४३

विश्वास-प्रस्तुतिः

त्रिचत्वारिंशोऽध्यायः

मार्कण्डेय उवाच

अथ देवमुनिर्यातो हिमवन्मन्दिरं तदा ।
नियोजितो बलभिदा नारदः कामगः परम् ॥ १ ॥

मूलम्

त्रिचत्वारिंशोऽध्यायः

मार्कण्डेय उवाच

अथ देवमुनिर्यातो हिमवन्मन्दिरं तदा ।
नियोजितो बलभिदा नारदः कामगः परम् ॥ १ ॥

विश्वास-प्रस्तुतिः

सः गतः पूजितस्तेन धरेशेन महात्मना ।
तं समुत्सुज्य रहसि कालीं तामससाद ह ॥ २ ॥

आसाद्य काली स मुनिः सम्बोध्य ज्ञानशालिनीम् ।
उवाचेदं वचस्तथ्यं सर्वेषां जगतां हितम् ॥ ३ ॥

नारद उवाच

शृणु कालि वचो मह्यं सत्यं तदवधारय ।
सेवितः स महादेवस्त्वयेह तपसा विना ॥ ४ ॥

मूलम्

नारद उवाच

शृणु कालि वचो मह्यं सत्यं तदवधारय ।
सेवितः स महादेवस्त्वयेह तपसा विना ॥ ४ ॥

विश्वास-प्रस्तुतिः

अनुरक्तोऽपि तेन त्वां महादेवो विसृष्टवान् ।
त्वामृते शङ्करो नान्यां द्वितीयां सङ्ग्रहीष्यति ॥ ५ ॥

त्वं चापि नान्यं दयितं ग्रहीष्यसि विनेश्वरम् ।
तस्मात् त्वं तपसा युक्ता चिरमाराधयेश्वरम् ॥ ६ ॥

तपसा संस्कृतां त्वां तु स द्वितीयां करिष्यति ।
मन्त्रोऽयं तस्य सुभगे शृणु त्वं येन सोऽचिरात् ॥ ७ ॥

आराधितस्ते प्रत्यक्षो भविष्यति महेश्वरः ।
ॐ नमः शिवायेति च सर्वदा शङ्करप्रियः ॥ ८ ॥

चिन्तयन्ती तु तद्रूपं नियमस्था षडक्षरम् ।
मन्त्रं जप त्वं गिरिजे तेन तुष्टो भवेद्धरः ॥ ९ ॥

एवमुक्ता तदा काली नारदेन महात्मना ।
कर्तव्यमनुमेने सा हितं तथ्यञ्च तद्वचः ॥ १० ॥

अनुमान्य तपस्तप्तुं तदा कालीञ्च नारदः ।
स्वर्गं जगाम तस्याश्च निश्चिताऽभून्मतिर्व्रते ॥ ११ ॥

अथ याते देवमुनौ काली सासाद्य मेनकाम् ।
तपःश्रद्धां समाचख्ये चात्मनो हरसङ्गमे ॥ १२ ॥

काल्युवाच

तपस्तप्तुं गमिष्यामि मातः प्राप्तुं महेश्वरम् ।
अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् ॥ १३ ॥

तपःकरणयत्नं मे पितुरावेदय द्रुतम् ।
यावन्न दह्ये जननि भूतेशविरहाग्निना ॥ १४ ॥

मूलम्

तपःकरणयत्नं मे पितुरावेदय द्रुतम् ।
यावन्न दह्ये जननि भूतेशविरहाग्निना ॥ १४ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इति तस्या वचः श्रुत्वा मेनका शोककर्शिता ।
आलिङ्ग्य स्वसुतामूचे मा तपः कुरु वल्लभे ॥ १५ ॥

मृदुदेहासि पुत्रि त्वं मा तपो याहि कर्कशम् ।
तपः सोढुं मुनेर्गात्रं शक्तं ते न कलेवेअरम् ॥ १६ ॥

वनवासश्च ते पुत्रि नेष्टः शत्रुगणैरपि ।
तस्मात् त्वं सम्परित्यज्य वनवासोद्भवं तपः ।
आत्मनो ह्यनुरूपेण तपस्तत् करु यद्धितम् ॥ १७ ॥

मातुः सा वचनं श्रुत्वा गिरिजा दीनमानसा ।
इत्यूचे च तदा वाक्यं तपोयत्नपरा प्रसूम् ॥ १८ ॥

