विश्वास-प्रस्तुतिः
ऊनत्रिंशोऽध्यायः
ऋषयः ऊचुः
ये सृष्टाः शम्भुना पूर्वं भूतग्रामाश्चतुर्विधाः ।
किमर्थं ते समुत्पन्नाः कथं वानेकरूपताम् ॥ १ ॥
मूलम्

शरीरमर्द्धं वाराहमर्द्धं दन्ताबलं तथा ।
सिंहव्याघ्रशरीराच्च केचित् केचिद्गणाधिपाः ॥ २ ॥

कथं ते वा गणाः क्रूराः किं भोगास्ते महौजसः ।
एतत् सर्व वयं श्रोतुमिच्छामो द्विजसत्तम ॥ ३ ॥

मार्कण्डेय उवाच
शृण्वन्तु मुनयः सर्वे यथा शम्भुगणाभवन् ।
यदर्थं ते समुत्पन्ना यस्मात्ते नैकरूपिणः ॥ ४ ॥

एतद्वः परमं गुह्यमिदं धर्मार्थकामदम् ।
एतद् हि परमं तेजः सततं परमं तपः ॥ ५ ॥
मूलम्
एतद्वः परमं गुह्यमिदं धर्मार्थकामदम् ।
एतद् हि परमं तेजः सततं परमं तपः ॥ ५ ॥
विश्वास-प्रस्तुतिः
इदं श्रुत्वा महाख्यानं परत्रेह न सीदति ।
यशस्यं धर्म्यमायुष्यं तुष्टिपुष्टिप्रदं परम् ॥ ६ ॥

आदिसर्गेऽथ वाराहे सम्पूर्णे मुनिसत्तमाः ।
शङ्करः प्राह सर्वेशं वराहं जगतां पतिम् ॥ ७ ॥

ईश्वर उवाच
यदर्थं भवता रूपं वाराहं कल्पितं विभो ।
तत्ते पूर्णं कृतं पृथ्वी यथावत् स्थापिता त्वया ॥ ८ ॥

सागराणां च संस्थानं नदीनां च तथा क्षितेः ।
सृष्टिर्ब्रह्मकृता चापि सञ्जाता त्वत्प्रसादतः ॥ ९ ॥

त्वं हि सर्वमयो यज्ञमयस्तेजोमयस्तथा ।
गुरूणामथ सर्वेषां त्वं गुरुस्त्वं परात्परः ॥ १० ॥

त्वां वोढुं न क्षमा पृथ्वी विशीर्णेव जगत्पते ।
यन्त्रिता शैलसङ्घातैर्भवता स्थापितेः पुरा ॥ ११ ॥

तत्मात्त्व त्यज वाराहं शरीर जगता पते ।
जगन्मयं जगद्रूपं जगत्कारणकारणम् ॥ १२ ॥
मूलम्
तत्मात्त्व त्यज वाराहं शरीर जगता पते ।
जगन्मयं जगद्रूपं जगत्कारणकारणम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
कस्त्वां चान्यः क्षमो वोढुं वाराहं ते वपुर्विभो ।
विशेषतस्त्वया पृथ्वी सकामा धषिताः जले ।
स्त्रीधर्मिणी त्वत्तेजोभिः साधाद् गर्भं च दारुणम् ॥ १३ ॥

रजस्वला क्षमा गर्भं यमाधत्त जगत्पते ।
तस्माद्यस्तनयो भावी सोऽप्यादास्यति दुर्यशः ॥ १४ ॥

एष प्राप्यासुर भाव देवगन्धर्वहिंसकः ।
भविष्यतीति लोकेशः प्राह मां दक्षसन्निधौ ॥ १५ ॥

मलिनीरतिसञ्जातं दुष्टन्तेऽनिष्टकारकम् ।
कामुकं त्यज लोकेश वाराहं कायमीदृशम् ॥ १६ ॥

त्वमेव सृष्टिस्थित्यन्तकारको लोकभावनः ।
काले प्राप्ते स्थितिं सृष्टिं संहारं च करिष्यसि ॥ १७ ॥

तस्माल्लोकहितार्थाय त्यक्त्वा कायं महाबल ।
काले प्राप्ते पुनस्त्वन्यं कायं पोत्रं करिष्यसि ॥ १८ ॥
मूलम्
तस्माल्लोकहितार्थाय त्यक्त्वा कायं महाबल ।
काले प्राप्ते पुनस्त्वन्यं कायं पोत्रं करिष्यसि ॥ १८ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति तस्य वचः श्रुत्वा शङ्करस्य महात्मनः ।
वाराहमूर्तिर्भगवान् महादेवमुवाच ह ॥ १९ ॥

