विश्वास-प्रस्तुतिः
त्रिंशोऽध्यायः
मार्कण्डेय उवाच
ततो देवगणाः सर्वे सहिता देवयोनिभिः ।
शक्रेण सहिता मन्त्रं चक्रुः सम्यग् जगद्धितम् ॥ १ ॥
मूलम्

ततो निश्चित्य ते सर्वे शक्राद्या मुनिभिः सह ।
शरण्यं शरणं जग्मुर्नारायणमजं विभुम् ॥ २ ॥

तं समासाद्य गोविन्दं वासुदेवं जगत्पतिम् ।
प्रणम्य सर्वे त्रिदशास्तुस्टुवुर्गरुडध्वजम् ॥ ३ ॥

देवा ऊचुः
नमस्ते देव देवेश जगत्कारण कारक ।
कालस्वरूपिन् भगवन् प्रधानपुरुषात्मकम् ॥ ४ ॥

स्थूल सूक्ष्म जगद्व्यापिन् परेश पुरुषोत्तम ।
त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् ॥ ५ ॥

त्वं हि मायास्वरूपेण सन्मोहयसि वै जगत् ।
यद्भूतं यच्च वै भाव्यं यदिदानीं प्रवर्तते ॥ ६ ॥

तत् सर्वं परमेश त्वं स्थावरं जङ्गमं तथा ।
अर्थार्थिनां त्वमर्थस्तु कामः कामार्थिनां तथा ॥ ७ ॥

त्वं हि धर्मार्थिनां धर्मो मोक्षो निर्वाणमिच्छताम् ।
त्व कामुकस्त्वं मेवार्थी धार्मिकस्त्वं सदागतिः ॥ ८ ॥

त्वद्वक्त्राद् ब्राह्मणा जाता बाहुजाः क्षत्रियास्तव ।
ऊर्वोर्वैश्यास्तथा शूद्राः पादाभ्यां तव निर्गताः ॥ ९ ॥

सूर्यो नेत्रात्तव विभो मनोजश्चन्द्रमास्तव ।
श्रवणात् पवनो जातो दश प्राणास्तथापरे ॥ १० ॥

ऊर्ध्वं स्वर्गादिभुवनं तव शीर्षादजायत ।
तव नाभेस्तथाकाशं क्षितिः पादतलादभूत् ॥ ११ ॥

कर्णाभ्यां ते दिशो जाता जठरात् सकलं जगत् ।
त्वं हि मायास्वरूपेण सम्मोहयसि वै जगत् ॥ १२ ॥

निर्गुणो गुणवांस्त्वं हि शुद्धम् एकः परात्परः ।
उत्पत्तिस्थितिहीनस्त्वं त्वमच्युतगुणाधिकः ॥ १३ ॥

आदित्यैर्वसुभिर्देवैः साध्यैर्यक्षैर्मरुद्गणैः ।
त्वं चिन्त्यसे जगन्नाथ मुनिभिश्च मुमुक्षुभिः ॥ १४ ॥

त्वां वै चिदानन्दमयं विदन्ति विशेषविज्ञा मुनयो विभोगाः ।
त्वमेव संसारं महीरुहस्य बीजं जलं स्थानमथो फलं च ॥ १५ ॥

त्वं पद्मया पद्माकरो विभासि वरासिचक्राब्जधनुर्धरस्त्वम् ।
त्वमेव तार्क्षे प्रतिभासि नित्यं स्वर्णाचले तोययुतो यथाभ्रः ॥ १६ ॥

त्वमेव पीताम्बरशङ्कराब्जजास्त्वं सर्वमेतन्न च किञ्चिदन्यत् ।
न ते गुणा नः परिचिन्तनीया विधेर्हरस्यापि दिशां पतीनाम् ।
भीतेन भक्त्या शरणं प्रपन्ना गता वयं नः परिरक्ष विष्णोः ॥ १७ ॥

इति स्तुतो देवदेवो भूतभावनभावनः ।
सेन्द्रैर्देवगणैरूचे तान् सर्वान्मेघनिस्वनः ॥ १८ ॥

श्रीभगवानुवाच
यदर्थमागता यूयं यद्वा भयमुपस्थितम् ।
तत्र यद्वा मया कार्यं तद् देवास्तूर्णमुच्यताम् ॥ १९ ॥

शीर्यते वसुधा नित्यं क्रीडया यज्ञपोत्रिणः ।
लोकाश्च सर्वे सङ्क्षुब्धा नाप्नुवन्त्युपसान्त्वनम् ॥ २० ॥

शुष्क तुम्बीफल घातैर्यथा जर्जरता गतम् ।
वराहक्षुरघातेन तथा जर्जरिता क्षितिः ॥ २१ ॥

तस्य ये वा त्रयं पुत्रा कालाग्निसमतेजसः ।
सुवृत्तः कनको घोरस्तैश्चाप्याघातितं जगत् ॥ २२ ॥

तेषा कर्दमलीलाभिः सरांसि जगतां पते ।
मानसादीनि भग्नानि प्रकृति यान्ति नाधुना ॥ २३ ॥

