द्वात्रिंशोऽध्यायः
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
आकालिकोऽयं प्रलयो यतो भगवता कृतः ।
तच्छृण्वन्तु महाभागा वाराहं लोकसङ्क्षयम् ॥ १ ॥
मूलम्

यथा वा मत्स्यरूपेण वेदास्त्राताश्च शर्ङ्गिणा ।
तदहं सम्प्रवक्ष्यामि सर्वपापप्रणाशनम् ॥ २ ॥

पुरा महामुनिः सिद्धः कपिलो विष्णुरीश्वरः ।
साक्षात् स्वयं हरिर्योऽसौ सिद्धानामुत्तमो मुनिः ॥ ३ ॥

ध्यायतः सिद्धमित्येवं सर्वं जगदिदं स्वतः ।
यतो जातो हरेः कायात् कपिलस्तेन स स्मृतः ॥ ४ ॥

स एकदा पुरा भूत्वा मनोः स्वायम्भुवेऽन्तरे ।
स्वायम्भुवं मनुं वाक्यं मुनिवर्योऽब्रवीदिदम् ॥ ५ ॥

कपिल उवाच
विश्वास-प्रस्तुतिः
स्वायम्भुव मुनिश्रेष्ठ ब्रह्मरूप महामते ।
ममैवमीप्सितार्थं त्वं देहि प्रार्थयतोऽधुना ॥ ६ ॥

जगत्सर्वं त्वैवेदं त्वया च परिपालितम् ।
त्वया सर्वं जगत् सृष्टं त्वमेव जगतां पतिः ॥ ७ ॥

स्वर्गे पृथिव्यां पाताले देवमानुषजन्तुषु ।
त्वं प्रभुर्वरदो गोप्ता त्वमेवैकः सनातनः ॥ ८ ॥

त्वं वै धाता विधाता च त्वं हि सर्वेश्वरेश्वरः ।
त्वयि प्रतिष्ठितं सर्वं सततं भुवनत्रयम् ॥ ९ ॥

तपस्यतो तव समं प्रतिभास्यति सोऽनुगम् ।
कार्यकारणतत्त्वौघसहितानि जगन्ति वै ॥ १० ॥

तन्मे देहि रहः स्थानं त्रिषु लोकेषु दुर्लभम् ।
पुण्यं पापहरं रम्यं ज्ञानप्रभवमुत्तमम् ॥ ११ ॥

अहं हि सर्वभूतानां भूत्वा प्रत्यक्षदर्शिवान् ।
उद्धरिष्ये जगज्जातं निर्माय ज्ञानदीपिकाम् ॥ १२ ॥

अज्ञानसागरे मग्नमधुना सकलं जगत् ।
ज्ञानप्लवं प्रदायाहं तारयिष्ये जगत्त्रयम् ॥ १३ ॥

एतस्मिन्मां भवान् सम्यगुपपन्नमिहेच्छति । त्वन्नो नाथश्च पूज्यश्च
पालकश्च जगत्प्रभो ॥ १४ ॥

इत्येवमुक्तः स मनुः कपिलेन महात्मना ।
प्रत्युवाच अहात्मानं कपिलं संशितव्रतम् ॥ १५ ॥

मनुरुवाच
विश्वास-प्रस्तुतिः
यदि त्वयाखिलजगद्धितार्थं ज्ञानदीपिकाम् ।
चिकीर्षूणा यतः कार्यं किं स्थानार्थनया तव ॥ १६ ॥

हिरण्यगर्भः सुमहत् तपस्तेपे पुराद्भुतम् ।
स मे ययाचे तपसे स्थानं कस्मै न च द्विज ॥ १७ ॥

शम्भुः सम्भोगरहितो देवमानेन वत्सरान् ।
आयुतानि तपस्तेपे सोऽपि स्थानं न चैक्षत ॥ १८ ॥

देवेन्द्रो वीतिहोत्रश्च शमनो रक्षसां पतिः ।
यादःपतिर्मातरिश्वा धनाध्यक्षतथैव च ॥ १९ ॥

एते तेपुस्तपस्तीव्रं दिक्पालत्वमभीप्सवः ।
स्थानं न मार्गयामासुः किञ्चनापि महामुने ॥ २० ॥

देवागाराणि तीर्थानि क्षेत्राणि सरितस्तथा ।
बहूनि पुण्यभाञ्ज्यत्र तिष्ठन्ति कपिल क्षितौ ॥ २१ ॥

