विश्वास-प्रस्तुतिः
एकचत्वारिंशोऽध्यायः
ऋषय ऊचुः
कथं गिरिसुता काली बभूव जगतां प्रसूः ।
दाक्षायणी त्यक्ततनुः कथमाप हरं पतिम् ॥ १ ॥
मूलम्

कथमर्धशरीरं सा जहार च पिणाकिनः ।
एतन्नः पृच्छतां सम्यक् कथयस्व महामते ॥ २ ॥

मार्कण्डेय उवाच
शृणुध्वं मुनिशार्दूला यथा दाक्षायणी सती ।
भूता गिरिसुता पूर्वं यथार्धमहरत्तनुम् ॥ ३ ॥

यदाऽत्यजत्तनुं देवी पूर्वं दाक्षायणी सती ।
तदैव मनसागच्छन् मेनकां हिमवद्गिरिम् ॥ ४ ॥

यदा हरेण सहिता दक्षकन्या हिमाचले ।
चिक्रीड च तदा तस्या मेनकाऽभूद् हितैषिणी ॥ ५ ॥

अस्याः सुता स्यामिति च आधाय मनसि द्विजाः ।
त्यक्तप्राणा तदा देवी भूता हिमवतः सुता ॥ ६ ॥

यदा दाक्षायणी प्राणान् दक्षकोपाज्जहौ पुरा ।
तदैव मेनका देवी आरिराधयिषुः शिवम् ॥ ७ ॥

महामायां जगद्धात्रीं योगनिद्रां सनातनीम् ।
मोहिनीं सर्वभूतानां शरणं सर्वनाकिनाम् ॥ ८ ॥

अष्टम्यामुपवासं तु कृत्वा सा नवमीतिथौ ।
मोदकैर्वलिभिः पिष्टैः पायसैर्गन्धपुष्पकैः ॥ ९ ॥

चैत्रे मासि समारभ्य सप्तविंशतिवासरान् ।
यावत् सम्पूजयामास पुत्रार्थिन्यन्वहं शुचिः ॥ १० ॥

गङ्गायामोषधिप्रशे कृत्वा मूर्तिं महीमयीम् ।
कदाचित् सा निराहारा कदाचित् सा धृतव्रता ॥ ११ ॥

शिवाविन्यस्तमनसा सप्तविंशतिवत्सरान् ।
निनाय मेनका देवी परमां भूतिमिच्छती ॥ १२ ॥

सप्तविंशतिवर्षान्ते जगन्माता जगन्मयी ।
सुप्रीताऽभवदत्यर्थं प्राह प्रत्यक्षतां गता ॥ १३ ॥

देव्युवाच
यत् प्रार्थितं त्वया देवि मत्तस्तत्प्रार्थयाधुना ।
दास्ये तवाहं तत्सर्वं वाञ्छितं यद् हृदा भवेत् ॥ १४ ॥
मूलम्
देव्युवाच
यत् प्रार्थितं त्वया देवि मत्तस्तत्प्रार्थयाधुना ।
दास्ये तवाहं तत्सर्वं वाञ्छितं यद् हृदा भवेत् ॥ १४ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
ततः सा मेनका देवी प्रत्यक्षं कालिकां गताम् ।
दृष्ट्वैव प्रणनामाथ वचनं चेदमब्रवीत् ॥ १५ ॥

देवी प्रत्यक्षतो रूपं तव दृष्टं मयाऽधुना ।
त्वामहं स्तोतुमिच्छामि प्रसन्ना यदि मे शिवे ॥ १६ ॥

ततः सा मातरित्युक्त्वा कालिका सर्वमोहिनी ।
बाहुभ्यां चारुवृत्ताभ्यां मेनकां परिषस्वजे ॥ १७ ॥

ततः सा मेनका देवी कालिकां परमेश्वरीम् ।
तुष्टाव वाग्भिरिष्टाभिः शिवां प्रत्यक्षतः स्थिताम् ॥ १८ ॥

