विश्वास-प्रस्तुतिः
सप्तत्रिंशोऽध्यायः
मार्कण्डेय उवाच
अथ काले बहुतिथे व्यतीते द्विजसत्तमाः ।
विदेहविषये राजा जनको नाम वीर्यवान् ॥ १ ॥
मूलम्

सर्वराजगुणैर्युक्तो राजनीतिविवर्धितः ।
सत्यवाक् शीलवान् दक्षो ब्रह्मण्यः प्रयतः शुचिः ॥ २ ॥

देवद्विजगुरूणां च पूजासु निरतः सदा ।
बभूव सर्वलोकानां पितेव परिपालकः ॥ ३ ॥
मूलम्
देवद्विजगुरूणां च पूजासु निरतः सदा ।
बभूव सर्वलोकानां पितेव परिपालकः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तस्य राज्ञः सुतो नाभूत् प्राप्ते कालेऽपि वै यदा ।
तदा स विमना भूत्वा चिन्ताध्यानपरोऽभवत् ॥ ४ ॥

एकदा सोऽथ सुश्राव नारदस्य मुखान्नृपः ।
अपुत्रो नृपतिर्वृद्धो नाम्ना दशरतो महान् ॥ ५ ॥

पुत्रान् लेभे महासत्वानध्वरेण महामतिः ।
अयोध्यायां नगर्यां तु ऋष्यशृङ्गपुरोगमैः ॥ ६ ॥

मुनिभिर्विहितैर्यज्ञैर्लब्धवान् सभूपः सुतान् ।
रामं च भरतं चैव शत्रुघ्नं लक्ष्मणं तथा ॥ ७ ॥

महासत्वान् महावीरान् देवगर्भोपमाञ्छुभान् ।
तच्छ्रुत्वा जनको राजा प्रविश्यान्तःपुरं स्वकम् ।
भार्याभिर्मन्त्रयामास यज्ञार्थं पुत्रजन्मने ॥ ८ ॥

मन्त्रयित्वा तदा राजा महिषीप्रमुखैःस्वयम् ।
चतसृभिस्तु भार्याभिर्यज्ञार्थं दीक्षितोऽभवत् ॥ ९ ॥

ततः पुरोधसं राजा गौतमं मुनिसत्तमम् ।
तत्पुत्रं च शतानन्दं पुरोधायाकरोन्मस्वम् ॥ १० ॥

द्वौ पुत्रौ तस्य सञ्जातौ यज्ञभूमौ मनोहरौ ।
एका च दुहिता साध्वी भूम्यन्तरगता शुभा ॥ ११ ॥

नारदस्योपदेशेन यज्ञभूमिं ततो नृपः ।
हलेन दारयामास यज्ञबाटावधिस्वयम् ॥ १२ ॥
मूलम्
नारदस्योपदेशेन यज्ञभूमिं ततो नृपः ।
हलेन दारयामास यज्ञबाटावधिस्वयम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
तद्भूमिजातसीतायां शुभां कन्यां समुत्थिताम् ।
लेभे राजा मुदा युक्तः सर्वलक्षणसंयुताम् ॥ १३ ॥

तस्यां तु जातमात्रायां पृथिव्यन्तर्हिता स्वयम् ।
जगाद वचनं चेदं गौतमं नारदं नृपम् ॥ १४ ॥

पृथिव्युवाच
एषा सुता मया दत्ता तव राजन् मनोहरा ।
एनां गृहाण सुभगां कुलद्वयशुभावहाम् ॥ १५ ॥

अनया मे महाभारस्तत्त्वतो हेतुभूतया ।
क्षयं यास्यति भारार्ति मोचयिष्यामि दारुणाम् ॥ १६ ॥

रावणाद्या महावीराः कुम्भकर्णादयोऽपरे ।
नाशं यास्यति दुर्घर्षां कृतेऽस्या राक्षसाः परे ॥ १७ ॥

त्वं च मोदं दुराघर्षं दुहितकृतिजं नृपः ।
अवाप्स्यसि सुराणां च पितृणामृणशोधनम् ॥ १८ ॥

किन्त्वेकः समयः कार्यस्त्वया मम नरोत्तम ।
तमहं ते प्रवक्ष्यामि पुरो नारदगौतमौ ॥ १९ ॥

निहते रावणे वीरे भारार्ति-रहिता सुखम् ।
सुपुत्रं जनयिष्यामि यज्ञभूमावहं तव ॥ २० ॥

तं पुत्रवत् पालयिता भवान् नृपतिसत्तम ।
यावद्व्यतीतबाल्यः सन् भविता तनयो मम ॥ २१ ॥

