विश्वास-प्रस्तुतिः
त्रयस्त्रिंशोऽध्यायः
मार्कण्डेय उवाच
तं यथा पीवरतनुं दृष्ट्वा मत्स्यं मनुः स्वयम् ।
गृहीत्वा पाणिना फुल्लनलिनीं सरसीं ययौ ॥ १ ॥
मूलम्

तत्सरस्तत्र विपुलं पुण्ये नारायणाश्रमे ।
एकयोजनविस्तीर्णं सार्धयोजनमायतम् ॥ २ ॥

नानामीनगणोपेतं शीतामलजलोत्करम् ।
तदासाद्य सरो मत्स्यं विनिधाय मनुस्तदा ॥ ३ ॥

पालयामास सुतवत् कृपया परया युतः ।
सोऽचिरेणैव कालेन पीनो वैसारिणोऽभवत् ॥ ४ ॥

न ममौ तत्र सरसि वृहत्त्वात् द्विजसत्तमाः ।
स एकदा महामत्स्यः पूर्वापरतरद्वये ॥ ५ ॥

शिरः पुच्छे निधायाशु तुङ्गदेहः समुच्छ्रितः ।
स्वायभुवं महात्मानं चुक्रोश त्राहि मामिति ॥ ६ ॥

तं तथा च मनुर्ज्ञात्वा क्रोशन्तं स्थूलपुच्छकम् ।
आससाद तदा मत्स्यं जग्राह च करेण तम् ॥ ७ ॥

न शक्नोम्यहमुद्धर्तुं पृथरोमाणमद्भुतम् ।
इति सञ्चिन्तयन्नेव प्रोद्दधार करेण तम् ॥ ८ ॥

भगवानपि विश्वात्मा मत्स्यरूपी जनार्दनः ।
स्वायम्भुवकरं प्राप्य लघिमानमुपाश्रयत् ॥ ९ ॥

ततः कराम्यामुद्धृत्य स्कन्धे कृत्वा द्रुतं मनुः ।
निनाय सागरं तत्र तोये च निदधे ततः ॥ १० ॥

यथेच्छमत्र वर्धस्व न कोऽपि त्वां वधिष्यति ।
अचिरेणैव सम्पूर्णदेहं त्वं समवाप्नुहि ॥ ११ ॥

इत्युक्त्वा स महाभागः सर्वप्राणमृतां वरः ।
लघुत्वं चिन्तयंस्तस्य विस्मयं परमं गतः ॥ १२ ॥

मत्स्योऽपि नचिरादेव पूर्णकायस्तदा महान् ।
सर्वतः पूरयामास देहाभोगेन सागरम् ॥ १३ ॥

तं पूर्णकायमालोक्य व्यतीत्याम्भः समुच्छ्रितम् ।
शिलाभिर्निचितं स्फीतं मानसाचलसन्निभम् ॥ १४ ॥

रुन्धन्तं सागरं सर्वं देहाभोगाचलीकृतम् ।
स्वायम्भुवो मनुर्धीमान् मेने मत्स्यं न तं तदा ॥ १५ ॥

ततः पप्रच्छ तं साम्ना मत्स्यं स्वायम्भुवो मनुः ।
विचिन्त्य लघिमानं च पश्यन् मूर्ति तदाद्भुतम् ॥ १६ ॥

मनुरुवाच
न त्वां मत्स्यमहं मन्ये कस्त्वं मे वद सत्तम ।
महत्त्वं लघिमानं ते चिन्तयन् सुमहत्तर ॥ १७ ॥

त्वं ब्रह्माह्यथवा विष्णुः शम्भुर्वा मीनरूपधृक् ।
न चेद्गुह्यं महाभाग तन्मे वद महामते ॥ १८ ॥

मत्स्य उवाच
आराध्योऽहं त्वया नित्यं यो हरिः स सनातनः ।
तवेष्टकामसिद्ध्यर्थं प्रादुर्भूतः समाहितः ॥ १९ ॥

