विश्वास-प्रस्तुतिः
एकत्रिंशोऽध्यायः
ऋषय ऊचुः
कथं यज्ञवराहस्य देहो यज्ञत्वमाप्तवान् ।
त्रेतात्वमगमन् पुत्रा वराहस्य कथं त्रयः ॥ १ ॥
मूलम्

आकालिकोऽयं प्रलयः कस्माद् भगवता कृतः ।
जनक्षयो महाघोरो वराहेण महात्मना ॥ २ ॥
मूलम्
आकालिकोऽयं प्रलयः कस्माद् भगवता कृतः ।
जनक्षयो महाघोरो वराहेण महात्मना ॥ २ ॥
विश्वास-प्रस्तुतिः
कथं वा मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा ।
कथं पुनरभूत् सृष्टिः केन चोर्वी समुद्धृता ॥ ३ ॥

ईश्वरः शारभं कायं त्यक्तवान् वा कथं गुरो ।
कीदृक् प्रवृत्तं तद्देहं तन्नो वद महामते ॥ ४ ॥

एतेषां द्विजशार्दूलं भवान् प्रत्यक्षदर्शिवान् ।
तन्नोऽद्य श्रोष्यमाणानां कथयस्व महामते ॥ ५ ॥

मार्कण्डेय उवाच
शृणुध्वं द्विजशार्दूला यत्पृष्टोऽहमिहाद्भुतम् ।
शृण्वन्त्ववहिताः सर्वे सर्ववेदफलप्रदम् ॥ ६ ॥

यज्ञेषु देवास्तुष्यन्ति यज्ञे सर्वं प्रतिष्ठितम् ।
यज्ञेन ध्रियते पृथ्वी यज्ञस्तारयति प्रजाः ॥ ७ ॥

अन्नेन भूता जीवन्ति पर्यन्यादन्नसम्भवः ।
पर्जन्यो जायते यज्ञात् सर्वं यज्ञमयं ततः ॥ ८ ॥

स यज्ञोऽभूद् वराहस्य कायाच्छम्भुविदारितात् ।
यथार्हं कथये तद्वः शृण्वन्त्ववहिता द्विजाः ॥ ९ ॥

विदारिते वराहस्य काये भर्गेण तत्क्षणात् ।
ब्रह्मविष्णुशिवा देवाः सर्वैश्च प्रमथैः सह ॥ १० ॥

निन्युर्जलात् समुद्धृत्य तच्छरीरं नभः प्रति ।
तद्बिभिदुः शरीरं तद् विष्णोश्चक्रेण खण्डशः ॥ ११ ॥

तस्याङ्गसन्धयो यज्ञा जाताश्च वै पृथक् पृथक् ।
यस्मादङ्गाच्च ये जातास्तच्छृण्वन्तु महर्षयः ॥ १२ ॥

भ्रूनासासन्धितो जातो ज्योतिष्टोमो महाध्वरः ।
हनुश्रवणसन्ध्योस्तु वह्निष्टोमो व्यजायत ॥ १३ ॥

चक्षुर्भ्रुवोः सन्धिनां तु व्रात्यष्टोमो व्यजायत ।
जातः पौनर्भवस्टोमस्तस्य पोत्रौष्ठसन्धितः ॥ १४ ॥

वृद्धष्टोमबृहत्ष्टोमौ जिह्वामूलादजायताम् ।
अतिरात्रं सवैराजमधोजिह्वान्तरादभूत् ॥ १५ ॥

अध्यापन ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौ तो नृयज्ञोऽतिथिपूजनम् ॥ १६ ॥

स्नानं तर्पणपर्यन्त नित्ययज्ञाश्च सर्वशः ।
कण्ठसन्धेः समुत्पन्नाः जिह्वातो विधयस्तथा ॥ १७ ॥

वाजिमेधमहामेधौ नरमेधस्तथैव च ।
प्राणिहिसाकरा येऽन्ये ते जाताः पादसन्धितः ॥ १८ ॥

राजसूयोऽर्थकारी च वाजपेयस्तथैव च ।
पृष्ठसन्धौ समुत्पन्ना ग्रहयज्ञास्तथैव च ॥ १९ ॥

प्रतिष्ठोत्सर्गयज्ञाश्च दानश्राद्धादयस्तथा ।
हृत्सन्धितः समुत्पन्नाः सावित्रीयज्ञ एव च ॥ २० ॥

सर्वे सांस्कारिका यज्ञाः प्रायश्चित्तकराश्च ये ।
ते मेढ्रसन्धितो जाता यज्ञास्तस्य महात्मनः ॥ २१ ॥

रक्षःसत्रं सर्पसत्रं सर्वं चैवाभिचारिकम् ।
गोमेधो वृक्षयागश्च खुरेभ्यो ह्यभवन्निमे ॥ २२ ॥

मायेष्टिः परमेष्टिश्च गीष्पतिर्भोगसम्भवः ।
लाङ्गुलसन्धौ सञ्जाता अग्निष्टोमस्तथैव च च ॥ २३ ॥

