विश्वास-प्रस्तुतिः
चत्वारिंशोऽध्यायः
मार्कण्डेय उवाच
ऋतुमत्यां तु जायायां काले स नरकः क्रमात् ।
भगदत्तं महाशीर्षं मदवन्तं सुमालिनम् ॥ १ ॥
मूलम्

चतुरो जनयामास पुत्रानेतान् क्षितेः सुतः ।
महासत्त्वान् महावीर्यान् वीरैरन्यैर्दुरासदान् ॥ २ ॥

ततो बाणस्य वचनाद् हयग्रीवं तथा मुरुम् ।
सन्धायाथ समानीय सैनापत्येऽभ्यस्।एचयत् ॥ ३ ॥

मुरुं सन्निहितं श्रुत्वा हयग्रीवं च भौमिना ।
ये ये क्षितौ तदा ह्यासन्नसुरास्तेऽपि सङ्गताः ॥ ४ ॥

हयग्रीवं मुरुं श्रुत्वा नरकेण समागतम् ।
निसुन्दसुन्दनामानावसुरौ सैनिकैः सह ॥ ५ ॥

विरूपाक्षस्तदा दैत्यः सर्वे तेन समागमन् ।
ततः स पश्चिमद्वारि नरकः सेनया सह ॥ ६ ॥

मुरुं द्वाराधिपं चक्रे हयग्रीवं तथोत्तरे ।
पूर्वद्वारि निसुन्दन्तु विरूपाक्षं तु दक्षिणे ॥ ७ ॥

मध्ये पञ्चजनं सुन्दं सैनापत्येऽभ्यषेचयत् ।
मुरुं क्षुरान्तान् पाशांश्च षट्सहस्राण्ययोजयत् ॥ ८ ॥

द्वारि तत् पुररक्षार्थं सत्कृतः क्षितिसूनुना ।
एवं पूर्वान् पूर्वतरानवमत्य सुमन्त्रिणः ॥ ९ ॥

असुरैरेव सततं सोऽसुरो मुदितोऽभवत् ।
पूर्वं गृहीतं भावं स परित्यज्य क्षितेः सुतः ॥ १० ॥

आसुरं भावमासाद्य बाधते त्रिदिवौकसः ।
न देवान् न मुनीन् सर्वान् न च जानाति कांश्चन ॥ ११ ॥

सुरेश्वरं जिगायाशु हयग्रीवसहायवान् ।
एवं स चासुरं भावं तन्वानो विचरन् क्षितौ ॥ १२ ॥

बाणस्य वचनाच्छक्रं बाधयत्येव वै मुनीन् ।
देवेश्वरं त्रिधा जित्वा हयग्रीव सहायवान् ॥ १३ ॥

अदित्याः कुण्डलयुगं त्रिषु लोकेषु विश्रुतम् ।
सर्वरत्नामृतस्रावि दुःखविघ्नहरं परम् ॥ १४ ॥

जहार नरको भौमो निर्भीतो मुनिशापतः ।
एवं देवान् बाधमानो मुनीन् विप्रान् क्षितेः सुतः ।
पञ्चवर्षसहस्राणि राज्यं प्राग्ज्योतिषेऽकरोत् ॥ १५ ॥

एतस्मिन्नन्तरे देवी महाभारार्दिता क्षितिः ।
ब्रह्मविष्णुमुखान् देवान् रक्षार्थं शरणं गता ।
इदं चोवाच धातारं प्रणम्योर्वी समाधवम् ॥ १६ ॥

पृथिव्युवाच
दानवा राक्षा दत्या हरिणा ये च सूदिताः ।
ते राज्ञां मन्दिरे जाता अधुना बलगर्विताः ॥ १७ ॥

तेषां भारमहं सोढुं न शक्नोमि महत्तरम् ।
असङ्ख्याताश्च ते सर्वेतान् सङ्ख्यातुं न चोत्सहे ॥ १८ ॥

अष्टौ शतसहस्राणि तेषां मुख्या महाबलाः ।
तेष्वप्यतिबलान् वोढुं न ताञ्छक्नोमि चाधुना ॥ १९ ॥

