अष्टत्रिंशोऽध्यायः
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
अथ तस्य नृपश्रेष्ठो गौतमेन महर्षिणा ।
संस्कारं कारयामास विधिना मानुषेण तु ॥ १ ॥
मूलम्

नरस्य शीर्षे स्वशिरो निधाय स्थितवान् यतः ।
तस्मात्तस्य मुनिश्रेष्ठो नरकं नाम वै व्यधात् ॥ २ ॥

अपरान् बालसंस्कारान् क्षात्रेण विधिना मुनिः ।
केशान्तावधि सञ्चक्रे ऋग्यजुः साममन्त्रकैः ॥ ३ ॥

ववृधे तस्य सदने नरको नाम भूसुतः ।
दिनं दिनं धृतान्यश्रीः शरदीव निशाकरः ॥ ४ ॥

स राजा तं सदा भावैर्मानुषैयोजयन् स्वयम् ।
गौतमस्य सुतेनाथ शतानन्देन धीमता ।
ग्राहयामास तन्नित्यं क्षात्रं भावं च मानुषम् ॥ ५ ॥

तथैव पृथिवी देवी धात्रीवेषेण तं सुतम् ।
नियतं ग्राहयामास मानुषं चरितं शुभम् ॥ ६ ॥

यदैव पुत्र उत्पन्नस्तदैव पृथिवीस्वयम् ।
मायामानुषरूपेण नृपान्तःपुरमाविशत् ॥ ७ ॥
मूलम्
यदैव पुत्र उत्पन्नस्तदैव पृथिवीस्वयम् ।
मायामानुषरूपेण नृपान्तःपुरमाविशत् ॥ ७ ॥
विश्वास-प्रस्तुतिः
प्रविश्य तत्र सा देवी नृपस्यानुमतेऽभवत् ।
धात्री तस्य द्विजश्रेष्ठाः कात्यायन्या ह्यवस्थया ॥

यावत् षोडशवर्षाणि तस्य बालस्य भावीनि ।
तावत् स्वयं पालयन्ती ग्राहयामास सन्नयम् ॥ ९ ॥

स वर्धमानोऽनुदिनं नरकः पृथिवीसुतः ।
अत्यक्रामत् सुतान् सर्वान् जनकस्य महात्मनः ॥ १० ॥

शरीरेणाथ वीर्येण रूपेण बलवत्तया ।
धनुषा गदया वीरो ह्यत्यक्रामन् नृपात्मजान् ॥ ११ ॥

स शास्त्रवादकुशलो धनुर्वेदे च कोविदः ।
वर्षैः षोडशमिर्भूतो वीरैरन्यैर्दुरासदः ॥ १२ ॥

विदेहाधिपतिर्दृष्ट्वा महाबलपराक्रमम् ।
ततो न्यून्यान् स्वपुत्रांश्च नातिहृष्टमनाभवत् ॥ १३ ॥

निरस्यासौ च मत्पुत्रान् मम राज्यं ग्रहीष्यति ।
काले प्राप्ते महावीरो मतिस्तस्याभवत् पुरा ॥ १४ ॥

अन्तःपुरे यदा पुत्रान् सर्वान् रमयते नृपः ।
तदा तु नरकं वीक्ष्य हर्षं प्राप्नोति नाधिकम् ॥ १५ ॥

तस्य तद्वुबुधे देवी नृपस्याथ वसुन्धरा ।
महिषी विस्मयं चक्रे तस्मिन् भावे तु भूभृतः ॥ १६ ॥

अथैकदा महादेवी जनकस्य महात्मनः ।
पप्रच्छ नृपतिश्रेष्ठं विदेहाधिपतिं पतिम् ॥ १७७ ॥

महिषी उवाच
विश्वास-प्रस्तुतिः
नाथ पृच्छामि ते किञ्चिद्रहस्यं यदि नो तव ।
तदा मां तद्वदस्व त्वं कृपा चेद्विद्यते मयि ॥ १८ ॥

यदैव तनयाः सर्वे विहरन्ति पुरस्तव ।
तदैव नरकं दृष्ट्वा विमना इव लक्ष्यसे ॥ १९ ॥

तन्मे रात्रिन्दिवं वाढं विस्मयः प्रतिवर्धते ।
संशयश्च भयं चैव न जहाति च मां सदा ॥ २० ॥

रूपवान् वीर्यवानेष नये च विनये तथा ।
कुशलः प्रतिबुद्धश्च पुत्रस्तव महाबलः ॥ २१ ॥

न सभाजयसे कस्मात् पुत्रमन्यैर्दुरासदम् ।
तदहं ज्ञातुमिच्छामि यदि तथ्यं वदस्व मे ॥ २२ ॥
मूलम्
न सभाजयसे कस्मात् पुत्रमन्यैर्दुरासदम् ।
तदहं ज्ञातुमिच्छामि यदि तथ्यं वदस्व मे ॥ २२ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
इति तस्य वचः श्रुत्वा प्रियायाः पृथिवीपतिः ।
तूष्णीं भूत्वा क्षणं देवीमिदं वचनमब्रवीत् ॥ २३ ॥

