विश्वास-प्रस्तुतिः
पञ्चत्रिंशोऽध्यायः
मार्कण्डेय उवाच
ईश्वरः शारभं कायं यथा तत्याज यत्नतः ।
तन्मे निगदतो भूयः शृणुध्वं द्विजसत्तमाः ॥ १ ॥
मूलम्

हते यज्ञवराहे तु ब्रह्मा लोकपितामहः ।
उवाच शरभं गत्वा सामयुक्तं जगद्धितम् ॥ २ ॥

देहाभोगेन भवतः पूरितं भूरियोजनम् ।
उपसंहर तस्मात् त्वं कायं लोकभयङ्करम् ॥ ३ ॥

तव युद्धेन सकलं प्रणष्टं भुवनत्रयम् ।
आकाशं गन्तुं त्वां दृष्ट्वा विभेत्यद्य जनार्दनः ।
तस्मात् त्वमूर्धलोकानां हिताय त्यज वै तनुम् ॥ ४ ॥

ततस्तस्य वचः श्रुत्वा सुरज्येष्ठस्य शङ्करः ।
तत्याज शारभं कायं तोयोपर्येव तत्क्षणात् ॥ ५ ॥

त्यक्तस्य तस्य देहस्य शङ्करेण महात्मना ।
अष्टौ पादा अष्टमूर्तेस्तेषु चाष्टसु भेजिरे ॥ ६ ॥

आद्यन्तु दक्षिणं पादमाकाशमगमद्द्रुतम् ।
तद्वामं मिहिरं भेजे पश्चाद् दक्षिणजं विधौ ॥ ७ ॥

वामन्तु ज्वलनं भेजे पृष्ठाग्रं पद्गतं क्षितिम् ।
पृष्ठाग्रवामं सलिलं तत्पश्चाद् दक्षिणं तथा ॥ ८ ॥

वायौ वामपदं भेजे होतारं सर्वतोमुखम् ।
एवं तस्याष्टमूर्तेस्तु अष्टमूर्तिषु तत्क्षणात् ।
अष्टौ पादास्तथा भेजुः स्वं त्वं तेजो ययुः पदम् ॥ ९ ॥

मध्यं तु शारभं कायं शङ्करस्य महात्मनः ।
कपाली भैरवो भूतश्चण्डरूपी दुरासदः ॥ १० ॥

मस्तिष्कमेदसा युक्तं मांसं जुह्वति ते शुचौ ।
ब्रह्मकपालपात्रस्थं सुराभिर्देवपूजनम् ॥ ११ ॥

बलिर्मनुष्यमांसेन पानं तु रुधिरं सदा ।
सुरया पारनं यज्ञे कपालोद्भटधारणम् ॥ १२ ॥

व्याघ्रचर्मपरिधानं समलं त्रिवलीवृतम् ।
एवं कुर्वन्ति सततं कपालव्रतधारिणः ॥ १३ ॥

कपाली भैरवस्तेषां देवः पूज्यस्तु नित्यशः ।
श्मशानभैरवो योऽसौ यो महाभैरवाह्वयः ॥ १४ ॥

बालसूर्यसमोद्योतः सदाष्टादशबाहुभिः ।
विभ्राजमानो रक्ताक्षः सर्वदा नायिकाव्रजैः ॥ १५ ॥

कालीप्रचण्डाप्रमुखैः क्रीडमानस्तु नित्यशः ।
सद्योदग्धनृमांसाशी गलल्लोललसद्भुजः ॥ १६ ॥

लोहिताहारविघसः प्रेताशनगतः सदा ।
स्थूलवक्त्त्रोऽथ लम्बोऽष्ठो ह्रस्वस्थूलपदालयः ।
विनोदी वादनो लोके साट्टहासात्तु भैरवः ॥ १७ ॥

एवं स च महादेवो महाभैरवरूपधृक् ।
मध्यशारभकायेन कार्यं दध्रे महाभुजः ॥ १८ ॥

स जगाम ततो देवा हरस्य प्रमथान् प्रति ।
गणैः सार्धं तथाकाशे विक्रीडति स भैरवः ॥ १९ ॥

स महाभैरवो देवः पूज्यमानो जगज्जनैः ।
अद्यापि कुरुते नित्यमिष्टकामस्य साधनम् ॥ २० ॥

चैत्र-शुक्लचतुर्दश्यां मध्वासवपयःफलैः ।
मांसैर्मत्स्यैः सरुधिरैः सकृद्यो भैरवं यजेत् ॥ २१ ॥

स सर्वकामान् संसाध्य भोगान् भुक्त्वा यथेष्टतः ।
प्रयाति शम्भुभवनमारुह्य वृषभं परम् ॥ २२ ॥

एतद्वः कथितं सर्वं यत्पृष्टोऽहं द्विजोत्तमैः ।
भवद्भिर्यच्च वोऽन्यद् वा रोचते पृच्छ मां तु तत् ॥ २३ ॥

इति श्रीकालिकापुराणे शरभकायत्यागे पञ्चत्रिंशोऽध्यायः ।