बाणं बलेः सुतं वीरं कंस धेनुकमेव च ।
अरिष्टं च प्रलम्बं च सुनामानं मुरुं शलम् ॥ २० ॥

चारुणमुष्टिकौ मल्लौ जरासन्धं महाबलम् ।
नरकं च हयग्रीवं निसुन्दं सुन्दमेव च ॥ २१ ॥

विरूपाक्षं पञ्चजनं हिडिम्बं च बकं बलम् ।
जटासुरं च किर्मीरमनायुधमलम्बुषम् ॥ २२ ॥

सौभाख्यं च जरासन्धं द्विविदं चापि वानरम् ।
श्रुतायुधं महादैत्यं शतायुधमथापरम् ॥ २३ ॥

ऋष्यशृङ्गसुतं चैव सुबाहुमतिबाहुकम् ।
कालकञ्जांस्तथा दैत्यान् हिरण्यपुरवासिनः ॥ २४ ॥

एतेषां तु पदक्षोभर्विशीर्णाहं दिने दिने ।
लोकान् वोढुं न शक्नोमि तान्निघ्नन्तु सुरोत्तमाः ॥ २५ ॥

नचेद्रक्षां प्रकुर्वन्ति भवन्तः सुरसत्तमाः ।
तदा विशीर्णा यास्यामि पातालमवशाऽधुना ॥ २६ ॥
मूलम्
नचेद्रक्षां प्रकुर्वन्ति भवन्तः सुरसत्तमाः ।
तदा विशीर्णा यास्यामि पातालमवशाऽधुना ॥ २६ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
ततस्तस्या वचः श्रुत्वा ब्रह्मविष्णुमहेश्वराः ।
इत्यूचुस्ते करिष्यामः क्षिते भारविमोक्षणम् ॥ २७ ॥

विसृज्य पृथिवीं देवीं सर्वे देवाः सनातनम् ।
माधवं तोषयामासुर्भारावतरणं प्रति ॥ २८ ॥

स तु तुष्टः सुरान् सर्वान् स्वांशैरवतरन्तु वै ।
क्षितौ भारावतारायेत्युक्त्वा स्वयमिह प्रभुः ॥ २९ ॥

अवतीर्णोऽथ देवक्या गर्भे भारावतारणे ।
विष्णुं चावतरिष्यन्तं ज्ञात्वा देवाः सनातनम् ॥ ३० ॥

रम्भातिलोत्तमाद्याश्च देव्यो रूपगुणान्विताः ।
क्षितावुत्पादयामासुः सहस्राणि तु षोडश ॥ ३१ ॥

ताः सर्वा हिमवत्पृष्ठे क्रीडमाना वरस्त्रियः ।
अपश्यन्नरको भौमस्ता जहार तदा हठात् ॥ ३२ ॥

तेन ता धर्षिता देव्यो नीताः प्राग्ज्योतिषं प्रति ।
नरकं प्रार्थयामासुः समयं मैथुनं प्रति ॥ ३३ ॥

नारदो यावदायाति नगरं प्रति भौम ते ।
अस्माकं कुरु रक्षां च तावन्नो मुञ्च मैथुने ॥ ३४ ॥

स समेष्यति वीर त्वां न चिरान्नो ह्यनुग्रहात् ।
तेन दृष्टा वयं सार्धमेष्यामः सङ्गमं त्वया ॥ ३५ ॥

इति सम्प्रार्थितस्ताभिर्नरको भूमिनन्दनः ।
ब्रह्मवाक्यं तदा स्मृत्वा एवमस्तूचिवान् मुहुः ॥ ३६ ॥

एतस्मिन्नन्तरे देवो भगवान् लोकभावनः ।
देवक्या जठराज्जातो वृद्धो नन्दगृहेऽभवत् ॥ ३७ ॥

कंसकेशिप्रलम्बादीन् हत्वा दैत्याननेकशः ।
अकरोद् द्वारकावासं सागरे सलिलान्तरे ॥ ३८ ॥

तत्राष्टौ कन्यकास्तेन स्वधर्मेण च स्वीकृताः ।
कालिन्दी मानुषीरूपा रुक्मिणी रमणी ततः ॥ ३९ ॥

