३६

विश्वास-प्रस्तुतिः

षट्त्रिंशोऽध्यायः

ऋषयः ऊचुः

कथं वराहपुत्रोऽसौ नरको नाम वीर्यवान् ।
सञ्जातो असुरसत्त्वः स देवदेवीसुतोऽपि सन् ॥ १ ॥

मूलम्

चिरजीवी कथं सोऽभूत् किमर्थमुदरे चिरम् ।
पृथिव्यां न्यवसञ्जातः कुत्र वा स महाबलः ॥ २ ॥

सोऽसुराणां कथं राजा पुरं तस्य किमाह्वयम् ।
मलिनीरतिसञ्जातः स क्षितौ पोत्रिणस्तथा ॥ ३ ॥

श्रूयते मुनिशार्दूल कथं भूतस्तथाविधः ।
एतत्सर्वमशेषेण पृच्छतां त्वं वदस्व नः ॥ ४ ॥

त्वं नो गुरुश्च शास्त्रा च सर्वं प्रत्यक्ष दर्शिवान् ।
कथं लब्धवरो भूतो ब्रह्मणा प्रभविष्णुणा ॥ ५ ॥

मार्कण्डेय उवाच

शृण्वन्तु मुनयः सर्वे यत् पृष्टोऽहं द्विजोत्तमाः ।
यथा स नरको जातो धरासुतो महासुरः ॥ ६ ॥

रजस्वलाया गोत्राया गर्भे वीर्येण पोत्रिणः ।
यतो यातस्ततोभूतो देवपुत्रोऽपि सोऽसुरः ॥ ७ ॥

गर्भसंस्थं महावीरं ज्ञात्वा ब्रह्मादयः सुराः ।
वराहपुत्रं दुर्धर्षं महाबलपराक्रमम् ॥ ८ ॥

गर्भ एव तदा देवाः शक्त्या दध्रुश्चिरं दृढम् ।
यथा कालेऽपि सम्प्राप्ते नो गर्भाज्जायते स च ॥ ९ ॥

ततस्त्यक्तशरीरस्तु वराहस्तनयैः सह ।
अतीव शोकसन्तप्ता जगद्धात्र्यभवत् क्षितिः ॥ १० ॥

शोकाकुला सा व्यलपच्चिरकालं मुहुर्मुहुः ।
प्रकृतिस्था क्षितिर्भूता माधवेन प्रबोधिता ॥ ११ ॥

ततः कालेऽपि सम्प्राप्ते दैवशक्त्या यदा धृतः ।
न गर्भः प्रसवं याति तदाभूत् पीडिता क्षितिः ॥ १२ ॥

कठोरगर्भा सा देवी गर्भभारं न चाशकत् ।
यदा वोढुं तदा देवं माधवं शरणं गता ॥ १३ ॥

शरण्यं शरणं गत्वा माधवं जगतां पतिम् ।
प्रणम्य सिरसा देवी वाक्यमेतदुवाच ह ॥ १४ ॥

पृथिव्युवाच

नमस्ते जगदव्यक्तरूप कारणकारण ।
प्रधान पुरुषातीत स्थित्युत्पत्तिलयात्मक ॥ १५ ॥

जगन्नियोजनपर स्वाहाभोगधरोत्तम ।
जगदानन्दनन्दात्मन् भगवन् जगदीश्वर ॥ १६ ॥

नियोजको नियोज्यश्च विभ्राजन विष्णुरव्यय ।
नमस्तुभ्यं जगद्धातस्त्रिलोकालय विश्वकृत् ॥ १७ ॥

यः पालयति नित्यानि स्थापयत्येव तत्परः ।
त्वं त्वां नियमरूपेण नमामि जगदीश्वर ॥ १८ ॥

त्वं माधवः प्रवेकश्च कामः कामालयो लयः ।
प्रसूतिच्युतिहेत्वर्थ-त्राणकारणमीश्वरः ॥ १९ ॥

