३४

चतुस्त्रिंशोऽध्यायः

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

यथा पुनरभूत् सृष्टिरकालप्रलये गते ।
येन चैवोद्धृता पृथ्वी तच्छृणन्तु द्विजोत्तमाः ॥ १ ॥

मूलम्

व्यतीते प्रलये विष्णुः कूर्मरूपी महाबलः ।
पृष्ठे निधाय पृथिवीमुद्धृत्याथ सपर्वताम् ।
समाञ्चकार सकलां पूर्ववत्परमेश्वरः ॥ २ ॥

शरभस्य वराहस्य तत्पुत्राणां पदक्रमैः ।
यत्र भूमिर्विशीर्णाभूत्तां तां समां कमठोऽकरोत् ॥ ३ ॥

कृत्वा समां ततो भूमिं पूर्ववत् परमेश्वरः ।
अनन्तं धारयामास पृथिवीतलसंश्रितम् ॥ ४ ॥

ततो ब्रह्मा च विष्णुश्च हरश्च परमेश्वरः ।
नावोदरस्थान् सप्तमुनीन्मनुं स्वायम्भुवं तदा ।
नरनारायणौ चोभौ दक्षञ्चोचुः समागताः ॥ ५ ॥

शृण्वन्तु मुनयः सर्वे नरनारायणौ तथा ।
दक्षस्वायम्भुवमनौ वयं ब्रूमोऽधुना च यत् ॥ ६ ॥

सृष्टिर्नष्टा वराहस्य शरभस्य च सङ्गरात् ।
अतोऽस्माकं यथाकार्या सृष्टिराकर्णयन्तु तत् ॥ ७ ॥

नरनारायणवेतौ सृष्ट्यर्थं समुपस्थितौ ।
संस्थापनाय देवानां परमं तप्यतां तपः ॥ ८ ॥

अप्याय्य तपसा चोभौ जनलोकगतान् सुरान् ।
आनयन्त्वपराञ्छश्वत् संसृजन्तु गणान् बहून् ॥ ९ ॥

नक्षत्राणि ग्रहांश्चैव तेषां स्थानानि वै मुने ।
एतयोस्तपसा यान्तु स्थिरतां पूर्वजन्मनो ॥ १० ॥

सूर्यस्य रथसंस्थानं तथा चन्द्ररथस्थितिम् ।
करोत्वयं महाभागः स्वयमेव जनार्दनः ॥ ११ ॥

पृथिव्यां सर्ववीजानि स्वायम्भुवमनो त्वया ।
उप्यन्तां सर्वतः शस्यपूर्णा भवतु मेदिनी ॥ १२ ॥

प्ररोहयोषधीर्वृक्षान् लतावल्लीश्च सर्वतः ।
स्वायम्भुव महान्त्येतत् प्राप्तान्यृतुफलानि च ॥ १३ ॥

दक्षः सप्तमुनीन्द्रैस्तु यज्ञेन यजतां हरिम् ।
वराहपुत्रदेहोत्थमग्नित्रयमिदं यजन् ॥ १४ ॥

असौ यज्ञो वराहस्य देहाज्जातस्तु सृष्ट्ये ।
अनेनैव तु यज्ञेन दक्षः सृष्टिं तनोत्विमाम् ॥ १५ ॥

नरनारायणाभ्यान्तु मुनिभिः सप्तभिस्तथा ।
दक्षेण भवता चापि यज्ञेनैभिस्तथाग्निभिः ॥

सम्पूर्यतामियं सृष्टिः स्वर्गे भुवि रसातले ॥ १६ ॥
विश्वास-प्रस्तुतिः

वयं च सृष्टिमाप्याय्य यथा सम्पद्यते त्वियम् ।
यतिष्यामस्तथा नित्यं यूयं कुरुत सर्जनम् ॥ १७ ॥

ततः सम्पद्यतां सृष्टिर्यथा पूर्वं तथैव च ।
प्रथमं त्वन्तु वीजानि प्ररोहय मनोऽधुना ॥ १८ ॥

मूलम्

ततः सम्पद्यतां सृष्टिर्यथा पूर्वं तथैव च ।
प्रथमं त्वन्तु वीजानि प्ररोहय मनोऽधुना ॥ १८ ॥

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

इत्यादित्य महाभागा विधिविष्णुवृषध्वजाः ।
यथास्थानं स्थापयितुं पर्वतान् प्रययुस्ततः ॥ १९ ॥

मेरुमन्दरकैलासहिमवत्प्रभृतिष्वथ ।
पुराणि सर्वदेवानां ते वै चक्रुः पृथक् पृथक् ॥ २० ॥