नग्नजित्तनया सत्या लक्ष्मणा चारुहासिनी ।
सुशीला शीलसम्पन्ना तथ जाम्बवती सती ॥ ४० ॥

एतासु स्त्रीषु च ततो ह्यनुरक्तस्य तस्य वै ।
षट्त्रिंशद्वत्सरा जाता बलदेवसहायिनः ॥ ४१ ॥

प्रद्युम्नसाम्बप्रमुखाः पुत्रास्तस्य महाबलाः ।
जातास्तत्र द्विजश्रेष्ठाः शास्त्रे शस्त्रे च कोविदाः ॥ ४२ ॥

अनेके निहता दैत्या भारभूतास्तदा क्षितेः ।
प्रहृष्टः क्रीडमानश्च द्वारकायामुवास सः ॥ ४३ ॥

अथ शक्रस्तदायातो नरकेणार्दितो भृशम् ।
द्वारकां प्रति कृष्णस्य दर्शनाय गणैः सह ॥ ४४ ॥

तत्र गत्वा परिष्वज्य कृष्णं लोकनमस्कृतम् ।
पूजितस्तेन बहुश आसने काञ्चने स्थितः ॥ ४५ ॥

कथयामास हरये नरकस्य विचेष्टितम् ।
शक्रो यथा पूर्ववृत्तं यथा वा वर्ततेऽधुना ॥ ४६ ॥

शक्र उवाच
शृणु कृष्ण महाबाहो यदर्थमहमागतः ।
कथयिष्यामि तत् सर्वं तत्र शङ्कां न सङ्कुरु ॥ ४७ ॥

भूमिपुत्रोऽसुरो नाम्ना नरकः सुरमर्दनः ।
चिरञ्जीवी पुरा विष्णुक्षितिभ्यां परिपालितः ॥ ४८ ॥

अधुना स क्षितिं विष्णुमवज्ञाय दुरासदः ।
वाणस्य वचनाद् भौमो ब्रह्माऽं पर्यतोषयत् ॥ ४९ ॥

ब्रह्मतः स वरान् लब्ध्वा ह्यतीवाभूत् प्रदर्पितः ।
माधवं पृथिवीं वापि सस्मार न कदाचन ॥ ५० ॥

पूर्वमासीत् स धर्मात्मा ह्याराधितसुरो व्रती ।
अधुना बाधते सर्वानासुरं भावमाश्रितः ॥ ५१ ॥

अदितेः कुण्डले मोहाज्जहारामृतसम्भवे ।
देवानृषीन् बाधमानो विप्राणामप्रिये रतः ॥ ५२ ॥

मां चापि बाधते नित्यं कामगामी दुरासदः ।
जेता तु सुरदैत्यानामवध्यः सर्वदेहिनाम् ॥ ५३ ॥

तव चाप्यन्तरप्रेक्षी तं पापं जहि भूतये ।
त्वदर्थं सर्वदेवैर्या देवगन्धर्वकन्यकाः ॥ ५४ ॥

पुरा पर्वतमुख्ये तु हिमवत्यवतारिताः ।
चतुर्दश सहस्राणि सहस्रे द्वै शताधिके ॥ ५५ ॥

ताः सर्वाः कन्यकाः पापः प्रसह्य वरदर्पितः ।
जहार स दुराधर्षो हयग्रीवसहायवान् ॥ ५६ ॥

सागरे यानि रत्नानि पृथिभ्यां च त्रिविष्टपे ।
तानि सर्वाणि संहृत्य प्रमथ्य सुरमानुषान् ॥ ५७ ॥

तीरे लौहित्यतीर्थस्य सोऽकरोन्मणिपर्वतम् ।
तस्मिन् गिरौ पुरीं रम्यां कारयित्वाऽलकाह्वयाम् ॥ ५८ ॥

ताः सर्वा वासयामास देवगन्धर्वयोषितः ।
एकवेणीधराः सर्वाः सम्भोगपरिवर्जिताः ॥ ५९ ॥

त्वामेव ताः प्रतीक्षन्ते सनाथाः कुरु कृष्ण ताः ।
यावदागच्छति पुरं भवतो नारदो मुनिः ॥ ६० ॥