राजोवाच
विश्वास-प्रस्तुतिः
कथयिष्ये प्रिये तत्त्वं यत् पृष्ठोऽहं त्वयाधुना ।
मासत्रये व्यतीते तु समयं प्रतिपालय ॥ २४ ॥

निगूढः कश्चिदत्रास्ति देवस्य समयो मम ।
तेनाधुना न किञ्चित्ते कथयिष्यामि तद्रहः ॥ २५ ॥
मूलम्
निगूढः कश्चिदत्रास्ति देवस्य समयो मम ।
तेनाधुना न किञ्चित्ते कथयिष्यामि तद्रहः ॥ २५ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
राज्ञो ह्ययं सभार्यस्य संवादोऽभवदन्तिके ।
मानुषी पृथिवी धात्री तं शुश्राव यदा तदा ॥ २६ ॥

श्रुत्वा तयोस्तु संवादं महिषीभूपयोः क्षितिः ।
मासत्रयेण समयं दत्तं देव्यै धराभृता ॥ २७ ॥

तत्काले विमनस्कं च भूपं नरकसञ्ज्ञया ।
त्रिभिर्मासैर्व्यतीतैः स्यादस्य षोडशवत्सरः ॥ २८ ॥

ततो नृपो महिष्यास्तु कथयिष्यति तद्रहः ।
ततो मम रहस्यं तु विदितं सम्भविष्यति ॥ २९ ॥

चिन्तयित्वेति सा देवी जगद्धात्री सुतं प्रति ।
निश्चित्येदं तदा कृत्यं प्राप्तकालमचेष्टत ॥ ३० ॥

ततो रहसि भूपं तं समासाद्य सगौतमम् ।
इदमाह जगद्धात्री स्वपुत्रार्थे यशस्विनी ॥ ३१ ॥

पृथिव्युवाच
विश्वास-प्रस्तुतिः
यो मया समयो दत्तः पालितः स त्वयानघ ।
पुत्रश्च पालितो मेऽयं नरको विनयैर्युतः ॥ ३२ ॥

सम्प्राप्तयौवनः पुत्रो योजितश्च त्वया नयैः ।
तव प्रसादात् पुत्रो मे सुखी वृद्धो गृहे तव ॥ ३३ ॥

तमहं पूर्वसमयान्नयिष्यामि स्वमात्मजम् ।
अनुजानीहि भद्रं ते नरकस्य गतिं प्रति ॥ ३४ ॥

रक्षितव्यश्च भवता समयः सपुरोधसा ।
छन्नमेव नयिष्यामि भूपते मा कृथा व्यथाय् ॥ ३५ ॥
मूलम्
रक्षितव्यश्च भवता समयः सपुरोधसा ।
छन्नमेव नयिष्यामि भूपते मा कृथा व्यथाय् ॥ ३५ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
इत्युक्त्वा जगतां धात्री विदेहाधिपतिं नृपम् ।
तत्रैव पश्यतां तेषामन्तर्धानमुपागमत् ॥ ३६ ॥

नृपोऽपि तस्यास्तद्वाक्यमगीङ्कृत्य क्षिति प्रति ।
तस्याः प्रत्यक्षतः स्थानं जगाम सपुरोहितः ॥ ३७ ॥

अथैकदा धरा देवी मायामानुषरूपिणी ।
उपांशु नरकं प्राह धात्री तस्य महात्मनः ॥ ३८ ॥

त्वया समं महाबाहो गङ्गां यातुं मनो मम ।
यदि त्वं यासि यास्यामि रथेनाद्यैव पुत्रक ॥ ३९ ॥

नरक उवाच
विश्वास-प्रस्तुतिः
न पितुर्वचनं यास्ये विना मातस्त्वया समम् ।
अनुज्ञाप्य रथेनाहं यास्ये गङ्गां त्वया समम् ॥ ४० ॥

नुज्ञाप्य महाराजं करिष्यामि तवेप्सितम् ।
गुरुञ्च तनयं तस्य शतानन्दं द्विजोत्तमम् ॥ ४१ ॥

धात्र्युवाच
विश्वास-प्रस्तुतिः
न ते पितायं जनको यः सर्वजगतां प्रभुः ।
स ते पिता तं गङ्गायां पश्य गत्वा मया सह ॥ ४२ ॥

अयं पिता पालकस्ते न राज्यं सम्प्रदास्यति ।
यस्ते वर्धयिता तात तमासादय पुत्रक ॥ ४३ ॥