परित्यज ततो नावमवधृत्य वसुन्धराम् ।
स्वायम्भुवः क्षितौ वीजान्यवपत् सर्वसम्पदे ॥ २१ ॥

ततो वृक्षलतावल्लीगुल्मानि च वनानि च ।
बालशस्यानि धान्यानि तथैवौषधयः समाः ॥ २२ ॥

बीजकाण्डप्ररोहाश्च प्रताना जलजानि च ।
प्रफुल्लानि विकोशानि फलकन्ददलानि च ॥ २३ ॥

वभूवुः शाद्बलान्येव सर्वेषां प्राणवृद्धये ।
पृथिवी शस्यसम्पना वृक्षास्ते शाद्वलाः शुभाः ।
दृष्टाः पूर्वं यथा तस्मान्मनुनाचित्तहर्षिणा ॥ २४ ॥

ततो नरो महायोगी तपस्तेपे महत्तमम् ।
नारायणश्च देवानां भावनाय महामतिः ॥ २५ ॥

मूलम्

ततो नरो महायोगी तपस्तेपे महत्तमम् ।
नारायणश्च देवानां भावनाय महामतिः ॥ २५ ॥

विश्वास-प्रस्तुतिः

नारायणो नरश्चोभौ परमावृषिसत्तमौ ।
तपसाराध्य परमं तेजोमयमनामयम् ॥ २६ ॥

मूलम्

नारायणो नरश्चोभौ परमावृषिसत्तमौ ।
तपसाराध्य परमं तेजोमयमनामयम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

आनिन्याते जनगणान् देवान् देवर्षिसत्तमान् ।
ये मृता अमराः पूर्वं गणशस्तान् पृथक् पृथक् ।
तपोबलेन महत सर्जयामासतुर्मुनि ॥ २७ ॥

सूर्याचन्द्रमसौ देवौ दिक्पालांश्च तथा दश ।
जनार्दनः स्वयं चक्रे पातालतलवासिनः ॥ २८ ॥

सूर्याचन्द्रमसोश्चक्रे यथासंस्थानमच्युतः ।
पुर्ववद् योजयामस दिवारात्रस्थितौ च तौ ॥ २९ ॥

ओषधिषु च जातासु यज्ञवृक्षेषु सत्तमाः ।
शस्यबीजेषु जातेषु देवेषु च पृथक् पृथक् ॥ ३० ॥

दक्षः कर्तुं समारेभे ज्योतिष्टोमं महाध्वरम् ।
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः ॥

जमदग्निर्भरद्वाज एते सप्तर्षयोऽमलाः ॥ ३१ ॥
विश्वास-प्रस्तुतिः

एतैः सप्तमुनीन्द्रैस्तु दक्षो ब्रह्मसुतः स्वयम् ।
महायज्ञं ततश्चक्रे यावद्द्वादशवत्सरान् ॥ ३२ ॥

हूयमानेषु तत्रैव त्रिष्वग्निषु पुनः पुनः ।
इज्यमाने वराहे तु यज्ञरूपे तदा द्विजैः ।
चतुर्विधाः प्रजा जाता यज्ञादेव द्विजोत्तमाः ॥ ३३ ॥

ततो दक्षस्य सञ्जाताः पुत्र्यः पुण्यास्त्रयोदश ।
स्वरूपगुणसम्पन्नाः सृष्ट्यर्थममितप्रजाः ॥ ३४ ॥

ताः पुत्रीः प्रददौ दक्षः कश्यपाय महात्मने ।
ताभ्यो जाताश्च बहवस्तैर्व्याप्तं सकलं जगत् ॥ ३५ ॥

स सर्वासां प्रजानां तु कश्यपो जनको ह्यभूत् ।
निश्चितं द्विजशार्दूलाः कश्यपात् सकलं जगत् ॥ ३६ ॥

तासां नामानि तज्जाताःप्रजाः सर्वाः पृथक् पृथक् ।
शृणवन्तु मुनयः सर्वे सम्यक् कथयतो मम ॥ ३७ ॥

अदितिर्दितिर्दनुः काला दनायूः सिंहिका मुनिः ।
क्रोधा प्रधा वरिष्ठा च विनता कपिला तथा ॥

कद्रूस्त्रयोदशसुता एता दक्षस्य कीर्तिताः ॥ ३८ ॥
विश्वास-प्रस्तुतिः

सञ्जातो दक्षिणाङ्गुष्ठान्मनसा ध्यायतो विधेः ।
तेन देवमनुष्येषु दक्ष इत्येव कथ्यते ॥ ३९ ॥

ब्रह्मणो मानसाःपुत्रा दश पूर्वं प्रकीर्तिताः ।
तेषां षट्सृष्टिकर्तारो व्यतीतेऽस्मिन् जनक्षये ॥ ४० ॥