तावन्न मैथुने यत्नं भौम त्वं सङ्करिष्यसि ।
इति ताः समयं चक्रुर्नरकस्य दुरात्मनः ॥ ६१ ॥

नारदश्च तदायातः प्राग्ज्योतिषपुरं प्रति ।
यदा त्वं नरकं हन्तुं गन्ता तत्पुरमुत्तमम् ॥ ६२ ॥

तस्मात् त्वं पापकर्माणं नरकं नरकोपमम् ।
जहि देवमनुष्याणां कण्टकं तं दुरासदम् ॥ ६३ ॥

बधात् तस्य क्षितिर्देवी पुत्रशोकं न चाप्स्यति ।
स्वयमेव वधं तस्य देवेभ्यो यदयाचत ॥ ६४ ॥

तस्मात् तं जहि पापिष्ठं नरकं पापपुरुषम् ।
स्त्रीरत्नान्यपि रत्नानि तं निहत्य समुद्धर ॥ ६५ ॥

इत्युक्तो जगतां नाथः शक्रेण सुमहात्मना ।
प्रतिजज्ञे क्षितिसुतं हन्तुं प्रति तदैव हि ॥ ६६ ॥

प्रतिज्ञाय वधं तस्य शक्रेण सह केशवः ।
तदैव यात्रामकरोत् प्राग्ज्योतिषपुरं प्रति ॥ ६७ ॥

आरुह्य गरुडं कृष्णः सत्यभामाद्वितीयकः ।
प्राग्ज्योतिषमुखोअ।गच्छद्वासवस्त्रिदिवं ययौ ॥ ६८ ॥

दिवमाक्रम्य गच्छन्तौ कृष्णशक्रौ महाद्युती ।
यादवा ददृशुस्तत्र सूर्याचन्द्रमसौ यथा ॥ ६९ ॥

संस्तूयमानौ गन्धर्वैर्देवैरप्सरसां गणैः ।
कृष्णः शक्रः क्षणादेव गतौ खे तावदृश्यताम् ॥ ७० ॥

ततः क्षणेन गरुडेनाससाद जगत्पतिः ।
पुरं प्राग्ज्योतिषं रम्यं नरकेण वशीकृतम् ॥ ७१ ॥

स दुर्गं मौरवैः पाशैः षट्सहस्रैर्भयङ्करैः ।
क्षुरान्तैर्वेष्टितं पार्श्वे मृत्युपाशैरिवोच्छ्रितम् ॥ ७२ ॥

निर्गच्छन्तं पुरात् तस्मात् नारदं च ददर्श सः ।
स तु देवमुनिः श्रीमान् यदागान्नरकं प्रति ॥ ७३ ॥

तदा प्राग्ज्योतिषं गत्वा सत्कृतस्तेन नारदः ।
सङ्गमे समयं प्रोचे नरकाय स योषिताम् ॥ ७४ ॥

प्रवर्ततेऽद्य चैत्रस्य शुक्लपक्षस्य पञ्चमी ।
नवम्यां तु धरापुत्र प्राप्नोसिमहदापदम् ॥ ७५ ॥

तदा यदि चतुर्दश्यां सुस्नाता योषितस्त्विमाः ।
सुरतेषु त्वया तत्र प्रोयोक्तव्या यथासुखम् ॥ ७६ ॥

नारदस्य वचः श्रुत्वा नरको भयमोहितः ।
आसारं च प्रसारं च नगरे सन्यवेशयत् ॥ ७७ ॥

रक्षिभी रक्षितं राज्यं रक्षितं च समन्ततः ।
भयहर्षयुतो भौमः समयं समवैक्षत ॥ ७८ ॥

तस्मिन्नवसरे प्राप कृष्णः प्राग्ज्योतिषं पुरम् ।
प्रथमं पश्चिमं द्वारमासाद्य गरुडध्वजः ॥ ७९ ॥

पाशानां षट्सहस्राणि क्षुरान् सञ्छिद्य नैकधा ।
जघान स मुरुं दैत्यं सानुगं च सबान्धवम् ॥ ८० ॥

षट्सहस्रा महावीरा दानवा द्वारि संस्थिताः ।
हताश्चक्रेण हरिणा तदैव मुरुणा सह ॥ ८१ ॥

