विश्वास-प्रस्तुतिः
द्विचत्रारिंशोऽध्यायः
मार्कण्डेय उवाच
एतस्मिन्नन्तरे शम्भुः क्षिप्रं त्यक्त्वा तदा सरः ।
गङ्गावतारमगमद् हिमवत्प्रस्थमुत्तम ॥ १ ॥
मूलम्

यत्र गङ्गा निपतिता पुरा ब्रह्मपुरात् सृता ।
ओषधीप्रस्थनगरस्यादूरे सानुरुत्तमः ॥ २ ॥

तत्र भर्गः स्वमात्मानमक्षरं परमात्परम् ।
चेतो ज्ञानमयं नित्यं ज्योतीरूपं निराकुलम् ॥ ३ ॥

जगन्मयं प्रदीपाभं द्वैतहीनाविशेषकम् ।
एकाग्रं चिन्तयामास भगवान् वृषभध्वजः ॥ ४ ॥

हरे ध्यानपरे तस्मिन् प्रमथा ध्यानतत्पराः ।
अभवन् केचिदपरे नन्दिभृङ्ग्यादयो गणाः ॥ ५ ॥

द्वाःस्था भूता महाभागा ये पूर्वद्वारि योजिताः ।
तावन्तोऽपि गणास्तत्र नैव किञ्चनं कूजितम् ॥ ६ ॥

तेषां संश्रूयते सर्वे निःशब्दाः संस्थितास्ततः ।
अन्ये तु तत्र क्रीडन्ति गणा दूरान्तरस्थिताः ॥ ७ ॥

कुसुमैश्च दलैर्भक्तैर्गिरिप्रस्रवणोदकैः ।
रत्नानि च विचिन्वन्तो भूषिता गैर्कैस्तथा ॥ ८ ॥

सगणं तु तथा दृष्ट्वा गिरिराजो गतं हरम् ।
स्वस्थानमोषधिप्रस्थान्निःसृत्य सहितो गणैः ॥ ९ ॥

पूजार्थमुपतस्थे स यथायोग्यं तथार्चयत् ।
स चापि शम्भुस्तस्यार्च्चां परया श्रद्धया युतः ।
प्रतिजग्राह कूटस्थो गङ्गाशीर्षे यथा पुरा ॥ १० ॥

पूजितस्तेन सहसा गिरिराजं वृषध्वजः ।
उवाच ध्यानयोगस्थः स्मयन्निव जगत्पतिः ॥ ११ ॥

ईश्वर उवाच
तव प्रस्थे तपस्तप्तुं रहस्यमहमागतः ।
न यथा कोऽपि निकटं समायाति तथा कुरु ॥ १२ ॥

त्वं महात्मा जगद्धाम् मुनीनां च सदाश्रयः ।
देवानां राक्षसानां च यक्षाणां किन्नरस्य च ॥ १३ ॥

सदावासो द्विजातीनां गङ्गापूतश्च नित्यदा ।
त्वत्पुरस्यास्य निकटे प्रस्थं गङ्गावतारणम् ॥ १४ ॥

आश्रितोऽहं गिरिश्रेष्ठ तद्योग्यं कुरु साम्प्रतम् ॥ १५ ॥

इत्युक्त्वा जगतां नाथस्तूष्णीमास वृषध्वजः ।
गिरिराजस्तदा शम्भुं प्रणयादिदमब्रवीत् ॥ १६ ॥

हिमवानुवाच
पूतोऽस्मि जगतां नाथ त्वयाऽहं परमेश्वर ।
आगतेनाद्य विषयमितः कृत्यं किमस्ति मे ॥ १७ ॥

तपसा महता त्वं हि देवैर्यत्नपरस्थितै ।
न प्राप्यसे जगन्नाथ स त्वं स्वयमुपस्थितः ॥ १८ ॥

मत्तो धन्यतरो नास्ति न मत्तोऽन्योऽस्ति पुण्यवान् ।
यद्भवान् हिमवत्प्रस्थे तपसे समुपस्थितः ॥ १९ ॥

देवेन्द्रादधिकं मन्ये आत्मानं परमेश्वर ।
सगणेन त्वया प्राप्तो यदाऽहं कामचारतः ॥ २० ॥

इत्युक्त्वा गिरिराजोऽथ स्ववेश्म पुनरागमत् ।
नियमाय परिवारान् गणानप्यवदत् स्वकान् ॥ २१ ॥

अद्य प्रभृति नो गन्ता कोऽपि गङ्गावतारणम् ।
मच्छासनं न हि विना यो गन्ता दण्डये ह्यहम् ॥ २२ ॥

इति स्वान् स नियम्याशु तिलपुष्पकुशान् फलम् ।
समादायाशु तनयासहितोऽगाद् हरान्तिकम् ॥ २३ ॥

अथ गत्वा जगन्नाथं हरं ध्यानपरं तदा ।
नमयामास तनयां कालीं सर्वगुणान्विताम् ॥ २४ ॥

तिलपुष्पादिकं यद् यत्तत्तदग्रे निधाय सः ।
अग्रे कृत्वा सुतां शम्भुमिदमाह स शैलराट ॥ २५ ॥