अत्रं यद्मद्रहस्यं तद् गङ्गायामेव पुत्रक ।
कथयिष्याम्यहं सर्वं रहोभङ्गस्ततोऽन्यथा ॥ ४४ ॥
मूलम्
अत्रं यद्मद्रहस्यं तद् गङ्गायामेव पुत्रक ।
कथयिष्याम्यहं सर्वं रहोभङ्गस्ततोऽन्यथा ॥ ४४ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
जातसम्प्रत्ययो धात्र्या वचसा नरकस्तथा ।
विहाय यानं छन्देन पद्भ्यां गङ्गा ययौ तदा ॥ ४५ ॥

अथ गङ्गा समासाद्य संस्नाप्य विधिवत् सुतम् ।
आत्मानं दर्शयामास पृथिवी स्वसुताय व ॥ ४६ ॥

मायामानुषमूर्तिं तां विहाय जगतां प्रसूः ।
नीलोत्पलदलश्यामं सर्वलक्षणसंयुतम् ॥ ४७ ॥

सर्वाङ्गसुन्दरं चारु नानालङ्कारभूषितम् ।
पुत्राय दर्शयामास नरकाय वसुन्धरा ॥ ४८ ॥

कथामेताञ्च पूर्वस्मिन्नुद्भूतां पृथिवी तदा ।
कथयामास पुत्राय प्रतीतिर्जायते यथा ॥ ४९ ॥

मम गर्भे यथा पुत्र वर्धसे त्वं दिने दिने ।
ब्रह्मादयस्तदा देवा आलोक्य स्वयमेव ते ॥ ५० ॥

मलिनीक्षितिसञ्जातः पुत्रो विष्णोर्महात्मनः ।
आसुरं भावमास्थाय सवान्नस्मान् हनिष्यति ॥ ५१ ॥

इति चिन्तापरा देवाः कुमन्त्रं चक्रिरे तदा ।
अवं नोत्पद्यतां गर्भाद्गर्भे तिष्ठत्वयं सदा ॥ ५२ ॥

ततो मम भवान् गर्भे सुबहूनि युगान्यथ ।
अवसद्दुःखवान् पुत्र देवानां च कुमन्त्रतः ॥ ५३ ॥

मृतकल्पाभवमहं भवतो धारणात् सुत ।
ततोऽहं शरणं याता भगवन्तं सनातनम् ॥ ५४ ॥
मूलम्
मृतकल्पाभवमहं भवतो धारणात् सुत ।
ततोऽहं शरणं याता भगवन्तं सनातनम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
नारायणस्य वाक्यत् तु भवानुत्पन्नवांस्ततः ।
इति सत्यं मम वचः पुत्र जानीहि निश्चितम् ॥ ५५ ॥
मूलम्
नारायणस्य वाक्यत् तु भवानुत्पन्नवांस्ततः ।
इति सत्यं मम वचः पुत्र जानीहि निश्चितम् ॥ ५५ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
अथ यावन्नपुत्रस्य विस्मयः समपद्यत ।
तावदेव स्वयं देवी प्रोचे पुत्रमिदं वचः ॥ ५६ ॥

अथा विदेहराजस्य यज्ञभूमावसूयत ।
विदेहराजेन समं यादृशः समयोऽभवत् ॥ ५७ ॥
मूलम्
अथा विदेहराजस्य यज्ञभूमावसूयत ।
विदेहराजेन समं यादृशः समयोऽभवत् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
यथा मानुषरूपेण धात्री सा समपद्यत ।
तत् सर्वं कथयामास नरकाय महात्मने ॥ ५८ ॥
मूलम्
यथा मानुषरूपेण धात्री सा समपद्यत ।
तत् सर्वं कथयामास नरकाय महात्मने ॥ ५८ ॥
विश्वास-प्रस्तुतिः
अथ तां पृथिवीं प्राह नरकः पुनरेव हि ।
पृथिव्याः वचनं श्रुत्वा स्वल्पसंशयसंयुतः ॥ ५९ ॥
मूलम्
अथ तां पृथिवीं प्राह नरकः पुनरेव हि ।
पृथिव्याः वचनं श्रुत्वा स्वल्पसंशयसंयुतः ॥ ५९ ॥
नरक उवाच
विश्वास-प्रस्तुतिः
अद्येवं मे पिता विष्णुर्माता त्वं पृथिवी शुभे ।
आगच्छतु जगन्नाथो ममैवाभ्युपपत्तये ॥ ६० ॥

स एव सर्व लोकेशो यदि मां भाषतेऽच्युतः ।
पिताहं ते त्वियं माता श्रद्धधे तदहं शुभे ॥ ६१ ॥

