३९

विश्वास-प्रस्तुतिः

एकोनचत्वारिंशोऽध्यायः

मार्कण्डेय उवाच

स राजा नरकः श्रीमांश्चिरञ्जीवी महाभुजः ।
मानुषेणैव भावेन चिरं राज्यमथाकरोत् ॥ १ ॥

मूलम्

एकोनचत्वारिंशोऽध्यायः

मार्कण्डेय उवाच

स राजा नरकः श्रीमांश्चिरञ्जीवी महाभुजः ।
मानुषेणैव भावेन चिरं राज्यमथाकरोत् ॥ १ ॥

विश्वास-प्रस्तुतिः

त्रेतायां च व्यतीतायां द्वापरस्य तु शेषतः ।
अभवच्छोणितपुरे बाणो नाम महासुरः ॥ २ ॥

मूलम्

त्रेतायां च व्यतीतायां द्वापरस्य तु शेषतः ।
अभवच्छोणितपुरे बाणो नाम महासुरः ॥ २ ॥

विश्वास-प्रस्तुतिः

तस्याग्निदुर्गं नगरं स च शम्भुसखो बली ।
सहस्रबाहुर्दुर्धर्षः प्रियः पुत्रः स वै बलेः ॥ ३ ॥

मूलम्

तस्याग्निदुर्गं नगरं स च शम्भुसखो बली ।
सहस्रबाहुर्दुर्धर्षः प्रियः पुत्रः स वै बलेः ॥ ३ ॥

विश्वास-प्रस्तुतिः

नरकेण समं तस्य महामैत्री व्यजायत ।
अमनागमनान्नित्यमन्योन्यानुग्रहैस्तथा ।
तयोरभूद् महाप्रीतिः पवनानलयोर्यथा ॥ ४ ॥

मूलम्

नरकेण समं तस्य महामैत्री व्यजायत ।
अमनागमनान्नित्यमन्योन्यानुग्रहैस्तथा ।
तयोरभूद् महाप्रीतिः पवनानलयोर्यथा ॥ ४ ॥

विश्वास-प्रस्तुतिः

स च बाणः समाराध्य महादेवं जगत्प्रभुम् ।
आसुरेणाथ भावेन व्यचरच्चाकुतोभयः ॥ ५ ॥

मूलम्

स च बाणः समाराध्य महादेवं जगत्प्रभुम् ।
आसुरेणाथ भावेन व्यचरच्चाकुतोभयः ॥ ५ ॥

विश्वास-प्रस्तुतिः

तत्संसर्गात् स नरको दृष्ट्वा तस्याद्भुतां कृतिम् ।
तेनैव सह भावेन विहर्तुमुपचक्रमे ॥ ६ ॥

मूलम्

तत्संसर्गात् स नरको दृष्ट्वा तस्याद्भुतां कृतिम् ।
तेनैव सह भावेन विहर्तुमुपचक्रमे ॥ ६ ॥

विश्वास-प्रस्तुतिः

न ब्राह्मणान् पूजयति यथा पूर्वं तथा द्विजाः ।
न च यज्ञेषु दानेषु पूर्ववन्मुदितः स च ॥ ७ ॥

मूलम्

न ब्राह्मणान् पूजयति यथा पूर्वं तथा द्विजाः ।
न च यज्ञेषु दानेषु पूर्ववन्मुदितः स च ॥ ७ ॥

विश्वास-प्रस्तुतिः

न तथा विष्णुमभ्येति पृथिवीं वापि नार्चति ।
कामाख्यायां तथा भक्तिस्तदा तस्याथ नाभवत् ॥ ८ ॥

मूलम्

न तथा विष्णुमभ्येति पृथिवीं वापि नार्चति ।
कामाख्यायां तथा भक्तिस्तदा तस्याथ नाभवत् ॥ ८ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे धातुस्तनयो मुनिसत्तमः ।
वसिष्ठो नाम कामाख्यां द्रष्टुं प्राग्ज्योतिषं गतः ॥ ९ ॥

मूलम्

एतस्मिन्नन्तरे धातुस्तनयो मुनिसत्तमः ।
वसिष्ठो नाम कामाख्यां द्रष्टुं प्राग्ज्योतिषं गतः ॥ ९ ॥

विश्वास-प्रस्तुतिः

तां दुर्गाभ्यन्तरे नीलकूटदेवीं व्यवस्थिताम् ।
द्रष्टुं गन्तुं वसिष्ठस्य न द्वारं नरको ह्यदात् ॥ १० ॥

मूलम्

तां दुर्गाभ्यन्तरे नीलकूटदेवीं व्यवस्थिताम् ।
द्रष्टुं गन्तुं वसिष्ठस्य न द्वारं नरको ह्यदात् ॥ १० ॥

विश्वास-प्रस्तुतिः

ततो वसिष्ठः कुपितो वचनं परुषं मुनिः ।
जगाद नरकं वीरं गर्हयन्मुनिसत्तमः ॥ ११ ॥

मूलम्

ततो वसिष्ठः कुपितो वचनं परुषं मुनिः ।
जगाद नरकं वीरं गर्हयन्मुनिसत्तमः ॥ ११ ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच

कथं पृथिव्यास्तनयो वराहस्य सुतोऽञ्जसा ।
देवीं द्रष्टुं ब्राह्मणस्य न ददासि तथागतः ॥ १२ ॥

मूलम्

वसिष्ठ उवाच

कथं पृथिव्यास्तनयो वराहस्य सुतोऽञ्जसा ।
देवीं द्रष्टुं ब्राह्मणस्य न ददासि तथागतः ॥ १२ ॥