भगवंस्तनयेयं मे त्वमाराधयितुं प्रति ।
समादिष्टा समानीता त्वदाराधनकाङ्क्षिणी ॥ २६ ॥

सखिभ्यां सह नित्यं त्वां सेवतामीश शङ्कर ।
अनुजानीहि सेवायै मयि ते यद्यनुग्रहः ॥ २७ ॥
मूलम्
सखिभ्यां सह नित्यं त्वां सेवतामीश शङ्कर ।
अनुजानीहि सेवायै मयि ते यद्यनुग्रहः ॥ २७ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
अथ तां शङ्करोऽपश्यत् प्रथमारूढयौवनाम् ।
फुल्लेन्दीवरपत्राभां पूर्णचन्द्रनिभाननाम् ॥ २८ ॥

समग्रनीचकेशौघप्राप्तवेशविजृम्भिकाम् ।
कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम् ॥ २९ ॥

ऋणालायतपर्यन्तबाहुयुग्ममनोरमाम् ।
राजीवकुण्डलप्रख्यघनपीनोन्नतस्तनौ ॥ ३० ॥
मूलम्
ऋणालायतपर्यन्तबाहुयुग्ममनोरमाम् ।
राजीवकुण्डलप्रख्यघनपीनोन्नतस्तनौ ॥ ३० ॥
विश्वास-प्रस्तुतिः
बिभ्रती क्षीणसन्मध्यां रक्तपाणितलद्वयाम् ।
स्थलपद्मप्रतीकाश-पादयुग्ममनोरमाम् ॥ ३१ ॥

मध्यक्षीणां महासत्त्वां वृत्तस्थूलघनोज्ज्वलाम् ।
सुजङ्घां नागनासोरुंइम्ननाभिविभूषिताम् ॥ ३२ ॥

सुवृत्तचारुजङ्घाग्रां त्रिगम्भीरां षडुन्नताम् ।
सर्वलक्षणसम्पूर्णां त्रिषु लोकेषु दुर्लभाम् ॥ ३३ ॥

ध्यानपञ्जरनिर्बन्धमुनिमानसमप्यरम् ।
दर्शनाद् भ्रंशितुं शक्तां योषिद्गणशिरोमणिम् ॥ ३४ ॥

तां दृष्ट्वा तपसे नित्यं ध्यानिनां च मनोहराम् ।
विघ्नहेतुं चानुरागवर्धिनीं कामरूपिणीम् ॥ ३५ ॥

गिरिराजस्य वचनात्तनयां तस्य शङ्करः ।
पर्येषणायै जगृहे गौरवादपि गोरथः ॥ ३६ ॥
मूलम्
गिरिराजस्य वचनात्तनयां तस्य शङ्करः ।
पर्येषणायै जगृहे गौरवादपि गोरथः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच
उवाचेदं तव सुता सखिभ्यां स शैलराट् ।
नित्यं मे सेवतां यत्नाद् निर्भीता ह्यत्र तिष्ठतु ॥ ३७ ॥
मूलम्
ईश्वर उवाच
उवाचेदं तव सुता सखिभ्यां स शैलराट् ।
नित्यं मे सेवतां यत्नाद् निर्भीता ह्यत्र तिष्ठतु ॥ ३७ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
एवमुक्त्वा तु तां देवीं सेवायै जगृहे हरः ।
इदमेव महद् धैर्यं यद् विघ्नो न हि विघ्नयेत् ।
निर्विघ्नं स्थानमासाद्य यत्तपः क्रियते द्विजैः ॥ ३८ ॥

सविघ्नो विघ्नहेतुं यः परिभूय प्रवर्तते ।
त्वन्महत्त्वं च तपसां धीरता च तपस्विनाम् ॥ ३९ ॥

ततः स्वपुरमायातो गिरिराट् परिचारकैः ।
हरश्च ध्यानयोगेन परं चिन्तयितुं स्थितः ॥ ४० ॥

काली सखिभ्यां सहिता प्रत्यहं चन्द्रशेखरम् ।
सेवमाना महादेवं गमनागमनैः स्थिता ॥ ४१ ॥

कदाचित् सहिता काली सखिभ्यां शङ्कराग्रतः ।
वितन्वती शुभं गीतं पञ्चमञ्चातनोत्तदा ॥ ४२ ॥

कदाचित् कुशपुष्पादिसमिद्वारि हराय सा ।
सखिभ्यां स्नानसत्कारं कुर्वन्ती न्यवसत्तदा ॥ ४३ ॥

कदाचिदग्रे नियता स्थिता चन्द्रभृतो मुखम् ।
वीक्षन्ती चिन्तयामास सकामा चन्द्रशेखरम् ॥ ४४ ॥

(
विश्वास-प्रस्तुतिः
अदा कार्येषु सा व्यग्रा तदा तत्कर्म चेष्टते ।
ऋत्यहीना यदा सा तु तदैवाचिन्तयद्धरम् ॥ ४५ ॥

अदा मामेष भूतेशः कर्ता पाणिगृहीतिकाम् ।
अदा मया समं रन्ता नानासद्भावभावनैः ॥ ४६ ॥

ति चिन्तापरा काली स्वप्नेऽपि परमेश्वरम् ।
र्चयत्येव परमं सदा चिन्तनतत्परा ॥ ४७ ॥

ग्रं गता यदा काली प्रध्यायति महेश्वरम् ।
अदा तद् वेदभूतेशस्तां निसर्गपरिस्थिताम्) ॥ ४८ ॥