मेनकोवाच
प्रेरयन्तीं जगद्धाम चण्डिकां लोकधारिणीम् ।
प्रणमामि जगद्धात्रीं सर्वकामार्थसाधिनीम् ॥ १९ ॥

इत्यानन्दां ज्ञानमयीं योगनिद्रां जगत्प्रसूम् ।
प्रणमामि शिवां शुद्धां विधिशौरिशिवात्मिकाम् ॥ २० ॥

मायामयीं महामायां भक्तशोकविनाशिनीम् ।
कामस्य वनितं भद्रां नमामि त्वां चित्ति शिवाम् ॥ २१ ॥

सत्त्वोद्रेकाद् या भवित्रीह नित्या
नित्या चापि प्राणिनां बुद्धिरूपा ।
सा त्वं बन्धच्छेदहेतुर्यतीनां
कस्ते गद्यो मादृशीभिः प्रभावः ॥ २२ ॥
मूलम्
सत्त्वोद्रेकाद् या भवित्रीह नित्या
नित्या चापि प्राणिनां बुद्धिरूपा ।
सा त्वं बन्धच्छेदहेतुर्यतीनां
कस्ते गद्यो मादृशीभिः प्रभावः ॥ २२ ॥
विश्वास-प्रस्तुतिः
या त्वं साम्नां सिद्धिरुक्थिस्तथार्चा
या वृत्तिर्या यजुषां दीर्घरूपा ।
हिंसा या वाऽथर्ववेदस्य सा त्वं
नित्यं कामं त्वं ममेष्त विधेहि ॥ २३ ॥
मूलम्
या त्वं साम्नां सिद्धिरुक्थिस्तथार्चा
या वृत्तिर्या यजुषां दीर्घरूपा ।
हिंसा या वाऽथर्ववेदस्य सा त्वं
नित्यं कामं त्वं ममेष्त विधेहि ॥ २३ ॥
विश्वास-प्रस्तुतिः
नित्यानित्यर्भागहीनैः पुरस्थै स्तन्मात्रैर्यैर्यत्यते भूतवर्गः ।
तेषां शक्तिस्त्वं सदा नित्यरूपा
का ते योषा योग्यं वक्तुं समर्था ॥ २४ ॥

क्षितिर्धरित्री जगतां त्वमेव
त्वमेव नित्या प्रकृतिस्वरूपा ।
यया वशः क्रियते ब्रह्मरूपः
सा त्वं नित्या मे प्रसीदास्तु मातः ॥ २५ ॥

त्वं जातवेदोगतशक्तिरूपा त्वं दाहिका सूर्यकरस्य शक्तिः ।
आह्लादिका त्वं बहु चन्द्रिकाया-
स्तां तामहं स्तौमि नमामि चाम्बिकाम् ॥ २६ ॥

योषा योषित्प्रियाणां त्वं विद्या त्वं चोर्ध्व रेतसाम् ।
वाञ्छा त्वं सर्वजगतां माया च त्वं तथा हरेः ॥ २७ ॥

याऽनेकरूपाणि विधाय नित्यं
सृष्टिं स्थितिं हानिमपीह कर्त्री ।
ब्रह्माच्युतस्थाणुशरीरहेतुः
सा त्वं प्रसीदाद्य पुनर्नमस्ते ॥ २८ ॥
मूलम्
याऽनेकरूपाणि विधाय नित्यं
सृष्टिं स्थितिं हानिमपीह कर्त्री ।
ब्रह्माच्युतस्थाणुशरीरहेतुः
सा त्वं प्रसीदाद्य पुनर्नमस्ते ॥ २८ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
ततः सा जगतां माता कालिका पुनरेव हि ।
उवाच मेनकां देवीं वाञ्छितं वरयेत्युत ॥ २९ ॥

ततः सा प्रथमं पुत्रशतं वब्रे यशस्विनी ।
वीर्यवच्चायुषा युक्तमृद्धिसिद्धिसमन्वितम् ॥ ३० ॥