भग्नास्तैर्देवतरवो मन्दाराद्या महाबलैः ।
देव नाद्यापि रोहन्ति फलं पुष्पं दलं च वा ॥ २४ ॥

यदा त्रिकूटमारुह्य ते सुवृत्तादयस्त्रयः ।
प्लुतं कृत्वा महाबाहो पतन्ति लवणार्णवे ।
तदा तत् क्षुब्धतोयौघैः प्लाव्यते सकला मही ॥ २५ ॥

उत्प्लवन्ति जनाः सर्वे प्रयान्ति च दिशो दश ।
जीवितं रक्षमाणास्ते प्रयान्ति च दिशो दश ॥ २६ ॥

यदा त्रिविष्टपं यान्ति यज्ञवाराहपुत्रकाः ।
इतस्ततस्तदा भग्ना देवाः शान्तिं न लेभिरे ॥ २७ ॥

सर्वे तैः पर्वताः पुत्रैर्वराहस्य जगत्पते ।
क्रीडद्भिः शिखरे नीतार्भूरिभागमधोगतिम् ॥ २८ ॥

एवं विक्रीडतां तेषां क्रीडाभिः सकलं जगत् ।
नाशमायाति वैकुण्ठ तस्माद्रक्ष जगत्प्रभो ॥ २९ ॥
मूलम्
एवं विक्रीडतां तेषां क्रीडाभिः सकलं जगत् ।
नाशमायाति वैकुण्ठ तस्माद्रक्ष जगत्प्रभो ॥ २९ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति तेषां निगदतां श्रुत्वा वाक्यं जनार्दनः ।
उवाच शङ्करं देवं ब्रह्माणं च विशेषतः ॥ ३० ॥
मूलम्
मार्कण्डेय उवाच
इति तेषां निगदतां श्रुत्वा वाक्यं जनार्दनः ।
उवाच शङ्करं देवं ब्रह्माणं च विशेषतः ॥ ३० ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
यत्कृते देवताः सर्वाः प्रजाश्च सकला इमाः ।
प्राप्नुवन्ति महद्दुःखं शीर्यते सकलं जगत् ॥ ३१ ॥

वाराहं तदहं कायं त्यक्तुमिच्छामि शङ्कर ।
निर्वेशशक्तं तं त्यक्तुं स्वेच्छया न हि शक्यते ।
त्वं त्याजयस्व तं कायं यत्नाद्वा शङ्कराधुना ॥ ३२ ॥

त्वमाप्यायस्व तेजोभिर्ब्रह्मन् स्मरहरं मुहुः ।
आप्यायन्तु तथा देवाः शङ्करो हन्तु पोत्रिणम् ॥ ३३ ॥

रजस्वलायाः संसर्गाद्विप्राणां मारणात्तथा ।
काय पापकरो भूतस्तं त्यक्तुं युज्यतेऽधुना ॥ ३४ ॥

प्रायश्चित्तैरपैत्येनः प्रायश्चित्तमहं ततः ।
चरिष्यामि तदर्थं मे तनुर्यत्नेन शाम्यताम् ॥ ३५ ॥

प्रजा पाल्या मम सदा सा हि सीदति नित्यशः ।
मत्कृते प्रत्यह तस्मात् त्यक्ष्ये कार्यं प्रजाकृतेः ॥ ३६ ॥
मूलम्
प्रजा पाल्या मम सदा सा हि सीदति नित्यशः ।
मत्कृते प्रत्यह तस्मात् त्यक्ष्ये कार्यं प्रजाकृतेः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इत्युक्तौ वासुदेवेन तदा तौ ब्रह्मशङ्करौ ।
त्वया यथोक्तं तत्कार्यमिति गोविन्दमूचतुः ॥ ३७ ॥

वासुदेवोऽपि तान् सर्वान् विसृज्य त्रिदशांस्तथाः ।
वाराहं तेज आहर्तुं स्वयं ध्यानपरोऽभवत् ॥ ३८ ॥

शनैः शनैर्यदा तेज आहरत्येष माधवः ।
तदा देहं तु वाराहं सत्त्वहीनमजायत ॥ ३९ ॥

तेजोहीनं यदा देहं ज्ञातं सर्वै स्तदामरैः ।
आससाद तदा देवो यज्ञवाराहमद्भुतम् ॥ ४० ॥

ब्रह्माद्यास्त्रिदशाः सर्वे महादेवमुमापतिम् ।
अनुजग्मुस्तदा तेज आधातुं स्मरशासने ॥ ४१ ॥

ततः सर्वैर्देवगणैः स्वं स्वं तेजो वृषध्वजे ।
आदधे तेन बलवान् सोऽतीव समजायत ॥ ४२ ॥

ततः शरभरूपी स तत्क्षणात् गिरिशोऽभवत् ।
ऊर्ध्वान्धोभागतश्चाष्टपादयुक्तः सुभैरवः ॥ ४३ ॥

द्विलक्षयोजनोच्छ्रायः सार्धलक्षैकविस्तृतः ।
ऊर्ध्वं वाराहकायस्तु लक्षयोजनविस्तृतः ॥ ४४ ॥