किन्तु गर्भगतैर्बीजैर्धूतदेहेति तां तदा ।
नाग्रहीद्गिरिशः कालीं भार्यार्थे ह्यधृतव्रताम् ॥ ४९ ॥

महादेवोऽपि तां दृष्ट्वा तदैवेदमचिन्तयत् ।
कथमेषा तपश्चर्याव्रतं कुर्याद् गिरेः सुता ॥ ५० ॥

कृतव्रतां ग्रहीष्यामि गर्भबीजविवर्जिताम् ।
कालीं भार्या स्वदयितां योनिजामतिदूषिताम् ॥ ५१ ॥

व्रतेन चाथ संस्कारैर्गर्भबीजं विमुच्यते ।
तस्माद् व्रतं यथा काली कुर्यात् तद् युज्यते कथम् ॥ ५२ ॥

इति सञ्चिन्त्य भूतेशस्तदा ध्यानमनाः स्थितः ।
ध्यानासक्तस्य तस्याथ नान्यचिन्ता व्यजायत ॥ ५३ ॥

काली त्वनुदिनं शम्भुं भक्त्या भृशमसेवत ।
विचिन्तयन्ती सततं तस्य रूपं महात्मनः ॥ ५४ ॥

हरो ध्यानपरः कालीं नित्यं प्रत्यक्षतः स्थिताम् ।
विस्मृत्य पूर्ववृत्तान्तं पश्यन्नपि न पश्यति ॥ ५५ ॥

एतस्मिन्नन्तरे देवांस्तारको नाम दैत्यराट् ।
ववाधे सर्वलोकांश्च ब्रह्मणो वरदर्पितः ॥ ५६ ॥

वशीकृत्य स लोकांस्त्रीन् स्वयमिन्द्रो बभूव ह ।
विद्राव्य सकलान् देवान् दैत्यान् स्वांस्तत्पदेषु च ।
स्वयं नियोजयामस देवयोनिष् चाप्यसौ ॥ ५७ ॥

न यमः स्वेच्छया लोकांस्तस्मिन् राज्ञि नियच्छति ।
न स्वेच्छया तथा सुर्यो लोकांस्तपति तद्भयात् ॥ ५८ ॥

चन्द्रस्तु नर्मसाचिव्यं तस्य कुर्वन् स रश्मिभिः ।
वायुना सह सङ्गम्य तत्सेवां विदधेऽनिशम् ॥ ५९ ॥

सदा सौगन्ध्यगाम्भीर्यशैत्यस्निग्धत्वसंयुतः ।
तं बीजयन् ववौ वायुः शासनात्तस्य भूभृतः ॥ ६० ॥

धनदोऽपि यथासारं धनमादाय यत्नतः ।
सावधानस्तस्य सेवामकरोत्तारकेच्छया ॥ ६१ ॥

अग्निस्तस्याभवत् सूदः शासनात्तारकस्य तु ।
व्यञ्जनान्यथ भोज्यानि चक्रे तस्येच्छया तदा ॥ ६२ ॥

निर्-ऋतिस्तस्य सततं सहितः सर्वराक्षसैः ।
अश्वान् गजान् वाहनानि कारयामास साध्वसात् ॥ ६३ ॥

नृत्यद्भिरप्सरोभिश्च स्तुवद्भिः सूतमागधैः ।
गायमानैश्च गन्धर्वैः सञ्चिक्रीड सुरान् द्विषन् ॥ ६४ ॥

एवं स सर्वलोकांस्तु त्रिष्वप्यथ विलोडयन् ।
लोकेषु सारान् सारांश्च देवानामप्यथाग्रहीत् ॥ ६५ ॥

तेनाभिबाधिताः सर्वे देवाः शक्रपुरोगमाः ।
ब्रह्माणं शरणं जग्मुरनाथा नाथमुत्तमम् ॥ ६६ ॥

ते प्रणम्य सुराः सर्वे पुरुहूतपुरोगमाः ।
इदमूचुर्महात्मानं सर्वलोकपितामहम् ॥ ६७ ॥

देवा ऊचुः
लोकेश तारको दैत्यो वरेण तव दर्पितः ।
निरस्यास्मान् हठादस्मद्विषयान् स्वयमग्रहीत् ॥ ६८ ॥

रात्रिन्दिवं बाधतेऽस्मान् यत्र तत्र स्थिता वयम् ।
पलायिताश्च पश्यामः सर्वकाष्ठासु तारकम् ॥ ६९ ॥

अग्निर्यमोऽथ वरुणो निर्-ऋतिर्वायुरेव च ।
तथा मनुष्यधर्मा च सर्वैः अरिकरैर्युतः ॥ ७० ॥

एते तेनार्दिता ब्रह्मन् देवास्तस्यैव शासनात् ।
अनिच्छाकार्यनिरताः सर्वे तस्यानुजीविनः ॥ ७१ ॥

या देववनिताः स्वर्गे ये चाप्यप्सरसां गणाः ।
तान् सर्वानग्रहीद् दैत्यः सारं लोकेषु यच्च यत् ॥ ७१ ॥