मा निषेधय मां यास्ये तपसेऽद्य तपोवनम् ।
प्रच्छन्नमपि यास्यामि नानुज्ञाताप्यहं त्वया ॥ १९ ॥

मेनकोवाच

गृहेषु देवाः सततं ब्रह्मविष्णुशिवादयः ।
तस्माद् गृहे पुत्रि देवानर्चय त्वं यथेप्सितान् ॥ २० ॥

स्त्रीणां तपोवनगतिर्न श्रुता स्वामिना विना ।
तस्मान्न युज्यते पुत्रि तपोयात्रा वनं प्रति ॥ २१ ॥

मूलम्

स्त्रीणां तपोवनगतिर्न श्रुता स्वामिना विना ।
तस्मान्न युज्यते पुत्रि तपोयात्रा वनं प्रति ॥ २१ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

यतो निरस्ता तपसे वनं गन्तुं च मेनया ।
उमेति तेन सोमेति नाम प्राप तदा सती ॥ २२ ॥

अवज्ञाय तदा मातुर्वचनं हिमवत्सुता ।
सखीभ्यां ज्ञापयामास पितरं तपसोद्यमम् ॥ २३ ॥

स तु ज्ञात्वा गिरिपतिस्तपसे चरितोद्यमम् ।
दुहितुश्चानुमेने च नातिहृष्टमना इव ॥ २४ ॥

सानुज्ञाप्य तदा तातं यत्र दग्धो मनोभवः ।
शम्भुना प्रययौ तत्र गङ्गावतरणं प्रति ॥ २५ ॥

गङ्गावतरणं नाप प्रस्थो हिमवतः स च ।
हरशून्योऽथ ददृशे काल्या तच्चिन्तया तदा ॥ २६ ॥

यत्र स्थित्वा पुरा शम्भुर्ध्यानवानभवद् भृशम् ।
तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता ॥ २७ ॥

हा हरेति क्षणं तत्र रोदमाना गिरेः सुता ।
विललापातिदुःखार्ता चिन्ताशोकसमन्विता ॥ २८ ॥

क्षणं विलप्य सा काली स्मृत्वा पूर्वोद्भवं तदा ।
हार्दं हरस्य सा मोहमवाप कमलेक्षणा ॥ २९ ॥

ततश्चिरेण सा मोहं धैर्यात् संस्तभ्य भामिनी ।
नियमायाभवत्तत्र दीक्षिता हिमवत्सुता ॥ ३० ॥

प्रथमं नियमस्तस्या बभूव फलभोजनम् ।
चर्या पञ्चातपा चिन्ता शाम्भवी शाम्भवो जपः ॥ ३१ ॥

यज्ञियैर्दारुभिः शुष्कैश्चतुर्दिक्षु चतुष्कृतम् ।
वह्निसंस्थापनं ग्रीष्मे तीव्रांशुस्तत्र पञ्चमः ॥ ३२ ॥

हस्तान्तरे चतुर्वह्नीन् कृत्वा वैश्वानरेष्टिना ।
तन्मध्यस्था सूर्यबिम्बं वीक्षन्ती वल्कलांशुका ॥ ३३ ॥

ग्रीष्मं निन्ये वह्निमध्ये शिशिरे तोयवासिनी ।
प्रथमं फलभोगेन द्वितीयं तोयभोजनम् ॥ ३४ ॥

तृतीयं तु स्वयम्पाति-वृक्षपल्लव-भोजनम् ।
क्रमेण तु तदा पर्णं निरस्य हिमवत्सुता ॥ ३५ ॥

निराहारव्रता भूत्वा तपश्चरणखिन्निका ।
आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुता ॥ ३६ ॥

तेन देवैरपर्णेति कथिता पृथिवीतले ।
पञ्चातपव्रतेनैव तोयानाञ्च प्रवेशनैः ॥ ३७ ॥

एकपादस्थिता स तु वसन्ते हिमवत्सुता ।
षडक्षरं जपन्ती सा चिरं तेपे तपो महत् ॥ ३८ ॥

चीरबल्कलसंवीता जटासङ्घातधारिणी ।
कृशाङ्गी चिन्तने शक्ता जिगाय तपसा मुनीन् ॥ ३९ ॥

तां तपश्चरणे शक्तां ररक्ष शङ्करः स्वयम् ।
आप्यायति स्म स तदा भयाद्रक्षति हर्षितः ॥ ४० ॥