लक्षार्धविस्तृतः पार्श्वे वर्धमानस्तदाभवत् ।
ततः शरभरूपं तं महादेवमुमापतिम् ॥ ४५ ॥

ददर्श यज्ञपोत्री स स्पृशन्तं शिरसा विधुम् ।
सुदीर्घनासानखरं कृष्णाङ्गारसमप्रभम् ॥ ४६ ॥

दीर्घवक्त्रं महाकायमष्टदंष्ट्रासमन्वितम् ।
विभ्रतं ससटं पुच्छं दीर्घकर्णं भयानकम् ॥ ४७ ॥

चतुरः पृष्ठतः पादानधरे चतुरस्तथा ।
कुर्वन्तं घोरमारावमुत्पतन्तं पुनः पुनः ॥ ४८ ॥

तमायान्तं ततो दृष्ट्वा क्रोधाद् धावन्तमञ्जसा ।
सुवृत्तः कनको घोरम् आसेदुः क्रोधमूर्च्छिताः ॥ ४९ ॥

तमासाद्य महाकायं शरभं भ्रातरस्त्रयः ।
उच्चिक्षिपुस्ते युगपत् पौत्रघातैर्महाबलाः ॥ ५० ॥

यावत्प्रमाण शरभस्तत्प्रमाणास्तदाभवन् ।
शरभोत्क्षेपसमये मायया पोत्रिणस्त्रयः ॥ ५१ ॥

तेषां पोत्रप्रहारेण प्रोत्क्षिप्तः शरभस्तदा ।
पपात पृथिवीप्रान्ते गम्भीरे तोयसागरे ॥ ५२ ॥

तस्मिन् निपतिते तत्र सागरे मकरालये ।
उत्पत्य ते त्रयः पेतुः क्रोधात्तस्मिन् महोदधौ ॥ ५३ ॥

सुवृत्ते कनके घोरे पतिते सागराम्भसि ।
वराहोऽपि सुतस्नेहात् क्रोधाच्च द्विजसत्तमाः ।
उत्पत्य सहसा तस्मिंस्तोयराशौ पपात ह ॥ ५४ ॥

उत्पतन्तस्तदा ते वै वाराहाः शरभस्तथा ।
बभञ्जुर्दिवि देवांस्तु नक्षत्राणि ग्रहांस्तथा ॥ ५५ ॥

केचित्तु निहता देवा भूमौ पेतुश्च केचन ।
केचिच्च ज्ञानिनो देवा महर्लोकमुपाश्रिताः ॥ ५६ ॥

नक्षत्राणि विमानात्तु पतितानि महीतले ।
अदृश्यन्त द्विजश्रेष्ठा ज्वालामाला कुलानि वै ॥ ५७ ॥

तेषामुत्पतने वेगो योऽभूत् परमदारुणः।
तेनातिवेगो जनितो वायुः परमदारुणः ॥ ५८ ॥
मूलम्
तेषामुत्पतने वेगो योऽभूत् परमदारुणः।
तेनातिवेगो जनितो वायुः परमदारुणः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
वायुना तेन नुन्नास्तु पर्वता पृथिवीतले ।
केचिच्छैलाः पर्वतेषु पतिताः पुनरेव ते ॥ ५९ ॥

विमृद्य वृक्षान् जन्तूंश्च निपेतुश्च पुनः पुनः । केचित्तु पर्वताघातैर्नृत्यमाना
महीतले ॥ ६० ॥

बभञ्जुरचलाश्चापि व्रजन्तो बहुशः प्रजाः ।
पर्वता समदृश्यन्तं वातवेगेन भूतले ॥ ६१ ॥

सङ्घट्टमानास्तेभ्योऽन्ये व्रजन्त इव तेऽचलाः ।
अम्भोनिधो पतद्भिस्तैर्वाराहैः शरभेण च ॥ ६२ ॥

पर्वतैश्च महातुङ्गै रुत्क्षिप्तास्तोयराशयः ।
तेषा प्रपातवेगेन क्षिप्तेषु जलराशिषु ॥ ६३ ॥

निस्तोया इव सजाता क्षण वै सर्वसागराः ।
तै सवैरुदकैः क्षिप्तैः पृथिवीतलमागतैः ॥ ६४ ॥

उत्प्लाविता प्रजाः सर्वाः क्षणाज्जग्मुः क्षयं ततः ।
प्लवमानाः प्रजास्तोये म्रियमाणाः समन्ततः ॥ ६५ ॥

हा पितस्त्वथ हा तात हा मातर्हा सुतेति च ।
विलपन्ति स्म करुणं भीताश्चार्ता मुमूर्षवः ॥ ६६ ॥

यस्मिन् देशे निपतितो वाराहैः शरभः सह ।
तत्रैवाधोगता भूमिः पादवेगेन दारिता ॥ ६७ ॥

अपरः पृथिवीप्रान्त उत्थितः पर्वतैः सह ।
ससर्ज जनलोकेषु चलां तेषां प्रभञ्जनैः ॥ ६८ ॥