त्वया मानुषरूपेण धात्र्याहं प्रतिपालितः ।
तद्रूपं द्रष्टुमिच्छामि यदि ते रूपमीदृशम् ॥ ६२ ॥

अहं ते जननी तात मया ज्ञातोऽसि पुत्रक ।
पृथिव्यहं जगद्धात्री मद्रूपं मृन्मययन्त्विदम् ॥ ६३ ॥

पिता तव महाबाहो प्रभुर्नारायणोऽव्ययः ।
अच्युतो जगतां धाता महात्मा शूकरात्मधृक् ॥ ६४ ॥

तेनाहितस्त्वं मद्गर्भे सुचिरं त्वं पुरावसः ।
सम्प्राप्ते समये जातः पालितश्चेह भूभृता ॥ ६५ ॥
मूलम्
तेनाहितस्त्वं मद्गर्भे सुचिरं त्वं पुरावसः ।
सम्प्राप्ते समये जातः पालितश्चेह भूभृता ॥ ६५ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
इति तस्य वचः श्रुत्वा हर्षशोकाकुलस्तदा ।
नरकः पृथिवीं देवीमिदमाह धनुर्धरः ॥ ६६ ॥
मूलम्
इति तस्य वचः श्रुत्वा हर्षशोकाकुलस्तदा ।
नरकः पृथिवीं देवीमिदमाह धनुर्धरः ॥ ६६ ॥
नरक उवाच
विश्वास-प्रस्तुतिः
न माता विदिता पूर्वं माहाहकिति भाससे ।
विष्णुः पितेति च वचो न पिता विदितो मम ॥ ६७ ॥

जानामि पितरं चाह विदेहाधिपतिं नृपम् ।
तस्य भार्यां सुमत्याख्यामहं जानाति मातरम् ॥ ६८ ॥

भ्रातरस्तत्सुता सर्वे सीता मे भगिनी शुभा ।
सुमतिर्मम मातेति लोको जानाति सन्तमम् ॥ ६९ ॥

कात्यायनी च धात्री मे याधुनैव कृता त्वया ।
एतत् सर्वं त्वया मिथ्या शंशितं मम साम्प्रतम् ।
यथा तत्वाहं तनयः सत्यमाख्याहि तन्मम ॥ ७० ॥

पुत्रस्य वचनं चेति श्रुत्वा सर्वंसहा तदा ।
सर्वं तत् पूर्ववृत्तान्तं तनयाय न्यवेदयत् ॥ ७१ ॥

यथा मलिन्या सम्भोगो वराहस्याभवत् पुरा ।
यथा गर्भ धृतो देवर्येन या कारणेन सः ॥ ७२ ॥

यथा च गर्भदुःखार्ता माधवं शरणं गता ।
यथा तेन प्रदतश्च समयो जनकं प्रति ॥ ७३ ॥
मूलम्
यथा च गर्भदुःखार्ता माधवं शरणं गता ।
यथा तेन प्रदतश्च समयो जनकं प्रति ॥ ७३ ॥
ऋषयः ऊचुः
विश्वास-प्रस्तुतिः
किमर्थं समयो दत्तो विष्णुणा प्रभविष्णुना ।
निहते रावणे वीरे रामेण सुमहात्मना ॥ ७४ ॥

भविष्यति सुतस्ते वै तत्र न संशयो महान् ।
एतान् त्वं संशयान् छिन्धि गुरो शास्तासि नः सदा ॥ ७५ ॥
मूलम्
भविष्यति सुतस्ते वै तत्र न संशयो महान् ।
एतान् त्वं संशयान् छिन्धि गुरो शास्तासि नः सदा ॥ ७५ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
भारार्ता रावणादीनां पृथिवी मांसभोगिनाम् ।
अधोगता योजनानि पञ्च वै द्विजसत्तमाः ॥ ७६ ॥

अयं वराहवीर्येण जातो गर्भे क्षितेः पुनः ।
असावपि महाराजो दशग्रीवो यथाभवत् ॥ ७७ ॥

अधो यास्यति भारार्ता सातीव पृथिवी त्विति ।
समयो दत्तवात् विष्णू रावणे निहते सति ।
धरायै भारविहतिव्याजेन द्विजसत्तमाः ॥ ७८ ॥

त्वत्पूर्वरूपं दृष्ट्वा वै वचनाच्च जगद्गुरोः ।
जातश्रद्धो महाभागे स्थास्यामि समये तव ॥ ७९ ॥

पुत्रस्य वचनं श्रुत्वा पृथिवी प्रथमं तदा ।
मायामानुषरूपं तत् प्रतिजग्राह तत्पुरः ॥ ८० ॥

यथा कात्यायनीरूपं येन रूपेण पालितः ।
नरकः सा तु तद्गृह्य तत्याज पृथिवी तनुम् ॥ ८१ ॥