एवं तस्यास्तपस्यन्त्याश्चिन्तयन्त्या महेश्वरम् ।
त्रीणि वर्षसहस्राणि जग्मुः काल्यास्तपोवने ॥ ४१ ॥

षट्त्रिवर्षसहस्राणि संस्कृता वीक्षणात् स्वयम् ।
दैवेन विधिना देवी हरयोग्या तथाभवत् ॥ ४२ ॥

षट्त्रिवर्षसहस्रान्त्रे यत्र तेपे तपो हरः ।
तत्र क्षणमथोषित्वा चिन्तयामास भामिनी ॥ ४३ ॥

नियमस्थां महादेवः किं मां जानाति नाधुना ।
येनाहं सुचिरं तेन नानुज्ञाता तपोरता ॥ ४४ ॥

लोके नास्त्यत्र गिरिशः किं तत्र मुनिभिः स्तुतः ।
सर्वज्ञः सर्वगो देवो हरो देवैर्निगद्यते ॥ ४५ ॥

स सर्वगस्तु सर्वज्ञः सर्वात्मा सर्वहृद्गतः ।

सर्वभूतिप्रदो देवः सर्वभावनभावनः ॥ ४६ ॥

सती च मेनका माता यदि चाहं वृषध्वजे ।
सानुरक्ता न चान्यस्मिन् स प्रसीदतु शङ्करः ॥ ४७ ॥

यदि नारदवक्त्रोत्थो मन्त्रोऽयं स्यात्षडक्षरः ।
यदि भक्त्या मया जप्तं हरस्तेन प्रसीदतु ॥ ४८ ॥

सत्यं यदि तपस्तप्तं सत्यं चाराधितो हरः ।
सत्यं भवेद् यदि तपो हरस्तेन प्रसीदतु ॥ ४९ ॥

मूलम्

सत्यं यदि तपस्तप्तं सत्यं चाराधितो हरः ।
सत्यं भवेद् यदि तपो हरस्तेन प्रसीदतु ॥ ४९ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

एवं विचिन्तयन्ती सा यदातिष्ठद्धराश्रमे ।
अधोमुखी दीनवेशा जटाबल्कलमण्डिता ॥ ५० ॥

तदैव ब्राह्मणः कश्चिद् ब्रह्मचारी धृतव्रतः ।
कृष्णाजिनोत्तरीयेण धृतदण्डकमण्डलुः ॥ ५१ ॥

ब्राह्म्या श्रिया दीप्यमानः स्वर्णगौरः सुशोभनः ।
जटाभिः परिवीताभिरुद्रिक्तस्तनुदेहभृत् ॥ ५२ ॥

उपस्थितस्तदा कालीं शम्भुर्ब्राह्मणरूपधृक् ।
आसाद्य प्रथमं कालीं समाभाष्य तदा द्विजः ॥ ५३ ॥

ज्ञातुं प्रत्यक्षतो रागं श्रीतुमिच्छंश्च तद्वचः ।
वाग्मी विचित्रवाक्येन पप्रच्छ गिरिजां तदा ॥ ५४ ॥

ब्राह्मण उवाच

का त्वं कस्यासि कल्याणि किमर्थं विजने वने ।
तपश्चरसि दुर्धर्षं मुनिभिः प्रयतात्मभिः ॥ ५५ ॥

न बाला त्वं नापि वृद्धा तरुणी चातिशोभना ।
कथं पतिं विनाभीक्ष्णं तपश्चरसि साम्प्रतम् ॥ ५६ ॥

किंवा तपस्विनी भद्रे कस्यचित् सहचारिणी ।
तपस्विनः स पुष्पादि समाहर्तुं गतोऽन्यतः ॥ ५७ ॥

एतन्मम समाचक्ष्व यदि गुह्यं भवेन्न ते ।
यदि ते हृदये मन्युः कच्चिद्वसति सम्प्रति ।
तदाचक्ष्व समर्थोऽस्मि तमहं चापि वारितुम् ॥ ५८ ॥

इत्युक्ता तेन विप्रेण गिरिजाऽथ निजां सखीम् ।
तस्योत्तरप्रदानाय कटाक्षेण न्ययोजयत् ॥ ५९ ॥

सा सखी विजया तस्या वचनाद् ब्राह्मणं तदा ।

प्रोवाचेदं यथातथ्यं वीक्षन्ती गिरिजामुखम् ॥ ६० ॥

एतस्य गिरिराजस्य तनयेयं द्विजोत्तम ।
ख्याता च पार्वतीनाम्ना कालीति च सुशोभना ॥ ६१ ॥