जनलोकेषु संयुक्तां पृथिवीं शरभस्तदा ।
निष्प्राणाभिव सम्बद्धामचलामपि पोत्रिभिः ।
ददर्श विस्मयाविष्टः स भीतः श्रान्तपीडितः ॥ ६९ ॥

ततस्ते युयुधुः सर्वे पोत्राघातेन पोत्रिणः ।
खुरप्रहारैर्दंष्ट्राभिर्गात्रक्षेपैश्च दारुणैः ॥ ७० ॥

शरभोऽप्यथ दंष्ट्राग्रैर्नखैस्तीक्ष्णैः खुरैस्तथा ।
लाङ्गुलस्य प्रहारैस्तु तुण्डघातैर्महास्वनैः ॥ ७१ ॥

चतुर्भिः पोत्रिभिस्तैस्तु स एकः शरभो महान् ।
एकान्तं यो धयामास सहस्रं परिवत्सरान् ॥ ७२ ॥

तेषां प्रहारैर्वेगैश्च भ्रमणैश्च गतागतैः ।
आस्फोटितैस्तथारावैर्देहपातैः पृथक् पृथक् ।
पाताले पन्नगाः सर्वे विनेशुः कद्रुजैः सह ॥ ७३ ॥

ततस्ते सागर त्यक्त्वा पृथिवीमध्यमागताः ।
परस्परं युध्यमानां ततोऽभूत् पृथिवी समा ॥ ७४ ॥

शेषोऽपि महतां यत्नाद् बलेनाष्टभ्य कच्छपम् ।
दधारं पृथिवी दुःखभग्नशीर्षः प्रतापितः ॥ ७५ ॥

अनन्ते वामनीभूते समत्वं पृथिवीतले ।
गतेऽम्भोभिश्चलद्भिश्च पर्वतैः सर्वजन्तुषु ॥ ७६ ॥

नष्टेषु युध्यमानेषु त्रिपोत्रिशरभेषु च ।
सागरैराप्लुते सर्वजगत्यापोमये हरिम् ॥ ७७ ॥

चिन्ताविष्टः सुरज्येष्ठः उवाचाथ पितामहः ।
भगवन् भुवनं सर्वं ससुरासुरमानुषम् ॥ ७८ ॥

विध्वस्तं पृथिवी शीर्णा नष्टा स्थावरजङ्गमाः ।
देवदानवगन्धर्वा दैत्याश्चापि सरीसृपाः ।
विध्वस्ता जगतां नाथ मुनयश्च तपोधनाः ॥ ७९ ॥

त्वं पालकोऽसि सर्वेषां त्वमेव जगतः प्रभुः ।
तस्मात् पालय नः सर्वान् पृथिवीं च जगत्पते ॥ ८० ॥

त्वमेव कायं वाराहं स्वयमेवोपसंहर ।
संस्थापय महाबाहो पृथिवीं च चराचरैः ॥ ८१ ॥
मूलम्
त्वमेव कायं वाराहं स्वयमेवोपसंहर ।
संस्थापय महाबाहो पृथिवीं च चराचरैः ॥ ८१ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति तस्य वचः श्रुत्वा ब्रह्मणोऽथ जनार्दनः ।
यत्नं चक्रे तदा सर्वं संस्थापयितुमच्युतः ॥ ८२ ॥

ततो हरी रोहितमत्स्यरूपी भूत्वा मुनीन् सप्त तदा सवेदान् ।
अधाच्छ्रुते रक्षणतत्परो जगधिताय सर्वश्रुतिकोविदां वरान् ॥ ८३ ॥

वसिष्ठमत्रि त्वथ कश्यपं च विश्वादिमित्रं च सगौतमं मुनिम् ।
महातपस्थं जमदग्निमुख्यं तथा भरद्वाजमुनि तपोनिधिम् ॥ ८४ ॥

निधाय पृष्ठे स हि तोयमध्ये स्थितो महानौप्रवरे मुनीन्द्रान् ।
ततः शिवं सान्त्वयितुं सनार्दनो जगाम यस्मिन् युयुधे स पोत्रिभिः ॥ ८५ ॥

श्रान्तं वराहैरतिपौत्रघट्टनैनिपीडितं व्यात्तमुखं श्वसन्तम् ।
अथागत वीक्ष्य हरं वराहः सस्मार पूर्वां नरसिंहमूर्तिम् ॥ ८६ ॥

स्मृतस्तदा तेन समाजगाम सखा वराहस्य हिते नृसिंहः ।
तदीयकायान् निजतेज आदात् ॥ ८७ ॥

दृष्टं वराहैः शरभेण तेजो यत् सूर्यतुल्यं प्रविवेश विष्णौ ।
विज्ञाय तेजोरहितं नृसिंहं ससर्ज निश्वासचयं वराहः ॥ ८८ ॥

ततस्तु जाता बहवो वराहा बहु प्रमाणाद्भुततीक्ष्णदंष्ट्रा ।
ते वै वराहाः शरभं गिरिशं मायाविनो वीतभयास्तुदन्तः ॥ ८९ ॥