अथ दृष्टैव नरको धात्रीं कात्यायनीं तदा ।
पप्रच्छ पूर्व वृत्तान्तं यद्वृत्तं नृपमन्दिरे ॥ ८२ ॥

सा तथा कथयामास यथा सम्प्रति पालितः ।
यद्वृत्तं पूर्वतो गेहे नृपस्य जनकस्य तु ॥ ८३ ॥

जातसम्प्रत्ययस्तत्र नरकः समपद्यत ।
पृथिवी च पुनर्देवीरूपं स्वं जगृहे तदा ॥ ८४ ॥

अथ सस्मार पृथिवी जगन्नाथं हरिं प्रभुम् ।
समये पूर्वविहिते प्रणम्य शिरसा मुहूः ॥ ८५ ॥

स्मृतमात्रस्तदा क्षित्या माधवो गरुडध्वजः ।
प्रसन्नो जगतां नाथः प्रत्यक्षत्वं गतस्तदा ॥ ८६ ॥

तं दृष्ट्वा पृथिवी देवी देवं गरुडवाहनम् ।
नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ ८७ ॥

पीताम्बरं जगन्नाथं श्रीवत्सोरस्कमव्ययम् ।
प्रणनाम महाभक्त्या पस्पर्श शिरसा महीम् ॥ ८८ ॥

परमेश जगन्नाथ जगत्कारणकारण ।
प्रसीदेति वचश्चापि तदा प्रोचे जगतप्रसूः ॥ ८९ ॥

नरकस्तु हरिं दृष्ट्वा निमील्य नयनद्वयम् ।
तत्तेजसा चाभिभूतेस्तदा भूमावुपाविशत् ॥ ९० ॥

उपविष्टे तदा देवी तनये नरकाह्ववे ।
प्रसादयामास तदा पुत्रार्थे वरवर्णिनी ॥ ९१ ॥

प्रसाद्यमानो धरया हरिर्णारायणोऽव्ययः ।
शङ्खाग्रेण तदा पुत्रं पस्पर्श नरकाह्वयम् ॥ ९२ ॥

स्पृष्टमात्रोऽथ हरिणा नरकोऽभूत् सुदर्शनः ।
दृष्टश्चोत्साहवांश्चैव बलवान् समपद्यत ॥ ९३ ॥

तत उत्थाय नरको हरिं नारायणं प्रभुम् ।
भक्त्या प्रणम्य गोविन्दं साष्टाङ्ग च मुहुर्मुहुः ॥ ९४ ॥

ननाम पृथिवीं वीरो जातसम्प्रत्ययास्तदा ।
प्रणम्य च महाभागां भक्त्या परमया युतः ॥ ९५ ॥

प्राञ्जलिः पुरतस्तस्थौ नोक्त्वा किञ्चन वै भिया ।
ततस्तदर्थे पृथिवी माधवं समयाचत ॥ ९६ ॥

प्रसीद देवदेवेश समयं प्रतिपालय ।
त्वयाहं तनयो दत्तो मम सर्वं जगत्पते ।
एतदर्थे प्रतिज्ञातं यद्दत्तं प्रतिपालय ॥ ९७ ॥

भगवानुवाच
विश्वास-प्रस्तुतिः
भवती यत् सुपुत्रार्थे मामयाचत पुरा मया ।
तत् सर्वन्त् अव दत्तं वै राज्यं दत्तं च वत्सुते ॥ ९८ ॥

इत्युक्त्वा भगवान् विष्णुरादाय नरकाह्वयम् ।
सार्द्धं पृथिव्या गङ्गायां ममज्ज जगतां प्रभुः ॥ ९९ ॥

निमज्य क्षणमात्रेण प्राग्ज्योतिषपुरं गतः ।
मध्यगं कामारूपस्य कामाख्या यत्र नायिकाः ॥ १०० ॥

स च देशः स्वराज्यार्थे पूर्वं सुप्तश्च शम्भुना ।
किरातैर्बलिभिः क्रूरैरज्ञेरपि च वासितः ॥ १०१ ॥

रुक्मस्तम्भनिभांस्तत्र किरातान् ज्ञानवर्जितान् ।
अनर्थमुण्डितान् मद्यमांसाशनैकतत्परान् ॥ १०२ ॥

ददर्श विष्णुः कुपितान् विष्णुं दृष्ट्वा द्विजर्षभाः ।
तेषामधिपतिस्तत्र घटको नाम वीर्यवान् ।
रुक्मस्तम्भनिभस्तत्रः प्रदीप्त इव पावकः ॥ १०३ ॥