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
मरीचेस्तनयो जातः कश्यपो लोकभावनः ॥ ४१ ॥

अस्यैव दक्षकन्याभ्यः प्रजा जज्ञेऽथ भूरिशः ।
अस्य जायाप्रजातानां नामतो विनिबोधत ॥ ४२ ॥

धाता मित्रोऽर्यमा शक्रो वरुणः सोम एव च ।
भर्गो विवस्वान् पूषा च सवितृत्वष्टुविष्णवः ॥ ४३ ॥

अदितेर्द्वादशसुता आदित्यास्ते प्रकीर्तिताः ।
एषां कनीयान् गुणवान् सदा यस्तपतिः प्रजाः ॥ ४४ ॥

स वै वंशकरो मुख्यो गद्यते वो दिवाकरः ।
एक एव दितेः पुत्रो हिरण्यकशिपुर्बली ॥ ४५ ॥

चत्वारस्तस्य तनया हृष्टा मदबलान्विताः ।
प्रह्लादो ह्यथ संह्लादो वाष्कलः शिबिरेव च ॥ ४६ ॥

प्रह्लादस्य त्रयः पुत्रास्तेषामाद्यो विरोचनः ।
कुम्भो निकुम्भो बलवांस्त्रयः प्राह्लादजाः स्मृताः ॥ ४७ ॥

विरोचनसुतो जातो दानशौण्डो बलिर्महान् ।
बलेश्च पुत्रो विदितो वाणो नाम महाबली ॥ ४८ ॥

शम्भोरनुचरः श्रीमान् महाकालाह्वयश्च सः ।
बाणस्य च शतं पुत्राः कुसुम्भमकरादयः ॥ ४९ ॥

चत्वारिंशद्दनोः पुत्रा विप्रचित्तिपुरःसराः ।
शम्बरो नमुचिश्चैव पुलोमा च तथैव च ॥ ५० ॥

असिलोमा तथा केशी दुर्जयोऽयःशिरास्तथा ।
अश्वशीर्षो क्षयः शङ्कुर्वियन्मूर्धा महाबलाः ॥ ५१ ॥

वेगवान् केतुमांश्चैव स्वयं स्वर्भानुरेव ।
अश्वो ह्यश्वपतिः कुण्डो वृषपर्वाजकस्तथा ॥ ५२ ॥

अश्वग्रीवश्च सूक्ष्मश्च तुरुण्डुर्माण्डलस्तथा ।
ऊर्धबाहुश्चैकचक्रो विरूपाक्षो हराहरौ ॥ ५३ ॥

नियन्त्रश्च निकुम्भश्च कूपटश्चपटुस्तथा ।
सरभः सुलभश्चैव सूर्याचन्द्रमसौतथा ॥ ५४ ॥

अन्यावेतौ दनोः पुत्रौ सूर्याचन्द्रमसौ तथा ।
दिवाकर-निशानाथौ तावन्यौ देवपुङ्गवौ ॥ ५५ ॥

एषां पुत्रैश्च पौत्रैश्च तत्पुत्रैश्चैव भूरिभिः ।
जगद्व्याप्तमिदं सर्वं बलवीर्यसमन्वितैः ॥ ५६ ॥

दनायुषोऽभवन् पुत्राश्चत्वारो बलवत्तराः ।
वीरभद्रो विक्षरश्च वत्सो वृत्तस्तथैव च ॥ ५७ ॥

एषां चतुर्णां वहवः पुत्रा जाता द्विजोत्तमाः ।
रूपसत्वबलोपेता एकैकस्य शतंशतम् ॥ ५८ ॥

कालायास्तनया जाताः कालेया इति विश्रुताः ।
विख्यातास्ते महावीर्याश्चत्वारो दानवाधिपाः ॥ ५९ ॥

विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च ।
क्रोधशक्रस्तथा चैते कालापुत्राः प्रकीर्तिताः ॥ ६० ॥

सिंहिकायाः सुतो जातो राहुश्चन्द्रार्कमर्दनः ।
सुचन्द्रश्चन्द्रहन्ता च तथा चन्द्रविमर्दनः ॥ ६१ ॥

एगवान् केतुमान् चैव अयः सुर्भानुरेव च ।
अश्वोद्यपतिः कृष्टुरष्टपर्वाजुस्रुस्तथा ॥ ६२ ॥

क्रोधायास्तनया जाताः क्रूरकर्मकरास्तथा ।
सिंहिकाचैव क्रोधा च द्वे सुते क्रूरिके सदा ॥