विश्वास-प्रस्तुतिः

किं ते कुलोचितं कर्म त्वं करोषि धरात्मज ।
देवीं प्राग्ज्योतिषं गत्वा पूजयिष्ये जगन्मयीम् ॥ १३ ॥

मूलम्

किं ते कुलोचितं कर्म त्वं करोषि धरात्मज ।
देवीं प्राग्ज्योतिषं गत्वा पूजयिष्ये जगन्मयीम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

ततः स नरको राजा प्राप्तकालः क्षिते सुतः ।
परुषेणाथ वाक्येन तमाक्षिप्य निरस्तवान् ॥ १४ ॥

मूलम्

मार्कण्डेय उवाच

ततः स नरको राजा प्राप्तकालः क्षिते सुतः ।
परुषेणाथ वाक्येन तमाक्षिप्य निरस्तवान् ॥ १४ ॥

विश्वास-प्रस्तुतिः

ततो मुनिः स कुपितः शशाप नरकं नृपम् ।

वशिष्ठ उवाच

नचिराद् येन जातोऽसि तेन मानुषरूपिणा ।
मरणं भविता पाप वराहकुलपांसन ॥ १५ ॥

मूलम्

ततो मुनिः स कुपितः शशाप नरकं नृपम् ।

वशिष्ठ उवाच

नचिराद् येन जातोऽसि तेन मानुषरूपिणा ।
मरणं भविता पाप वराहकुलपांसन ॥ १५ ॥

विश्वास-प्रस्तुतिः

मृते त्वयि महादेवीं कामाख्यां जगतां प्रसूम् ।
पूजयिष्याम्यहं पाप तिष्ठ यास्ये स्वमालयम् ॥ १६ ॥

मूलम्

मृते त्वयि महादेवीं कामाख्यां जगतां प्रसूम् ।
पूजयिष्याम्यहं पाप तिष्ठ यास्ये स्वमालयम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

त्वं यावज्जिविता पाप कामाख्यापि जगत्प्रसूः ।
सर्वैः परिकरैः सार्धमन्तर्धानाय गच्छतु ॥ १७ ॥

मूलम्

त्वं यावज्जिविता पाप कामाख्यापि जगत्प्रसूः ।
सर्वैः परिकरैः सार्धमन्तर्धानाय गच्छतु ॥ १७ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इत्युक्त्वा ब्रह्मपुत्रः स स्वस्थानं गतवान् मुनिः ।
वसिष्ठस्तेन भौमेन निरस्तः कुपितो भृशम् ॥ १८ ॥

मूलम्

मार्कण्डेय उवाच

इत्युक्त्वा ब्रह्मपुत्रः स स्वस्थानं गतवान् मुनिः ।
वसिष्ठस्तेन भौमेन निरस्तः कुपितो भृशम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

गते वसिष्ठे नरकः शीघ्रं विस्मयसंयुतः ।
जगाम देवीभवनं नीलकूटं महागिरिम् ॥ १९ ॥

मूलम्

गते वसिष्ठे नरकः शीघ्रं विस्मयसंयुतः ।
जगाम देवीभवनं नीलकूटं महागिरिम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

तत्र गत्वा न चापश्यत् कामाख्या कामरूपिणीम् ।
न योनिमण्डलं तस्याः सर्वान् परिकरांस्तथा ॥ २० ॥

मूलम्

तत्र गत्वा न चापश्यत् कामाख्या कामरूपिणीम् ।
न योनिमण्डलं तस्याः सर्वान् परिकरांस्तथा ॥ २० ॥

विश्वास-प्रस्तुतिः

ततः स विमना भूत्वा क्षितिं सस्मार मातरम् ।
पितरं च जगन्नाथं नरकः प्रभुमव्ययम् ॥ २१ ॥

मूलम्

ततः स विमना भूत्वा क्षितिं सस्मार मातरम् ।
पितरं च जगन्नाथं नरकः प्रभुमव्ययम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

न तावपि तदा यातौ तस्य प्रत्यक्षतां द्विजाः ।
व्युत्क्रान्तसमयस्येति नीतिहीनस्य शम्भवे ॥ २२ ॥

मूलम्

न तावपि तदा यातौ तस्य प्रत्यक्षतां द्विजाः ।
व्युत्क्रान्तसमयस्येति नीतिहीनस्य शम्भवे ॥ २२ ॥

विश्वास-प्रस्तुतिः

चिरं प्रतीक्ष्य तौ तत्र भौमो वज्रध्वजस्तदा ।
अप्राप्तक्ष्तिविष्णुः स सशोकः स्वं निवेशनम् ॥ २३ ॥

मूलम्

चिरं प्रतीक्ष्य तौ तत्र भौमो वज्रध्वजस्तदा ।
अप्राप्तक्ष्तिविष्णुः स सशोकः स्वं निवेशनम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

स गच्छन् स्वगृहं भौमः पुरीं स्वां दृष्टवांस्तु सः ।
पूर्वश्रिया परित्यक्तां मलिनां वनितामिव ॥ २४ ॥

मूलम्

स गच्छन् स्वगृहं भौमः पुरीं स्वां दृष्टवांस्तु सः ।
पूर्वश्रिया परित्यक्तां मलिनां वनितामिव ॥ २४ ॥

विश्वास-प्रस्तुतिः

देव्यामन्तर्हितायां तु वेदवादविवर्जितम् ।
पुण्यस्वल्पादरजनं तत् पुरं समपद्यत ॥ २५ ॥

मूलम्

देव्यामन्तर्हितायां तु वेदवादविवर्जितम् ।
पुण्यस्वल्पादरजनं तत् पुरं समपद्यत ॥ २५ ॥

विश्वास-प्रस्तुतिः

न देवास्तत्र गच्छन्ति न विप्रा न महर्षयः ।
बभूव नगरं तस्य स्वल्पयज्ञक्रियोत्सवम् ॥ २६ ॥