तेषामेकतमं त्वं चेदासाद्य कुरुषे तपः ।
स्थानं ब्रह्मंस्तपःसिद्ध्र्न भविष्यति तत्र किम् ॥ २२ ॥

मत्तः स्थानार्थना तावत् केवलं ते विकत्थनम् ।
अयं विकत्थनो धर्मो युज्यते न तपस्विनाम् ॥ २३ ॥
मूलम्
मत्तः स्थानार्थना तावत् केवलं ते विकत्थनम् ।
अयं विकत्थनो धर्मो युज्यते न तपस्विनाम् ॥ २३ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
एतच्च्रुत्वा वचस्तस्य मनोः स्वायम्भुवस्य तु ।
चुकोप कपिलः सिद्धः प्रोवाच च तदा मनुम् ॥ २४ ॥
मूलम्
एतच्च्रुत्वा वचस्तस्य मनोः स्वायम्भुवस्य तु ।
चुकोप कपिलः सिद्धः प्रोवाच च तदा मनुम् ॥ २४ ॥
कपिल उवाच
विश्वास-प्रस्तुतिः
त्वयि विश्रम्भमाधाय तपसः सिद्धयेऽचिरात् ।
स्थानं मया प्रार्थितं ते तन्मां क्षिपसि हेतुभिः ॥ २५ ॥

अनेनात्युग्रवचसा तवैवाहं न चक्षमे ।
स्वयं त्रिभुवनाध्यक्ष इति ते गर्व ईदृशः ॥ २६ ॥

अक्षम्यं ते वचो मेऽद्य प्रार्थनायां विकत्थनम् ।
यत् त्वं वदसि तस्य त्वं फलमेतदवाप्नुहि ॥ २७ ॥

इदं त्रिभुवनं सर्वं सदेवासुरमानुषम् ।
हतप्रहतविध्वस्तमचिरेण भविष्यति ॥ २८ ॥
मूलम्
इदं त्रिभुवनं सर्वं सदेवासुरमानुषम् ।
हतप्रहतविध्वस्तमचिरेण भविष्यति ॥ २८ ॥
विश्वास-प्रस्तुतिः
येनेयमुद्धृता पृथ्वी येन वा स्थापिता पुनः ।
यो वास्या अन्नकर्ता स्वाद् यो वास्याः परिरक्षकः ॥ २९ ॥

त एव सर्वे हिंसन्तु सकलं सचराचरम् ।
नचिराद्द्रक्ष्यसि मनो जलपूर्णं जगत्त्र्यम् ।
हतप्रहतविध्वस्तं तव गर्वविशातनम् ॥ ३० ॥

एवमुक्त्वा मुनीन्द्रऽसौ कपिलस्तपसां निधिः ।
अन्तर्दधे जगामापि तदा ब्रह्मसदो मुनिः ॥ ३१ ॥

कपिलस्य वचः श्रुत्वा विषण्णवदनो मनुः ।
भावीति प्रतिपद्याशु मनुर्नोवाच किञ्चन ॥ ३२ ॥

ततः स्वायम्भुवो धीमांस्तपसे धृतमानसः ।
हिताय सर्वजगतां दिदृक्षुर्गरुडध्वजम् ॥ ३३ ॥

विशालां बदरीं यातो गङ्गाद्वारान्तिकं खलु ।
तत्र गत्वा जगद्धर्ता मनुः स्वायम्भुवः स्वयम् ।
ददर्श बदरीं तत्र पुण्यां पापप्रणाशिनीम् ॥ ३४ ॥

सदा फलवतीं नित्यं मृदुशाद्बलमञ्जरीम् ।
सुच्छायां मसृणां शीर्णशुष्कपत्रविवर्जिताम् ॥ ३५ ॥

गङ्गातोयौधसंसिक्त-शिखामूलान्तराखिलाम् ।
उपास्यमानां सततं नानामुनितपोधनैः ॥ ३६ ॥
मूलम्
गङ्गातोयौधसंसिक्त-शिखामूलान्तराखिलाम् ।
उपास्यमानां सततं नानामुनितपोधनैः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तत्स्थानं सर्वतो भद्रं नानाभृङ्गगणान्वितम् ।
फुल्लारविन्दसलिलं रमणीयं वृषप्रदम् ॥ ३७ ॥

प्रविश्य तपसे यत्नमकरोल्लोकभावनः ।
स भूत्वा नियताहारः परमेण समाधिना ॥ ३८ ॥
मूलम्
प्रविश्य तपसे यत्नमकरोल्लोकभावनः ।
स भूत्वा नियताहारः परमेण समाधिना ॥ ३८ ॥
विश्वास-प्रस्तुतिः
आराधयामास हरिं जगत्कारणकारणम् ।
सर्वेषां जगतां नाथं नीलमेघाञ्जनप्रभम् ॥ ३९ ॥