स क्रोद्धाच्चतुरङ्गेन बलेन महता युतः ।
आससाद जगन्नाथं नरकं च महावलम् ॥ १०४ ॥
मूलम्
स क्रोद्धाच्चतुरङ्गेन बलेन महता युतः ।
आससाद जगन्नाथं नरकं च महावलम् ॥ १०४ ॥
विश्वास-प्रस्तुतिः
आसाद्य शरवर्षेण ववर्ष प्रभुमव्ययम् ।
किरातैः सहितो राजा घटकाख्यः किरातराट् ॥ १०५ ॥

माधवोपि तदा पुत्रं नरकं वीर्यवत्तरम् ।
प्रेस्यामास युद्धाय किरातनृपतेस्तदा ॥ १०६ ॥

नरको धनुरादाय सह तैर्बलवत्तरैः ।
युयुधे सुचिरं तत्र शस्त्रास्त्रैर्बहुधेरितैः ॥ १०७ ॥

ततोऽसौ भल्लमादाय योजयिता धनुर्गुणैः ।
शिरः किरातराजस्य चिच्छेद नरको बली ॥ १०८ ॥

मुख्यान् मुख्यान् किरातांश्च बहून् सेनाधिपांस्तथा ।
जघान कुपितो वीरः केशरीव मतङ्गजान् ॥ १०९ ॥

हतेऽथ नृपतौ केचित् पलायनपरायणाः ।
किराताः केचन पुनर्नरकं शरणं गताः ॥ ११० ॥

निहत्य युध्यमानांस्तु संरक्ष्य शरणं गतान् ।
नरकः पितरं गत्वा प्रणम्याथ न्यवेदयत् ॥ १११ ॥

हतस्तात किरातानामधिपो घटको मया ।
सेनाधिपाश्च तस्यान्ये किमन्यत् कुरवाण्यहम् ॥ ११२ ॥

श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
किरातान् जहि यावत्त्वं देवीं दिक्करवासिनीम् ।
पलायमानान् विद्राव्य पालय शरणं गतान् ॥ ११३ ॥
मूलम्
किरातान् जहि यावत्त्वं देवीं दिक्करवासिनीम् ।
पलायमानान् विद्राव्य पालय शरणं गतान् ॥ ११३ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
ततः स नरको वीरः समारुह्य सितं गजम् ।
चतुर्दन्तं महाकायं किराताधिपवाहनम् ॥ ११४ ॥

ऐरावतसमं वीर्ये वेगेन गरुडोपमम् ।
किरातान् द्रावयामास यावद्दिक्करवासिनीम् ॥ ११५ ॥

पितरं पुनरागत्य वचनं चेदमब्रवीत् ।
नरक उवाच
विद्राविताः किरातास्ते सागरान्तं समाश्रिताः ॥ ११६ ॥
विश्वास-प्रस्तुतिः
हतश्च घऽकाख्यो हि किराताधिपतिर्महान् ।
वेगिनं गजमारुह्य ऐरावतसमं गुणैः ।
यदन्यत् करणीयं मे तदाज्ञापय सम्प्रति ॥ ११७ ॥

करतोया सदा गङ्गा पूर्वभागावधिश्रया ।
यावल्ललितकान्तास्ति तावदेव पुरं तव ॥ ११८ ॥

अत्र देवी महाभागा योगनिद्रा जगत्प्रसूः ।
कामाख्यारूपमास्थाय सदा तिष्ठति शोभना ॥ ११९ ॥

अत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः ।
अत्रैव दशदिकपालाः स्वे स्वे पीठे व्यवस्थिताः ॥ १२० ॥

अत्र स्वयं महादेवो ब्रह्मा चाहं व्यवस्थितः ।
चन्द्रः सूर्यश्च सततं वसतोऽत्र च पुत्रक ॥ १२१ ॥

सर्वे क्रीडार्थमायाता रहस्यं देशमुत्तमम् ।
अत्र श्रीर्वसते भद्रा भोग्यमत्र तथा बहु ॥ १२२ ॥

अस्य मध्ये स्थितो ब्रह्मा प्रङ्नक्षत्रं ससर्ज ह ।
ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा ॥ १२३ ॥

अत्र त्वं वस भद्रं ते ह्यभिषिक्तो मया स्वयम् ।
कृतदारः सहामात्यै राजा भूत्वा महाबलः ॥ १२४ ॥
मूलम्
अत्र त्वं वस भद्रं ते ह्यभिषिक्तो मया स्वयम् ।
कृतदारः सहामात्यै राजा भूत्वा महाबलः ॥ १२४ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
एवमुक्त्वा स्वयं विष्णुः शम्भोरनुमते तदा ।
सर्वान् किरातान् पूर्वस्यां सागरान्ते न्यवेशयत् ॥ १२५ ॥

पूर्वं ललितकान्तायाः समादायावधिं पुनः ।
यावत् सागरपर्यन्तं किरातास्तावदावसन् ॥ १२६ ॥