मूलम्

न देवास्तत्र गच्छन्ति न विप्रा न महर्षयः ।
बभूव नगरं तस्य स्वल्पयज्ञक्रियोत्सवम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

ईतयो बहवो जाता मृताश्च बहवो जनाः ।
लौहित्यनदराजोऽपि हीनतोयस्तदाऽभवत् ॥ २७ ॥

मूलम्

ईतयो बहवो जाता मृताश्च बहवो जनाः ।
लौहित्यनदराजोऽपि हीनतोयस्तदाऽभवत् ॥ २७ ॥

विश्वास-प्रस्तुतिः

बहूनि विपरीतानि दृष्ट्वा स नरकस्तदा ।
मेने मरणमासन्नमत्मनो ब्रह्मशापतः ॥ २८ ॥

मूलम्

बहूनि विपरीतानि दृष्ट्वा स नरकस्तदा ।
मेने मरणमासन्नमत्मनो ब्रह्मशापतः ॥ २८ ॥

विश्वास-प्रस्तुतिः

ततः प्राग्ज्योतिषाध्यक्षः शोकविह्वलचेतनः ।
चिन्तयन् मनसा मित्रं बाणं बलिसुतं ययौ ॥ २९ ॥

मूलम्

ततः प्राग्ज्योतिषाध्यक्षः शोकविह्वलचेतनः ।
चिन्तयन् मनसा मित्रं बाणं बलिसुतं ययौ ॥ २९ ॥

विश्वास-प्रस्तुतिः

सखा प्राणसमः सोऽस्य सततान्योन्यरक्षणे ।
तत्परौ बाणनरकौ स्वर्वैद्यावश्विनाविव ॥ ३० ॥

मूलम्

सखा प्राणसमः सोऽस्य सततान्योन्यरक्षणे ।
तत्परौ बाणनरकौ स्वर्वैद्यावश्विनाविव ॥ ३० ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे बाणो मित्रं शम्भुसखो बली ।
अनुकूलयिता मन्त्रप्रदानेन महाबुधः ॥ ३१ ॥

मूलम्

एतस्मिन्नन्तरे बाणो मित्रं शम्भुसखो बली ।
अनुकूलयिता मन्त्रप्रदानेन महाबुधः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

इति चासीन्मतिस्तस्य वज्रकेतोस्तदाचला ।
दूतं च प्राहिणोद् दीप्तं बाणस्य नगरं प्रति ॥ ३२ ॥

मूलम्

इति चासीन्मतिस्तस्य वज्रकेतोस्तदाचला ।
दूतं च प्राहिणोद् दीप्तं बाणस्य नगरं प्रति ॥ ३२ ॥

विश्वास-प्रस्तुतिः

स शोणितपुरं गत्वा स्यन्दनेनाशुगामिना ।
ततो भौमस्य वृत्तान्तं वाणायाशु न्यवेदयत् ॥ ३३ ॥

मूलम्

स शोणितपुरं गत्वा स्यन्दनेनाशुगामिना ।
ततो भौमस्य वृत्तान्तं वाणायाशु न्यवेदयत् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

यथा शप्तो वसिष्ठेन यथा चान्तर्हिताम्बिका ।
यथा विघ्नः पुरवरे जातः प्राग्ज्योतिषाह्वये ॥ ३४ ॥

मूलम्

यथा शप्तो वसिष्ठेन यथा चान्तर्हिताम्बिका ।
यथा विघ्नः पुरवरे जातः प्राग्ज्योतिषाह्वये ॥ ३४ ॥

विश्वास-प्रस्तुतिः

समयस्य व्यतिक्रान्तिर्भूमिमाधवयोर्यथा ।
तथा स दूतो भौमस्य शशंस बलिसूनवे ॥ ३५ ॥

मूलम्

समयस्य व्यतिक्रान्तिर्भूमिमाधवयोर्यथा ।
तथा स दूतो भौमस्य शशंस बलिसूनवे ॥ ३५ ॥

विश्वास-प्रस्तुतिः

स समाकारमित्रस्य सम्यग् दैवपराभवम् ।
स्वयं जगाम नरकं सभाजयितुमीश्वरः ॥ ३६ ॥

मूलम्

स समाकारमित्रस्य सम्यग् दैवपराभवम् ।
स्वयं जगाम नरकं सभाजयितुमीश्वरः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

स काञ्चनविचित्राङ्गं युक्तमश्वशतैस्त्रिभिः ।
लोहचक्रं च वैयाघ्रं मयूरधजभूषितम् ॥ ३७ ॥

मूलम्

स काञ्चनविचित्राङ्गं युक्तमश्वशतैस्त्रिभिः ।
लोहचक्रं च वैयाघ्रं मयूरधजभूषितम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

हेमदण्डसितच्छत्रच्छदितं किङ्किणीगणैः ।
नानारतनौघरचितमारुरोह महारथम् ॥ ३८ ॥

मूलम्

हेमदण्डसितच्छत्रच्छदितं किङ्किणीगणैः ।
नानारतनौघरचितमारुरोह महारथम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

स सहस्रभुजः श्रीमांश्चतुरङ्गबलैर्युतः ।
प्राग्ज्योतिषं भौमपुरमचिरादाजगाम ह ॥ ३९ ॥

मूलम्

स सहस्रभुजः श्रीमांश्चतुरङ्गबलैर्युतः ।
प्राग्ज्योतिषं भौमपुरमचिरादाजगाम ह ॥ ३९ ॥