न यज्ञाः सम्प्रवर्तन्ते न तपस्यन्ति तापसाः ।
दानधर्मादिकं किञ्चिद् न लोकेषु प्रवर्तते ॥ ७३ ॥

तस्य सेनापतिः पापः क्रौञ्चो नामास्ति दानवः ।
स पातालतलं गत्वा बाधतेऽहर्निशं प्रजाः ॥ ७४ ॥

तस्मात् तु तारकेणेडं सकलं भुवनत्रयम् ।
हृतं सर्वं जगत् त्राहि पापात्तस्मात् पितामह ॥ ७५ ॥

वयं च यत्र स्थास्यामस्तत्स्थानं विनिदेशय ।
स्वस्थानाच्च्यावितास्तेन लोकनाथ जगद्गुरो ॥ ७६ ॥

त्वं नो गतिश्च शास्त्रा च त्वं नस्त्राता पिता प्रसूः ।
त्वमेव भुवनानां च स्थापकः पालकः कृती ॥ ७७ ॥

तस्माद् यावत्तारकाख्ये वह्नौ दग्धाः प्रजापते ।
न भवाअस्तथा कर्तुं भवता युज्यतेऽधुना ॥ ७८ ॥
मूलम्
तस्माद् यावत्तारकाख्ये वह्नौ दग्धाः प्रजापते ।
न भवाअस्तथा कर्तुं भवता युज्यतेऽधुना ॥ ७८ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
सुराणां वचनं श्रुत्वा ब्रह्मलोकपितामहः ।
प्रत्युवाच सुरान् सर्वांस्तत्कालसदृशं वचः ॥ ७९ ॥

ब्रह्मोवाच
ममैव वरदानेन तारकाख्यः समेधितः ।
न मत्तस्तस्य मरणं युज्यते त्रिदिवौकसः ॥ ८० ॥

युष्माकञ्च प्रतीकारः कर्तव्यः प्रतिकर्मणि ।
किन्तु सम्यक् न शक्नोमि प्रतिकर्तुं प्रचोदितः ॥ ८१ ॥

तस्माद् यथा तारकाख्यः स्वयमेष्यति सङ्क्षयम् ।
तथा यूयं संविदध्वमुपदेशकरस्त्वहम् ॥ ८२ ॥

न मया तारको वध्यो न तथा वनमालिना ।
न हरेण तथा वध्यो नान्यैरपि सुरैर्नरैः ॥ ८३ ॥

एष एव वरो दत्तो मया तस्मै तपस्यते ।
उपायश्चिन्तितश्चास्ति तत्कुर्वन्तु सुरोत्तमाः ॥ ८४ ॥

सती दाक्षायणी पूर्वं त्यक्तदेहा स्वजन्मने ।
अगच्छन्मेनकां देवीं शैलराजस्य योषितम् ॥ ८५ ॥

तां समुत्पादयामास मेनकाजठरे गिरिः ।
लक्ष्मीमिव् पुरा ख्यातां भृगुः स्वतनयो मम ॥ ८६ ॥

तामवश्यं महादेवः कुर्यात् पाणिगृहीत्रिकाम् ।
यथा स नचिरात्तस्यामनुरक्तो भवेत् सुराः ॥ ८७ ॥

तथा विदध्वं सुतरां तत्तेजः प्रतिकर्तु वः ।
तमूर्ध्वरेतसं शम्भुं सैव प्रच्युतरेतसम् ॥ ८८ ॥

कर्तुं समर्था नान्यास्ति काचिदप्यबलाऽपरा ।
तस्य तेजश्च्युतं यच्च तस्माद् यो जायते सुतः ॥ ८९ ॥

स एव तारकाख्यस्य हन्ता नान्यस्तु विद्यते ।
सा सुता गिरिराजस्य साम्प्रतं रूढयौवना ॥ ९० ॥

तपस्यन्तं गिरिप्रस्थे नित्यं पर्येषते हरम् ।
वाक्याद् हिमवतः सा तु काली नाम्ना निषेवते ।
सखिभ्यां सह सर्वज्ञं ध्यानस्थं परमेश्वरम् ॥ ९१ ॥

तामग्रतो वर्तमानां त्रिलोकवरवर्णिनीम् ।
ध्यानासक्तो महादेवो मनसापि न चेच्छति ॥ ९२ ॥

यथा समीहते भार्यां कालीं च चन्दशेखरः ।
तथा कुरुध्वं त्रिदशा नचिरादेव यत्नतः ॥ ९३ ॥

स्वस्थानं भवतां स्वर्गस्तस्मात् तारकमप्यहम् ।
निवर्तयिष्ये सङ्गम्य गच्छध्वं विगतज्वराः ॥ ९४ ॥
मूलम्
स्वस्थानं भवतां स्वर्गस्तस्मात् तारकमप्यहम् ।
निवर्तयिष्ये सङ्गम्य गच्छध्वं विगतज्वराः ॥ ९४ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इत्युक्त्वा सर्वलोकेशस्तारकाख्यमुपस्थितः ।
उपसङ्गम्य वचनं समाभाष्येदमब्रवीत् ॥ ९५ ॥
मूलम्
मार्कण्डेय उवाच
इत्युक्त्वा सर्वलोकेशस्तारकाख्यमुपस्थितः ।
उपसङ्गम्य वचनं समाभाष्येदमब्रवीत् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच
भो भो तारक मा स्वर्गराज्यं त्वं परिशाधि भोः ।
तदर्थं न तपस्तप्तं समये भवता पुरा ॥ ९६ ॥