न यस्य ते क्लेदाय स्युरापो नोष्मा तथोष्मणे ।
नशीताय भवेच्छीतं तस्मै तुभ्यं नमोनमः ॥ २० ॥

न समुद्रः प्लवकरो न शोषाय दहात्मकः ।
न मृत्यवे यस्य यमस्तस्मै तुभ्यं नमोनमः ॥ २१ ॥

यच्चिद्धार्यं योगिभिः तान्तहेहै
रुन्मार्गाणां यात्यरिध्येयकृत्यम् ।
नित्यं यद्रूपमार्गावसक्तं
स त्वं त्राहि त्राणमिच्छन् धरित्रीम् ॥ २२ ॥

इति स्तुतो हृषीकेशो जगद्धात्र्या तदा हरिः ।
प्रादुर्भुतस्तदा प्राह धरित्रीं दीनमानसाम् ॥ २३ ॥

श्रीभगवानुवाच

कथं दीनमना देवि धरित्रि परिदेवसे ।
तव वा किं कृता पीडा वेत्तुमिच्छामि तामहम् ॥ २४ ॥

मुखं ते परिशुष्कं तु शरीरं कान्तिवर्जितम् ।
आकुलं नयनद्वन्द्वं भ्रूविभ्रमविवर्जितम् ॥ २५ ॥

ईदृशं तव रूपं तु दृष्टपूर्वं कदापि न ।
रूपस्य तु विपर्यासे दुःखबीजं च भाषय ॥ २६ ॥

एतच्छ्रुत्वा वचस्तस्य माधवस्य जगत्पतेः ।
विनयावनता देवी पृथ्वी प्राह सगद्गदम् ॥ २७ ॥

न गर्भभारं संवोढुं माधवाहं क्षमाधुना ।
भृशं नित्यं विषीदामि तस्मात् त्वं त्रातुमर्हसि ॥ २८ ॥

त्वया वराहरूपेण मलिनी कामिता पुरा ।
तेन कामेन कुक्षौ मे यो गर्भोऽयं त्वयाहितः ॥ २९ ॥

काले प्राप्तेऽपि गर्भोऽयं न प्रच्यवति माधव ।
कठोरगर्भा तेनाहं पीडितास्मि दिने दिने ॥ ३० ॥

यदि न त्राहि मां देव गर्भदुःखाज्जगत्पते ।
न चिरादेव यास्यामि मृत्योर्वशमसंशयम् ॥ ३१ ॥

कयापि नेदृशो गर्भः पूर्वं माधव वै धृतः ।
योऽचलां चालयति मां सरसीमिव कुञ्जरः ॥ ३२ ॥

एतच्छ्रुत्वा वचस्तस्याः पृथिव्याः पृथिवीपतिः ।
आह्लादयन् प्रत्युवाच हरिस्तप्तां लतामिव ॥ ३३ ॥

मूलम्

एतच्छ्रुत्वा वचस्तस्याः पृथिव्याः पृथिवीपतिः ।
आह्लादयन् प्रत्युवाच हरिस्तप्तां लतामिव ॥ ३३ ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच

न धरे ते महद्दुःखं चिरस्थायि भविष्यति ।
शृणु येन प्रकारेण चानुभूतमिदं त्वया ॥ ३४ ॥

मलिन्या सहसङ्गेन यो गर्भः सन्धृतस्त्वया ।
सोऽभूदसुरसत्वस्तु घृष्टेः पुत्रोऽपि दारुणः ॥ ३५ ॥

ज्ञात्वा तस्य न वृत्तान्तं गर्भस्य द्रुहिणादयः ।
दैवीभिः शक्तिभिर्वद्धस्तव कुक्षौ तु तत्पुरः ॥ ३६ ॥

सर्गादौ यदि जायेत भवत्यास्तादृशः सुतः ।
भ्रंशयेत् सकलान् लोकांस्त्रीनिमान् ससुरासुरान् ॥ ३७ ॥