विश्वास-प्रस्तुतिः

तमासाद्य महाबाहुर्बाणः प्राग्ज्योतिषेश्वरम् ।
हीनं पूर्वश्रिया मित्रमपश्यन्नगरं च तत् ॥ ४० ॥

मूलम्

तमासाद्य महाबाहुर्बाणः प्राग्ज्योतिषेश्वरम् ।
हीनं पूर्वश्रिया मित्रमपश्यन्नगरं च तत् ॥ ४० ॥

विश्वास-प्रस्तुतिः

स तेन तूजितो बाणो यथायोग्यं सुतेन कोः ।
पप्रच्छ किं निमित्तं ते हीनश्रीकमभूत् पुरम् ॥ ४१ ॥

मूलम्

स तेन तूजितो बाणो यथायोग्यं सुतेन कोः ।
पप्रच्छ किं निमित्तं ते हीनश्रीकमभूत् पुरम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

बाण उवाच

शरीरं च यथापूर्वं तथा न तव राजते ।
मनश्च ते नाति हृष्टं तत्र हेतुं वदस्व मे ॥ ४२ ॥

मूलम्

बाण उवाच

शरीरं च यथापूर्वं तथा न तव राजते ।
मनश्च ते नाति हृष्टं तत्र हेतुं वदस्व मे ॥ ४२ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

एवमादीनि पृष्टः स नरकः क्षितिनन्दनः ।
यथा वसिष्ठशापोऽभूत् तत् सर्वं तस्य चाब्रवीत् ॥ ४३ ॥

मूलम्

मार्कण्डेय उवाच

एवमादीनि पृष्टः स नरकः क्षितिनन्दनः ।
यथा वसिष्ठशापोऽभूत् तत् सर्वं तस्य चाब्रवीत् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

यच्छ्रुतं भौमवदनात्तद्दूतावेदितं पुरा ।
ज्ञात्वां तथा तं प्रोवाच बाणो वज्रध्वजं पुनः ॥ ४४ ॥

मूलम्

यच्छ्रुतं भौमवदनात्तद्दूतावेदितं पुरा ।
ज्ञात्वां तथा तं प्रोवाच बाणो वज्रध्वजं पुनः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

बाण उवाच

नहि मन्युस्त्वया कार्यः सुखे दुःखे शरीरिणाम् ।
चक्रवत् परिवर्तेते नैताभ्यां कौऽपि हीयते ॥ ४५ ॥

मूलम्

बाण उवाच

नहि मन्युस्त्वया कार्यः सुखे दुःखे शरीरिणाम् ।
चक्रवत् परिवर्तेते नैताभ्यां कौऽपि हीयते ॥ ४५ ॥

विश्वास-प्रस्तुतिः

परं तत्र प्रतीकारः कार्यो धीरैर्विभूतये ।
भवानपि प्रतीकारं कर्तुमर्हति सम्प्रति ॥ ४६ ॥

मूलम्

परं तत्र प्रतीकारः कार्यो धीरैर्विभूतये ।
भवानपि प्रतीकारं कर्तुमर्हति सम्प्रति ॥ ४६ ॥

विश्वास-प्रस्तुतिः

य एष मानुषः पृथ्व्यामसाधारणभूतिभिः ।
वर्धते दानवो वापि दैत्यो वाप्यथवासुरः ॥ ४७ ॥

मूलम्

य एष मानुषः पृथ्व्यामसाधारणभूतिभिः ।
वर्धते दानवो वापि दैत्यो वाप्यथवासुरः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

राक्षसः किन्नरो वापि शक्रस्तान् सहते नहि ।
स कौटिल्यं देवगणैः सार्धं कुर्वन्नितस्ततः ।
यथा तथा प्रकारेण भ्रंशयत्येव तं श्रियः ॥ ४८ ॥

मूलम्

राक्षसः किन्नरो वापि शक्रस्तान् सहते नहि ।
स कौटिल्यं देवगणैः सार्धं कुर्वन्नितस्ततः ।
यथा तथा प्रकारेण भ्रंशयत्येव तं श्रियः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

तस्य चेष्टतमो देवो विष्णुर्नित्यं सनातनः ।
स न शक्तस्य कुरुते मनोऽनिष्टं मनागपि ॥ ४९ ॥

मूलम्

तस्य चेष्टतमो देवो विष्णुर्नित्यं सनातनः ।
स न शक्तस्य कुरुते मनोऽनिष्टं मनागपि ॥ ४९ ॥

विश्वास-प्रस्तुतिः

यः समाराधयेद् विष्णुं शक्रस्यानिष्टकारकः ।
तस्मै वरं तु सच्छिद्रं दत्त्वा तं शातयत्वितः ॥ ५० ॥

मूलम्

यः समाराधयेद् विष्णुं शक्रस्यानिष्टकारकः ।
तस्मै वरं तु सच्छिद्रं दत्त्वा तं शातयत्वितः ॥ ५० ॥

विश्वास-प्रस्तुतिः

चिरमाराधितो विष्णुरिष्टान् कामान् प्रयच्छति ।
महता कायदुःखेन पूजितः सम्प्रसीदति ॥ ५१ ॥

मूलम्

चिरमाराधितो विष्णुरिष्टान् कामान् प्रयच्छति ।
महता कायदुःखेन पूजितः सम्प्रसीदति ॥ ५१ ॥

विश्वास-प्रस्तुतिः

विनेष्टदेवतापूजां विभूतिमतुलां पुमान् ।
कः प्राप्नोति श्रुतः पूर्वं न वा पूर्वतरैः क्वचित् ॥ ५२ ॥

मूलम्

विनेष्टदेवतापूजां विभूतिमतुलां पुमान् ।
कः प्राप्नोति श्रुतः पूर्वं न वा पूर्वतरैः क्वचित् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