मुरुं हत्वा सहस्राणि पुत्रांस्तस्यापरांश्च षट् ।
जघान चक्रेण तदा खण्डशोऽन्यांश्च दानवान् ॥ ८२ ॥

ततोऽनेकशिलासङ्घानतिक्रम्य जनार्दनः ।
सगणं सानुगं चैव निसुन्दं समपोथयत् ॥ ८३ ॥

एको यो योधयेद्देवान् सहस्रं वत्सरान् पुरा ।
शक्रं च समतिक्रम्य महावीरपराक्रमः ॥ ८४ ॥

तं जघान हयग्रीवं समतिक्रम्य केशवः ।
मध्ये लौहित्यसञ्ज्ञस्य भगवान् देवकीसुतः ॥ ८५ ॥

औदकायां विरूपाक्षं सुन्दं हत्वा महाबलः ।
ततः पञ्चजन वीर जघान परमेश्वरः ॥ ८६ ॥

एतान् हत्वा महाकायान् महावीर्यान् दुरासदान् ।
आससाद जगन्नाथः पुर प्राग्ज्योतिषाह्वयम् ॥ ८७ ॥

वियत्स्थैर्दैवतैः सर्वैर्नारदेन महात्मना ।
जयशब्दैः स्तूयामानः प्रविवेश यथेश्वरः ॥ ८८ ॥

श्रिया युक्तां दीप्यमानां प्राकाशाट्टालभूषिताम् ।
स मेने नगरीं विष्णुः किमिन्द्रस्यामरावती ॥ ८९ ॥

तत्र युद्धं महद्भूत नानाप्रहरणोद्यतम् ।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ।
यथा देवासुरं युद्धं तथैव समपद्यत ॥ ९० ॥
मूलम्
तत्र युद्धं महद्भूत नानाप्रहरणोद्यतम् ।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ।
यथा देवासुरं युद्धं तथैव समपद्यत ॥ ९० ॥
विश्वास-प्रस्तुतिः
ततः शार्ङ्ग विनिर्मुक्तैर्बाणैस्तान् दानवान् बहून् ।
निजघान महाबाहुर्गरुडस्थो जनार्दनः ॥ ९१ ॥

अष्टौ शतसहस्राणि अष्टौ शतशतानि च ।
हत्वासुरान् महाबाहुर्नरकं तं समासदत् ॥ ९२ ॥

ततः श्रुत्वा स नरकः पतितानसुरान् बहून् ।
दृष्ट्वा कृष्णं महाबाहुं गरुडस्थं महाबलम् ॥ ९३ ॥

वसिष्ठशापं सस्मार समयं माधवस्य च ।
नारदस्य वचश्चापि वरच्छिद्रं तथा विधेः ॥ ९४ ॥

स प्राप्तकालश्च तथा केशवेन समागतः ।
युद्धमेव परं मेने स्मरन् बाणवचस्तदा ॥ ९५ ॥

स काञ्चनं समारुह्य रथं वज्रध्वजं वरम् ।
लौहश्चक्राष्टसंयुक्तं त्रिनल्वप्रमितं रथम् ॥ ९६ ॥

युक्तमश्वसहस्रैस्तु वज्रध्वजविराजितम् ।
नानाप्रहरणोपेतं बहुतूणीरसंयुतम् ।
अगच्छत् समारायाशु नरकः पृथिवीसुतः ॥ ९७ ॥

स गच्छन् समरायाशु मानुषं भावमर्चितम् ।
निन्द्यं तथासुरं मेने स्मरन् पूर्ववचो हरेः ॥ ९८ ॥

क्षणात् कृष्णं स ददर्श गरुडोपरि संस्थितम् ।
शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् ॥ ९९ ॥

किरीटकुण्डलयुतं श्रीवत्सवक्षसं हरिम् ।
कौस्तुभोद्भासितोरस्कं पीताम्बरधरं परम् ॥ १०० ॥

स तेन युयुधे वीरो विष्णुना प्रभविष्णुना ।
प्राग्ज्योतिषाधिपो वीरो नरकः पृथिवीसुतः ॥ १०१ ॥