समं नृसिंहेन तदापि युद्धं चक्रुर्ममर्दुश्च भृशं गिरीशम् ।
क्षणं महापक्षिसमानरूपाः क्षणं तु गावस्तुरगा नराश्च ॥ ९० ॥

क्षणं नृसिंहाश्च वराहरूपा गोमायवो वैकृतिकाः क्षणं ते ।
अनेकरूपाणि भयङ्कराणि वितन्यमानानि रणे वराहैः ॥ ९१ ॥

निरीक्ष्य भर्गं च निपीडितं तैरथासदन्माधवस्तं गिरीशम् ।
पस्पर्श विष्णुर्गिरिशं करेण तेजो न्यधात्तत्र निजं पुनः स ॥ ९२ ॥

अथ संस्पृष्टमात्रः स विष्णुणा प्रभुविष्णुणा ।
अतीव मुदितो हृष्टो बलवान् समजायत ॥ ९३ ॥

अथोच्चैः शरभो नादं ननाद बलवद्दृढम् ।
आपूरितानि येनैतद्भुवनानि चतुर्दश ॥ ९४ ॥
मूलम्
अथोच्चैः शरभो नादं ननाद बलवद्दृढम् ।
आपूरितानि येनैतद्भुवनानि चतुर्दश ॥ ९४ ॥
विश्वास-प्रस्तुतिः
नदतस्तस्य वदनाच्छीकरा ये विनिःसृताः ।
ततो गणाः समभवन् महाकाया महौजसः ॥ ९५ ॥
मूलम्
नदतस्तस्य वदनाच्छीकरा ये विनिःसृताः ।
ततो गणाः समभवन् महाकाया महौजसः ॥ ९५ ॥
विश्वास-प्रस्तुतिः
यथा वराहनिश्वासान्नानारूपधरा गणाः ।
वराहास्तादृशा एते ततोऽप्यतिबलाः पुनः ॥ ९६ ॥

श्ववराहोष्ट्ररूपाश्च प्लवगोमायुगोमुखाः ।
ऋक्षमार्जारमातङ्गशिशुमारस्वरूपिणः ॥ ९७ ॥

सिंहव्याघ्रमुखा केचित् केचित् सर्पाखुमूर्तयः ।
हयग्रीवा हयमुखा महिषाकृतयः परे ॥ ९८ ॥

अन्ये तु मनुजाकारा मृगमेषमुखाः पुनः ।
कबन्धा हीनपादाश्च विहस्ता बहुपाणयः ॥ ९९ ॥

केचित्तु शरभाकाराः कृकलासमुखाः परे ।
मत्स्यवक्त्रा ग्राहवक्त्रा ह्रस्वा दीर्घाबलाः कृशाः ॥ १०० ॥

चतुष्पादाष्टपादाश्च त्रिपादा द्विपदाः परे ।
एकपादा भूरिहस्ता यक्षकिपुरुषोपमाः ॥ १०१ ॥

पश्वाकाराः पक्षयुक्ताः लम्बोदरमहोदरा ।
दीर्घोदरा स्थूलकेशा बहुकर्णा विकर्णकाः ॥ १०२ ॥

स्थूलाधरा दीर्घदन्ता दीर्घश्मश्रुधराः परे ।
ये सन्ति प्राणिनो विप्रा भुवनेषु समन्ततः ॥ १०३ ॥

चतुर्दशसु ते तेषां रूपेण समतां गताः ।
नेहास्ति भुवने जन्तुः स्थावरो वा जगत् पुनः ॥ १०४ ॥

यत्तुल्यरूपेण गणो न जातः शङ्करस्य च ।
ते भिन्दिपालैः खड्गैश्च परिघैस्तोमरैस्तथा ॥ १०५ ॥

शङ्कुलासिगदाभिश्च पाशैः शङ्कुभिरेव च ।
खट्वाङ्गैश्च त्रिशूलैश्च कपालैः शक्तिभिस्तथा ॥ १०६ ॥

दात्रैः सृणिभिरीषाग्रैर्यष्टिभिश्चत्रिकण्टकैः ।
प्रासैः परशुभिर्बाणैः कोदण्डैरतिभीषणाः ॥ १०७ ॥

जटाचन्द्रकलायुक्ताः सर्व एव महाबलाः ।
केचिद्भर्गस्य रूपेण वाहनेनाथ भूषणैः ॥ १०८ ॥

तुल्या जटार्धशुभ्रांशुशुभ्रशीर्षा महाबलाः ।
अर्धनारीश्वरा केचिद् यथारुद्रस्तथैव ते ॥ १०९ ॥

केचित्तु चारुरूपेण मोहनेन मनोभुवः ।
तुल्येन वनितासन्धै समं जाता रतोत्सुकाः ॥ ११० ॥

आकाशचारिणः सर्वे सर्वे स्वच्छन्दगामिनः ।
नीलोत्पलदलश्यामाः शुक्ला केचन लोहिताः ॥ १११ ॥

रक्ता पातास्तया चित्रा हरिताः कपिलाः परे ।
अर्धपीता ह्यर्धरक्ता नीलार्धा धवलाः परे ॥ ११२ ॥