वरो नापि मया दत्तो न मया स्वर्गराजता ।
तस्मात् स्वर्गं परित्यज्य क्षितौ राज्यं समाचर ॥ ९७ ॥

देवभोग्यानि तत्रैव सम्भविष्यन्ति तेऽसुर ।
मार्कण्डेय उवाच
इत्युक्त्वा सर्वलोकेशस्तत्रैवान्तरधीयत ॥ ९८ ॥

स तारकः परित्यज्य स्वर्गं क्षितिमथाभ्ययात् ।
तत्रैव संस्थितो देवान् बाधते स्म स नित्यशः ।
इन्द्रं करप्रदं चक्रे निदेशस्थं महाबलम् ॥ ९९ ॥

तमिन्द्रः सततं देवभोग्यानि वितरन् मुहुः ।
सेवमानः क्षमो नाभूत् सन्तोषयितुमीश्वरम् ॥ १०० ॥

एवं तेनार्दिता देवा मन्युना परिपीडिताः ।
विधातुरुपदेशेन यत्नं चक्रुर्हरान्वये ॥ १०१ ॥

तत इन्द्रोऽथ गुरुणा सङ्गम्य कृतनिश्चयः ।
कुसुमेषुं समाहूय वचनं चेदमब्रवीत् ॥ १०२ ॥

इन्द्र उवाच
त्वयेदं पाल्यते विश्वं त्वया विश्वं प्रसूयते ।
त्वं ब्रह्मविष्णुरुद्राणां प्रीतिहेतुः पुरा भवः ॥ १०३ ॥

ब्रह्मा प्रीत्या यथा पूर्वमगृह्णाच्चरितव्रताम् ।
सावित्रीं माधवो लक्षमीं सतीं दाक्षायणीं हरः ॥ १०४ ॥

ताः प्रीतये पुरा तेषां देवेशानां यथा कृता ।
तथैव कुरु मे प्रीतिं काम प्राणभृतां सदा ॥ १०५ ॥

न त्वं न कस्यचित् स्वर्गे पाताले वाथ भूतले ।
प्रियः प्राणभृतां काम सततं जगतां मतः ॥ १०६ ॥

देवदानवयक्षाणां रक्षसां मानुषस्य च ।
त्वं पालकश्च कर्ता च हृदये च प्रवर्तसे ॥ १०७ ॥

तस्मात् त्वं सर्वजगतां हिताय कुरु चेष्टितम् ।
देवदानवयक्षाणां मानुषाणां महात्मनाम् ॥ १०८ ॥
मूलम्
तस्मात् त्वं सर्वजगतां हिताय कुरु चेष्टितम् ।
देवदानवयक्षाणां मानुषाणां महात्मनाम् ॥ १०८ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
एतच्छ्रुत्वा वचस्तस्य शक्रस्य मकरध्वजः ।
देवराजमुवाचेदं सुप्रीतस्तद्वचोऽमृतैः ॥ १०९ ॥

मदन उवाच
यत्राहमीशिता शक्र तत्कर्म विदितं त्वया ।
तस्मान्ममोचितं शक्यं करिष्ये तन्निदेशय ॥ १०० ॥

पञ्चैव बाणा मृदवस्ते च पुष्पमया मम ।
चापस्तथा पुष्पमयः शिञ्जिनी भ्रमरात्मिका ॥ १११ ॥

रतिर्मे दयिता जाया वसन्तः सचिवो मम ।
यन्ता मलयजो वायुर्मित्रं मम सुधानिधिः ॥ ११२ ॥

सेनाधिपो मे शृङ्गारो हावा भावाश्च सैनिकाः ।
सर्वे मे मृदवोऽक्रूरा अहं चापि तथाविधः ॥ ११३ ॥

यद् येन युज्यते कार्यं धीमांस्तत्तेन योजयेत् ।
मम योग्यं तु यत् कर्म तस्मात्तस्मिन् नियोजय ॥ ११४ ॥

यत् कारयितुमिच्छामि भवता तन्मनोभव ।
तत्ते समुचितं कर्म तस्मिन् परिवृतो भवान् ॥ ११५ ॥

कृतकर्मापि तत्र त्वं कृती चापि मनोभव ।
त्वदन्यैः किन्तु दुःसाध्यं तत्त्वां तत्र नियोजये ॥ ११६ ॥

श्रूयते हि तपस्यन्तं ध्यानस्थं वृषभध्वजम् ।
गिरेर्हिमवतः प्रस्थे निराकाङ्क्षं वधूकृतौ ॥ ११६ ॥

तं पितुर्वचनात् काली तपस्यन्तं निषेवते ।
सखिभ्यां सहिता नित्यं हरस्यानुमतेऽधुना ॥ ११७ ॥

आरूढयौवनां तां तु स्त्रीरत्नमपि सुन्दरीम् ।
ध्यानासक्तो महादेवो नेहते मनसापि च ॥ ११८ ॥