स युध्यत् कृष्णनिकटे कालिकां कालिकोपमाम् ।
रक्तास्यनयनां दीर्घां खड्गशक्तिधरा तदा ॥ १०२ ॥

अपश्यज्जगतां धात्रीं कामाख्यामपि मोहिनीम् ॥ १०३ ॥

स विस्मितस्तदा भीतस्तां दृष्ट्वा जगतां प्रसूम् ।
योद्धव्यमित्येव तदा युयुधे नरकोऽसुरः ॥ १०४ ॥

तेन सार्धं तदा कृष्णः कृत्वा सुमहदद्भुतम् ।
युद्धं यादृक् पुरा भूतं न देवे न च मानुषे ॥ १०५ ॥

ततस्तेनाथ भौमेन युद्धकेलिं स माधवः ।
चिरं कृत्वा जघानाथ देवेन्द्रं प्रतिहर्षयन् ॥ १०६ ॥

सुदर्शनेन चक्रेण मध्यदेशे तदा हरिः ।
द्विधा चिच्छेद नरकङ्खण्डितोऽभ्यपतद् भुवि ॥ १०७ ॥

विभक्ततच्छरीरं तु भूमौ निपतितं तदा ।
विराजन्ते वज्रभिन्नौ यथा गौरिकपर्वतः ॥ १०८ ॥

पतिते तनये देवी पृथ्वी दृष्ट्वा शरीरकम् ।
शोकवेगं तदा सेहे ज्ञात्वा कालं तदागतम् ॥ १०९ ॥

अदितेः कुण्डलयुगं स्वयमादाय काश्यपी ।
उपातिष्ठत गोविन्दं वचनं चेदमब्रवीत् ॥ ११० ॥

त्वया वराहरूपेण यदाहं चोद्धृता पुरा ।
तदा त्वद्गात्रसंस्पर्शात् पुत्रो मे नरकः स्थितः ।
सोऽयं त्वया पालितश्च पातितश्चाधुना सुतः ॥ १११ ॥

गृहाण कुण्डले चेमे अदितेः सर्वकामदे ।
सन्ततिं चास्य गोविन्द प्रतिपालय नित्यदा ॥ ११२ ॥

श्रीभगवानुवाच
भारावतरणे देवि नरकस्य वधः पुराः ।
त्वयैव प्रार्थितो यस्मात् तेनासौ निहतो मया ॥ ११३ ॥

पालयिष्येऽस्य सन्तानं देवि त्वद्वचनादहम् ।
प्राग्ज्योतिषेऽभिषेक्ष्यामि नप्तारं भगदत्तकम् ॥ ११४ ॥

एवमुक्त्वा महाबाहुर्भगवान् मधुसूदनः ।
अन्तःपुरं विवेशास्थ नरकस्य धनालयम् ॥ ११५ ॥

स तत्र ददृशे वीरो रत्नानि विविधानि च ।
राशीभूतानि शुद्धानि पर्वतानिव राजतः ॥ ११६ ॥

मुक्तामणिप्रवालानां वैदूर्यस्य च पर्वतम् ।
तथा रजतकूटानि वज्रकूटानि माधवः ॥ ११७ ॥

सुवर्णसञ्चयान् रुक्मदण्डान् रत्नमयध्वजान् ।
वाहनानि विचित्राणि यानानि शयनानि च ॥ ११८ ॥

खचितानि स्वर्णरत्नैर्महार्हाणि महान्ति च ।
यद् यद् दृष्टं च यावच्च धनं रत्नं मणिस्तथा ॥ ११९ ॥

भुवि तादृक् च नो दृष्टमन्यत्र नरकालयात् ।
न कुबेरस्य नरेन्द्रस्य न यमस्याप्यपां पतेः ॥ १२० ॥

तावन्ति धनरत्नानि यावन्ति नरकालये ।
केशवोऽप्यथ तत्रैव नारदेन च सङ्गतः ॥ १२१ ॥

अवेक्ष्यान्तःपुरधनं सारं सारतरं ततः ।
तेषां समाददे ग्राह्यं प्रभूतं परवीरहा ॥ १२२ ॥

या दत्ता वैष्णवीशक्तिर्विष्णुना प्रभविष्णुना ।
हत्वा भौमं तु तां शक्तिं जगृहे देवकीसुतः ॥ १२३ ॥