पश्चात् तथैकां तनयां सुरूपां गुणशालिनीम् ।
कुलद्वयानन्दकरीं भुवनत्रदुर्लभाम् ॥ ३१ ॥

ततो भगवती प्राह मेनकां मुनिसन्निभाम् ।
स्मितपूर्वं तदा तस्याः पूरयन्ती मनोरथम् ॥ ३२ ॥

शतं पुत्राः सम्भवन्तु भवत्या वीर्यसंयुताः ।
तत्रैको बलवान्मुख्यः प्रथमं सम्भविष्यति ॥ ३३ ॥

सुता च तव देवानां मानुषाणां च रक्षसाम् ।
हिताय सर्वजगतां भविष्याम्यहमेव ते ॥ ३४ ॥

वं सुखप्रसवा नित्यं तथा नित्यं पतिव्रता ।
अम्लाना रूपसम्ना सुभगा च भविष्यसि ॥ ३५ ॥
मूलम्
वं सुखप्रसवा नित्यं तथा नित्यं पतिव्रता ।
अम्लाना रूपसम्ना सुभगा च भविष्यसि ॥ ३५ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
एवमुक्ता जगद्धात्री तत्रैवान्तरधीयत ।
मेनका च मुदं लब्धा स्वस्थानं प्रविवेश ह ॥ ३६ ॥

ततः काले तु सम्प्राप्ते मैनाकमचलोत्तमम् ।
पक्षेण सह योऽद्यापि सिन्धुमध्ये प्रवर्तते ॥ ३७ ॥

मेनका सुषुवे देवी देवेन्द्रं स्पर्धयागतम् ।
अन्यानूनशतं पुत्रान् क्रमात् सा सुषुवे सती ॥ ३८ ॥

महावीर्यान् महासत्त्वान् सर्वतो गुणैः ।
ततः सा कालिका देवी योगनिद्रा जगन्मयी ॥ ३९ ॥

पूर्वत्यक्तसतीरूपा जन्मार्थं मेनकां ययौ ।
समयस्यानुरूपेण मेनका जठरे शिवा ॥ ४० ॥

समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् ।
वसन्तसमये देवी नवम्यामृक्षयोगतः ॥ ४१ ॥

अर्धरात्रे समुत्पन्ना गङ्गेव शशिमण्डलात् ।
ततस्तस्यां तु जातायां प्रसन्ना अभवन् दिशः ॥ ४२ ॥

अनुकूलो ववौ वायुर्गम्भीरो गन्धवाञ् शुभः ।
वभूव पुष्पवृष्टिश्च तोयवृष्टिस्तथापरा ॥ ४३ ॥

जज्वलुश्चाग्न्यः शान्ता जगर्जुश्च घनाघनम् ।
तस्यां तु जातमात्रायां सर्वं स्वास्थ्यमपद्यत ॥ ४४ ॥

तां तु दृष्ट्वा तथा जातां नीलोत्पलदलानुगाम् ।
श्यामां सा मेनका देवी मुदमापातिहर्षिता ॥ ४५ ॥

देवाश्च हर्षमतुलं प्रापुस्तत्र मुहुर्मुहुः ।
तुष्टुवुश्चान्तरिक्षस्था गन्धर्वाप्सरसां गणाः ॥ ४६ ॥

तां तु नीलोत्पलदलश्यामां हिमवतः सुताम् ।
कालीति नाम्ना हिमवानाजुहाव कृतोदने ॥ ४७ ॥

आन्धवैस्तु समस्तैस्तन्नाम्ना सा पार्वतीति च ।
कालीति च तथा नाम्ना कीर्तिता गिरिनन्दिनी ॥ ४८ ॥

ततः सा ववृधे देवी गिरिराजगृहे शुभा ।
गङ्गेव वर्षासमये शरदीवाथ चन्द्रिका ॥ ४९ ॥

धमानानुदिवसं चार्वङ्गी चारुतां मुहुः ।
अघ्रे सानुदिनं काली चन्द्रबिम्बं कलामिव ॥ ५० ॥