सानुरागो यथा तस्यां जायते वृषभध्वज ।
तथा विधत्स्व देवानां हिताय जगतामपि ॥ ११९ ॥

सह सत्या यथा रेमे सानुरागो वृषध्वजः ।
अथैतया गिरिजया रमतां तत्कृतेन वै) ॥ १२० ॥

तस्याः कृते तु यत्तेजः प्रच्युतं यद् हरस्य वै ।
ततो यो जायते सोऽस्मांस्तारकादुद्धरिष्यति ॥ १२१ ॥
मूलम्
तस्याः कृते तु यत्तेजः प्रच्युतं यद् हरस्य वै ।
ततो यो जायते सोऽस्मांस्तारकादुद्धरिष्यति ॥ १२१ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
ततः स देवराजस्य वचः श्रुत्वा मनोभवः ।
प्राप्तकालं च सस्मार शाप ब्रह्मकृतं पुरा ॥ १२२ ॥

सन्ध्यां प्रतिविधातारं यदा शस्त्रं परीक्षितम् । कामोऽहनत्
पुष्पबाणैस्तदा तमशपद्विधिः ॥ १२३ ॥

शम्भुनेत्राग्निदग्धस्त्वं भविष्यसि द्विजोत्तमाः ।
यदा कुर्याद् गिरिसुतां हरः पाणिगृहीतिकाम् ॥ १२४ ॥

तदा भवान् शरीरेणागमिष्यति समग्रताम् ।
इति स्मृत्वा विधेः शापं भीतोऽपि मकरध्वजः ॥ १२५ ॥

अङ्गीचक्रे शक्रवाक्यात् काल्या योजयितुं हरम् ।
इदं च वचनं प्रोचे तत्कालसदृशं पुनः ॥ १२६ ॥

करिष्ये तद्वचः शक्र हरं सङ्गमयाम्यहम् ।
काल्या गिरिजया सार्धं दाक्षायण्या यथा पुरा ॥ १२७ ॥

किन्त्वेकं मम साहाय्यं कर्ता त्वं हरमोहने ।
यदा सन्मोहनेनाहं हरं सन्मोहयामि च ॥ १२८ ॥

तदा कुरु सहायं त्वं स्वःस्थमाप्याययस्व माम् ।
प्रविश्याहं सुरभिणा न चिराच्छङ्कराश्रमम् ॥ १२९ ॥

विधाय पूर्वं मनसो विकारं हर्षणेन तु ।
सम्मोहनेन सुदृढं मोहयिष्ये वृषध्वजम् ॥ १३० ॥

स्मरिष्यसि त्वं सम्प्राप्ते काले मां मम पालने ।
अहं गच्छामि सहितं तत्कर्तुं बलसूदन ॥ १३१ ॥
मूलम्
स्मरिष्यसि त्वं सम्प्राप्ते काले मां मम पालने ।
अहं गच्छामि सहितं तत्कर्तुं बलसूदन ॥ १३१ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इत्युक्त्वा स जगामाथ मदनः शङ्कराश्रमम् ।
शक्रोऽपि त्रिदशान् सर्वानिदमाह वचस्तदा ॥ १३२ ॥

यूयं कुरुध्वं साहाय्यं यत्र याति मनोभवः ।
तत्र तत्रानुगयैव समये मां च बोधत ॥ १३३ ॥

यदा सम्मोहनेनायं सम्मोहयति शङ्करम् ।
तदाहमपि यास्यामि तत्र बोधत मां सुराः ॥ १३४ ॥

इत्युक्तास्तेन शक्रेण देवा जग्मुर्मनोभवम् ।
सोऽपि गत्वा यत्र हरो गङ्गावतरणे गिरेः ।
हिमभारभृतः सानौ सुरभिं च न्ययोजयत् ॥ १३५ ॥

ततस्तत्र गते सम्यक्सुरभौ तस्य लक्षणम् ।
अभवन्नचिरादेव तरुगुल्मलतासु च ॥ १३६ ॥
मूलम्
ततस्तत्र गते सम्यक्सुरभौ तस्य लक्षणम् ।
अभवन्नचिरादेव तरुगुल्मलतासु च ॥ १३६ ॥
विश्वास-प्रस्तुतिः
पुष्पिताः किंशुकास्तत्र मञ्जुलाः केतकास्तथा ।
सरांसि च सप्द्मानि सविकाराश्च जन्तवः ॥ १३७ ॥

ववौ वायुश्च गम्भीरो गन्धिलः पुष्परेणुभिः ।
शनैः शनैः सुखकरः कर्षयन् स हि काननम् ॥ १३८ ॥

पक्षिणश्च मृगाश्चैव ये चान्ये प्राणधारिणः ।
सिद्धाश्च किन्नराश्चैव द्वन्द्वभावं वितेनिरे ॥ १३९ ॥

चूताः कुसुमितास्तत्र नवस्तबकभूषिताः ।
अशोकाः पाटलाश्चैव नागकेशरकारुणाः ॥ १४० ॥

सविकारा गणाश्चासन् शङ्करस्य तदा द्विजाः ।
प्रत्यक्षतों ययुस्तेऽपि विकारं शम्भुसाध्वसात् ॥ १४१ ॥