सकृष्णपीताः शुक्लेन कृष्णेनार्धेन रञ्जिताः ।
एकवर्णा द्विवर्णाश्च त्रिवर्णाश्च तथापरे ॥ ११३ ॥

चतुःषट्पञ्चववर्णाश्च केचिद् दशगुणाः द्विजाः ।
डिण्डिमान् पटहान् शङ्खान् भेर्यानकसकाहलान् ॥ ११४ ॥

मण्डूकान् झर्झरांश्चैव झर्झरीश्च समर्दलाः ।
वीणास्तन्त्री पञ्चतन्त्रीः शकटान् दर्दरांस्तथा ॥ ११५ ॥

गोमुखानानकान् कुण्डान् सतालकरतालिकान् ।
वादयन्तो गणाः सर्वे हसन्तश्च मुहुर्मुहुः ॥ ११६ ॥

वराहाभिमुखा भूत्वा तस्थुस्ते हृष्टमानसाः ।
तान् सर्वानाह शरभो भगवान् वृषभध्वजः ॥ ११७ ॥

निघ्नतैतान् वराहस्य गणान् वै क्रूरकर्मभिः ।
क्रूरदृष्ट्या क्रूरयुद्धैः क्रूरा भूत्वा महाबलाः ॥ ११८ ॥

ततस्ते वै गणाः सर्वे नानाकारवरायुधाः ।
सार्धं वराहस्य गणैर्युयुधुः क्रूरदर्शनाः ॥ ११९ ॥

आकाशचारिणः सर्वे जलपूर्णं जगत्त्रयम् ।
ते परित्यज्य युयुधुर्वियत्येवोभये गणाः ॥ १२० ॥

ततः क्षणाद् वराहास्य गणान् सर्वान् महाबलान् ।
हरस्य प्रमथा जघ्नुर्महावाता इवास्बुदान् ॥ १२१ ॥

हतेषु तेषु वीरेषु वाराहेषु गणेष्वथ ।
दध्यौ वराहः किमिति प्राक् पश्चाद्वृत्तमास्थितम् ॥ १२२ ॥

अथ चिन्तयतस्तस्य स्वान्तं गत्वा जनार्दनः ।
तत सर्वं ज्ञापयामास वराहवपुषो हितम् ॥ १२३ ॥

ततो देह-परित्यागं कर्तुं समयतस्तदा ।
ततो दंष्ट्राग्रघातेन नरसिंहं महाबलः ॥ १२४ ॥

शरभो भगवान् भर्गो द्विधा मध्ये चकार ह ।
नरसिंहे द्विधाभूते नरभागेण तस्य च ॥ १२५ ॥

नर एव समुत्पन्नो दिव्यरूपी महानृषिः ।
तस्य पञ्चास्यभागेन नारायण इति श्रुतः ॥ १२६ ॥

अभवत् सुमहातेजा मुनिरूप्पी जनार्दनः ।
नरो नारायणश्चोभौ सृष्टिहेतूं महामती ॥ १२७ ॥

द्वयोः प्रभावो दुर्धर्षः शास्त्रे वेदे तपःसु च ।
तौ नावि विनिधायाथ मत्स्यमूर्त्यवितात्मनि ॥ १२८ ॥

आससादं पुनर्देवो वराहः शरभ हरिः ।
वपुस्त्यागो मयावश्यं कर्तव्यो जगतां हिते ॥ १२९ ॥

इति पूर्वं प्रतिज्ञातं तदर्थोऽयं समुद्यमः ।
क्रियते हरिणा सार्धं शम्भुना ब्रह्मणापि च ॥ १३० ॥

इति सञ्चिन्त्य स तदा शूकरः परमेश्वरः ।
जगाद शरभं देवं महादेवं महाबलम् ॥ १३१ ॥
मूलम्
इति सञ्चिन्त्य स तदा शूकरः परमेश्वरः ।
जगाद शरभं देवं महादेवं महाबलम् ॥ १३१ ॥
विश्वास-प्रस्तुतिः
जहि मां त्वं महादेव त्यक्ष्ये कायमसंशयम् ।
हिताय सर्वजगतां देवानामपि ऋत्विजाम् ॥ १३२ ॥

मम देहप्रतीकौधैर्यज्ञं यूपं प्रकल्प्य च ।
पृथक् पृथक् महाभागा सशामित्रं श्रुवादिकम् ॥ १३३ ॥

ततस्ते तान् त्रिभिः पुत्रैर्विधध्वं जगतां हिते ।
कनकेन सुवृत्तेन घोरेण च जगन्मयीम् ॥ १३४ ॥

यज्ञाद् देवाः प्रजाश्चैव यज्ञादन्नान् नियोगिनः ।
सर्वं यज्ञात् सदा भावि सर्वं यज्ञमयं जगत् ॥ १३५ ॥

यमिमं पृथिवीगर्भमाधत्त मलिनी पुनः ।
तमुत्पन्नं स्वयं देवीं चिरं सङ्गोपयिष्यति ॥ १३६ ॥