व्यतीतबाल्यं तमहं पालयिष्ये स्वयं नृप ।
तस्य स्यान्मानुषो भावो यथा त्वं तत्करिष्यसि ॥ २२ ॥
मूलम्
व्यतीतबाल्यं तमहं पालयिष्ये स्वयं नृप ।
तस्य स्यान्मानुषो भावो यथा त्वं तत्करिष्यसि ॥ २२ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति पृथिव्या वचनं श्रुत्वा राजा तदा मुदा ।
प्रणम्य पृथिवीं प्राह साम्ना स जनकाह्वयः ॥ २३ ॥

राजोवाच
यत् त्वं ब्रूषे जगद्धात्रि करिष्ये तद्वचस्तव ।
ममापीष्टं प्रयच्छस्व प्रसीद परमेश्वरि ॥ २४ ॥

देवि प्रत्यक्षतो रूपं द्रष्टुमिच्छाभ्यहं तव ।
शक्तिस्त्वं लोकजननी त्वां नमामि प्रसीद मे ॥ २५ ॥

इति तस्य वचः श्रुत्वा जनकस्य तदा क्षितिः ।
मुनीनां सन्निधौ रूपं दर्शयामास भूभृते ॥ २६ ॥

नीलोत्पलदलश्यामामक्षमालाब्जधारिणीम् ।
बाहुयुग्मेन शुभ्रेण मृणालायतशोभिना ।
सुन्दरीं लोकधात्रीं तां दृष्ट्वा शश्वत् नृपोऽनमत् ॥ २७ ॥

ततः सा पृथिवी देवी सीतां जातां नृपात्मजाम् ।
करेण शश्वत् संस्पृश्य वचनं चेदमब्रवीत् ॥ २८ ॥

इयं ते मानुषं भावमवाप्स्यति जगत्प्रसूः ।
तव पुत्री नृपश्रेष्ठ समयं प्रतिपालय ॥ २९ ॥
मूलम्
इयं ते मानुषं भावमवाप्स्यति जगत्प्रसूः ।
तव पुत्री नृपश्रेष्ठ समयं प्रतिपालय ॥ २९ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इत्युक्त्वा पृथिवी देवी राजानं जनकाह्वयम् ।
सम्भाष्य नारदादींस्तांस्तत्रैवान्तरधीयत ॥ ३० ॥

जनकोऽपि सुतां लब्ध्वा सर्वलक्षणशालिनीम् ।
सुतद्वयं तथा प्राप्य मुदितः स्वगृहं ययौ ॥ ३१ ॥

ततः काले तु सम्प्राप्ते रावणे राक्षसे हते ।
मानुषेण स्वरूपेण विष्णुना प्रभविष्णुना ॥ ३२ ॥

गत्वा विदेहराजस्य यज्ञभूमिं तदा क्षितिः ।
सुषुवे तनयं वीरं यत्र सीता पुराभवत् ॥ ३३ ॥

जाते पुत्रे तदा देवी जगद्धात्री जगत्प्रभुम् ।
सस्मार समये विष्णुं स्मरन्ती समयं पुरा ॥ ३४ ॥

स्मृतमात्रस्तदा देवः समयं प्रत्यपालयत् ।
क्षितेर्यत्र सुतो जायस्तत्र प्रादुर्बभूव ह ॥ ३५ ॥

प्रादुर्भूतं तदा देवी प्रणम्य परमेश्वरम् ।
संस्तूय सुनृतं शश्वदिदमाह जगत्प्रभुम् ॥ ३६ ॥

एष ते तनयोजातः सुकुमारो महाप्रभः ।
संस्मरन् समयं पूर्वं त्वमेनं प्रतिपालय ॥ ३७ ॥

श्रीभगवानुवाच
अयं ते तनयो देवी महाबलपराक्रमः ।
भविता मानुषं भावं तन्वानः सुचिरं बुधः ॥ ३८ ॥

यावन्मानुषभावं ते तनयो भावयिष्यति ।
तावत् कल्याणभाग्भूत्वा चिरं राज्यं करिष्यति ॥ ३९ ॥

त्यक्तमानुषभावस्तु यदा चायं विचेष्टते ।
तदा तु नास्य सुचिरं जीवितं सम्भविष्यति ॥ ४० ॥

सम्प्राप्ते षोडशे वर्षे राज्यमासादयिष्यति ।
धनरत्नगजैश्वर्ययुक्तोऽयं रथसञ्चयैः ।
आसाद्य महतीं नित्यं श्रियं भोक्ष्यति वीर्यवान् ॥ ४१ ॥