यत् त्वमिच्छसि भूतेश मत्तस्त्वं मीनमूर्तितः ।
तत् करिष्येऽद्य तां मूर्तिमिमां विद्धि मनो मम ॥ २० ॥
मूलम्
यत् त्वमिच्छसि भूतेश मत्तस्त्वं मीनमूर्तितः ।
तत् करिष्येऽद्य तां मूर्तिमिमां विद्धि मनो मम ॥ २० ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति तस्य वचः श्रुत्वा विष्णोरमिततेजसः ।
ज्ञात्वा प्रत्यक्षतो विष्णुं मनुस्तुष्टाव केशवम् ॥ २१ ॥

नमस्ते जगदव्यक्तपरापरपते हरे ।
पावकादित्यशीतांशु नेत्रत्रयधराव्यय ॥ २२ ॥

जगत्कारणसर्वज्ञ जगद्धाम हरे पर ।
परापरात्मरूपात्मन् पारिणां पारकारण ॥ २३ ॥

आत्मानमात्मना धृत्वा धरारूपधरो हरे ।
विभर्षि सकलान् लोकानाधारात्मंस्त्रिविक्रम ॥ २४ ॥

सर्ववेदमयश्रेष्ठ धामधारणकारण ।
सुरौघपरमेशान नारायण सुरेश्वर ॥ २५ ॥
मूलम्
सर्ववेदमयश्रेष्ठ धामधारणकारण ।
सुरौघपरमेशान नारायण सुरेश्वर ॥ २५ ॥
विश्वास-प्रस्तुतिः
अयोनिस्तं जगद्योनिरपादस्त्वं सदागतिः ।
त्वं तेजः स्पर्शहीनश्च सर्वेशस्त्वमनीश्वर ॥ २६ ॥

त्वमनादिः समस्तादिस्तं नित्यानन्तरोऽन्तरः ।
यद्धैममण्डं जगतां बीजं ब्रह्माण्डसञ्ज्ञितम् ॥ २७ ॥

तद्बीजं भवतस्तेजस्त्वयोक्तं सलिलेषु च ।
सर्वाधारो निराधारो निर्हेतुः सर्वकारणम् ॥ २८ ॥

नमि नमस्ते विश्वेश लोकानां प्रभव प्रभो ।
सृष्टिस्थित्यन्तहेतुस्त्वं विधिविष्णुहरात्मधृक् ॥ २९ ॥

यस्य ते दशधा मूर्तिरूर्मिषट्कादिवर्जिता ।
ज्योतिः पतिस्त्वमम्भोधिस्तस्मै तुभ्यं नमो नमः ॥ ३० ॥

कस्ते भावं वक्तुमीशः परेश
स्थूलात्स्थूलो योऽनुरूपोर्थवर्गात् ।
तस्मै नित्यं मे नमोऽस्त्वद्य योऽभू-
दादित्यवर्णं तमसः परस्तात् ॥ ३१ ॥
मूलम्
कस्ते भावं वक्तुमीशः परेश
स्थूलात्स्थूलो योऽनुरूपोर्थवर्गात् ।
तस्मै नित्यं मे नमोऽस्त्वद्य योऽभू-
दादित्यवर्णं तमसः परस्तात् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
सहस्रशीर्षा पुरुषः सहस्रपात्
सहस्रचक्षुः पृथिवीं समन्ततः ।
दशाङ्गुलं यो हि समत्यतिष्ठत्
स मे प्रसीदत्विह विष्णुरुग्रः ॥ ३२ ॥
मूलम्
सहस्रशीर्षा पुरुषः सहस्रपात्
सहस्रचक्षुः पृथिवीं समन्ततः ।
दशाङ्गुलं यो हि समत्यतिष्ठत्
स मे प्रसीदत्विह विष्णुरुग्रः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
नमस्ते मीनमूर्ते हे नमस्ते भगवन् हरे ।
नमस्ते जगदानन्द नमस्ते भक्तवत्सल ॥ ३३ ॥
मूलम्
नमस्ते मीनमूर्ते हे नमस्ते भगवन् हरे ।
नमस्ते जगदानन्द नमस्ते भक्तवत्सल ॥ ३३ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
स्वायम्भुवेन मनुना संस्तुतो मत्स्यरूपधृक् ।
वासुदेवस्तदा प्राह मेघगम्भीरनिःस्वनः ॥ ३४ ॥