ऊचे यन्न च केनापि शङ्करं वृषभध्वजम् ।
वाञ्छन्ती दयितं तीव्रं तपश्चरति वै पतिम् ॥ ६२ ॥

त्रीणि वर्षसहस्राणि तपस्तपति भामिनी ।
न शङ्करो गिरिसुतामद्याप्यभ्युपपद्यते ॥ ६३ ॥

शङ्करों गिरिशो देवः सर्वगः परमेश्वरः ।
इति स्म गद्यते देवैर्मुनिभिश्च तपोधनैः ॥ ६४ ॥

किमेनां स न जानाति किं सानौ नास्ति वा गिरेः ।
इति चिन्ताविषण्णेयमद्य नो लभते सुखम् ॥ ६५ ॥

अप्रार्थितस्त्वमनया दयसे यदि वा सुखम् ।
तदैनां शङ्करेणाद्य त्वं सङ्गमय सुव्रत ॥ ६६ ॥

इति तस्या वचः श्रुत्वा ब्रह्मचारी तदा द्विजः ।
स्मयमान इदं वाक्यं हेलयोवाच पार्वतीम् ॥ ६७ ॥

मूलम्

इति तस्या वचः श्रुत्वा ब्रह्मचारी तदा द्विजः ।
स्मयमान इदं वाक्यं हेलयोवाच पार्वतीम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

ब्राह्मण उवाच

अमोघदर्शनश्चास्मि हरं चानयितुं क्षमः ।
किन्त्वेकं निगदाम्यद्य निश्चितं मन्मतं शृणु ॥ ६८ ॥

जानाम्यहं महादेवं तं वदामि शृणुष्व मे ।
वृषध्वजो महादेवो भूतिलेपी जटाधरः ॥ ६९ ॥

मूलम्

जानाम्यहं महादेवं तं वदामि शृणुष्व मे ।
वृषध्वजो महादेवो भूतिलेपी जटाधरः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

व्याघ्रचर्मांशुकश्चैकः संवीतो गजकृत्तिना ।
कपालधारी सर्पौघैः सर्वगात्रेषु वेष्टितः ॥ ७० ॥

विषदग्धगलस्त्र्यक्षो विरूपाक्षो विभीषणः ।
अव्यक्तजन्मा सततं गृहभोग्यविवर्जितः ॥ ७१ ॥

ज्ञातिभिर्बान्धवैर्हीनो भक्ष्यभोज्यविवर्जितः ।
श्मशानवासी सततं तत्सङ्गपरिवर्जितः ॥ ७२ ॥

गर्जद्भिर्विकटैस्तीक्ष्णैर्भूतौघैः परिवारितः ।
शृङ्गाररसहीनश्च भार्यापुत्रविवर्जितः ॥ ७३ ॥

केन वा कारणेन त्वं भर्तारं तं समीहसे ।
पूर्वं श्रुतं मया चैव तस्यापरमिदं कृतम् ॥ ७४ ॥

शृणु ते निगदाम्यद्य यदि ते गृह्ण रोचते ।
दक्षस्य दुहिता साध्वी सती वृषभवाहनम् ॥ ७५ ॥

वव्रे पतिं पुरा दैवात् सम्भोगपरिवर्जितम् ।
कपालिजायेति सती दक्षेण परिवर्जिता ॥ ७६ ॥

यज्ञभागप्रदानाय शम्भुश्चापि विवर्जितः ।
साथ तेनापमानेन भृशं शोकाकुला सती ॥ ७७ ॥

मूलम्

यज्ञभागप्रदानाय शम्भुश्चापि विवर्जितः ।
साथ तेनापमानेन भृशं शोकाकुला सती ॥ ७७ ॥

विश्वास-प्रस्तुतिः

तत्याज स्वान् प्रियान् प्राणांस्तया त्यक्तश्च शङ्करः ।
त्वं स्त्रीरत्नं तव पिता राजा निखिलभूभृताम् ॥ ७८ ॥

तथाविधं पतिं कस्मादुग्रेण तपसेहसे ।
देवेन्द्रो वा धनेशो वा पवनो वाप्यपाम्पतिः ॥ ७९ ॥

अग्निर्वाऽन्यः सुरो वापि स्वर्वैद्यावश्विनावपि ।
विद्याधरो वा गन्धर्वो नागो वा मानुषोऽथ वा ॥ ८० ॥