प्राप्ते काले यदा देवी तदायुष्मान् सुभाषते ।
वधस्तस्यातिमारार्ता तदैवैनं हनिष्यथ ॥ १३७ ॥

भारतीं पृथिवीं मग्नां यदाधः शतयोजनम् ।
शृङ्गिवराहरूपेण प्रोद्धरिष्ये तदा त्विमाम् ॥ १३८ ॥

कृतकृत्यं तु तं कायं त्याजयिष्यति ते सुतः ।
यो भावी देवसेनानी रुद्रात् षाण्मातुराह्वयः ॥ १३९ ॥

एवं यज्ञवराहे तु भाषमाणे महाबले ।
निःसृत्य सुमहतेजो ज्वालामालातिदीपितम् ॥ १४० ॥

सूर्यकोटिप्रतीकाशं वराहवपुषस्तदा ।
हरेर्भगवतो देहे विवेश महदद्भुतम् ॥ १४१ ॥

तस्मिन् विष्णौ प्रविष्टे तु वाराहे तेजसि द्विजाः ।
सुवृत्तात् कनकाद् घोरात्तेज आदात् स्वयं हरिः ॥ १४२ ॥

तेषामपि शरीरेभ्यस्तेजोभागः पृथक् पृथक् ।
विनिःसृत्य विनिःसृत्य ज्वालामालातिदीपितः ॥ १४३ ॥

प्रविवेश हरेः काये यथा तेषां पितुस्तथा ।
ततो हरिश्च ब्रह्मा च महादेवश्च तद्वचः ॥ १४४ ॥

वराहस्य प्रतिश्रुत्य ओमित्युक्त्वा पुनः पुनः ।
तेषां कायपरित्यागे अकार्षुर्यत्नमुत्तमम् ॥ १४५ ॥

ततस्तुण्डप्रहारेण शरभः कण्ठमध्यतः ।
भित्त्वा वपुर्वराहस्य पातयामास तज्जले ॥ १४६ ॥

तं पातयित्वा प्रथमं सुवृत्तं कनकं तथा ।
घोरं च कण्ठदेशेषु भित्त्वा भित्त्वा जघान ह ॥ १४७ ॥

त्यक्तप्राणास्तु ते सर्वे पेतुस्तोये महर्णवे ।
जले शब्दं वितन्वानाः कालानलसमन्वितः ॥ १४८ ॥

पतितेषु वराहेषु ब्रह्मा विष्णुर्हरस्तथा ।
सृष्ट्यर्थ चिन्तयामासुः पुनरेव समागताः ॥ १४९ ॥

हरस्य तु गणाः सर्वे तदा भर्गं समागताः ।
उपतस्थुर्महाभागाश्चतुर्भागेन भाजिताः ॥ १५० ॥

षट्त्रिंशत्तु सहस्राणि प्रमथा द्विजसत्तमाः ।
तत्रैकत्र सहस्राणि भागे षोडश संस्थिताः ॥ १५१ ॥

नानारूपधरा ये वै जटाचन्द्रार्धमण्डिताः ।
ते सर्वे सकलैश्वर्ययुक्ता ध्यानपरायणाः ॥ १५२ ॥

योगिनो मदमात्सर्यदम्भाहङ्कारवर्जिताः ।
क्षीणपापा महाभागाः शम्भोः प्रीतिकाराः पराः ॥ १५३ ॥

न ते परिग्रहं रागं काङ्क्षन्ति स्म कदाचन ।
संसार-विमुखा सर्वे यतयो योगतत्पराः ॥ १५४ ॥

ध्यानावस्थं महादेवं परिवार्य धृतव्रताः ।
कृत्वा परिषदं रुच्या तिष्ठन्ति विगतक्लमाः ॥ १५५ ॥

यदैव परमं ज्योतिश्चिन्तयत्यम्बिकापतिः ।
तदैव ते पारिषदाः सर्वे संवेष्टयन्ति तम् ॥ १५६ ॥

ते षोडश समाख्याता कोटयो ये यतव्रताः ।
सिंहव्याघ्रादि-सारूप्या अणिमादिसमायुताः ॥ १५७ ॥

अपरे कामिनः शम्भोः सुनर्मसचिवाः स्मृताः ।
विचित्ररूपाभरणा जटाचन्द्रार्धमण्डिताः ॥ १५८ ॥

हरस्य तुल्यरूपेण विशदा वृषभध्वजाः।
उमासदृशरूपाभिः प्रमदाभिः समागताः ॥ १५९ ॥

विचित्रमाल्याभरणा दिव्यस्रग्गन्धभूषिताः ।
उमासहायं क्रीडन्तमनुगच्छन्ति भूषिताः ॥ १६० ॥

शृङ्गारवेषाभरणा अष्टौ ते कोटयो गणाः ।
अर्धनारीश्वराश्चान्ये अर्धनारीश्वरं हरम् ॥ १६१ ॥

ध्यानस्थं प्रविविशुस्ते तुल्यरूपा हरस्य ये ।
उमासहायो हि यदा रमते ससुखं हरः ॥ १६२ ॥