ताभ्यां च प्रभवो वंशो ह्यतः क्रूरतरः स्मृतः ॥ ६३ ॥
विश्वास-प्रस्तुतिः

एक एव मुनेः पुत्रो जातः शुक्रः कविर्महान् ।
दैत्यदानवकालेयप्रभृतीनां सदा गुरुः ॥ ६४ ॥

चत्वारस्तस्य तनया जाता असुरयाजकाः ।
त्वष्टावरस्तथात्रिश्च सौकलश्चेति वाग्मिनः ॥ ६५ ॥

तेजसा सूर्यसदृशा ब्रह्मलोकःप्रभावनाः ।
असुराणां सदैत्यानां कालेयानां तथैव च ॥ ६६ ॥

क्रोधात्मजानाञ्च तथा सिंहिकातनयस्य च ।
सूतिप्रसूतिभिः सर्वं जगद्व्याप्तं चराचरम् ॥ ६७ ॥

तेषां तु यान्यपत्यानि वर्धितानि क्रमद्द्विजाः ।
तेषां बहुत्वात् सङ्ख्यातं चिरेणापि न शक्यते ॥ ६८ ॥

तार्क्ष्यश्चारिष्टनेमिश्च अनूरुर्गरुडस्तथा ।
आरुणिर्वारुणिश्चैव विनतातनयाः स्मृताः ॥ ६९ ॥

शेषो वासुकिराजश्च तक्षकः कुलिकस्तथा ।
कूर्मश्च सुमनाश्चेति काद्रवेयाः प्रकीर्तिताः ॥ ७० ॥

भीमसेनोग्रसेनश्च सुपर्णो गरुडस्तथा ।
गोपतिर्धृतराष्ट्र सूर्यवर्चाश्च वीर्यवान् ॥ ७१ ॥

अर्कदृष्टः प्रयुक्तश्च विश्रुतः सुश्रुतस्तथा ।
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्बली ॥ ७२ ॥

शालिशीर्षश्च पर्जन्यः कलिर्नारद एव च ।
इत्येते देव गन्धर्वा मुनिपुत्राः प्रकीर्तिताः ॥ ७३ ॥

अनवद्यां सानुरागां संवरां मार्गणां प्रियाम् ।
असूयां सुभगां भीमामिति कन्यामसूयत ॥ ७४ ॥

प्राधा सर्वगुणोत्थानात् कश्यपात्तु तपोधनात् ।
विश्वावसुः सुचन्द्रश्च सुपरणः सिद्ध एव च ॥ ७५ ॥

बर्हिः पूर्णश्च पूर्णाङ्गो ब्रह्मचारी रतिप्रियः ।
भानुश्च दशमश्चैते प्राधापुत्राः प्रकीर्तिताः ॥ ७६ ॥

इत्येते देवगन्धर्वाः सन्ततं पुण्यलक्षणाः ।
प्राधासूत महाभागा देवी देवर्षिसत्तमात् ॥ ७७ ॥

अलम्बुषा मिश्रकेशी गामिनी च मनोरमा ।
विद्युत्पन्नानधारम्भा ह्यरुणा रक्षितातुला ॥ ७८ ॥

सुवाहुः सुरता चैव मुरजा सुप्रिया तथा ।
वपुस्तिलोत्तमा चेति मुख्या अप्सरसः स्मृताः ॥ ७९ ॥

अतिबाहुस्तुम्बुरुश्च हाहा हूहूस्तथैव च ।
गन्धर्वाणामिमे मुख्या देवतुल्याः प्रकीर्तिताः ॥ ८० ॥

अमृतं ब्राह्मणा गावो मुनयोऽप्सरसस्तथा ।
कपिलातनयाः प्रोक्ता महाभागा महोत्सवाः ॥ ८१ ॥

इति दक्षसुतानां ये कश्यपात्तनयाः स्मृताः ।
तैरिदं सकलं व्याप्तं जगत्स्थावरजङ्गमम् ॥ ८२ ॥

एवं यज्ञवराहस्य यज्ञरूपस्य पातनात् ।
त्रिभ्योऽग्निभ्यो मनोस्तस्मात् स्वायम्भुवमहात्मनः ॥ ८३ ॥

मुनिभ्यश्चैव सप्तम्यः कश्यपादिभ्य एव च ।
नरनारायणाभ्यान्तु व्यतीतेऽकालिके लये ।
पुनः प्रजाः पुरा सृष्टा हरिणानेकरूपिणा ॥ ८४ ॥

एवं पुनरभूत् सृष्टिः सृष्टिस्थित्यन्तकारिणः ।
हरेस्तस्य प्रसादेन नरनारायणात्मनः ॥ ८५ ॥

इति श्रीकालिकापुराणे सृष्टिकथने चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