नैमित्तिकाश्च ये यज्ञाः सङ्क्रान्त्यादौ प्रकीर्तिताः ।
लाङ्गुलसन्धौ ते जातास्तथा द्वादशवार्षिकम् ॥ २४ ॥

तीर्थप्रयोगसामौजः यज्ञः सङ्कर्षणस्तथा ।
आर्कमाथर्वणश्चैव नाडीसन्धेः समुद्गताः ॥ २५ ॥

ऋचोत्कर्षः क्षेत्रयज्ञाः पञ्चसर्गातियोजनः ।
लिङ्गसंस्थानहेडम्बयज्ञा जाताश्च जानूनि ॥ २६ ॥

एवमष्टाधिकं जातं सहस्रं द्विजसत्तमाः ।
यज्ञानां सततं लोका यैर्भाव्यन्तेऽधुनापि च ॥ २७ ॥

स्रुगस्य पोत्रात् सञ्जाता नासिकायाः स्रुषोऽभवत् ।
अन्येस्रुक्स्रुवभेदा ये ते जाता पोत्रनासयोः ॥ २८ ॥

ग्रीवाभागेण तस्याभूत् प्राग्वंशो मुनिसत्तमाः ।
इष्टापूर्तिर्यजुर्धर्मो जाताः श्रवणरन्ध्रतः ॥ २९ ॥

दंष्ट्राभ्यो ह्यभवन् यूपाः कुशा रोमाणि चाभवन् ।
उद्गाता च तथाध्वर्युर्होता शामित्रमेव च ॥ ३० ॥

अग्रदक्षिणवामाङ्ग-पश्चात् पादेषु सङ्गताः ।
पुरोडाशाः सचरवो जाता मस्तिष्कसञ्चयात् ॥ ३१ ॥

कर्सूर्नेत्रद्वयाज्जाता यज्ञकेतुस्तथा खुरात् ।
मध्यभागोऽभवद्वेदी मेद्रात् कुण्डमजायत ॥ ३२ ॥

रेतोभागात्तथैवाज्यं स्वधामन्त्रा समुद्गताः ।
यज्ञालयः पृष्ठभागाधृत्पद्माद्यज्ञ एव च ।
तदात्मा यज्ञपुरुषो मुञ्जाः कक्षात्समुद्गताः ॥ ३३ ॥

एवं यावन्ति यज्ञानां भाण्डानि च हवींषि च ।
तानि यज्ञवराहस्य शरीरादेव चाभवन् ॥ ३४ ॥

एवं यज्ञवराहस्य शरीरं यज्ञतामगात् ।
यज्ञरूपेण सकलमाप्यायितुमिदं जगत् ॥ ३५ ॥
मूलम्
एवं यज्ञवराहस्य शरीरं यज्ञतामगात् ।
यज्ञरूपेण सकलमाप्यायितुमिदं जगत् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
एवं विधाय यज्ञं तु ब्रह्मविष्णुमहेश्वराः ।
सुवृत्तं कनकं घोरमासेदुर्यत्नतत्पराः ॥ ३६ ॥

ततस्तेषां शरीराणि पिण्डीकृत्य पृथक् पृथक् ।
त्रिदेवास्त्रिशरीराणि व्यधमन्मुखवायुभिः ॥ ३७ ॥

सुवृत्तस्य शरीरं तु व्यधमन्मुखवायुना ।
स्वयमेव जगत् स्रष्टा दक्षिणाग्निस्ततोऽभवत् ॥ ३८ ॥

कनकस्य शरीरं तु ध्मापयामास केशवः ।
ततोऽभूद्गार्हपत्याग्निः पञ्चवेतानभोजनः ॥ ३९ ॥

घोरस्य तु वपुः शम्भुर्ध्मापयामास वै स्वयम् ।
तत आहवनीयोऽग्निस्तत्क्षणात् समजायत ॥ ४० ॥

एतैस्त्रिभिर्जगद्व्याप्तं त्रिमूलं सकलं जगत् ।
एतद् यत्र त्रयं नित्यं तिष्ठति द्विजसत्तमाः ॥ ४१ ॥

समस्ता देवतास्तत्र वसन्त्यनुचरैः सह ।
एतद्भद्रपदं नित्यमेतदेव त्रयात्मकम् ॥ ४२ ॥

एतत्त्रयीविधिस्थानमेतत् पुण्यकरं परम् ।
यस्मिन् जनपदे चैते हूयन्ते वह्नयस्त्रयः ॥ ४३ ॥

तस्मिन् जनपदे नित्यं चतुर्वर्गो विवर्धते ।
एतद्वः कथितं सर्वं यत् पृष्टोऽहं द्विजोत्तमाः ॥ ४४ ॥

यथा यज्ञवराहस्य देहो यज्ञत्वमाप्तवान् ।
यथा च तस्य पुत्राणां देहतो वह्नयोऽभवन् ॥ ४५ ॥

इति श्रीकालिकापुराणे वराहतनौ यज्ञोत्पत्तिर्नाम एकत्रिंशोऽयायः ।