रूपयौवनसम्पन्नः समस्तगुणसंयुतः ।
स ते योग्यः पतिः श्रीमानुदारकुलसम्भवः ॥ ८१ ॥

येन त्वं बहुरत्नौघ-पूरितेऽनर्घविस्तृते ।
माल्यप्रवरसंयुक्ते धूपचूर्णैः सुवासिते ॥ ८२ ॥

मृद्वास्तरणसंयुक्ते विस्तृते सुमनोहरे ।
चारुप्रासादगर्भस्थे जाम्बूनदविचित्रिते ॥ ८३ ॥

शय्यातले समासाद्य स योग्यस्ते भवेत् पतिः ।
एवं ज्ञात्वाऽद्य सुभगे यदि वाञ्छसि शङ्करम् ।
किं ते तपोभिः सुतरामहं तं योजये त्वया ॥ ८४ ॥

इति श्रुत्वा तदा काली ब्राह्मणस्योत्तरं तदा ।
मितं तथ्यं जगादैनं ब्राह्मणं कोपसंयुक्ता ॥ ८५ ॥

न जानासि हरं देवं त्वं जानामीति भाषसे ।
वहिर्यद् दृश्यते तत्ते कथितं द्विजनन्दन ॥ ८६ ॥

यस्य भावं न जानन्ति सेन्द्रा ब्रह्मादयः सुराः ।
तस्य त्वं विप्रतनय शिशुर्ज्ञास्यसि किं भवम् ॥ ८७ ॥

यच्छ्रुतं भवता नीचवदनाद् भाषितं लघु ।
इतस्ततस्तु श्रुत्वैव भाषसे त्वं न दृष्टवान् ॥ ८८ ॥

तस्मात् त्वत्तो वरं नाहं वाञ्छये नापि वा पतिम् ।
अन्यद् वद न च त्वत्तो वाञ्छये हरसङ्गमम् ॥ ८९ ॥

इत्युक्त्वा गिरिजा विप्रमवलोक्य सखीमुखम् ।
इदमाह तदा काली संशयारूढचेतना ॥ ९० ॥

महता चिन्तनेनेह तपसाराधितो हरः ।
तन्ममाग्रे विप्रसुतो निन्दितुं वाक्यमुक्तवान् ॥ ९१ ॥

तदहं चापनेष्यामि स्तुतिवाक्येन साम्प्रतम् ।
महात्मनां च यो निन्दां शृणोति कुरुतेऽथवा ॥ ९२ ॥

तयोरागः समं पूर्वं मया तातमुखाच्छ्रुतम् ।
तस्मात्तदपनेष्येऽहं तन्निषेधय विप्रकम् ॥ ९३ ॥

मूलम्

तयोरागः समं पूर्वं मया तातमुखाच्छ्रुतम् ।
तस्मात्तदपनेष्येऽहं तन्निषेधय विप्रकम् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इत्युक्त्वा सा सखीं काली शम्भुसङ्गतमानसा ।
आगःसम्मार्जनायाशु हरं स्तोतुमुपाक्रमत् ॥ ९४ ॥

नमः शिवाय शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं त्वं गतिः परमेश्वरः ॥ ९५ ॥

विज्ञानसौभाग्यसुहृद्गताय ते
प्रपञ्चहीनाय हिरण्यबाहवे ।
नमोऽस्तु नारायण पद्मसम्भव
प्रधानबीजाय जगद्धिताय ते ॥ ९६ ॥

मूलम्

विज्ञानसौभाग्यसुहृद्गताय ते
प्रपञ्चहीनाय हिरण्यबाहवे ।
नमोऽस्तु नारायण पद्मसम्भव
प्रधानबीजाय जगद्धिताय ते ॥ ९६ ॥

विश्वास-प्रस्तुतिः

इति स्तुवन्तीं पुनरेव स द्विज-
स्तदा वचः किञ्चिदुदीरितुं पुनः ।
समीक्ष्य कालीमकरोत् सयत्नकं
बुद्ध्वा समाचष्ट सखीं गिरेः सुता ॥ ९७ ॥

मूलम्

इति स्तुवन्तीं पुनरेव स द्विज-
स्तदा वचः किञ्चिदुदीरितुं पुनः ।
समीक्ष्य कालीमकरोत् सयत्नकं
बुद्ध्वा समाचष्ट सखीं गिरेः सुता ॥ ९७ ॥