सा बालभावमापन्ना क्रीडन्ती कालिका मुदम् ।
सखीभिः प्राप विपुलां कालिन्दीव सरिद्व्रजैः ॥ ५१ ॥

षड्गुणास्तां स्वयं देवीं पूर्वजन्मवशीकृताः ।
स्वयमीयुर्द्विजश्रेष्ठाः प्रावृषं कालिका यथा ॥ ५२ ॥

अतिचक्राम स्वगुणैः सा देवी देवकन्यकाः ।
रूपैरप्सरसः सर्वा गीतैर्गन्धर्वकन्यकाः ॥ ५३ ॥

सा बाल्य एव सततं बन्धुवर्गप्रिया शुभा ।
गुणैः स्वबन्धून् पितरं मातरं चाप्यतोषयत् ॥ ५४ ॥

मातुः स्तुतिकरी नित्यं पितृपूजनतत्परा ।
सर्वदा भ्रातृसहिता जगन्माताऽभवत्तदा ॥ ५५ ॥

सर्वदा सा जगन्माता कन्या सा समुपस्थिता ।
पितुः समीपे वसति कालिन्दीव विभावसोः ॥ ५६ ॥

अथैकदा तां निकटे निधाय हिमवद्गिरिः ।
तनयैः सह सङ्गम्य स्थितः परमकौतुकात् ॥ ५७ ॥

अथागतस्तत्र मुनिर्नारदो देवलोकतः ।
हिमवन्तं सुखासीनं सुतैः सार्धं ददर्श सः ॥ ५८ ॥

अपश्यन्निकटे कालीम् आलिकामिव सूर्यतः ।
ज्योत्स्नामिव सुधांशोस्तु सम्यग्वृद्धां शरन्निशि ॥ ५९ ॥

पूजितस्तेन गिरिणा कृतासन-परिग्रहः ।
नारदः प्रथमं शैलं वृत्तान्त पर्यपृच्छत ॥ ६० ॥

ततो विदितवृत्तान्तो नारदो मेनकां प्रति ।
उवाच हर्षयन् वाक्यं मुनिर्वाक्यविशारदः ॥ ६१ ॥

नारद उवाच
एषा ते तनया रुच्या शुद्धांशोरिव वर्धिता ।
आद्या कला शैलराज सर्वलक्षणशालिनी ॥ ६२ ॥

शम्भोर्भवित्री दयिता सानुकूला सदा हरेः ।
तस्य चित्तं वशे चैषा करिष्यति तपस्विनी ॥ ६३ ॥

स चाप्येनामृते जायां नान्यामुद्वाहयिष्यति ।
एतयोर्यादृशः प्रेमा कयोश्चिन्नैव तादृशः ॥ ६४ ॥

भूतो वा भविता वापि नाधुना च प्रवर्तते ।
अनया सुरकार्याणि कर्तव्यानि बहूनि च ॥ ६५ ॥

अनयैव गिरिश्रेष्ठ अर्धनारीश्वरो हरः ।
भविष्यति च सौहार्दाज्योत्स्नयैवामृतात्मनः ॥ ६६ ॥

शरीरार्धं हरस्यैषा करिष्यति निजास्पदे ।
स्वर्णगौरी सुवर्णाभा तपसा तोषिते हरे ॥ ६७ ॥

विद्युद्गौरी त्वियं काली तव पुत्री भविष्यति ।
गौरीति नाम्ना पश्चात्तु ख्यातिमेषा गमिष्यति ॥ ६८ ॥

नान्यस्मै त्वमिमां दातुं मनः कर्तुमिहार्हसि ।
इदं चोपांशु देवानां न प्रकाशं करिष्यसि ॥ ६९ ॥
मूलम्
नान्यस्मै त्वमिमां दातुं मनः कर्तुमिहार्हसि ।
इदं चोपांशु देवानां न प्रकाशं करिष्यसि ॥ ६९ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति तस्य वचः श्रुत्वा देवर्षेर्नारदस्य च ।
उवाच हिमवान् वाक्यं मुनिं प्रति विशारदः ॥ ७० ॥