श्रीभगवानुवाच
तुष्टोऽस्मि तपसा तेऽद्य भक्त्यः चापि स्तुतो मुहुः ।
सपर्यया च दानेन वरं वरय सुव्रत ॥ ३५ ॥

इष्टार्थं सम्प्रदास्यामि तुभ्यं नात्र विचारणा ।
वरयस्वेप्सितान् कामान् लोकानां वा हितं च यत् ॥ ३६ ॥

यदि देयो वरोमेऽद्य लोकानां यो हितो भवेत् ।
तन्मे देहि वरं विष्णो तं वक्ष्यामि शृणुष्व मे ॥ ३७ ॥

शशाप कपिलः पूर्वं मदर्थे भुवनत्रयम् ।
हतप्रहतविध्वंस्तं सकलं ते भवेदिति ॥ ३८ ॥

येनेयमुद्धृता पृथ्वी येनेयं प्रतिपालिता ।
संहरिष्यति यस्त्वेनां तेऽधुना प्लावयन्त्विमाम् ॥ ३९ ॥

ततोऽहं दीनहृदय स्त्वामेव शरणं गतः ।
न यथेदं त्रिभुवनं भविष्यति जलप्लुतम् ।
हतप्रहतविध्वस्ते तथा त्वं देहि मे वरम् ॥ ४० ॥

श्री भगवानुवाच
न मत्तः कपिलो भिन्नस्तथा न कपिलादहम् ।
यदुक्तं तेन मुनिना मयोक्तं विद्धि तन्मनो ॥ ४१ ॥

तस्माद् यदुदितं तेन तत्सत्यं नान्यथा भवेत् ।
करिष्ये तत्र साहाय्यं स्वायम्भुव निबोध तत् ॥ ४२ ॥

हतप्रहतविध्वस्ते तोयमग्ने जगत्त्रये ।
अ चिरादेव तत्रोयं भीषार्ययामि वै मनो ।
स्यामलेनाथ शृङ्गेण त्वं मां ज्ञास्यसि वै तदा ॥ ४३ ॥

यावज्जलप्लवस्तावद्यथा कार्यं त्वया मनो ।
तन्मे निगदतः पथ्यं शृणुष्वावहितोऽधुना ॥ ४४ ॥

सर्वयज्ञियकाष्ठौघैरेका नौका विधीयताम् ।
तामहं दृढयिष्यामि यथा नो भिद्यते जलैः ॥ ४५ ॥

दशयोजनविस्तीर्णां त्रिंशद्योजनमायताम् ।
धारिणीं सर्वबीजानां भुवनत्रयवर्धिनीम् ॥ ४६ ॥

सर्वयज्ञियवृक्षाणां भूरिवल्वलतन्तुभिः ।
नवयोजनदीर्घां तु व्यामत्रयसुविस्तृताम् ॥ ४७ ॥

कुरुष्व त्वं मनो तूर्णं बृहतीमीरिका वटीम् ।
जगद्धात्री जगन्माया लोकमाता जगन्मयी ।
दृढयिष्यति तां रज्जुं न त्रुत्यति यथातथा ॥ ४८ ॥

सर्वाणि वीजान्यादाय सवेदान् सप्त वै ऋषीन् ।
तस्यां नावि निषण्णस्त्वं वर्तमाने जलप्लवे ॥ ४९ ॥

दक्षेण सह सङ्गम्य स्मरिष्यसि मनो मम ।
स्मृतोऽहं तूर्णमायास्ये भवतो निकटं प्रति ।
श्यामलेनाथ शृङ्गेण त्वं मां ज्ञास्यसि वै तदा ॥ ५० ॥

यावत् प्रहतविध्वस्त-हतं स्याद्भुवनत्रयम् ।
तावत् पृष्ठेन तां नावं वोढाहं नात्र संशयः ॥ ५१ ॥

जहप्लुते तु सम्पूर्णे शृङ्गे मम च तां तरीम् ।
त्वं तदा वटीरिकया सन्धानिष्यसि वै दृढम् ॥ ५२ ॥