विश्वास-प्रस्तुतिः

अयं द्विजः किञ्चन वक्तुमिच्छ-
त्युग्रं हरं चापि न संविदानः ।
निन्दन्नहि प्राणहरीं हरस्य
निन्दामहं श्रोतुमिह क्षमामि ॥ ९८ ॥

मूलम्

अयं द्विजः किञ्चन वक्तुमिच्छ-
त्युग्रं हरं चापि न संविदानः ।
निन्दन्नहि प्राणहरीं हरस्य
निन्दामहं श्रोतुमिह क्षमामि ॥ ९८ ॥

विश्वास-प्रस्तुतिः

यावद् भूरिवचोऽस्याहं न शृणोम्यधुना सखि ।
गच्छामि तावद् दूराय समुत्तिष्ठामि मत्प्रिये ॥ ९९ ॥

इत्युक्त्वा सा तया सख्या सहिता हिमवत्सुता ।
प्रतस्थेऽथ समुत्थाय तमुत्सृज्य द्विजं हठात् ॥ १०० ॥

अथ शम्भुर्निजं रूपमास्थाय हिमवत्सुताम् ।
तं समुत्सृज्य गच्छन्तीं हरः स्मेरमुखोऽन्वयात् ॥ १०१ ॥

अहं हरो महादेवो मां संस्तौषि न चाधुना ।
सम्मुखीभव हे कालि समाश्वासय शाङ्करि ॥ १०२ ॥

इत्युक्त्वा स महादेवो गच्छन्त्याः पुरतो गतः ।
प्रसार्य हस्तौ काल्यास्तु गतिं तस्य विरोधयन् ॥ १०३ ॥

सा वीक्ष्य शम्भुवदनं तत्क्षणादभवद्धठात् ।
अधोमुखी तडिद्वातचकितेव गिरेः सुता ॥ १०४ ॥

मन्दाक्षं प्रीतिलज्जाभिः सा जडेव तदाभवत् ।
वक्तुं च नाशकत् किञ्चिद्विवक्षुरपि भामिनी ॥ १०५ ॥

मनोरथानां सिद्ध्या तु सुधाभिरिव पूरितम् ।
शरीरमभवत्तस्या मुदा पूर्णं द्विजोत्तमाः ॥ १०६ ॥

षट्त्रिवर्षसहस्रैस्तु तपःक्लेशमविन्दत ।
यत्तं क्षणात् समुत्सृज्य सम्मोदमुदिताभवत् ॥ १०७ ॥

तां च वीक्ष्य तथाभूतां प्रणयाद् वृषभध्वजः ।
कामेन भस्मरूपेण गात्रस्थेन च मोहितः ॥ १०८ ॥

अथ तां विरहोद्रिक्तः समेत्य वृषभध्वजः ।
सम्बोधयन्निदं चाटुवचनं प्रोक्तवान् मुदा ॥ १०९ ॥

न तु सुन्दरि मां वक्तुं किञ्चनापि त्वमीहसे ।
तपःक्लेशं स्मरयन्ती किं मह्यं कुप्यसि साम्प्रतम् ॥ ११० ॥

अहं च परितप्यामि त्वामृते सुभगे मम ।
समयाद् यत् समारब्धं तपस्तप्तुं त्वया समम् ॥ १११ ॥

सानुरक्तोऽथ संस्कृत्य भविष्यामि त्वया प्रिये ।
अधुना समतीतो मे यः कृतः समयो मया ॥ ११२ ॥

तपसे भवती चापि तपसैव सुसंस्कृता ।
सञ्चिन्तनेन जप्येन तीव्रेण तपसा तदा ।
मूल्येन महता क्रीतो दासोऽहं मां नियोजय ॥ ११३ ॥

त्वदङ्गानां संस्करणे जटानां च प्रसाधने ।
प्रमुच्य बल्कलं गात्राच्चार्वंशुकनिवेशने ॥ ११४ ॥

हारनूपुरकेयूरकाञ्च्यादिपरिधापने ।
द्रुतं नियोजय शुभे यदि स्नेहोऽस्ति मादृशि ॥ ११५ ॥

निर्दग्धो यो मया कामो भस्मरूपेण मत्तनौ ।
स्थितो मां प्रतिकृत्येव त्वदग्रे दग्धुमिच्छति ॥ ११६ ॥

तस्मादुद्धर मां कामादग्नेरिव मनोहरे ।
त्वदङ्गामृतदानेन प्रसीद दयिते मम ॥ ११७ ॥

इति कालिकापुराणे त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