अर्धनारीशरीरास्तु द्वारपाला भवन्ति ते ।
आकाशमार्गे गच्छन्तमनुगच्छन्ति नित्यशः ॥ १६३ ॥

ध्यानस्थं परिचर्यन्ति सलिलादिभिरीश्वरम् ।
नानाशस्त्रधराः शम्भोर्गणास्ते प्रमथाः स्मृताः ॥ १६४ ॥

प्रमथ्नन्ति च युद्धेषु युध्यमानान् महाबलान् ।
ते वै महाबलाः शूराः सङ्ख्यया नव कोटयः ॥ १६५ ॥

अपरे गायनास्तालमृदङ्गपणवादिभिः ।
नृत्यन्ति वाद्यं कुर्वन्ति गायन्ति मधुरस्वरम् ॥ १६६ ॥

नानारूपधरास्तं वै सङ्ख्यया कोटयस्त्रयः ।
सततं चानुगच्छन्ति विचरन्त महेश्वरम् ॥ १६७ ॥

सर्वे मायाविनः सूराः सर्वे शास्त्रार्थपारगाः ।
सर्वे सर्वत्र सर्वज्ञाः सर्वे सर्वत्रगाः सदा ॥ १६८ ॥

मुहूर्तात् सर्वभुवनं गत्वा यान्ति पुनर्भवम् ।
अणिमाद्यष्टकेश्वर्ययुक्तास्ते वै महाबलाः ॥ १६९ ॥

अपरे रुद्रनामानो जटाचन्द्रार्घमण्डिताः ।
देवेन्द्रस्य नियोगेन वर्तन्ते त्रिदिवे सदा ॥ १७० ॥

तेषां सङ्ख्या चैककोटिस्ते सर्वे बलवत्तराः ।
कुर्वन्ति हि सदा सेवां हरस्य सततं गणाः ॥ १७१ ॥

विस्मयन्ति च पापिष्ठान् धर्मिष्ठान् पालयन्ति च ।
अनुगृह्णन्ति सततं धृतपाशुपतव्रतान् ॥ १७२ ॥

विघ्नोश्च सततं घ्नन्ति योगिनां प्रयतात्मनाम् ।
षट्त्रिंशत् कोटयश्चैते हरस्य सकला गणाः ॥ १०३ ॥

वराहगणनाशार्थं हिताय जगतां तथा ।
शङ्करस्याथ सेवाये समुत्पन्ना इमे गणाः ॥ १७४ ॥

वराहस्य गणान् दृष्ट्वा नरसिंहं तथा हरिम् ।
स्वयं शरभरूपः सन् ध्यायन्नादं तदाकरोत् ॥ १७५ ॥

तच्चीत्कराद्यतो जातास्तत्तषां बहुरूपता ।
क्रूरदृष्ट्या क्रूरयुद्धैः क्रूरकृत्यैरिमान् गणा ।
वराहस्य घ्नतेत्येवं यतः प्रोक्तं कपर्दिनाम् ॥ १७६ ॥

अतस्ते क्रूरकर्माणः प्रजाताश्च भयङ्कराः ।
न सदा क्रूरकर्माणि ते कुर्वन्ति महौजसः ॥ १७७ ॥

दृष्टिमात्रस्य ते क्रूराः क्रूरास्ते न तु कार्यतः ।
फलं जलं तथा पुष्पं पत्रं मूलं तथैव च ॥ १७८ ॥

निवेदितानि भुञ्जन्ति वनपर्वतसानुषु ।
आहृत्यापि च भुञ्जन्ति पत्र पुष्पादिकं च यत् ॥ १७९ ॥

भवेद्भर्गस्य यद्भोग्यं तद्भोगास्ते महौजसः ।
आमिषाणि च नाश्नन्ति हित्वा चैत्रचतुर्दशीम् ॥ १८० ॥

तत्रामिषं हरो भुङ्क्ते चतुर्दश्यां मधौ सदा ।
ततः सर्वे गणास्तत्र भुञ्जते पललान्यपि ॥ १८१ ॥

हते वराहस्य गणे भर्गमासाद्य ते गणाः ।
चतुर्भागाः स्वयं भूत्वा भूतकर्मेति वै जगुः ।
भूतत्वमभवत्तेषां चतुर्भागवतां तदा ॥ १८२ ॥

वचनात् पद्मयोनेस्तु भूतग्रामस्ततो मतः ।
यो लोको विदितः पूर्वं भूतग्रामश्चतुर्विधः ।
यतस्तेभ्योऽधिको यत्तद्भूतग्रामः स उच्यते ॥ १८३ ॥

इति वः कथितं सर्वं भूताः शम्भुगणाः यथा ।
यदाहारा यदाकारा यत्कृत्यास्ते महौजसः ॥ १८४ ॥

य इदं शृणुयान्नित्यमाख्यानं महदद्भुतम् ।
स दीर्घायुः सदोत्साही योगयुक्तश्च जायते ॥ १८५ ॥

इति श्रीकालिकापुराणे शरभवराह युद्धो नाम त्रिंशोऽध्यायः ॥ ३० ॥