पश्चाल्ललितकान्तायाः देर्श कृत्वावधिं पुनः ।
करतोया नदीं यावत् कामाख्यानिलयं तु तत् ॥ १२७ ॥

तस्मात् किरातानुत्सार्य वेदशास्त्रातिगान् बहून् ।
द्विजातीन् वासयामास तत्र वर्णान् सनातनान् ॥ १२८ ॥

वेदाध्ययनदानादि सततं वर्तते यथा ।
तथा चकार भगवान् मुनिभिर्वासयन् विभुः ॥ १२९ ॥

वेदवादरताः सर्वे दानधर्मपरायणाः ।
नचिरादभवद्देशः कामरूपाह्वयस्तदा ॥ १३० ॥
मूलम्
वेदवादरताः सर्वे दानधर्मपरायणाः ।
नचिरादभवद्देशः कामरूपाह्वयस्तदा ॥ १३० ॥
विश्वास-प्रस्तुतिः
ततो विदर्भराजस्य पुत्रीं मायाह्वयां हरिः ।
पुत्रार्थे वरयामास नरकस्य समां गुणैः ॥ १३१ ॥

तामुद्वाह्य हृषीकेशस्तस्मिन् पुरवरे स्वयम् ।
तया समं स्वतनयं राजत्वेनाभ्यषेचयत् ॥ १३२ ॥

सूगुप्तां च पुरीं चक्रे गिरिदुर्गेण माधव ।
जलदुर्गं सर्वतो भद्रं देवैरपि दुरासदम् ॥ १३३ ॥

ततः किरातराजस्य चतुर्दन्ताः सुदन्तिनः ।
पञ्चविंशतिसाहस्रा महामात्रकुथैर्युताः ॥ १३४ ॥

यानि रत्नान्यनेकानि सैन्यानि विविधानि च ।
अश्वाश्चाभरणाश्चैव तत्सर्वं नरकोऽग्रहीत् ॥ १३५ ॥

यद्यत् सुभूषणं राज्ञो ध्वजाश्चाभरणानि च ।
तानि तानि स्वयं विष्णुस्तनयस्य ददौ तदा ॥ १३६ ॥

रथं च प्रददौ तस्मै त्रिषु लोकेषु दुर्लभम् ।
लोहाष्टचक्रसञ्छन्नमर्धयोजनविस्तृतम् ॥ १३७ ॥

युक्तमश्वसहस्रैश्च तथाष्टाभिर्मनोजवैः ।
रत्नकाञ्चनचित्राढ्यं वेदिकाभागविस्तरम् ॥ १३८ ॥

वज्रध्वजेन महता काञ्चनेन विराजितम् ।
हेमदण्डपताकाढ्यं वैदूर्यमणिकूबरम् ॥ १३९ ॥

सिंहव्याघ्रसमुद्भूतैश्चर्मभिश्छादितं सदा ।
लोहजालैश्च सञ्छन्नं किङ्ङ्कणीजालमालिनम् ।
सर्वप्रहरणैर्युक्तं बहुमायासमन्वितम् ॥ १४० ॥

शक्तिं च प्रददौ तस्मै सर्वशत्रुविशातनीम् ।
ज्वालामालाभिदीप्ताङ्गीं रिपुकक्षाग्निरूपिणीम् ॥ १४१ ॥

इमं च समयं प्रोचे नरकान महात्मने ।
नरकस्य हितायेशो वसुधायाः समक्षतः ॥ १४२ ॥
मूलम्
इमं च समयं प्रोचे नरकान महात्मने ।
नरकस्य हितायेशो वसुधायाः समक्षतः ॥ १४२ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
इमां शक्तिं न हि भवान् प्राणानां संशयं विना ।
प्रयोक्ष्यति कदाचित्तु मानुषेषु विशेषतः ॥ १४३ ॥

एषा भार्या च वैदर्भी भवतः सदृशी गुणैः ।
भवतो जीवनं यावत्तावत् स्थास्यति शोभना ॥ १४४ ॥

त्वं तु प्रजायै त्रेतायां यत्नवान् वै भविष्यसि ।
द्वापरान्ते तु सम्प्राप्ते प्रजा तत्र भविष्यति ॥ १४५ ॥

विरोधो मुनिभिः सार्धं ब्राह्मणैरपि पुत्रक ।
न कदाचित्त्वया कार्यश्चिरञ्जीवितुमिच्छता ॥ १४६ ॥

न राजभिर्न देवैश्च विरोधो युज्यते तव ।
महादुर्गस्य वे मध्ये वसतो ह्यपराजिते ॥ १४७ ॥

दिव्ययोषिद्गणैः सार्धं वसमानोऽतिभोगवान् ।
स्वपर्वते कामरूपे चिरं त्वं तिष्ठ तुत्रक ॥ १४८ ॥