भ्रमन्ति स्म तदा तत्र भ्रमराः कुसुमोद्भवम् ।
पिबन्तो बहुशश्च्युतं गुञ्जन्तः सह जायया ॥ १४२ ॥

एवं प्रवृत्ते सुरभौ शृङ्गारोऽपि गणैः सह ।
हावभावयुतस्तत्र प्रविवेश हरान्तिकम् ॥ १४३ ॥

मदनः सगणस्तत्र निवसंश्चिरमेव हि ।
न दृष्टवांस्तदा शम्भोश्छिद्रं येन प्रवेक्ष्यति ॥ १४४ ॥

यदा च प्राप्तविवरस्तदा भयविमोहितः ।
नाग्रेसरोऽभवत् तस्य मदनो रतिवारितः ॥ १४५ ॥

एवं यातस्तस्य कालः प्रभूतो द्विजसत्तमाः ।
निरूपयन् न वा चाप छिद्रं तस्य यतेस्तदा ॥ १४६ ॥

ज्वलत्कालाग्निसङ्काशं भानुलक्षसमप्रभम् ।
ध्यानस्थं शङ्करं को वा समासादयितुं क्षमः ॥ १४७ ॥

अथैकदा गिरिसुता काली तस्याभवत्पुरः ।
कृत्वा परीष्टिं कर्तव्या सखिभ्यां प्रणता स्थिता ॥ ३४८ ॥

शङ्करोऽपि तदा ध्यानं त्यक्त्वा तत् क्षणमास्थितः ।
योजयन् स्वगणान् कृत्ये ज्योतिश्चिन्ताविवर्जितः ॥ १४९ ॥

तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु ।
बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् ॥ १५० ॥

शृङ्गारश्च तदा भावैर्हावैश्च सहितो हरम् ।
जगाम कामसाहाय्यं कुर्वन् सुरभिणा सह ॥ १५१ ॥

हर्षणेनातिहृषितः शृङ्गाराद्यैर्निषेवितः ।
शङ्करो वदनं काल्याः साकूतं संव्यलोकयत् ॥ १५२ ॥

तत् प्राप्य विवरं कामः पुष्पं चापे न्ययोजयत् ।
सम्मोहनं पुष्पवृतं पुष्पमालाविवर्धितम् ॥ १५३ ॥

तदाभूद् दक्षिणे पार्श्वे रतिः प्रीतिस्तु वामतः ।
पृष्ठे वसन्तस्तूणीरं पौष्पमादाय सुन्दरः ॥ १५४ ॥

आकर्णपूरितं पुष्पं चापमाकृष्य संयतः ।
यदा मनोभवो वायुस्तदा तं समुपेयिवान् ॥ १५५ ॥

संहिते पुष्पबाणे तु गिरिजां चन्द्रशेखरः ।
जातेन्द्रियविकारः सन् जिघृक्षुः सङ्गमेऽभवत् ॥ १५६ ॥

अमराः शक्रसहितास्तदा सर्वे वियद्गताः ।
सभ्यं मनोभवं मेने सुरकृत्ये निवेशितभ् ॥ १५७ ॥

अथ संस्मृत्य संयम्य निगृह्य विकृतिं तदा ।
इन्द्रियस्य महादेवः सहसेदं व्यचिन्तयत् ॥ १५८ ॥

योनिजां गिरिजां कालीं तपोव्रतविवर्जिताम् ।
कथं सङ्गमकामोऽहं धर्तुमिच्छामि वै हठात् ॥ १५९ ॥

तपोव्रतपवित्राङ्गों तपश्चरणसत्कृताम् ।
स्वयमेव ग्रहीष्यामि सतीं दाक्षायणीमिव ॥ १६० ॥

कथं विकृतकामोऽहमनिच्छन्निव साम्प्रतम् ।
केनापि चाकृष्ट इव चिकीर्षुः सङ्गमोद्भवम् ॥ १६१ ॥

एवं विकारहेतुं स निश्चिन्वन्निन्द्रियस्य तु ।
पुरोऽवलोकयामास संहितेषुं मनोभवम् ॥ १६२ ॥

एतस्मिन्नन्तरे ब्रह्मा विज्ञातसमयः सुरान् ।
दृष्ट्वा स्थानादाजगाम तत्समाजमनुग्रहात् ॥ १६३ ॥

ततः स कुपितो दृष्ट्वा सन्धितेषुं मनोभवम् ।
जज्वाल ज्वलनप्रख्यस्तं दिधक्षुः प्रसह्य तु ॥ १६४ ॥

कामोऽयं समयं ज्ञात्वा मां मोहयितुमिच्छति ।
मनो मे स्ववशं कर्तुं तन्नयामि यमक्षयम् ॥ १६५ ॥

एवं विचिन्त्यमानस्य नेत्रोद्भाविततेजसा ।
वर्धतो ज्वलनो भूत्वा क्रोधं नेत्रात् ससर्ज ह ॥ १६६ ॥

तं क्रोधान्निःसरिष्यन्तं जातवेदःस्वरूपिणम् ।
ज्ञात्वा कामस्य तान् बाणान् पौष्पचापनिषण्णकान् ॥ १६७ ॥

शक्तिं प्राणांस्तथात्मानमाकृष्यापालयद्विधिः ।
उत्सारयामास तदा वसन्तं स पितामहः ॥ १६८ ॥