यस्मिन् यस्मिन् युगे भावो यो वा भवति व नृणाम् ।
तं भावं तथैवायं करिष्यति तथा कुरु ॥ ४२ ॥

एतस्य निभृतं राज्यं यत् प्राग्ज्योतिषसञ्ज्ञकम् ।
पुरं तत्र चिरं शास्ता राज्यमेष सुतस्तव ॥ ४३ ॥
मूलम्
एतस्य निभृतं राज्यं यत् प्राग्ज्योतिषसञ्ज्ञकम् ।
पुरं तत्र चिरं शास्ता राज्यमेष सुतस्तव ॥ ४३ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इत्युक्त्वा पृथिवीं विष्णुः समाभाष्य जगत्पतिः ।
दृश्यमानस्तया क्षिप्रं तत्रैवान्तर्दधे प्रभुः ॥ ४४ ॥

प्रसूय पृथिवी पुत्रं मध्यरात्रे महाद्युतिम् ।
जनकं ज्ञापयामास रहस्यं पूर्वमीरितम् ॥ ४५ ॥

विदेहराजो ज्ञात्वैव पृथिवीजनितं सुतम् ।
तत्रैव यज्ञवाटं स रात्रावागात् कृतक्रियः ॥ ४६ ॥

गच्छन्तं यज्ञवाटं तं दृष्ट्वा सर्वंसहा तदा ।
नोक्त्वा किञ्चन तं शश्वदन्तर्धानं गता नृपम् ॥ ४७ ॥

अथ गत्वा तदा तत्र विदेहाधिपतिः सुतम् ।
धरायां ददृशे कान्त्या चन्द्रार्कज्वलनोपमम् ॥ ४८ ॥

रुदन्तं बहुशः स्निग्धं चलधस्तपदद्वयम् ।
वपुष्मन्तं श्रियादीप्तं कार्तिकेयमिवापरम् ॥ ४९ ॥

उद्गच्छन् स रुदन् बालो यज्ञभूमिं व्यतीत्य च ।
कियद्दूरं जगामाशूत्तानशायी महाद्युतिः ॥ ५० ॥

मनुष्यस्य शिरस्तत्र मृतस्य प्राप्य बालकः ।
स्वशिरस्तत्र विन्यस्य रुदंस्तस्थौ क्षणं तदा ॥ ५१ ॥

ततो विदेहराजोऽपि मार्गमाणः क्षितेःसुतम् ।
व्यतीत्य यज्ञभूमिं तमाससादाञ्जसा बहिः ॥ ५२ ॥

आसाद्य बालकं दीप्तं प्रदीप्तमिव पावकम् ।
कान्त्या चन्द्रमसस्तुल्यं तेजोभिर्भास्करोपमम् ॥ ५३ ॥

शरमध्यगतं पूर्वं पावकिं पावको यथा ।
स्वयं जग्राह तं राजा पृथिव्याः समयं स्मरन् ॥ ५४ ॥

उद्गृह्णन् तच्छिरोदेशे ददृशे मानुषं शिरः ।
शशंसचाचिरं शीर्षं मानुषं गौतमाय सः ॥ ५५ ॥

अथ बालं समादाय प्रविश्यान्तःपुरं स्वकम् ।
महिष्यै कथयामास प्राप्तं पुत्रं गुहोपमम् ॥ ५६ ॥

सा तं दृष्ट्वा विशालाक्षं सिंहस्कन्धं महाभुजम् ।
विस्तीर्णहृदयं कान्तं नीलोत्पलदलच्छविम् ।
मुमोद पालनीयोऽयं मयेति न्यवदत् नृपम् ॥ ५७ ॥

तां राजापि ततः प्राह पुत्रोऽयं मम सुन्दरि ।
यज्ञभूमौ समुत्पन्नः स्वच्छन्दं पाल्यतामयम् ॥ ५८ ॥

यत् पृथिव्या रहः प्रोक्तं न तद्देव्यै न्यवेदयत् ।
सत्यसन्धो नृपश्रेष्ठः प्रियाया अपि भाषितम् ॥ ५९ ॥

मम सुतसुतवंशान् पालयित्री धरेय-
मिति नरपतिवर्यो मोदवांस्तद्दिने च ।
सुरतनयसमानं तुत्रमासाद्य देवी
जितरिपुरतिधीमान् स्वादयञ्चेत्यमोदत् ॥ ६० ॥

इति श्रीकालिकापुराणे नरकजन्म-कथने सप्तत्रिंशोऽध्यायः ॥ ३७ ॥