वद्धायां नावि मे शृङ्गे देवमानेन वत्सरान् ।
सहस्रं प्रेरयिष्यामि तां नावं शोषयन् जलम् ॥ ५३ ॥

ततः शुष्केषु तोयेषु प्रोतुङ्गे शिखरे गिरेः ।
हिमाचलस्य बद्ध्वाहं तस्मिन्नावमहं मनो ॥ ५४ ॥

अहमाराधितो येन जप्येन भवता मनो ।
सर्वसिद्धिर्भवेत्तस्य यस्तोषयति तेन माम् ॥ ५५ ॥
मूलम्
अहमाराधितो येन जप्येन भवता मनो ।
सर्वसिद्धिर्भवेत्तस्य यस्तोषयति तेन माम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति दत्त्वा वरं तस्मै मत्स्यस्तेन नमस्कृतः ।
अन्तर्दधे जगन्नाथो लोकानुग्रहकारकः ॥ ५६ ॥

स्वायम्भुवोऽपि भगवानन्तर्धानं गते हरौ ।
यथोक्तं हरिणा पूर्वं नावं रज्जुं तथाकरोत् ॥ ५७ ॥

सर्वयज्ञियवृक्षौघाञ्छित्वा स्वायम्भुवस्तदा ।
उद्धृत्य कारयामास वास्यादिभिरसौ तरिम् ॥ ५८ ॥

तेषाम् अल्कसमुद्भूतसूत्रसङ्घर्वटीरिकाम् ।
पूर्वोक्तेन प्रमाणेन कारयामास वै मनुः ॥ ५९ ॥

ततः कालेन महता वृत्तं युद्धं महाद्भुतम् ।
विष्णोर्यज्ञवराहस्य शरभस्य हरस्य च ॥ ६० ॥

ततो जलप्लवे जाते विध्वस्ते भुवनत्रये ।
तथा रज्ज्वा तरिं बध्वा वीजान्यादाय सर्वशः ॥ ६१ ॥

वेदानृषींस्तदा सप्तदशन्चादाय वै मनुः ।
तस्यां नावि समाधाय तोयमग्रे चराचरे ॥ ६२ ॥

स्वायम्भुवस्तदा मत्स्यं हरिं सस्मार नौगतः ।
ततो जलानामुपरि सशृङ्ग इव पर्वतः ॥ ६३ ॥

दितश्चैकशृङ्गेण विष्णुर्मत्स्यस्वरूपधृक् ।
आगतस्तत्र नचिराद्यत्रास्ते तरिणा मनुः ॥ ६४ ॥

तरिमारुह्य विपुले तोयराशौ भयङ्करे ।
यावच्चलाचलं तोयं तावत् पृष्ठे तरिं न्यधात् ॥ ६५ ॥

जले प्रकृतिमापन्ने शृङ्गे बध्वा वटीरिकाम् ।
तां नावं नोदयामस सहस्रं दैववत्सरान् ॥ ६६ ॥

स्वं नावमवष्टभ्य दधार परमेश्वरः ।
योगनिद्रा जगधात्री समासीदद्वटीरिकाम् ॥ ६७ ॥

ततः शनैः शनैस्तोये शोषं गच्छति वै चिरात् ।
पश्चिमं हिमवच्छृङ्गं सुमग्नं तोयमध्यतः ॥ ६८ ॥

द्वे सहस्रे योजनानामुच्छ्रितस्तय हिमप्रभो ।
पञ्चाशत्तु सहस्राणि शृङ्गं तत्तस्य चोच्छ्रितम् ॥ ६९ ॥

तस्मिन् शृङ्गे ततो नावं बध्वा मत्स्यात्मधृग् हरिः ।
जगाम शोषणायाशु जलानां जगतां पतिः ।
एवं हि मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा ॥ ७० ॥

कपिलस्य तु शापेन कृत आकालिको लयः ।
अकालिकोऽयं प्रलयो यतो भगवता कृतः ।
इति वः कथितं सर्वं यथावद्द्विजसत्तमाः ॥ ७३ ॥

इति श्रीकालिकापुराणे अकालप्रलयकथने त्रयस्त्रिंशोऽध्यायः ।