अतस्तस्य बलं वीर्यं ज्ञात्वा ब्रह्मादयः सुराः ।
प्राक्सृष्टिकाले ते गर्भं तथा धूर्जगतां कृते ॥ ३८ ॥

अष्टाविंशतितमे प्राप्ते आदिसर्गाच्चतुर्युगे ।
त्रेतायुगस्य मध्ये तु सुतं त्वं जनयिष्यति ॥ ३९ ॥

यावत् सत्ययुगं याति त्रेतार्धं च वरानने ।
तावद् वह महागर्भं दत्तः कालो मया तव ॥ ४० ॥

न यावज्जायते धात्रि गर्भस्ते ह्यतिदारुणः ।
तावद् गर्भवती दुःखं न त्वं प्रप्स्यसि भामिनी ॥ ४१ ॥

मूलम्

न यावज्जायते धात्रि गर्भस्ते ह्यतिदारुणः ।
तावद् गर्भवती दुःखं न त्वं प्रप्स्यसि भामिनी ॥ ४१ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इत्युक्त्वा भगवान् विष्णुः पृथिवीं गर्भिणीं तदा ।
नाभौ पस्पर्श दयितां शङ्खाग्रेणातिपीडिताम् ॥ ४२ ॥

सा स्पृष्टा विष्णुणा पृथ्वी शरीरं लघु चासदत् ।
गर्भेऽपि लघिमानं सा प्रापातीव सुखप्रदम् ॥ ४३ ॥

अगर्भा यादृशी नारी तादृशी साप्यजायत ।
धृतगर्भापि मुदिता सा बभूव जगत्प्रसूः ॥ ४४ ॥

ततः पुनरिदं वाक्यमुक्त्वा स भगवान् क्षितिम् ।
पुनः प्रसादयामास सामभिर्बहुभिश्च ताम् ॥ ४५ ॥

मूलम्

ततः पुनरिदं वाक्यमुक्त्वा स भगवान् क्षितिम् ।
पुनः प्रसादयामास सामभिर्बहुभिश्च ताम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच

जगधात्रि महासत्वे त्वं धृतिर्धारणात्मिका ।
सर्वेषां धारणाद्देवि त्वं धात्रीति प्रगीयसे ॥ ४६ ॥

क्षमा यस्माज्जगद्धर्तुं शक्ता क्षान्तियुतात्र यत् ।
सर्वं वसु त्वयि न्यस्तं यस्माद्वसुमती ततः ॥ ४७ ॥

तद्दुःखं त्यज पुत्रस्ते यदा सञ्जायते तदा ।
मां स्मरिष्यसि देवि त्वं पुत्रं ते पालयाम्यहम् ॥ ४८ ॥

इदं रहस्यं कुत्रापि न प्रकाश्यं त्वया धरे ।
यन्मया कथितं देवि रहस्यं परमं परम् ॥ ४९ ॥

गर्भस्तव महाभागे त्रेतायामध्यभागतः ।
उत्पत्स्यते हते वीरे रावणे रामसञ्ज्ञिना ॥ ५० ॥

मूलम्

गर्भस्तव महाभागे त्रेतायामध्यभागतः ।
उत्पत्स्यते हते वीरे रावणे रामसञ्ज्ञिना ॥ ५० ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इत्युक्त्वा भगवान् विष्णुस्तत्रैवान्तरधीयत ।
आज्ञाप्य पृथिवीं देवीं गर्भभारप्रपीडिताम् ॥ ५१ ॥

धरापि कुशला क्षामा लघुकाया बलैर्युता ।
अगर्भेव ययौ देवी मुदा परमया युता ॥ ५२ ॥

मूलम्

धरापि कुशला क्षामा लघुकाया बलैर्युता ।
अगर्भेव ययौ देवी मुदा परमया युता ॥ ५२ ॥

विश्वास-प्रस्तुतिः

इति श्रीकालिकापुराणे धरादुःखविमोचने षट्त्रिंशोऽध्यायः ॥ ३६ ॥