हिमवानुवाच
श्रूयते त्यक्तसङ्गः स महादेवो यतात्मवान् ।
तपशोपांशु तपति देवानामप्यगोचरः ॥ ७१ ॥

स कथं ध्यानमार्गस्थः परब्रहार्पितं मनः ।
भ्रंशयिष्यति देवर्षे तत्र मे संशयो महान् ॥ ७२ ॥

अक्षरं परमं ब्रह्म प्रदीपकलिकोपमम् ।
सोऽन्तः पश्यति सर्वत्र न तु बाह्यं निरीक्षते ॥ ७३ ॥

इति स्म श्रूयते नित्यं किन्नराणां मुखाद् द्विज ।
स कथं तादृशं स्वान्तं शक्तो भ्रंशयितुं हरः ॥ ७४ ॥

विशेषतः श्रूयते स्म दाक्षायण्या समं हरः ।
समयं ज्ञातवान् पूर्वं तन्मे निगदतः शृणु ॥ ७५ ॥

त्वामृतेऽन्यां न वनितां दाक्षायणि सति प्रिये ।
भार्यार्थे सङ्ग्रहीष्यामि सत्यमेतद् ब्रवीमि ते ॥ ७६ ॥

इति सत्या समं तेन पुरैव समयः कृतः ।
तस्यां मृतायां स कथं स्त्रियमन्यां ग्रहीष्यति ॥ ७७ ॥

नात्रा कार्या त्वया चिन्ता गिरिराज भवत्सुता ।
एषा सती समुत्पन्ना हरायैव न संशयः ॥ ७८ ॥
मूलम्
नारद उवाच
नात्रा कार्या त्वया चिन्ता गिरिराज भवत्सुता ।
एषा सती समुत्पन्ना हरायैव न संशयः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इत्युक्त्वा स तु देवर्षिर्नारदस्तु यथा सती ।
मेनकायां समुत्पन्ना सर्वं तत् प्रोक्तवान् गिरौ ॥ ७९ ॥

तत्सर्वं पूर्ववृत्तान्तं नारदस्य मुखाद् गिरिः ।
श्रुत्वा सपुत्रदारः स तदा निःसंशयोऽभवत् ॥ ८० ॥

ततः काली कथां श्रुत्वा नारदस्य मुखात् तदा ।
लज्जयाऽधोमुखी भूत्वा स्मितविस्तारितानना ॥ ८१ ॥

करेण तां तु सङ्गृह्य प्रोन्नमय्य मुखं गिरिः ।
मूर्ध्नि सम्यगुपाघ्राय स्वासने सन्न्यवेशयत् ॥ ८२ ॥

ततस्तां पुनरेवाह नारदः शैलपुत्रिकाम् ।
हर्षयन् गिरिराजं तु मेनकां तनयैः सह ॥ ८३ ॥

सिंहासनेन किं स्वस्याः शैलराज भवेत् तव ।
शम्भोरूरुः सदैवास्या आसनं तु भविष्यति ॥ ८४ ॥

हरोरुमासनं प्राप्य तनया तव सन्ततम् ।
नान्यत्र कुत्रचित्तुष्टिमासने प्राप्यते गिरे ॥ ८५ ॥
मूलम्
हरोरुमासनं प्राप्य तनया तव सन्ततम् ।
नान्यत्र कुत्रचित्तुष्टिमासने प्राप्यते गिरे ॥ ८५ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति वचनमुदारं नारदः शैलराजं
त्रिदिवमगमदुक्त्वा तत्क्षणाद् देवयानैः ।
गिरिपतिरपि चिन्ताहर्षसन्मोहयुक्तः
प्रविशदचलयासौ स्वान्तरं पद्मगर्भम् ॥ ८६ ॥

इति श्रीकालिकापुराणे नारदागमने एकचत्वारिंशोऽध्यायः ॥ ४१ ॥