निजशक्त्या तदा शम्भुक्रोधाद्रक्षन्मनोभवम् ।
अथाकाशगता देवाः क्रुद्धं दृष्ट्वा महेश्वरम् ॥ १६९ ॥

प्रसीद जगतां नाथ कामे क्रोधं परित्यज ।
त्वया यथा पुरा सृष्टः शम्भुरूपेण कर्मणा ॥ १७० ॥

येन चायोजितं कर्म तत्करोति मनोभवः ।
तस्मात् त्वं मदने शम्भो क्रोधाग्निमुपसंहर ॥ १७१ ॥

प्रसीद सर्वभूतेश भक्तया त्वां प्रणता वयम् ।
इति स्म वदतां तेषाममराणां तदानलः ॥ १७२ ॥

ललाटचक्स्।उःसम्भूतो भस्माकार्षीन्मनोभवम् ।
दग्ध्वा कामं तदा वह्निर्ज्वालामालातिदीपितः ॥ १७३ ॥

संस्तम्भितोऽथ विधिना हरं गन्तुं शशाक न ।
महादेवोऽपि तद्भस्म मनोभवशरीरजम् ॥ १७४ ॥

आदाय सर्वगात्रेषु भूतिलेपं तदाकरोत् ।
लेपशेषाणि भस्मानि समादाय तदा हरः ॥ १७५ ॥

सगणोऽन्तर्दधे कालीं विहाय विधिसम्मते ।
ब्रह्मा क्रोधानलं शम्भोर्दहन्तं सकलान् सुरान् ॥ १७६ ॥

वडवारूपिणं चक्रे देवानां पुरतस्तदा ।
वडवां तां तदा देवाः सौम्यां ज्वालामुखीं शुभाम् ॥ १७७ ॥

दृष्ट्वा निर्विघ्नमनसो बभुवुः पूर्वपीडिताः ।
वडवां तां समादाय तदा ज्वालामुखीं विधिः ॥ १७८ ॥

सागरं प्रययौ लोकहिताय जगताम्पतिः ।
गत्वाथ सागरं ब्रह्मा प्रोवाच परिपूजितः ॥ १७९ ॥

यथावत्तेन विप्रेन्द्राः समयं च निवेदयन् ।
अयं क्रोधो महेशस्य वडवारूपधृक् त्वया ॥ १८० ॥

ज्वालामुखः सदा धार्यो यावन्न विनयाम्यहम् ।
यदा त्वामहमागम्य वदामि सरितां पते ॥ १८१ ॥

तदा त्वया परित्याज्यः क्रोधोऽयं वडवामुखः ।
भोजनं भवतस्तोयमेतस्य तु भविष्यति ॥ १८२ ॥

यत्नादेवं विधार्योऽयं यथा नो याति चान्तरम् ।
इत्युक्तो ब्रह्मणा सिन्धुरङ्गीचक्रे तदा क्रुधम् ॥ १८३ ॥

ग्रहीतुं वडवावक्त्रे शम्भोश्चाशक्यमप्यरम् ।
ततः प्रविष्टो जलधौ पावको वडवामुखः ॥ १८४ ॥

वार्योधान्निदहन् सम्यग् ज्वालामालातिदीपितः ।
अदाभवच्छम्भुनेत्राद् ददाह मदनं तदा ॥ १८५ ॥

अभवत् सुमहाशब्दो येनाकाशः प्रपूरितः ।
तेन शब्देन महता कामदाहे क्षणेन च ॥ १८६ ॥

सखीभ्यां सह भीताभूत् काली शोकयुता तदा ।
तेन शब्देन हिमवांश्चकितो विस्मितस्तदा ॥ १८७ ॥

सुतामेव जगामाशु गतां कालीं हराश्रमम् ।
तां तत्र कालीं तनयां भयशोकाकुलां शुभाम् ।
रुदन्तीं शम्भुविरहादाससादाचलेश्वरः ॥ १८८ ॥

आसाद्य् पाणिना तस्या मार्जयन्नयनद्वयम् ।
मा भैषीः कालि मा रोदीरित्युक्त्वा तां तदाग्रहीत् ॥ १८९ ॥

क्रोडीकृत्य सुतां तां तु हिमवान्नचलेश्वरः ।
स्वमालयमथानिन्ये सान्त्वयामास चार्दिताम् ॥ १९० ॥

अन्तर्हिते हरे काली विरहात् तस्य सन्ततम् ।
निवसन्ती पितुर्गेहे शुशोच च मुमोह च ॥ १९१ ॥

शैलाधिराजोऽप्यथ मेनकाऽपि
मैनाकमुख्योऽपि सखीद्वयं च ।
तां सान्त्वयाञ्चक्रुरदीनसत्त्वां
हरं विसस्मार तथापि नोमा ॥ १९२ ॥
मूलम्
शैलाधिराजोऽप्यथ मेनकाऽपि
मैनाकमुख्योऽपि सखीद्वयं च ।
तां सान्त्वयाञ्चक्रुरदीनसत्त्वां
हरं विसस्मार तथापि नोमा ॥ १९२ ॥
विश्वास-प्रस्तुतिः
इति श्रीकालिकापुराणे द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