त्वया नाराधितः पूर्वं ब्रह्मा वा विष्णुरीश्वरः ।
तेन तेऽद्य महाविघ्ना उत्पन्ना विषये तव ॥ ५३ ॥

मूलम्

त्वया नाराधितः पूर्वं ब्रह्मा वा विष्णुरीश्वरः ।
तेन तेऽद्य महाविघ्ना उत्पन्ना विषये तव ॥ ५३ ॥

विश्वास-प्रस्तुतिः

यो वा विष्णुः पालकस्ते न निसर्गानुकम्पकः ।
किन्तु ते स क्षितेर्वाक्यात्तया चाराधितो मुहुः ॥ ५४ ॥

मूलम्

यो वा विष्णुः पालकस्ते न निसर्गानुकम्पकः ।
किन्तु ते स क्षितेर्वाक्यात्तया चाराधितो मुहुः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

दत्तं छिद्रं च ते विष्णुर्नापराध्यास्त्वया द्विजाः ।
इतोऽन्यथा त्वं भविता हतश्रीरिति नः श्रुतम् ॥ ५५ ॥

मूलम्

दत्तं छिद्रं च ते विष्णुर्नापराध्यास्त्वया द्विजाः ।
इतोऽन्यथा त्वं भविता हतश्रीरिति नः श्रुतम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

अपराध्यस्त्वया भूप वसिष्ठः परमो मुनिः ।
तेन स्मरणमात्रेण नायातौ क्षितिमाधवौ ॥ ५६ ॥

मूलम्

अपराध्यस्त्वया भूप वसिष्ठः परमो मुनिः ।
तेन स्मरणमात्रेण नायातौ क्षितिमाधवौ ॥ ५६ ॥

विश्वास-प्रस्तुतिः

तस्मात्त्वं मित्र बुध्यस्व कौटिल्यं हरिमेधसः ।
नाधुना युज्यते भौम तवोदासीनताकृतिः ॥ ५७ ॥

मूलम्

तस्मात्त्वं मित्र बुध्यस्व कौटिल्यं हरिमेधसः ।
नाधुना युज्यते भौम तवोदासीनताकृतिः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

यत्ते मनसि तातोऽयमिति सम्प्रत्ययः स ते ।
वराह एव ते तातः स लोकान्तरं गतः ॥ ५८ ॥

मूलम्

यत्ते मनसि तातोऽयमिति सम्प्रत्ययः स ते ।
वराह एव ते तातः स लोकान्तरं गतः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

वाराहोऽपि हरेरंश इति यच्छ्रूयते त्वया ।
तस्यांश इत्यतुक्रोशः केन वो क्रियते वद ॥ ५९ ॥

मूलम्

वाराहोऽपि हरेरंश इति यच्छ्रूयते त्वया ।
तस्यांश इत्यतुक्रोशः केन वो क्रियते वद ॥ ५९ ॥

विश्वास-प्रस्तुतिः

तस्मात्त्वं कुरु शम्भोर्वा ब्रह्मणो वाधुनार्चनम् ।
स ते प्रसन्नः परममिष्टकामं प्रदास्यति ॥ ६० ॥

मूलम्

तस्मात्त्वं कुरु शम्भोर्वा ब्रह्मणो वाधुनार्चनम् ।
स ते प्रसन्नः परममिष्टकामं प्रदास्यति ॥ ६० ॥

विश्वास-प्रस्तुतिः

विघ्नो वा मुनिशापो वा महेतिर्वातिपीडकः ।
विधौ प्रसन्ने शम्भौ वा नचिरात्क्षयमेष्यति ॥ ६१ ॥

मूलम्

विघ्नो वा मुनिशापो वा महेतिर्वातिपीडकः ।
विधौ प्रसन्ने शम्भौ वा नचिरात्क्षयमेष्यति ॥ ६१ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

जातसम्प्रत्ययो भौमो बाणस्य वचनात् तदा ।
सुप्रीतः समुवाचेदं धीरघर्घरनिःस्वनः ॥ ६२ ॥

मूलम्

मार्कण्डेय उवाच

जातसम्प्रत्ययो भौमो बाणस्य वचनात् तदा ।
सुप्रीतः समुवाचेदं धीरघर्घरनिःस्वनः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

भौम उवाच

यत् त्वया गदितं बाण हितं मे मित्रवत्सल ।
तत् कार्यमचिरादेव तपश्चरणमुत्तमम् ॥ ६३ ॥

मूलम्

भौम उवाच

यत् त्वया गदितं बाण हितं मे मित्रवत्सल ।
तत् कार्यमचिरादेव तपश्चरणमुत्तमम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

विष्णुर्नाराधनीयो मे तत्र हेतुस्त्वयोदितः ।
नवाराध्यस्तथा शम्भुरन्तर्गुप्तः स मे पुरे ॥ ६४ ॥

मूलम्

विष्णुर्नाराधनीयो मे तत्र हेतुस्त्वयोदितः ।
नवाराध्यस्तथा शम्भुरन्तर्गुप्तः स मे पुरे ॥ ६४ ॥

विश्वास-प्रस्तुतिः

तस्माद् ब्रह्मा समाराध्यो वचनात् तव मित्रक ।
तत्पुत्रस्य महाबाहो लौहित्यस्याम्बुसन्निधौ ॥ ६५ ॥

मूलम्

तस्माद् ब्रह्मा समाराध्यो वचनात् तव मित्रक ।
तत्पुत्रस्य महाबाहो लौहित्यस्याम्बुसन्निधौ ॥ ६५ ॥

विश्वास-प्रस्तुतिः

भवताध्यापितश्चाहं शिष्योऽथ गुरुणा यथा ।
मित्रं मित्रं यथा धीर साम्ना परमवल्गुना ॥ ६६ ॥