श्रीभगवानुवाच
करिष्येऽहं तव वचस्त्वं यथात्थ महेश्वर ।
इमं तु यज्ञवाराहं कायं त्यक्ष्ये न संशयः ॥ २० ॥

काले प्राप्ते पुनस्त्वन्यं कायं वाराहमद्भुतम् ।
करिष्येऽहं दुराधर्षं लोकानां भावनाय वै ॥ २१ ॥

इत्युक्त्वा स महाकायस्तत्रैवान्तरधीयत ।
जगद्गुरुर्जगत्स्रष्टा जगद्धाता जगत्पतिः ॥ २२ ॥

तस्मिन्नन्तर्हिते देवे देवदेवो महेश्वरः ।
निजं स्थानं देवगणैः स्वगणैश्च जगाम ह ॥ २३ ॥

वाराहोऽपि स्वयं गत्वा लोकालोकाह्वयं गिरिम् ।
वाराह्या सह रेमे स पृथिव्या चारुरूपया ॥ २४ ॥

स तया रममाणस्तु सुचिरं पर्वतोत्तमे ।
नावाप तोषं लोकेशः पोत्रीपरमकामुकः ॥ २५ ॥

पृथिव्याः पोत्रीरूपाया रमयन्त्यास्ततः सुताः ।
त्रयो जाता द्विजश्रेष्ठास्तेषां नामानि मे शृणु ॥ २६ ॥

सुवृत्तः कनको घोरः सर्व एव महाबलाः ॥ २७ ॥

शिशवस्ते मेरुपृष्ठे काञ्चने वप्रसस्तरे ।
रेमिरेऽन्योन्यसंसक्ता गह्वरेषु सरःसु च ॥ २८ ॥

स तैः पुत्रैः परिवृतो वाराहो भर्यया स्वया ।
रममाणस्तदा कायत्यागं नैवागणद्धिजाः ॥ २९ ॥

कदाचिच्छिशुभिस्तैस्तु संश्लिष्टः कर्दमान्तरे ।
चकार कर्दमक्रीडां भार्यया च महाबलः ॥ ३० ॥

सपङ्कलेपः शुशुभे वराहो मधुपिङ्गलः ।
सन्ध्याघनो यथातोयं क्षरंस्तोयं तथाविधः ॥ ३१ ॥

स पुत्रैः परमप्रीतो भार्यया च पृथिव्यया ।
विरुजं धरणीं रेमे मध्यनिम्नाथ साभवत् ॥ ३२ ॥

अनन्तोऽपि समाक्रम्य कूर्मं स पृथिवीतले ।
हरिं वहन् भग्नशिराः सातङ्कोऽभूत्प्रपीडया ॥ ३३ ॥

सुवृत्तेन स्वर्णवप्रं घोरेण कनकेन च ।
विदारितं पोत्रघातैः स्वर्ण-भग्नात्कृतं समम् ॥ ३४ ॥

मेरुपृष्ठे यानि यानि सौवर्णानि द्विजोत्तमाः ।
रचितानि सुरैर्यत्नात्तानि भग्नानि तत्सुतैः ॥ ३५ ॥

मानसादीनि देवानां सरांसि शिशवोऽथ ते ।
आविलानि तदा चक्रु पोत्रधातैः समन्ततः ॥ ३६ ॥

पृथिवी वनितारूपा रमयामास पोत्रिणम् ।
स्थावरेण तु रूपेण दुःखमाप्नोति वै दृढम् ॥ ३७ ॥

सागराश्च सुवृत्ताद्यैरवगाह्यं समन्ततः ।
विकीर्णरत्नं पोत्रौघैः सर्वम् एवाकुलीकृताः ॥ ३८ ॥

इतस्ततश्च शिशुभिः क्रीडद्भिः पोत्रिभिस्तदा ।
जगन्ति तत्र भग्नानि नद्यः कल्पद्रुमास्तथा ॥ ३९ ॥

जानन्नपि जगद्भर्ता वराहः स्वयमेव हि ।
जगत्पीडां सुतस्नेहाद्वारयामास नैव तान् ॥ ४० ॥

सुवृत्तः कनको घोरो यदागच्छति वै दिवम् ।
तदा देवगणा भीताः प्रद्रवन्ति दिशो दश ॥ ४१ ॥

एवं सुतैर्भार्यया यज्ञपोत्री क्रीडंस्तुष्टिं नाप काञ्चित् कदाचित् ।
नित्यं नित्यं वर्धते तस्य कामः कायं त्यक्तुं नैच्छदेष प्रदिष्टः ॥ ४२ ॥

इति श्रीकालिकापुराणे वाराहशङ्करसंवादे ऊनत्रिंशोऽध्यायः ॥ २९ ॥