पृथिव्या नारदेनैव सहितः केशवस्तदा ।
भगदत्तं भौमसुतं प्राग्ज्योतिषपुरोत्तमे ॥ १२४ ॥

अभिषिच्य तदा भूपं पुरमध्ये न्यवेशयत् ।
अभिषिक्तं तु तां दृष्ट्वा भगदत्तं तदा क्षितिः ॥ १२५ ॥

नप्तुरर्थेऽथ तां शक्तिं केशवं समयाचत ।
केशवोऽपि क्षितेर्वाक्यान्नारदानुमतेन च ।
तां शक्तिं भगदत्ताय सुप्रीतमनसा ददौ ॥ १२६ ॥

यच्छत्रं वरुणं जित्वा काञ्चनस्राविसञ्ज्ञकम् ।
समानयत् पुरा भौमस्तच्छस्त्रं हरिराददे ॥ १२७ ॥

अष्टभारसुवर्णानि यत्संस्रवति चान्वहम् ।
यत् क्रोशमात्रविस्तीर्णमर्धयोजनमुच्छ्रितम् ॥ १२८ ॥

रत्नोत्तमानि सर्वाणि चतुर्दन्तांस्तथा गजान् ।
चतुर्दशसहस्राणि पूजिताः प्रमदास्तथा ॥ १२९ ॥

द्वारकां प्रति दैत्यौघैर्वाहयामास केशवः ॥ १३० ॥

ता देवकन्यकाः पूर्वं नरकेण हृता बलात् ।
तासां कृत्वा हृषीकेशो वेणीबन्धविमोक्षणम् ॥ १३१ ॥

वासोभिर्भूषणेर्दिव्यैस्ताः सत्कृत्य मुहुर्मुहुः ।
आरोप्य च विमाने तु रक्षिभिर्बलिभिर्दृढैः ॥ १३२ ॥

नारदाधिष्ठिताः सर्वा द्वारकां प्रत्यवाहयत् ।
यः कृतः सुरकन्यार्थे भौमेन मणिपर्वतः ॥ १३३ ॥

मणिरत्नौघसम्पूर्णो दिवाक्रसमप्रभः ।
उत्पाट्य तं जगन्नाथस्तार्क्षपृष्ठे न्यधाप्यत् ॥ १३४ ॥

तथैव वारुणं छत्रं गरुडोपरि माधवः ।
आरोप्य सत्यया सार्धमासीनः सुमना हरिः ॥ १३५ ॥

भगदत्तं समाभाष्य पृथिवीं च जगत्पतिः ।
प्रतस्थे द्वारकां वीरो वियन्मार्गेण वै द्रुतम् ॥ १३६ ॥

सुवर्णं काञ्चनस्राविच्छत्रं समणिपर्वतम् ।
केशवं सत्यया सार्ध हेलया खे वहन् ययौ ॥ १३७ ॥

क्षणेन द्वारकां प्राप्य केशवः परवीरहा ।
मुदं च लेभे सकलैर्वान्धवैश्च तथा गणैः ॥ १३८ ॥

एवं काली महामाया कालिकाख्या जगन्मयी ।
विष्णुं च जगतां नाथं परापरपतिं हरिम् ॥ १३९ ॥

जगत्कारणकर्तारं ज्ञानगमयं जगन्मयम् ।
सन्मोहयत्येव तथा ह्यनुरागविरागवान् ॥ १४० ॥

अनुगृह्णाति मित्राणि ह्यमित्राणि निहन्ति च ।
नारीषु मूढो रमते द्वन्द्वेनापि च मुह्यते ॥ १४१ ॥

इति वः कथितं विप्रा यथाभून्नरकोऽसुरः ।
यथा च वरलाभोऽभूद् यथा चास्य विचेष्टितम् ॥ १४२ ॥

आराधितो यथा ब्रह्म बाणबुद्ध्याथ भौमिना ।
किमन्यदुचितं वास्ति तद्ब्रुवन्तु द्विजोत्तमाः ॥ १४३ ॥

इति श्रीकालिकापुराणे नरकोपाख्याने चत्वारिंशोऽध्यायः ॥ ४० ॥