मूलम्

भवताध्यापितश्चाहं शिष्योऽथ गुरुणा यथा ।
मित्रं मित्रं यथा धीर साम्ना परमवल्गुना ॥ ६६ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इत्युक्त्वा स महाबाहुर्बाणं वज्रध्वजस्तदा ।
यथावत् पूजयामास तन्मित्रं मित्रवत्सलः ॥ ६७ ॥

मूलम्

मार्कण्डेय उवाच

इत्युक्त्वा स महाबाहुर्बाणं वज्रध्वजस्तदा ।
यथावत् पूजयामास तन्मित्रं मित्रवत्सलः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

अर्चयित्वा यथायोग्यं प्रस्थाप्य च बलेः सुतम् ।
ब्रह्माराधनमत्युग्रं कर्तुमिच्छन् क्षितेः सुतः ॥ ६८ ॥

मूलम्

अर्चयित्वा यथायोग्यं प्रस्थाप्य च बलेः सुतम् ।
ब्रह्माराधनमत्युग्रं कर्तुमिच्छन् क्षितेः सुतः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

स तीरे नदराजस्य लौहित्यस्य महात्मनः ।
ब्रह्माचलं समारुह्य तपस्तप्तुमुपस्थितः ॥ ६९ ॥

मूलम्

स तीरे नदराजस्य लौहित्यस्य महात्मनः ।
ब्रह्माचलं समारुह्य तपस्तप्तुमुपस्थितः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

स मानुषेण मानेन क्षितिपुत्रः शतं समाः ।
जलाहारव्रतेनैव समानर्च पितामहम् ॥ ७० ॥

मूलम्

स मानुषेण मानेन क्षितिपुत्रः शतं समाः ।
जलाहारव्रतेनैव समानर्च पितामहम् ॥ ७० ॥

विश्वास-प्रस्तुतिः

सन्तुष्टः शतवर्षान्ते ब्रह्मा लोकपितामहः ।
प्रत्यक्षीभूय नरकस्याग्रतः समुपस्थितः ॥ ७१ ॥

मूलम्

सन्तुष्टः शतवर्षान्ते ब्रह्मा लोकपितामहः ।
प्रत्यक्षीभूय नरकस्याग्रतः समुपस्थितः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

प्रीतोऽस्मि ते वरं दास्ये वरं वरय सुव्रत ।
इति चोवाच नरकं स तदा कमलासनः ॥ ७२ ॥

मूलम्

प्रीतोऽस्मि ते वरं दास्ये वरं वरय सुव्रत ।
इति चोवाच नरकं स तदा कमलासनः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

स दृष्ट्वा सर्वलोकेशं प्रत्यक्षं कमलासनम् ।
प्रणम्य प्राञ्जलिः प्रोचे विनयानतकन्धरः ॥ ७३ ॥

मूलम्

स दृष्ट्वा सर्वलोकेशं प्रत्यक्षं कमलासनम् ।
प्रणम्य प्राञ्जलिः प्रोचे विनयानतकन्धरः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

हौम उवाच

देवासुरेभ्यो रक्षोभ्यः सर्वेभ्यो देवयोनितः ।
अवध्यत्वं सुरश्रेष्ठ वरमेकं प्रयच्छ मे ॥ ७४ ॥

मूलम्

हौम उवाच

देवासुरेभ्यो रक्षोभ्यः सर्वेभ्यो देवयोनितः ।
अवध्यत्वं सुरश्रेष्ठ वरमेकं प्रयच्छ मे ॥ ७४ ॥

विश्वास-प्रस्तुतिः

अविच्छिन्ना सन्ततिर्मे यावच्चन्द्रो रविस्तपेत् ।
तावद्भवतु लोकेश द्वितीयोऽयं वरो मम ॥ ७५ ॥

मूलम्

अविच्छिन्ना सन्ततिर्मे यावच्चन्द्रो रविस्तपेत् ।
तावद्भवतु लोकेश द्वितीयोऽयं वरो मम ॥ ७५ ॥

विश्वास-प्रस्तुतिः

तिलोत्तमाद्या या देव्यः सद्रूपगुणसंयुताः ।
तास्ता मे दयिताः सन्तु सहस्राणि तु षोडश ॥ ७६ ॥

मूलम्

तिलोत्तमाद्या या देव्यः सद्रूपगुणसंयुताः ।
तास्ता मे दयिताः सन्तु सहस्राणि तु षोडश ॥ ७६ ॥

विश्वास-प्रस्तुतिः

अजेयत्वं सदा श्रीर्मा न जहातु कदाचन ।
इति पञ्च वरा मेऽद्य वृतास्त्वत्तः पितामह ॥ ७७ ॥

मूलम्

अजेयत्वं सदा श्रीर्मा न जहातु कदाचन ।
इति पञ्च वरा मेऽद्य वृतास्त्वत्तः पितामह ॥ ७७ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

मायया मोहितो भौमो मुनिशापं विस्मृत्य च ।
अन्यद्वरान्तरं वव्रे मुनिशापस्तथा स्थितः ॥ ७८ ॥

मूलम्

मार्कण्डेय उवाच

मायया मोहितो भौमो मुनिशापं विस्मृत्य च ।
अन्यद्वरान्तरं वव्रे मुनिशापस्तथा स्थितः ॥ ७८ ॥

विश्वास-प्रस्तुतिः

एवमस्त्विति तान् सर्वान् वरान् दत्त्वा पितामहः ।
उवाचेदं द्वापरान्ते सन्ध्यायां सुरकन्यकाः ॥ ७९ ॥

मूलम्

एवमस्त्विति तान् सर्वान् वरान् दत्त्वा पितामहः ।
उवाचेदं द्वापरान्ते सन्ध्यायां सुरकन्यकाः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