महादेवीं महामायां जगन्मातरमम्बिकाम् ।
कामाख्यां त्वं विना पुत्र नान्यदेवं यजिष्यसि ॥ १४९ ॥

इतोऽन्यथा त्वं विहरन् गतप्राणो भविष्यसि ।
तस्मान्नाक यत्रेन समयं प्रनिपालय ॥ १५० ॥
मूलम्
इतोऽन्यथा त्वं विहरन् गतप्राणो भविष्यसि ।
तस्मान्नाक यत्रेन समयं प्रनिपालय ॥ १५० ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
इत्युक्त्वा भगवान् विष्णुर्नरकं तनयं स्वकम् ।
तमपास्य रहस्येनां पृथिवीं वाक्यमब्रवीत् ॥ १५१ ॥

यद् यत् पूर्वं मया प्रोक्तं कर्तव्यं तव सुन्दरि ।
तत् सर्वं नरकायाशु भूत्यै समुपदेशय ॥ १५२ ॥

यदैनं त्वं स्वयं हन्तुं मां जगद्धात्रि भाषसे ।
तदा तु मानुषः कश्चिन्नरकं निहनिष्यति ॥ १५३ ॥

प्रजार्थमेष यत्नो मे निन्द्यः स्यात् सन्ततिं विना ।
तस्मान्नाथ प्रयन्तान्मे सन्ततिं पालयिष्यसि ॥ १५४ ॥
मूलम्
प्रजार्थमेष यत्नो मे निन्द्यः स्यात् सन्ततिं विना ।
तस्मान्नाथ प्रयन्तान्मे सन्ततिं पालयिष्यसि ॥ १५४ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
एवमस्त्विति तां विष्णुः पृथिवीं प्रति पावनः ।
नरकं च समाभाष्य तत्रान्तर्धिमगात् क्षणात् ॥ १५५ ॥

गते हरौ निजस्थानं पृथिवी तनरं स्वकम् ।
यत् पूर्वं हरिणा प्रोक्तं तत्र तं व्यनयत् स्वयम् ॥ १५६ ॥

नरकोऽपि तदा धीमान् वेदशास्त्रार्थपारगः ।
ब्रह्मण्यनीतिकुशलो वदान्यो दानतत्परः ॥ १५७ ॥

कामाख्यापूजनरतो नीलकूटे महागिरौ ।
महाभोगी महाश्रीमान् हीनबाधश्च शत्रुभिः ।
सुचिरं राज्यमकरोच्छक्रवत्त्रिदशालये ॥ १५८ ॥

ततो विदेहराजोऽपि श्रुत्वैव नरकश्रियम् ।
सपुत्रभार्यः सगुणो नरकं द्रष्टुमभ्यगात् ॥ १५९ ॥

प्राग्ज्योतिषं पुरं गत्वा कामरूपान्तरस्थितम् ।
ददर्श नरकं राजा शरच्चन्द्रसमं श्रिया ॥ १६० ॥

प्राग्ज्योतिषं पुरं मेने स राजा त्वमरावतीम् ।
देवेन्द्रं नरकं मेने सत्परिच्छदभूषणम् ॥ १६१ ॥

जनक उवाच
विश्वास-प्रस्तुतिः
ततो महिष्यै तत् सर्वं जनको वाक्यमब्रवीत् ।
एष ते पालितसुतः श्रीमान् नरकसञ्ज्ञकः ॥ १६२ ॥

पृथिव्या दयितः पुत्रः सञ्जातो घृष्टिरूपिणा ।
विष्णुना जगदीशेन त्वमेनं पश्य सङ्गतम् ॥ १६३ ॥
मूलम्
पृथिव्या दयितः पुत्रः सञ्जातो घृष्टिरूपिणा ।
विष्णुना जगदीशेन त्वमेनं पश्य सङ्गतम् ॥ १६३ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
इत्युक्त्वा जनको राजा यथा वृत्तं तथा पुरा ।
वृत्तान्तं कथयामास नरको जातवान् यथा ॥ १६४ ॥

ततस्तत्र चिरं स्थित्वा प्राग्ज्योतिषपुरे मुदा ।
विदेहाधिपती राजा नरकेण प्रपूजितः ॥ १६५ ॥

स्वस्थानं गतवांस्तस्मात् स्वगणैः परिवारितः ॥ १६६ ॥
विश्वास-प्रस्तुतिः
एवं स नरको जातः पृथिव्यास्तनयस्तदा ।
हीनासुरस्वभावः संविजहार चिरं क्षितौ ॥ १६७ ॥

इति श्रीकालिकापुराणे नरकाभिषेचनेऽष्तत्रिंशोऽध्यायः ॥ ३८ ॥