शङ्खचक्रगदापद्मधरं कमललोचनम् ।
पीताम्बरधरं देवं गरुडोपरिसंस्थितम् ॥ ४० ॥

जगन्मयं लोकनाथं व्यक्ताव्यक्तस्वरूपिणम् ।
जगद्बीजं सहस्राक्षं सहस्रशिरसं प्रभुम् ॥ ४१ ॥

सर्वव्यापिनमाधारं नारायणमजं विभुम् ।
जपन्नेतत्परं मन्त्रं सर्ववेदमयं मनुः ॥ ४२ ॥

हिरण्यगर्भपुरुषप्रधानाव्यक्तरूपिणे ।
ॐ नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ॥ ४३ ॥

इति जप्यं प्रजपतो मनोः स्वायम्भुवस्य तु ।
प्रससाद जगन्नाथः केशवो नाचिरादथ ॥ ४४ ॥

ततः क्षुद्रझषो भूत्वा दूर्वादलसमप्रभः ।
कर्पूरकलिकायुग्म-तुल्यनेत्रयुगोज्ज्वलः ॥ ४५ ॥

तपस्यन्तं महात्मानं मनुं स्वायम्भुवं मुनिम् ।
आससाद तदा क्षुद्रमत्स्यरूपी जनार्दनः ॥ ४६ ॥

उवाच तं महात्मानं मनुं स्वायम्भुवं तदा ।
सुसन्त्रस्तं स कारुण्ययुक्तं भीतिसगद्गदम् ॥ ४७ ॥

तपोनिधे महाभाग भीतं मां त्रातुमर्हसि ।
नित्यमुद्वेजितं मत्स्यैर्विशालैर्भक्षितुं प्रति ॥ ४८ ॥

प्रत्यहं मां महाभाग मीना धावन्ति भक्षितुम् ।
समन्ततोऽधिकाहन्तु त्वं नाथ गोपितुं क्षमः ॥ ४९ ॥

अद्य प्रभूतैर्विपुलैर्दारितः पृथुरोमभिः ।
विश्रान्तोऽहं क्षुद्रतरो न च शक्तः पलायने ॥ ५० ॥

प्राणाकाङ्क्षी महात्मानं भवन्तं शरणं मुनिम् ।
प्राप्तोऽहञ्चेदनुक्रोशस्तेऽस्ति मां प्रतिपालय ॥ ५१ ॥

हयोद्भ्रान्तमनाश्चाहं वृक्षच्छायां च चञ्चलाम् ।
दृष्ट्वा चलतरङ्गांश्च मत्स्यादिव विभेम्यहम् ॥ ५२ ॥

मार्कण्ड्ये उवाच
विश्वास-प्रस्तुतिः
इति तस्य वचः श्रुत्वा मनुः स्वायम्भुवस्ततः ।
कृपया परया युक्तः प्रोचेऽहं रक्षिता तव ॥ ५३ ॥

ततः करोदरे तोयमादायाधाय तत्र तम् ।
समक्षं क्षुद्रमत्स्यस्य विहारं समलोकयत् ॥ ५४ ॥

ततो दयालुं स मनुस्तं मत्स्यं चारुरूपिणम् ।
अलिञ्जरे तोयपूर्णे न्यधाद्विपुलभोगिनि ॥ ५५ ॥

स तस्मिन् मणिके मत्स्यो वर्धमानो दिने दिने ।
सामान्यरोहितप्राय-देहोऽभून्नचिरादथ ॥ ५६ ॥

दशघटजलपूर्णं प्रत्यहं स महात्मा
मणिकमतिकुर्वन् वर्धयामास मत्स्यम् ।
स च सुविशदनेत्रो मत्स्यबालोऽचिरेण
मणिकसलिलमध्ये लोमशः पीनदेहः ॥ ५७ ॥
मूलम्
दशघटजलपूर्णं प्रत्यहं स महात्मा
मणिकमतिकुर्वन् वर्धयामास मत्स्यम् ।
स च सुविशदनेत्रो मत्स्यबालोऽचिरेण
मणिकसलिलमध्ये लोमशः पीनदेहः ॥ ५७ ॥
इति श्रीकालिकापुणाणे मत्स्यरूप-कथने द्वात्रिंशोऽध्यायः ॥