तिलोत्तमाद्यास्ते जाया सम्भविष्यन्ति भूतले ।
न यावन्नारदो याति वज्रध्वज पुरं तव ।
तावन्न मैथुने योज्या भवता ताक्षितेः सुत ॥ ८० ॥

मूलम्

तिलोत्तमाद्यास्ते जाया सम्भविष्यन्ति भूतले ।
न यावन्नारदो याति वज्रध्वज पुरं तव ।
तावन्न मैथुने योज्या भवता ताक्षितेः सुत ॥ ८० ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा सर्वलोकेशः क्षणादन्तर्हितोऽभवत् ।
मुदमासाद्य परमां स्वस्थानं नरकोऽभ्यगात् ॥ ८१ ॥

मूलम्

इत्युक्त्वा सर्वलोकेशः क्षणादन्तर्हितोऽभवत् ।
मुदमासाद्य परमां स्वस्थानं नरकोऽभ्यगात् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

ततो मुदितलोकं तं नगरं श्रीनिषेवितम् ।
सदा सोत्साहसम्पूर्णमीतिविघ्नविवर्जितम् ॥ ८२ ॥

मूलम्

ततो मुदितलोकं तं नगरं श्रीनिषेवितम् ।
सदा सोत्साहसम्पूर्णमीतिविघ्नविवर्जितम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

अभवत् पशुसङ्घैश्च वाजिवारणकुम्भकैः ।
सम्पूर्णं देवराजस्य दयितेवामरावती ॥ ८३ ॥

मूलम्

अभवत् पशुसङ्घैश्च वाजिवारणकुम्भकैः ।
सम्पूर्णं देवराजस्य दयितेवामरावती ॥ ८३ ॥

विश्वास-प्रस्तुतिः

उत्तीर्णतपसं श्रुत्वा बाणो दत्तवरं तथा ।
स्वयं पुनरुपातिष्ठद् भौमं वज्रध्वजं तदा ॥ ८४ ॥

मूलम्

उत्तीर्णतपसं श्रुत्वा बाणो दत्तवरं तथा ।
स्वयं पुनरुपातिष्ठद् भौमं वज्रध्वजं तदा ॥ ८४ ॥

विश्वास-प्रस्तुतिः

स गत्वा भौमनगरं बाणः प्राग्ज्योतिषाह्वयम् ।
पप्रच्छ नरकं मित्रं तपसः सन्निवेशनम् ॥ ८५ ॥

मूलम्

स गत्वा भौमनगरं बाणः प्राग्ज्योतिषाह्वयम् ।
पप्रच्छ नरकं मित्रं तपसः सन्निवेशनम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

कुत्र त्वया तपस्तप्तं किं वा चीर्णं त्वया व्रतम् ।
कीदृशो वा वरो लब्धस्त्वं ममाख्यातुमर्हसि ॥ ८६ ॥

मूलम्

कुत्र त्वया तपस्तप्तं किं वा चीर्णं त्वया व्रतम् ।
कीदृशो वा वरो लब्धस्त्वं ममाख्यातुमर्हसि ॥ ८६ ॥

विश्वास-प्रस्तुतिः

दृष्टं तव पुरं सर्वं प्रहृष्टजनसङ्कुलम् ।
वाजिवारणरत्नौघैः पूरितं मङ्गलस्वनैः ॥ ८७ ॥

मूलम्

दृष्टं तव पुरं सर्वं प्रहृष्टजनसङ्कुलम् ।
वाजिवारणरत्नौघैः पूरितं मङ्गलस्वनैः ॥ ८७ ॥

विश्वास-प्रस्तुतिः

दृश्यतेऽद्य त्वया पाल्यं शस्यपूर्णमनामयम् ।
कथ्यतां वा कथं ब्रह्मा वरं तुभ्यं प्रदत्तवान् ॥ ८८ ॥

मूलम्

दृश्यतेऽद्य त्वया पाल्यं शस्यपूर्णमनामयम् ।
कथ्यतां वा कथं ब्रह्मा वरं तुभ्यं प्रदत्तवान् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

भौम उवाच

ब्रह्मा स्वयं पर्वतरूपधारी
कामेश्वरीं धर्तुमिहावतीर्णः ।
तत्र स्वयं सम्प्रति घस्रमेति
पुरा न यावच्छपते वसिष्ठः ॥ ८९ ॥

मूलम्

भौम उवाच

ब्रह्मा स्वयं पर्वतरूपधारी
कामेश्वरीं धर्तुमिहावतीर्णः ।
तत्र स्वयं सम्प्रति घस्रमेति
पुरा न यावच्छपते वसिष्ठः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

सोऽयं पुरे मे बलिपुत्र राजते
देवौघसेव्योऽप्यमरोत्तमांशः ।
तत्राहमेको वरतोयभोजनो
वर्षाण्यकार्षं च तपः शतानि वै ॥ ९० ॥

मूलम्

सोऽयं पुरे मे बलिपुत्र राजते
देवौघसेव्योऽप्यमरोत्तमांशः ।
तत्राहमेको वरतोयभोजनो
वर्षाण्यकार्षं च तपः शतानि वै ॥ ९० ॥

विश्वास-प्रस्तुतिः

लौहित्यतीरे घनवायुसेविते
मनोहरे प्राणभृतां सुखप्रदे ।
तपःप्रवृत्तस्य मुखं समागम-
च्छरद् यथैका शरदां शतानि मे ॥ ९१ ॥

मूलम्

लौहित्यतीरे घनवायुसेविते
मनोहरे प्राणभृतां सुखप्रदे ।
तपःप्रवृत्तस्य मुखं समागम-
च्छरद् यथैका शरदां शतानि मे ॥ ९१ ॥

