रीं युष्माभिः प्रार्थितस्त्वहम् ॥ ३१ ॥

पूर्वमेव तपस्तप्त्वा तयेशः पतिरीहितः ।
धातुर्नियोजनमिदं कोऽन्यथा कर्तुमुत्सहेत् ॥ ३२ ॥

कोऽन्यः प्रार्थयितुं शक्त्ऽह् सुतां मम विना हरात् ।
हरेणावगृहीता या तामन्यः कः समुत्सहेत् ॥ ३३ ॥

हरं गृहीत्वा मनसा नान्यं सापीह वाञ्छति ।
इत्युक्त्वा मेनया सार्धं सुतां दातुं च शम्भवे ॥ ३४ ॥

अङ्गीकृत्य विसृष्टास्ते ह्यनुप्रापुर्महेश्वरम् ।
ते गत्वा मुनयः सर्वे मरीचिप्रमुखा द्विजाः ॥ ३५ ॥

शैलराजो यदाचष्ट तदूचुर्मदनारये ।
हिमवांस्तनयां दातुं तुभ्यमुत्सहते हरः ॥ ३६ ॥

यदिदानीं त्वया कर्तुं युज्यते क्रियतां तु तत् ।
अस्मांश्चाप्यनुजानीहि हर गन्तुं निजास्पदम् ॥ ३७ ॥

सिद्धं ज्ञात्वा हरः साध्यं मुदितस्तान् विसृष्टवान् ।
यथायोग्यं समाभाष्य क्रमादेकैकशो मुनीन् ॥ ३८ ॥

कालीविवाहावसरे यूयमायात मां प्रति ।
इति ते वै हरेणोक्तं प्रतिश्रुत्यर्षयो ययुः ॥ ३९ ॥

अथान्योन्यप्रियतया कृत्वा कृत्वा गतागतम् ।
समयं कारयामास विवाहाय हरो गिरिम् ॥ ४० ॥

माधवे मासि पञ्चम्यां सिते पक्षे गुरोर्दिने ।
चन्द्रे चोत्तरफाल्गुन्यां भरण्यादौ स्थिते रवौ ॥ ४१ ॥

आगता मुनयस्तत्र मरीचिप्रमुखा मुहुः ।
हरेण चिन्तिताः सर्वे तथा ब्रह्मादयः सुराः ॥ ४२ ॥

तथा च सर्वे दिक्पाला मुनयश्च तपोधना ।
शच्या सह तथा शक्रो ब्रह्माण्याद्यास्तु मातरः ॥ ४३ ॥

नारदश्च गतस्तत्र देवर्षिर्ब्रह्मणः सुतः ।
एतैः परिचरैः सार्धं गणैराप्यायितः स्वकैः ॥ ४४ ॥

वैवाहिकेन विधिना गिरिपुत्रीं हरोऽग्रहीन् ।
विवाहे गिरिजा शम्भोः सर्पा येऽष्टौ तनौ स्थिताः ॥ ४५ ॥

ते जाम्बुनदसन्नद्धा अलङ्कारास्तदाभवन् ।
द्विभुजोऽभून्महादेवो जटाः केशत्वमागताः ॥ ४६ ॥

शिरस्थितश्चन्द्रखण्डः सोऽर्चिषां ज्वलितोऽभवत् ॥ ४७ ॥

विचित्रवसनं व्याघ्रकृत्तिरासीत्तदा द्विजाः ।
विभूतिलेपो ह्यस्याभूत् सुगन्धिमलयोद्भवः ॥ ४८ ॥

गौररूपो हरस्तत्र बभूवाद्भुतदर्शनः ।
ततो देवाः सगन्धर्वाः सिद्धविद्याधरोरगाः ॥ ४९ ॥

विस्मयं परमं जग्मुर्हरं दृष्ट्वा तथाविधम् ।
हिमवान् मुदितश्चासीत् सहपुत्रैश्च मेनया ॥ ५० ॥

ज्ञातयश्चास्य मुमुहुर्हरं दृष्ट्वा तथाविधम् ।
इदं ब्रह्मा तत्र जगौ हरं दृष्ट्वा मनोहरम् ॥ ५१ ॥

सर्व शिवकरं यस्मात् सुवेशमभवत्सुराः ।
तस्माच्छिवोऽयं लोकेषु नाम्नाख्यातोऽधिकः शिवः ॥ ५२ ॥

महेश्वरमुमायुक्तमीदृशं यः स्मरेद्धृदा ।
सततं तस्य कल्याणं वाञ्छितं च भविष्यति ॥ ५३ ॥

एवं काली महामाया योगनिद्रा जगत्प्रसूः ।
पूर्वं दाक्षायणी भूत्वा पश्चाद् गिरिसुताऽभवत् ॥ ५४ ॥

स्वयं समर्थापि सती काली सम्मोहितुं हरम् ।
तथाप्युग्रं तपस्तेपे हिताय जगतां शिवा ।
एवं सम्मोहयामास कालिका चन्द्रशेखरम् ॥ ५५ ॥

इत्येतत् कथितं सर्वं त्यक्तदेहा सती यथा ।
हिमवत्तनया भूत्वा पुनः प्राप महेश्वरम् ॥ ५६ ॥

इदं यः कीर्तयेत् पुण्यं कालिकाचरितं द्विजाः ।
नाधयो व्याधयस्तस्य दीर्घायुः स च जायते ॥ ५७ ॥

इदं पवित्रं परममिदं कल्याणवर्धनम् ।
श्रुत्वापि सकृदेवेदं शिवलोकाय गच्छति ॥ ५८ ॥

यः श्राद्धे श्रावयेद्विप्रान् कालिकाचरितं महत् ।
पितरस्तस्य कैवल्यमाप्नुवन्ति न संशयः ॥ ५९ ॥

यः श्रावयेद् ब्राह्मणानां सन्निधौ वा समायतः ।
तत्र स्वयं हरो गत्वा शृणोति सह मायया ॥ ६० ॥

इति वः कथितं पुण्यं सर्वपापप्रणाशनम् ।
युष्मभ्यं रोचते चान्यद्यत्तत् पृच्छन्तु सत्तमाः ॥ ६१ ॥

इति श्रीकालिकापुराणे कालीहरसमागमो नाम चतुश्चत्वारिंशोऽध्यायः ॥
४४ ॥