विश्वास-प्रस्तुतिः

ततः स तुष्टश्चतुराननोऽभवत्
प्रत्यक्षतो मां न्यगदच्च मद्धितम् ।
तव प्रसन्नोऽस्मि वरं यथेप्सितं
दास्ये गृहाणेति पुरोऽथ भूत्वा ॥ ९२ ॥

मूलम्

ततः स तुष्टश्चतुराननोऽभवत्
प्रत्यक्षतो मां न्यगदच्च मद्धितम् ।
तव प्रसन्नोऽस्मि वरं यथेप्सितं
दास्ये गृहाणेति पुरोऽथ भूत्वा ॥ ९२ ॥

विश्वास-प्रस्तुतिः

अवध्यता मे सुरयोनितः सुरा-
दच्छिन्नसन्तानमजेयता तथा ।
सदा विभूतिर्न जहातु मामिति
वराश्च नार्यो नवयौवनान्विताः ॥ ९३ ॥

मूलम्

अवध्यता मे सुरयोनितः सुरा-
दच्छिन्नसन्तानमजेयता तथा ।
सदा विभूतिर्न जहातु मामिति
वराश्च नार्यो नवयौवनान्विताः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

एते वराः पञ्च मया ततो वृताः
सोऽपि प्रतिश्रुत्य गतो निजास्पदम् ।
ततोऽहमभ्येत्य पुरं निजं मुदा
मन्त्रिप्रवीरैः सहितः पुनस्तान् ॥ ९४ ॥

मूलम्

एते वराः पञ्च मया ततो वृताः
सोऽपि प्रतिश्रुत्य गतो निजास्पदम् ।
ततोऽहमभ्येत्य पुरं निजं मुदा
मन्त्रिप्रवीरैः सहितः पुनस्तान् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

पौरान् सबन्धून् सगणानमोदयम्
दानेन मानेन च भोजनेन ॥ ९५ ॥

मूलम्

पौरान् सबन्धून् सगणानमोदयम्
दानेन मानेन च भोजनेन ॥ ९५ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इतीरितं तस्य बलेः सुतस्तदा
भौमस्य श्रुत्वा मुमुदे न तत्क्षणात् ।
इदं तदोचे वचनं क्षितेः सुतं
तत्कालयुक्तं न च्च सूनृतोद्भवम् ॥ ९६ ॥

मूलम्

मार्कण्डेय उवाच

इतीरितं तस्य बलेः सुतस्तदा
भौमस्य श्रुत्वा मुमुदे न तत्क्षणात् ।
इदं तदोचे वचनं क्षितेः सुतं
तत्कालयुक्तं न च्च सूनृतोद्भवम् ॥ ९६ ॥

विश्वास-प्रस्तुतिः

बाण उवाच

न ते मुनेः शापमतीत्य गन्तुं
भूता मतिर्मित्र तदा विधेः पुरः ।
कथं तु भद्रं भविता तवेह
भावीत्यवश्यं क्षितिपुत्र नित्यम् ॥ ९७ ॥

मूलम्

बाण उवाच

न ते मुनेः शापमतीत्य गन्तुं
भूता मतिर्मित्र तदा विधेः पुरः ।
कथं तु भद्रं भविता तवेह
भावीत्यवश्यं क्षितिपुत्र नित्यम् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

कृतस्य करणं नास्ति दैवाधिष्ठितकर्मणः ।
भावीत्यवश्यं यद्भाव्यं तत्र ब्रह्माप्यबाधकः ॥ ९८ ॥

मूलम्

कृतस्य करणं नास्ति दैवाधिष्ठितकर्मणः ।
भावीत्यवश्यं यद्भाव्यं तत्र ब्रह्माप्यबाधकः ॥ ९८ ॥

विश्वास-प्रस्तुतिः

तस्मात् त्वं सुमहावीरानसुरान् पावकोपमान् ।
सन्धयाय च पुरस्कृत्य साचिव्ये विनियोजय ॥ ९९ ॥

मूलम्

तस्मात् त्वं सुमहावीरानसुरान् पावकोपमान् ।
सन्धयाय च पुरस्कृत्य साचिव्ये विनियोजय ॥ ९९ ॥

विश्वास-प्रस्तुतिः

द्वारि संस्थाप्य वै वीरान् देवैरप् दुरासदान् ।
अतिक्रमस्व देवेशं यदि लब्धवरो भवान् ॥ १०० ॥

मूलम्

द्वारि संस्थाप्य वै वीरान् देवैरप् दुरासदान् ।
अतिक्रमस्व देवेशं यदि लब्धवरो भवान् ॥ १०० ॥

विश्वास-प्रस्तुतिः

विधिना यो वरो दत्तो भवते तत्-परीक्षणम् ।
कर्तुमर्हसि जायायामपुत्रो जनयात्मजम् ॥ १०१ ॥

मूलम्

विधिना यो वरो दत्तो भवते तत्-परीक्षणम् ।
कर्तुमर्हसि जायायामपुत्रो जनयात्मजम् ॥ १०१ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा प्रययौ बाणो यथावत् तेन पूजितः ।
नरको मित्रवचनं कर्तुं समुपचक्रमे ॥ १०२ ॥

मूलम्

इत्युक्त्वा प्रययौ बाणो यथावत् तेन पूजितः ।
नरको मित्रवचनं कर्तुं समुपचक्रमे ॥ १०२ ॥

विश्वास-प्रस्तुतिः

इति श्रीकालिकापुराणे भौमतपस्यायाम् एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥

मूलम्

इति श्रीकालिकापुराणे भौमतपस्यायाम् एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